महाभारतम्-03-आरण्यकपर्व-081
← आरण्यकपर्व-080 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-081 वेदव्यासः |
आरण्यकपर्व-082 → |
पुलस्त्येन भीष्मंप्रति नानातीर्थमहिमानुवर्णनम् ।। 1 ।।
महाभारतस्य पर्वाणि |
---|
पुलस्त्य उवाच।
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम्।
पापेभ्योविप्रमुच्यन्ते तद्गताः सर्वजन्तवः ।। 3-81-1
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ।। 3-81-2
पांसवोऽपिकुरुक्षेत्रे वायुना समुदीरिताः।
अपिदुष्कृतकर्माणं नयन्ति परमां गतिम् ।। 3-81-3
दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च।
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ।। 3-81-4
तत्र मासं वसेद्धीरः सरस्वत्यां युधांवर।
यत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः ।। 3-81-5
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते।
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ।। 3-81-6
मनसाऽप्यभिकामस्य कुरुक्षेत्रं युधांवर।
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ।। 3-81-7
गत्वा हि श्रद्धया युक्तः करुक्षेत्रं कुरूद्वह।
राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः ।। 3-81-8
ततश्च मन्तुकं राजन्द्वारपालं महाबलम्।
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ।। 3-81-9
ततो गच्छेत धर्मज्ञ विष्णो स्थानमनुत्तमम्।
सततं नाम राजेन्द्र यत्रसन्निहितो हरिः ।। 3-81-10
तत्रस्नात्वाऽर्चयित्वा च त्रिलोकप्रभवं हरिम्।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।। 3-81-11
ततः परिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत ।। 3-81-12
पृथिवीतीर्थमासाद्य गोसहस्रफलं लभेत्।
ततः शालूकिनी गत्वा तीर्थसेवी नराधिप ।। 3-81-13
दशाश्वमेधे स्नात्वा च तदेव फलमाप्नुयात्।
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् ।। 3-81-14
अग्निष्टोममवाप्नोति नागलोकं च विन्दति।
ततो गच्छेत धर्मज्ञ द्वारपालमरुन्तुकम् ।। 3-81-15
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्।
ततः पञ्चनदं गत्वा नियतो नियताशनः ।। 3-81-16
कोटितीर्थमुपस्पृश्य हयमेधफंल लभेत्।
अश्विनोस्तीर्थमासाद्य रूपवानमिजायते ।। 3-81-17
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम्।
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितो विभुः ।। 3-81-18
तत्रस्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत्।
ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत् ।। 3-81-19
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः।
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ।। 3-81-20
शतशौचं समासाद्य तीर्थसेवी नराधिप।
पौण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ।। 3-81-21
ततो मुञ्जवटं नाम स्थाणोः स्थानं महात्मनः।
उपोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ।। 3-81-22
तत्रैव च महाराज यक्षिणी लोकविश्रुता।
तां चाभिगम्यराजेन्द्र सर्वान्कामानवाप्नुयात् ।। 3-81-23
कुरुक्षेत्रस् तद्द्वारं विश्रुतं भरतर्षभ।
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ।। 3-81-24
संमिते पुष्कराणां च स्नात्वाऽर्च्य पितृदेवताः।
जामदग्न्येन रामेण कृतं तत्सुमहात्मना ।। 3-81-25
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति।
ततो रामह्रदानार्च्छेत्तीर्थसेवी समाहितः ।। 3-81-26
तत्ररामेण राजेनद्रतरसा दीप्ततेजसा।
क्षत्रमुत्साद् वीरेण ह्रदाः पञ्च निवेशिताः ।। 3-81-27
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम्।
पितरस्तर्पिताः सर्वे तथैव प्रपितागहाः ।। 3-81-28
ततस्ते पितरः प्रीता राममूचुर्नराधिप।
रामराम महाभाग प्रीताः स्म तव भार्गव ।। 3-81-29
अनया पितृभक्त्या च विक्रमेण च ते विभो।
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ।। 3-81-30
एवमुक्तः स राजेन्द्र राम प्रहरतांवरः।
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ।। 3-81-31
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि।
पितृप्रसादादिच्छेयं तपःस्वाध्ययनं पुनः ।। 3-81-32
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया।
ततश्च पापान्मुच्येयं युष्माकं तेजसाऽप्यहम् ।। 3-81-33
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः।
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ।। 3-81-34
प्रत्यूचुः परमप्रीता रामं हर्पसमन्विताः।
