महाभारतम्-03-आरण्यकपर्व-035
← आरण्यकपर्व-034 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-035 वेदव्यासः |
आरण्यकपर्व-036 → |
भीमेन युधिष्ठिरंप्रति सोपपत्तिकं वनवासापूरणेनैव दुर्योधननिग्रहचोदना ।। 1 ।।
भीमसेन उवाच।।
सन्धिं कृत्वैव कालेन अन्तकेन पतत्रिणा ।
अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा ।।१।।
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः ।
फेनधर्मा महाराज फलधर्मा तथैव च ।।२।।
निमेषादपि कौन्तेय यस्यायुरपचीयते ।
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् ।।३।।
यो नूनममितायुः स्यादथ वापि प्रमाणवित् ।
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ।।४।।
प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश ।
आयुषोऽपचयं कृत्वा मरणायोपनेष्यति ।।५।।
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् ।
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ।।६।।
यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः ।
अयातयित्वा वैराणि सोऽवसीदति गौरिव ।।७।।
यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् ।
अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः ।।८।।
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव ।
हत्वा द्विषन्तं सङ्ग्रामे भुक्त्वा बाह्वर्जितं वसु ।।९।।
हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम ।
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ।।१०।।
अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः ।
येनाहमभिसन्तप्तो न नक्तं न दिवा शये ।।११।।
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे ।
आस्ते परमसन्तप्तो नूनं सिंह इवाशये ।।१२।।
योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः ।
सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति ।।१३।।
नकुलः सहदेवश्च वृद्धा माता च वीरसूः ।
तवैव प्रियमिच्छन्त आसते जडमूकवत् ।।१४।।
सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः ।
अहमेकोऽभिसन्तप्तो माता च प्रतिविन्ध्यतः ।।१५।।
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन ।
सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ।।१६।।
नेतः पापीयसी काचिदापद्राजन्भविष्यति ।
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ।।१७।।
शीलदोषाद्घृणाविष्ट आनृशंस्यात्परन्तप ।
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ।।१८।।
घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः ।
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ।।१९।।
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् ।
क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् ।।२०।।
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ।
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ।।२१।।
तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् ।
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ।।२२।।
अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च ।
दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया ।।२३।।
बृहच्छाल इवानूपे शाखापुष्पपलाशवान् ।
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ।।२४।।
इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशू ।
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ।।२५।।
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् ।
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ।।२६।।
मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः ।
अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ।।२७।।
तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः ।
राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः ।।२८।।
न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः ।
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ।।२९।।
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् ।
आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् ।।३०।।
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश ।
परिमाणेन तान्पश्य तावतः परिवत्सरान् ।।३१।।
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः ।
पूतिकानिव सोमस्य तथेदं क्रियतामिति ।।३२।।
अथ वानडुहे राजन्साधवे साधुवाहिने ।
सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते ।।३३।।
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया ।
क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् ।।३४।। 3.35.35
भीमसेन उवाच। | 3-35-1x |
सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा। अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा ।। | 3-35-1a 3-35-1b |
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः। फेनधर्मा महाराज फलधर्मा तथैव च ।। | 3-35-2a 3-35-2b |
निमेषादपि कौन्तेय यस्यायुरपचीयते। सूच्येवाञ्जनचूर्णानि किमिति प्रतिपालयेत् ।। | 3-35-3a 3-35-3b |
यो नूनममितायुः स्यादथवाऽऽयुःप्रमाणवित्। स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ।। | 3-35-4a 3-35-4b |
प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश। आयुषोपचयं कृत्वा मरणायोपनेष्यति ।। | 3-35-5a 3-35-5b |
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्। प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ।। | 3-35-6a 3-35-6b |
यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः। अयातयित्वा वैराणि सोऽवसीदति गौरिव ।। | 3-35-7a 3-35-7b |
यो न यातयते वैरमल्पसत्वोद्यमः पुमान्। अफलं जन्म तस्याहं मन्ये दुर्जातजीविनः ।। | 3-35-8a 3-35-8b |
