महाभारतम्-03-आरण्यकपर्व-011
← आरण्यकपर्व-010 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-011 वेदव्यासः |
आरण्यकपर्व-012 → |
मैत्रेयचोदितेन विदुरेण धृतराष्ट्राय भीमकृतकिर्मीरवधप्रकारकथनम् ।।
धृतराष्ट्र उवाच।।
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् ।
रक्षसा भीमसेनस्य कथमासीत्समागमः ।।१।।
विदुर उवाच।।
शृणु भीमस्य कर्मेदमतिमानुषकर्मणः ।
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ।।२।।
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः ।
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ।।३।।
रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप ।
प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् ।।४।।
तद्वनं तापसा नित्यं शेषाश्च वनचारिणः ।
दूरात्परिहरन्ति स्म पुरुषादभयात्किल ।।५।।
तेषां प्रविशतां तत्र मार्गमावृत्य भारत ।
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत ।।६।।
बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् ।
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ।।७।।
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् ।
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ।।८।।
सृजन्तं राक्षसीं मायां महारावविराविणम् ।
मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् ।।९।।
तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतोदिशम् ।
विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह ।।१०।।
सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् ।
तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत् ।।११।।
तस्योरुवाताभिहता ताम्रपल्लवबाहवः ।
विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् ।।१२।।
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः ।
रजसा संवृतं तेन नष्टर्ष्कमभवन्नभः ।।१३।।
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः ।
पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः ।।१४।।
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् ।
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ।।१५।।
तं समासाद्य वित्रस्ता कृष्णा कमललोचना ।
अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने ।।१६।।
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा ।
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ।।१७।।
मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः ।
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ।।१८।।
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् ।
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ।।१९।।
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ।।१९।।
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः ।
काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत ।।२०।।
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः ।
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ।।२१।।
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् ।
अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ।।२२।।
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः ।
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ।।२३।।
के यूयमिह सम्प्राप्ता भक्ष्यभूता ममान्तिकम् ।
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः ।।२४।।
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः ।
आचचक्षे ततः सर्वं गोत्रनामादि भारत ।।२५।।
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः ।
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ।।२६।।
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः ।
वनमभ्यागतो घोरमिदं तव परिग्रहम् ।।२७।।
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम ।
उपपादितमद्येह चिरकालान्मनोगतम् ।।२८।।
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः ।
चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् ।।२९।।
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् ।
अनेन हि मम भ्राता बको विनिहतः प्रियः ।।३०।।
वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा ।
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ।।३१।।
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः ।
हतो दुरात्मनानेन स्वसा चास्य हृता पुरा ।।३२।।
सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् ।
प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते ।।३३।।
अद्यास्य यातयिष्यामि तद्वैरं चिरसम्भृतम् ।
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ।।३४।।
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च ।
शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् ।।३५।।
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै ।
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ।।३६।।
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् ।
सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् ।।३७।।
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः ।
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ।।३८।।
ततो भीमो महाबाहुरारुज्य तरसा द्रुम ।
दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा ।।३९।।
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् ।
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ।।४०।।
निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् ।