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः ।। 3-81-35
यच्च रोपाभिभूतेन क्षत्रमुत्सादितं त्वया।
ततश्च पापान्मुक्तस्त्वं पातितास्ते स्वकर्मभिः ।। 3-81-36
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः।
ह्रदेषु तेषु यः स्नात्वा पितॄन्संतर्पयिष्यति ।। 3-81-37
पितरस्तस् वै प्रीता दास्यन्ति भुवि दुर्लभम्।
ईप्सितं च मनःकामं स्वर्गलोकं च शाश्वतम् ।। 3-81-38
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा।
आमन्त्र्य भारग्वं प्रीत्या तत्रैवान्तर्हितास्ततः ।। 3-81-39
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः।
स्नात्वा ह्रहेषु रामस्य ब्रह्मचारी शुचिव्रतः ।। 3-81-40
राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम्।
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह ।। 3-81-41
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके।
कायशोधनमासाद्य तीर्थं भरतसत्तम ।।
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः। 3-81-42
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः।
शुद्धदेहश्च संयाति युभाँल्लोकाननुत्तमान् ।। 3-81-43
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम्।
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ।। 3-81-44
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यपूजितम्।
स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ।। 3-81-45
श्रीतीर्थं च समासाद्य स्नात्वा नियतमानसः।
अर्चयित्वा पितॄन्देवान्विन्दते श्रियमुत्तमाम् ।। 3-81-46
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्स्वान्दैवतान्यपि ।। 3-81-47
कपिलानां सहस्रस्य फलंविन्दति मानवः।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ।। 3-81-48
अर्चयित्वा पितॄन्देवानुपवासपरायणः।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ।। 3-81-49
गवां भगवनासाद्य तीर्थसेवी यथाक्रमम्।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ।। 3-81-50
शङ्खिनीतीर्थमासाद्य तीर्थसेवी कुरूद्वह।
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ।। 3-81-51
ततो गच्छेत राजेन्द्रद्वारपालमरुन्तुकम्।
तच्च तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ।। 3-81-52
तत्रस्नात्वा नरो राजन्नग्निष्टोमफलं लभेत्।
ततो गच्छेत राजेन्द्र ब्रह्मावर्तं नरोत्तमः ।। 3-81-53
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात्।
ततो गच्छेत राजेन्द्र सुतीर्थकमनुत्तमम् ।। 3-81-54
तत्रसन्निहिता नित्यं पितरो दैवतैः सह।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।। 3-81-55
अश्वमेधमावाप्नोति पितृलोकं च गच्छति।
ततोम्बुमत्यां धर्मज्ञ सुतीर्थकमनुत्तमम् ।। 3-81-56
कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम।
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ।। 3-81-57
मातृतीर्थं च तत्रैव यत्रस्नातस्य भारत।
प्रजा विवर्धते राजन्न तन्वीं श्रियमश्नुते ।। 3-81-58
ततः शीतवनं गच्छेन्नियतो नियताशनः।
तीर्थं तत्रमहाराज महदन्यत्र दुर्लभम् ।। 3-81-59
पुनाति गमनादेव कुलमेकं नराधिप।
केशानभ्युक्ष् वै तस्मिन्पूतो भवति भारत ।। 3-81-60
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम्।
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ।। 3-81-61
गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम।
श्वानलोमापनयने तीर्थे भरतसत्तम ।। 3-81-62
प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः।
पूतात्मानश्च राजेन्द्रप्रयान्ति परमां गतिम् ।। 3-81-63
दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते।
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ।। 3-81-64
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम्।
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ।। 3-81-65
विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः।
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः ।। 3-81-66
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते।
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते ।। 3-81-67
आपगा नाम विख्याता नदीसिद्धनिषेविता।
श्यामाकभोजनं तत्रयः प्रयच्छति मानवः ।। 3-81-68
देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत्।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।। 3-81-69
तत्रस्नात्वाऽर्चयित्वा च पितृन्वै दैवतानि च।