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी। हत्वा द्विषन्तं संग्रामे भुङ्क्ष्व बाहुजितं वसु ।। | 3-35-9a 3-35-9b |
हत्वा वै पुरुषो राजन्निकर्तारमरिंदम्। अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ।। | 3-35-10a 3-35-10b |
अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः। येनाहमभिसंतप्तो न नक्तं न दिवा शये ।। | 3-35-11a 3-35-11b |
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे। आस्ते परमसंतप्तो नूनं सिंह इवाशये ।। | 3-35-12a 3-35-12b |
योऽयमेको नुदेत्सर्वांल्लोके राजन्धनुर्भृतः। सोयमात्मजमूष्माणं ग्रहाहस्तीव यच्छति ।। | 3-35-13a 3-35-13b |
नकुलः सहदेवश्च वृद्धा माता च वीरसूः। तवैव प्रियमिच्छन्त आसते जडमूकवत् ।। | 3-35-14a 3-35-14b |
सर्वे तेऽप्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः। अहमेकश्च संतप्तो माता च प्रतिबिन्ध्यतः ।। | 3-35-15a 3-35-15b |
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन। सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ।। | 3-35-16a 3-35-16b |
नातः पापीयसी काचिदापद्राजन्भविष्यति। यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ।। | 3-35-17a 3-35-17b |
शीलदोषाद्धृणाविष्ट आनृशंस्यात्परंतप। क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ।। | 3-35-18a 3-35-18b |
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः। अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ।। | 3-35-19a 3-35-19b |
घृणी ब्राह्मणरूपोसि कथं क्षत्रेष्वजायथाः। अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ।। | 3-35-20a 3-35-20b |
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत्। क्रूरान्निकृतिसंपन्नान्विहितानशमात्मकान् ।। | 3-35-21a 3-35-21b |
धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः। कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ।। | 3-35-22a 3-35-22b |
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च। तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम्। छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ।। | 3-35-23a 3-35-23b 3-35-23c |
अज्ञातचर्यागूढेन पृथिव्यां विश्रुतेन च। दिवीव पार्थ सूर्येण न शक्याऽऽचरितुं त्वया ।। | 3-35-24a 3-35-24b |
बृहत्साल इवानूपे शाखापुष्पपलावान्। हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्ति ।। | 3-35-25a 3-35-25b |
इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू। नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ।। | 3-35-26a 3-35-26b |
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्। विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ।। | 3-35-27a 3-35-27b |
मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः। अज्ञातचर्यां पश्यन्ति मेरोरिव निगूहनम् ।। | 3-35-28a 3-35-28b |
तथैव बहव्रोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः। राजानो राजपुत्राश्च धार्तराष्ट्रमनुव्रताः ।। | 3-35-29a 3-35-29b |
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः। अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ।। | 3-35-30a 3-35-30b |
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान्। आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम् ।। | 3-35-31a 3-35-31b |
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश। परिमाणएन तान्पश्य तावतः परिवत्सरान् ।। | 3-35-32a 3-35-32b |
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः। पूतिकानिव सोमस्य तथेदं क्रियतामिति ।। | 3-35-33a 3-35-33b |
अथवाऽनडुहे राजन्साधने साधुवाहिने। सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते ।। | 3-35-34a 3-35-34b |
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया। क्षत्रियस्य हि सर्वस्य नान्यो धर्मोस्ति संयुगात् ।। | 3-35-35a 3-35-35b |
।। इति श्रीमन्महाभारेत अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चस्त्रिंशोऽध्यायः ।। 35 ।। |
टिप्पणी
सम्पाद्यताम्3-35-1 पतत्रिणा बाणवत् शीघ्रगामिना स्रोतसा नित्यवाहिना ।। 3-35-2 प्रत्यक्षं प्रत्यक्षेण ज्ञातम्। कालबन्धनः कालवश्यः फेनधर्मा निःसारः। फलधर्मा पतनशीलः ।। 3-35-3 सूच्येवाञ्जनचूर्णस्य। यथा कज्जलक्षोदस्यातिश्लक्ष्णस्य सूक्ष्माग्रया सूच्यापि किंचिदपत्रीयते एवं निमेषादपि यस्यायुरपचीयते स किमिति अवधिं प्रतिपालयेन्न कथमपीत्यध्याहृत्य योज्यम्। सूच्येवाञ्जनचूर्णस्येति झ. पाठः ।। 3-35-7 प्रसंख्यानं प्रकृष्ठां साधुकीर्तिम्। यतः अस्पष्टः शौर्याद्यभावादितरैरविदितः। भूमिवर्धनः भूमिहिंसकः। भूमेर्भारभूत इत्यर्थः। अयातयित्वा अनिस्तीर्य। गौर्बलीवर्दइव। सोप्यशक्तश्चेत् गोषु संख्यानं स्पष्टतां वाप्य प्राप्नुवन्भूमेर्भारभूतो भवति ।। 3-35-8 दुर्जातशायिन इति क. पाठः ।। 3-35-9 हैरण्यौ हिरण्यस्वामिनौ। श्रुतिः कीर्तिः। पार्थिवी पृथोः राज्ञ इवेत्यर्थः ।। 3-35-10 निकर्तारं वञ्चकम्। अह्नाय सद्यः ।। 3-35-12 आशये स्वस्थाने ।। 3-35-15 प्रतिविन्ध्यतः प्तिविन्ध्यस्य माता द्रौदी ।। 3-35-19 अनुवाकः गुरूक्तिमनुवचनं तेन हता। अर्थज्ञानसून्यस्य। वेदाक्षरमात्राभ्यासिनः ।। 3-35-20 घृणी दयालुः ।। 3-35-22 आस्से तूष्णींभूतोसि। पीठसर्पवत् अजगरवत् ।। 3-35-23 संवर्तुं संवरीतुं छादितुम् ।। 3-35-25 अनूपे बहुजे देशे ।। 3-35-30 निकर्तव्यं नीयं सूचनादिकर्म कर्तव्यम् ।। 3-35-34 अनडुहे पूर्णं घासमुपाहृत्यानृतान्मुच्यत इति धर्मशास्त्रोक्तं प्रायश्चित्तं वा कर्तव्यमित्याहाथवेति। सौहित्यमातृप्तिभोजनम् ।।
आरण्यकपर्व-034 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-036 |