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत ।।४१।।
इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः ।
निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली ।।४२।।
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ।।४२।।
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि ।
पातयामास वेगेन कुलिशं मघवानिव ।।४३।।
असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत ।
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ।।४४।।
तदुदस्तमलातं तु भीमः प्रहरतां वरः ।
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ।।४५।।
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् ।
दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत ।।४६।।
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।
वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा ।।४७।।
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः ।
यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा ।।४८।।
मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः ।
चीराणीव व्युदस्तानि रेजुस्तत्र महावने ।।४९।।
तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते ।
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ।।५०।।
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः ।
प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ।।५१।।
तं शिलाताडनजडं पर्यधावत्स राक्षसः ।
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ।।५२।।
तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् ।
उभावपि चकाशेते प्रयुद्धौ वृषभाविव ।।५३।।
तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः ।
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ।।५४।।
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः ।
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ।।५५।।
अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः ।
मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः ।।५६।।
तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान् ।
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ।।५७।।
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा ।
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ।।५८।।
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः ।
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ।।५९।।
स भीमेन परामृष्टो दुर्बलो बलिना रणे ।
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ।।६०।।
तत एनं परिश्रान्तमुपलभ्य वृकोदरः ।
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ।।६१।।
विनदन्तं महानादं भिन्नभेरीसमस्वनम् ।
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ।।६२।।
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः ।
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ।।६३।।
आक्रम्य स कटीदेशे जानुना राक्षसाधमम् ।
अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः ।।६४।।
अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् ।
भूतले पातयामास वाक्यं चेदमुवाच ह ।।६५।।
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् ।
करिष्यसि गतश्चासि यमस्य सदनं प्रति ।।६६।।
इत्येवमुक्त्वा पुरुषप्रवीर; स्तं राक्षसं क्रोधविवृत्तनेत्रः ।
प्रस्रस्तवस्त्राभरणं स्फुरन्त; मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज ।।६७।।
तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः ।
भीमं प्रशस्याथ गुणैरनेकै; र्हृष्टास्ततो द्वैतवनाय जग्मुः ।।६८।।
एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप ।
भीमेन वचनात्तस्य धर्मराजस्य कौरव ।।६९।।
ततो निष्कण्टकं कृत्वा वनं तदपराजितः ।
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ।।७०।।
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः ।
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् ।।७१।।
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः ।
विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् ।।७२।।
स मया गच्छता मार्गे विनिकीर्णो भयावहः ।
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ।।७३।।
तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत ।
ब्राह्मणानां कथयतां ये तत्रासन्समागताः ।।७४।।
वैशम्पायन उवाच।।
एवं विनिहतं सङ्ख्ये किर्मीरं राक्षसोत्तमम् ।
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ।।७५।। 3.11.75
धृतराष्ट्र उवाच। | 3-11-1x |
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्। रक्षसा भीमसेनस्य कथमासीत्समागमः ।। | 3-11-1a 3-11-1b |
विदुर उवाच। | 3-11-2x |
शृणु भीमस्य कर्मेदमतिमानषकर्मणः। श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ।। | 3-11-2a 3-11-2b |
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः। जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ।। | 3-11-3a 3-11-3b |
रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप। प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम् ।। | 3-11-4a 3-11-4b |
तद्वनं तापसा नित्यमशेषा वनचारिणः। दूरात्परिहरन्ति स्म पुरुषादभयात्किल ।। | 3-11-5a 3-11-5b |
तेषां प्रविशतां तत्र मार्गमावृत्य भारत। दीप्ताक्षं भीषणं रक्षः मोल्मुकं प्रत्यपद्यत ।। | 3-11-6a 3-11-6b |
बाहू महान्तौ कृत्वा च तथास्यं च भयानकम्। स्थितमावृत्यपन्थानं येन यान्ति कुरूद्वहाः ।। | 3-11-7a 3-11-7b |