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ।। 3-81-70
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम्।
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ।। 3-81-71
तत्रसप्तर्षिकुण्डेषु स्नातस् यनरपुङ्गव।
केदारे चैवराजेन्द्रकपिञ्जलमहामुनेः ।। 3-81-72
ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ।। 3-81-73
कपिञ्जलस्य केदारं समासाद्य सुदुर्लभम्।
अन्तर्धानमवाप्नोति तपसा दग्धकिल्विषः ।। 3-81-74
ततो गच्छेत राजेन्द्र शङ्करं लोकविश्रुतम्।
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ।। 3-81-75
लभेत सर्वकामान्हि स्वर्गलोकं च गच्छति।
तिस्रः कोट्यस्तु तीर्थानां शङ्करे कुरुनन्दन ।। 3-81-76
रुद्रकोट्यां तथा कूपे ह्रदेषु च महीपते।
शुद्धास्पदं च तत्रैव तीर्थं भरतसत्तम ।। 3-81-77
तत्रस्नात्वाऽर्चयित्वा च दैवतानि पितॄनथ।
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ।। 3-81-78
किंदाने च नरः स्नात्वा किंजप्ये च महीपते।
अप्रमेयमवाप्नोति दानं जप्यं च भारत ।। 3-81-79
कलश्यां वार्युपस्पृश्य श्रद्दधानो जितेन्द्रियः।
अग्निष्टोमस् यज्ञस्य फलं प्राप्नोति मानवः ।। 3-81-80
शंकरस्य तु पूर्वेण नारदस्य महात्मनः।
तीर्थं कुरुकुलश्रेष्ठ अजानन्तेति विश्रुतम् ।। 3-81-81
तत्रतीर्थे नरः स्नात्वा प्राणानुत्सृज्य भारत।
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोत्यनुत्तमानन् ।। 3-81-82
शुक्लपक्षे दशम्यां च पुण्डरीकं समाविशेत्।
तत्र स्नात्वा नरो राजन्पौण्डरीकफलं लभेत् ।। 3-81-83
ततस्त्रिविष्टपं गच्छेत्रिषु लोकेषु विश्रुतम्।
तत्र वैतरणी पुण्या नदी पापप्रणाशिनी ।। 3-81-84
तत्र स्नात्वाऽर्चयित्वा च शूलपाणिं वृषध्वजम्।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ।। 3-81-85
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम्।
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः ।। 3-81-86
तपश्चरन्ति विपुलं बहुवर्षसहस्रकम्।
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः ।। 3-81-87
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत।
तीर्ते च सर्वदेवानां स्नात्वा भरतसत्तम ।। 3-81-88
गोसहस्रस्य राजेन्द्र फलं विन्दति मानवः।
पाणिस्वाते नरः स्नात्त्वा तर्पयित्वा च देवताः ।। 3-81-89
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत।
राजसूयमावाप्नोति ऋषिलोकं च विन्दति ।। 3-81-90
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम्।
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ।। 3-81-91
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम्।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ।। 3-81-92
ततो व्यासवनं गच्छेन्नियतो नियताशनः।
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ।। 3-81-93
गत्वा मधुवटीं चैव देव्याः स्थानं नरः शुचिः।
तत्र स्नात्वाऽर्चयित्वा च पितॄन्देवांश्च पूरुषः ।। 3-81-94
स देव्या समनुज्ञातो गोसहस्रफलं लभेत्।
कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत ।। 3-81-95
स्नाति वै नियताहार सर्वपापैः प्रमुच्यते।
ततो व्यासस्थली नाम यत्रव्यासेन धीमता ।। 3-81-96
पुत्रशोकाभितप्तेन देहत्यागे कृता मतिः।
ततो देवैस्तु राजेन्द्र पुनरुत्थापितस्तदा ।। 3-81-97
अभिगत्वा स्थलीं तस्य गोसहस्रफलं लभेत्।
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ।। 3-81-98
गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह।
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ।। 3-81-99
अहस्छ सुदिनं चैव द्वे तीर्थे लोकविश्रुते।
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ।। 3-81-100
मृगधूमं ततो गच्छेत्रिषु लोकेषु विश्रुतम्।
तत्राभिषेकं कुर्वीत गङ्गायां नृपसत्तम ।। 3-81-101
अर्चयित्वा महादेवमश्वमेधफलं लभेत्।
देव्यास्तीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ।। 3-81-102
ततो वामनकं गच्छेत्रिषु लोकेषु विश्रुतम्।
तत्रविष्णुपदे स्नात्वा अर्चयित्वा च वामनम् ।। 3-81-103
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति।
कुलपुने नरः स्नात्वा पुनाति स्वकुलं ततः ।। 3-81-104
पवनस्य ह्रदे स्नात्वा मरुतां तीर्थमुत्तमम्।
तत्रस्नात्वा नख्याघ्र विष्णुलोके महीयते ।। 3-81-105
अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम्।
अमराणां प्रभावेन स्वर्गलोके महीयते ।। 3-81-106
शालिहोत्रस्य तीर्थे च शालिशूर्पे यथाविधि।