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्। सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ।। | 3-11-8a 3-11-8b |
सृजन्तं राक्षसीं मायां महानादनिनादितम्। मुञ्चन्तं विपुलान्नादान्सतोयमिव तोयदम् ।। | 3-11-9a 3-11-9b |
तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम्। विमुक्तनादाः संपेतुः स्थलजा जलजैः सह ।। | 3-11-10a 3-11-10b |
संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्। तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् ।। | 3-11-11a 3-11-11b |
तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः। विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान् ।। | 3-11-12a 3-11-12b |
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः। रजसा संवृतं तेन नष्टर्क्षमभवन्नभः ।। | 3-11-13a 3-11-13b |
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः। पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः ।। | 3-11-14a 3-11-14b |
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्। आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ।। | 3-11-15a 3-11-15b |
तं समासाद्य वित्रस्ता कृष्णा कमललोचना। अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने ।। | 3-11-16a 3-11-16b |
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा। पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ।। | 3-11-17a 3-11-17b |
विमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः। इन्द्रियाणि प्रसक्तानि विषयेषु यथारतिम् ।। | 3-11-18a 3-11-18b |
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्। रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ।। | 3-11-19a 3-11-19b |
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्। स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः ।। | 3-11-20a 3-11-20b |
काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत। तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः ।। | 3-11-21a 3-11-21b |
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्। प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् ।। | 3-11-22a 3-11-22b |
अहं वकस्य वै भ्राता किर्मीर इति विश्रुतः। वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः ।। | 3-11-23a 3-11-23b |
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्। के यूयमभिसंप्राप्ता भक्ष्यभूता ममान्तिकम्। युधि निर्जित्यवः सर्वान्भक्षयिष्ये गतज्वरः ।। | 3-11-24a 3-11-24b 3-11-24c |
विदुर उवाच। | 3-11-25x |
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः। आचचक्षे ततः सर्वं गोत्रनामादि भारत ।। | 3-11-25a 3-11-25b |
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः। सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ।। | 3-11-26a 3-11-26b |
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः। वनमभ्यागतो घोरमिदं तव परिग्रहम् ।। | 3-11-27a 3-11-27b |
`विस्मयं परमं गत्वा राक्षसो घोरदर्शनः।' किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम। उपपादितमद्येह चिरकालान्मनोरथम् ।। | 3-11-28a 3-11-28b 3-11-28c |
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः। चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम् ।। | 3-11-29a 3-11-29b |
सोयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्। अनेन हि मम भ्राता बको विनिहतः प्रियः ।। | 3-11-30a 3-11-30b |
वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा। विद्याबलमुपाश्रित्य न ह्मस्त्यस्यौरसं बलम् ।। | 3-11-31a 3-11-31b |
हिडिम्बश्च सखा मह्मं दयितो वनगोचरः। हतो दुरात्मनाऽनेन स्वसा चास्य हृता पुरा ।। | 3-11-32a 3-11-32b |
सोयमभ्यागतो मूढो ममेदं गहनं वनम्। प्रचारसमयेऽस्माकमर्द्धरात्रे स्थिते समे ।। | 3-11-33a 3-11-33b |
अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम्। तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ।। | 3-11-34a 3-11-34b |
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च। शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम् ।। | 3-11-35a 3-11-35b |
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै। अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ।। | 3-11-36a 3-11-36b |
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्। संभक्ष्य जरयिष्यामि यथाऽगस्त्यो महासुरम् ।। | 3-11-37a 3-11-37b |
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः। नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ।। | 3-11-38a 3-11-38b |
ततो भीमो महाबाहुरारुज्यतरसा द्रुमम्। दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा ।। | 3-11-39a 3-11-39b |
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्। निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ।। | 3-11-40a 3-11-40b |
निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम्। अभिद्रुत्याब्रवीद्वाक्यं तिष्ठतिष्ठेति भारत ।। | 3-11-41a 3-11-41b |
इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः। निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली। तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ।। | 3-11-42a 3-11-42b 3-11-42c |
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि। पातयामास वेगेन कुलिशं मघवानिव ।। | 3-11-43a 3-11-43b |
असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत। चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ।। | 3-11-44a 3-11-44b |