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ।। 3-81-107
श्रीकुञ्जं च सरस्वत्यास्तीर्थं भरतसत्तम।
तत्र स्नात्वा नरश्रेष्ठ अग्निष्टोमफलं लभेत् ।। 3-81-108
ततो नैमिपकुञ्जं च समासाद्य कुरूद्वह।
ऋषयः किल राजेन्द्र नैमिषेयास्तपस्विनः ।। 3-81-109
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा।
`तत्र तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्।'
ततः कुञ्जः सरस्वत्याः कृतो भरतसत्तम ।। 3-81-110
ऋपीणामवकाशः स्याद्यथा तुष्टिकरो महान्।
कन्यातीर्थे नरः स्नात्वागोसहस्रफलं लभेत् ।। 3-81-111
ततो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम्।
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ।। 3-81-112
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम्।
तत्रवर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ।। 3-81-113
ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्।
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनत्तमम् ।। 3-81-114
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात्।
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ।। 3-81-115
यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः।
पुरा मङ्कणको राजन्कुशाग्रेणेति नःश्रुतम् ।। 3-81-116
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत्।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ।। 3-81-117
ततस्तस्मिन्प्रनृत्ते तु स्थावरं जङ्गमं च यत्।
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ।। 3-81-118
ब्रह्मादिभिः सुरै राजनृषिभिश्च तपोधनैः।
क्षिप्तो वै महादेव ऋषेरर्थे नराधिप ।। 3-81-119
नायं नृत्येद्यथा देव तथा न्वं कर्तुमर्हसि।
तं प्रनृत्तं समासाद्य हर्षाविष्टेन चेतसा।
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ।। 3-81-120
भोभो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान्।
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ।। 3-81-121
ऋषिरुवाच।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ।। 3-81-122
यं दृष्ट्वाऽहं प्रनृत्तोऽहं हर्षेण महताऽन्वितः।
तं प्रहस्याब्रवीद्देव ऋषिं रागेण मोहितम् ।। 3-81-123
अहं तु विस्मयं विप्र न गच्छामीति पश्य माम्।
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता ।। 3-81-124
अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽनघ।
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ।। 3-81-125
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः।
नान्यद्देवात्परं मेने रुद्रात्परतरं महत् ।। 3-81-126
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृत्।
त्वया सर्वमिदं सृष्टं त्रैलोक्यं सचराचरम् ।। 3-81-127
त्वमेव सर्वान्ग्रससि पुनरेव युगक्षये।
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।। 3-81-128
त्वयि सर्वे प्रदृश्यन्ते सुरा ब्रह्मादयोऽनघ।
सर्वस्त्वमसि लोकानां कर्ताकारयिता च ह ।। 3-81-129
त्वत्प्रसादात्सुराः सर्वे निवसन्त्यकुतोभयाः।
एवं स्तुत्वा महादेवमृषिर्वचनमब्रवीत् ।। 3-81-130
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै।
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ।। 3-81-131
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रशः।
आश्रमे चेह वत्स्यामि त्वया सह महामुने ।। 3-81-132
सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम्।
न तेषां दुर्लभं किंचिदिह लोके परत्र च ।। 3-81-133
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः।
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।। 3-81-134
पुलस्त्य उवाच।
ततस्त्वौशनसं गच्छेत्रिषु लोकेषु विश्रुतम्।
यत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ।। 3-81-135
कार्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत।
सान्निध्यमकरोन्नित्यं भार्गवप्रियकाम्यया ।। 3-81-136
कपालमोचनं तीर्थं सर्वपापप्रमोचनम्।
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ।। 3-81-137
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ।
अग्निलोकमवाप्नोति कुलं चैव सुमुद्धरेत् ।। 3-81-138
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम।
तत्र स्नात्वा नरश्रेष्ठ ब्राह्मण्यमधिगच्छति ।। 3-81-139
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः।
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ।। 3-81-140
पुनात्यासप्तमं चैव कुलं नास्त्यत्रसंशयः।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।। 3-81-141
पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।। 3-81-142
अज्ञानाज्ज्ञानतो वाऽपिस्त्रिया वा पुरुषेण वा।
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ।। 3-81-143
तत्सर्वं नश्यते तत्र स्नातमात्रस्य भारत।
अश्वमेधफलं चास्य स्वर्गलोकं च गच्छति ।। 3-81-144
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वती।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश् पृथूदकम् ।। 3-81-145
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम्।
पृथूदके जप्यपरो नैव श्वो मरणं तपेत् ।। 3-81-146
गीतं सनत्कुमारेण व्यासेन च महात्मना।
वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् ।। 3-81-147
पृथूदकात्तीर्थतमं नान्यत्तीर्थं कुरूद्वह।
तन्मेध्यं तत्पवित्रं च पावनं च न संशयः ।। 3-81-148
तत्रस्नात्वा दिवं यान्ति येऽपि पापकृतो नराः।
पृथूदके नरश्रेष्ठ एवमाहुर्मनीषिणः ।। 3-81-149
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम।
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ।। 3-81-150
ततो गच्छेत राजेन्द्र तीर्थं देव्या यथाक्रमम्।
सरस्वत्यारुणायाश्च संगमे लोकविश्रुते ।। 3-81-151
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया।
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ।। 3-81-152
आसप्तमं कुलं चैव पुनाति भरतर्षभ।
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ।। 3-81-153
विप्राणामनुकम्पार्थं शार्ङ्गिणा निर्मिनं पुरा।
व्रतोपनयनाभ्यां चाप्युपवासेन वाऽप्युत ।। 3-81-154
क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः।
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ।
चीर्णव्रतो भवेद्विद्वान्दृष्टमेतत्पुरातनैः ।। 3-81-155
समुद्राश्चापि चत्वारः समानीताश् दर्भिणा।
तेषु स्नातो नरश्रेष्ठ न दुर्गतिमवाप्नुयात् ।। 3-81-156
फलानि गोसहस्राणां चतुर्णां विन्दते च सः।
ततो गच्छेत धर्मज्ञ तीर्थं शतसहस्रकम् ।। 3-81-157
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते।
उभयोर्हि नरः स्नात्वा गोसरस्रफंल लभेत् ।। 3-81-158
दानं वाऽप्युपवासो वा सहस्रगुणितं भवेत्।
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ।। 3-81-159
तीर्ताभिषेकं कुर्वीत पितृदेवार्चने रतः।
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ।। 3-81-160
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः।
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ।। 3-81-161
ततः पञ्चवटीं गत्वा ब्रह्मचारी जितेन्द्रियः।
पुण्येन महता युक्तः सतां लोके महीयते ।। 3-81-162
यत्रयोगेश्वरः स्थाणुः स्वयमेव वृषध्वजः।
तमर्चयित्वा देवेशं गमनादेव सिद्ध्यति ।। 3-81-163
तैजसं वारुणं तीर्थं दीप्यमानं स्वतेजसा।
यत्र रब्रह्मादिभिर्दैर्वैर्ऋषिभिश्च तपोधनैः ।। 3-81-164
सैनापत्येन देवानामभिषिक्तो गुहस्तदा।
तैजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ।। 3-81-165
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ।। 3-81-166
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः।
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ।। 3-81-167
ततो गच्छेदनरकं तीर्थसेवी नराधिप।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ।। 3-81-168
तत्रब्रह्मा स्वयं नित्यं देवैः सह महीपते।
सान्निध्यं तत्रराजेन्द्र रुद्रपत्न्याः कुरूद्वह।
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ।। 3-81-170
तत्रैव च महाराज विश्वेश्वरमुमापतिम्।
अभिगम्य महादेवं मुच्यते सर्वकिल्विषैः ।। 3-81-171
नारायणं चाभिगम्य पद्मनाभमरिंदम।
राजमानो महाराज विष्णुलोकं च गच्छति ।। 3-81-172
तीर्थेषु सर्वदेवानां स्नातः स पुरुषर्षभ।
सर्वदुःखैः परित्यक्तो द्योतते शशिवन्नरः ।। 3-81-173
ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप।
प्रदक्षिणमुपावृत्य गोसहस्रफलं लभेत् ।। 3-81-174
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः।
अग्निष्टोमस्य यत्रस्य फलं प्राप्नोति भारत ।। 3-81-175
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ।
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ।। 3-81-176
तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते।
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ।। 3-81-177