तदुदस्तमलातं तु भीमः प्रहरतां वरः। पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ।। | 3-11-45a 3-11-45b |
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्। दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत ।। | 3-11-46a 3-11-46b |
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्। वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा ।। | 3-11-47a 3-11-47b |
शीर्षयोः पतिता वृक्षा विभिदुर्नैकधा तयोः। यथैवोत्पलपत्राणि मत्तयोर्द्विपयोस्तथा ।। | 3-11-48a 3-11-48b |
मूर्ध्निजर्झरभूतास्तु बहवस्तत्र पादपाः। चीराणीव व्युदस्तानि रेजुस्तत्र महावने ।। | 3-11-49a 3-11-49b |
तद्वृक्षयुद्धमभवन्महूर्तं भरतर्षभ। राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ।। | 3-11-50a 3-11-50b |
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः। प्राहिणोद्रासः क्रुद्धो भीमसेनश्चचाल ह ।। | 3-11-51a 3-11-51b |
तं शिलाताडनजडं पर्यधावत राक्षसः। बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ।। | 3-11-52a 3-11-52b |
तावन्योन्यं समाश्लिश्य प्रकर्षन्तौ परस्परम्। उभावपि चकाशेते प्रवृद्धौ वृषभाविव ।। | 3-11-53a 3-11-53b |
तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः। नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ।। | 3-11-54a 3-11-54b |
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः। कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ।। | 3-11-55a 3-11-55b |
अभिहत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः। मातङ्गमिव मातङ्गः प्रभिननकरटामुखम् ।। | 3-11-56a 3-11-56b |
स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यबान्। तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ।। | 3-11-57a 3-11-57b |
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा। शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ।। | 3-11-58a 3-11-58b |
अथैनमाक्षिप्य बलाद्गृद्य मध्ये वृकोदरः। धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ।। | 3-11-59a 3-11-59b |
स भीमेन परामृष्टो दुर्बलो बलिनां रणे। व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ।। | 3-11-60a 3-11-60b |
तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः। योक्रयामास बाहुभ्यां पशुं रशनया यथा ।। | 3-11-61a 3-11-61b |
विनदन्तं महानादं भिन्नभिरीस्वनं बली। भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ।। | 3-11-62a 3-11-62b |
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः। प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् । | 3-11-63a 3-11-63b |
आक्रम्य च कटीदेशे जानुना राक्षसाधमम्। पीडयामास पाणिभ्यां तस्य कण्ठंवृकोदरः ।। | 3-11-64a 3-11-64b |
अथ जर्जरसर्वाङ्गं व्यावृत्तनयनोल्बणम्। भूतले भ्रामयामास वाक्यं चेदमुवाच ह ।। | 3-11-65a 3-11-65b |
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्। करिष्यसि गतश्चापि यमस्य सदनं प्रति ।। | 3-11-66a 3-11-66b |
इत्येवमुक्त्वा पुरुषप्रवीर- स्तं राक्षसं क्रोधपरीतचेताः। विस्रस्तवस्त्राभरणं स्फुरन्त- मुद्धान्तचित्तं व्यसुमुत्ससर्ज ।। | 3-11-67a 3-11-67b 3-11-67c 3-11-67d |
तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः। भीमं प्रशस्याथ गुणैरनेकै- र्हृष्टास्ततो द्वैतवनाय जग्मुः ।। | 3-11-68a 3-11-68b 3-11-68c 3-11-68d |
विदुर उवाच। | 3-11-69x |
एवं विनिहतः सङ्ख्ये किर्मोरो मनुजाधिप। भीमेन वचनात्तस् धर्मराजस्य कौरव ।। | 3-11-69a 3-11-69b |
ततो निष्कष्टकं कृत्वा वनं तदयराजितः। द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ।। | 3-11-70a 3-11-70b |
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः। प्रहृष्टमनसः प्रीत्या प्रसशंसुर्वृकोदरम् ।। | 3-11-71a 3-11-71b |
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः। विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम् ।। | 3-11-72a 3-11-72b |
स मया गच्छता मार्गे विनिकीर्णो भयावहः। वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ।। | 3-11-73a 3-11-73b |
तत्राश्रौषमहं चैतत्कर्म भीमस् भारत। ब्राह्मणानां कथयतां ये तत्रासन्समागताः ।। | 3-11-74a 3-11-74b |
वैशंपायन उवाच। | 3-11-75x |
एवं विनिहतं सङ्ख्ये किर्मीरं रक्षसां वरम्। श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ।। | 3-11-75a 3-11-75b |
3-11-4 आभिले भयंकरे। अर्द्धसमयेऽर्द्धज्ञाने गतेसति। लोके तन्द्रावति सतीत्यर्थः ।। 3-11-9 भयानके इतिविश्वः ।। 3-11-31 दैत्रकीयवने एकचक्रायाम् ।। 3-11-32 महां मम ।। 3-11-35 लब्धास्मि लप्स्यामि ।। 3-11-37 महासुरं वातापिम् ।। 3-11-39 आरुज्यभङ्त्वा। दशव्यामं विस्तारितयोः करयोस्तिर्यगन्तरम्। उद्विद्धं उत्पाटितम् ।। 3-11-40 वज्रेण निष्पेषश्चूर्णीभावो यस्य पर्वतस्य तद्वत् गौरवं गुरुत्वं यस्य तत्तथा । 3-11-42 कक्ष्यामुत्पीड्य परिधानवस्त्रं दृढीकृत्य ।। 3-11-45 उदस्तं उत्क्षिप्तम्। अलातं उल्मुकम्। रक्षः राक्षसम् ।। 3-11-49 चीराणि वृक्षद ल्कलानि ।। 3-11-55 निकारात् परिभवात्। कृष्णाया आनय दृष्टं येन स तथा। द्रौपद्याकर्षणेन कुपित इत्यर्थः ।। 3-11-56 प्रभिन्नकटामुखं प्रभिन्ने व्यक्तीभूते करटयोर्गण्डयोर्मुखे मदनिर्गममार्गौ यस्य तम् ।। 3-11-60 व्यस्पनदत किंचिच्चलनं कृतवान् ।। 3-11-61 योक्रयामास बबन्ध। रशनया पशुमिव ।। 3-11-63 पशुमारं पशुमिव मारयित्वा ।।
आरण्यकपर्व-010 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-012 |