गाणपत्यमवाप्नोति कुलं चैव समुद्धरेत्।
ततः स्थाणुवटं गच्छेत्रिषु लोकेषु विश्रुतम् ।। 3-81-178
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नयात्।
बदरीकाननं गच्छेद्वसिष्ठस्याश्रमं गतः ।। 3-81-179
बदरीं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः।
सम्यग्द्वादशवर्षाणि बदरीं भक्षयेत्तु यः ।। 3-81-180
त्रिरात्रोपोषितस्तेन भवेत्तुल्यो नराधिप।
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ।। 3-81-181
अहोरात्रोपवासेन शक्रलोके महीयते।
एकरात्रं समासाद्य एकरात्रोषितो नरः ।। 3-81-182
नियतः सत्यवादी च ब्रह्मलोके महीयते।
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।। 3-81-183
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः।
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुं ।। 3-81-184
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्।
सोमतीर्थे नरः स्नात्वा तीर्थसेवी नराधिप ।। 3-81-185
सोमलोकमवाप्नोति नरो नास्त्यत्रसंशयः।
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ।। 3-81-186
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम्।
यत्र सारस्वतो यातः सोङ्गिरास्तपसो निधिः ।। 3-81-187
तस्मिस्तीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्।
सारस्वतीं गतिं चैव लभते नात्र संशयः ।। 3-81-188
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान्।
त्रिरात्रोपोषितो राजन्नियतो नियताशनः ।। 3-81-189
लभेत्कन्याशतं दिव्यं स्वर्गलोकं च गच्छति।
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहतीमपि ।। 3-81-190
तत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः।
मासिमासि समायान्ति पुण्येन महाताऽन्विताः ।। 3-81-191
सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे।
अश्वमेधशतं तेन तत्रेष्टं शाश्वतं भवेत् ।। 3-81-192
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च।
नद्यो ह्रदास्तडागाश्च सर्वप्रस्रवणानि च ।। 3-81-193
उदपानानि वाप्यश्च तीर्थान्यायतनानि च।
निःसंशयममावास्यां समेष्यन्ति नराधिप ।। 3-81-194
मासिमासि नरव्याघ्र सन्निहत्यां न संशयः।
तीर्थसन्निहनादेव सन्निहत्येति विश्रुता ।। 3-81-195
तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते।
अमावास्यां तु तत्रैव राहुग्रस्ते रदिवाकरे ।। 3-81-196
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफंल शृणु।
अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् ।। 3-81-197
स्नात एव समाप्नोति कृत्वा श्राद्धं च मानवः।
यत्किंचिद्दुष्कृतंकर्म स्त्रिया वा पुरुषेण वा ।। 3-81-198
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः।
पद्मवर्णेन याने ब्रह्मलोकं प्रपद्यते ।। 3-81-199
अभिवाद्य ततो यक्षं द्वारपालं मचक्रुकम्।
कोटितीर्थमुपस्पृश्य लभेद्बहुसुवर्णकम् ।। 3-81-200
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम।
तत्रस्नायीत धर्मज्ञ ब्रह्मचारी समाहितः ।। 3-81-201
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः।
पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ।। 3-81-202
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते।
पांसवोपि कुरुक्षेत्राद्वायुना समुदीरिताः ।। 3-81-203
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्।
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ।। 3-81-204
ये वसन्ति कुरुक्षेत्रे तेवसन्ति त्रिविष्टपे।
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्।
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ।। 3-81-205
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्।
तस्मिन्वसन्ति ये मर्त्या न ते शोच्याः कथंचन ।। 3-81-206
तरन्तुकारन्तुकयोर्यदन्तरं
रामह्रदानां च मचक्रुकस्य च।
एतत्कुरुक्षेत्रसमन्तपञ्चकं
पितामहस्योत्तरवेदिरुच्यते ।। 3-81-207
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि एकाशीतितमोऽध्यायः ।। 81 ।।
3-81-7 कुत्सितं रौतीति कुरु तस्य क्षेपणात्रायत इति कुरुक्षेत्र पापनिवर्तकम् ।। 3-81-9 ततश्च मन्तुकं राजन्निति ध. पाठः। ततो मचक्रुकं नामेति झ. पाठः ।। 3-81-63 प्राणायामैर्हरन्तीह श्वानलोमा द्विजोत्तमा इति ध. पाठः ।। 3-81-125 हिमसन्निभ अतिश्वेतमिक्षुविकारं खण्डशर्कराख्यम् ।। 3-81-192 सन्निहत्यां कुरुक्षेत्रे ।।
आरण्यकपर्व-080 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-082 |