महाभारतम्-03-आरण्यकपर्व-038
← आरण्यकपर्व-037 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-038 वेदव्यासः |
आरण्यकपर्व-039 → |
अर्जुनेन हिमवच्छिखरे तपश्चरणम् ।। 1 ।।
पार्थतपोभीरुभिर्महर्षिभिः प्रार्थितेन महादेवेनाश्वासनपूर्वकमृषीणां प्रति निवर्तनम् ।। 2 ।।
जनमेजय उवाच।।
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः ।
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् ।।१।।
कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः ।
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ।।२।।
किं च तेन कृतं तत्र वसता ब्रह्मवित्तम ।
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ।।३।।
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम ।
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ।।४।।
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः ।
भवेन सह सङ्ग्रामं चकाराप्रतिमं किल ।।५।।
पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः ।।५।।
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् ।
शूराणामपि पार्थानां हृदयानि चकम्पिरे ।।६।।
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद ।
न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ।।७।।
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय ।।७।।
वैशम्पायन उवाच।।
कथयिष्यामि ते तात कथामेतां महात्मनः ।
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ।।८।।
गात्रसंस्पर्शसम्बन्धं त्र्यम्बकेण सहानघ ।
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ।।९।।
युधिष्ठिरनियोगात्स जगामामितविक्रमः ।
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम् ।।१०।।
दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः ।
महाबलो महाबाहुरर्जुनः कार्यसिद्धये ।।११।।
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ।।११।।
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ।
त्वरया परया युक्तस्तपसे धृतनिश्चयः ।।१२।।
वनं कण्टकितं घोरमेक एवान्वपद्यत ।।१२।।
नानापुष्पफलोपेतं नानापक्षिनिषेवितम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ।।१३।।
ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् ।
शङ्खानां पटहानां च शब्दः समभवद्दिवि ।।१४।।
पुष्पवर्षं च सुमहन्निपपात महीतले ।
मेघजालं च विततं छादयामास सर्वतः ।।१५।।
अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः ।
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ।।१६।।
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् ।
नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः ।।१७।।
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा ।
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ।।१८।।
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः ।
पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् ।।१९।।
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा ।
तपस्युग्रे वर्तमान उग्रतेजा महामनाः ।।२०।।
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः ।
पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः ।।२१।।
द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् ।।२१।।
तृतीयमपि मासं स पक्षेणाहारमाचरन् ।
शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् ।।२२।।
चतुर्थे त्वथ सम्प्राप्ते मासि पूर्णे ततः परम् ।
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ।।२३।।
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ।।२३।।
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः ।
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ।।२४।।
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् ।
शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च ।।२५।।
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ।।२५।।
एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः ।
उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ।।२६।।
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् ।
सन्तापयति नः सर्वानसौ साधु निवार्यताम् ।।२७।।
महेश्वर उवाच।।
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ।
अहमस्य विजानामि सङ्कल्पं मनसि स्थितम् ।।२८।।
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः ।
यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ।।२९।।
वैशम्पायन उवाच।।
ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः ।
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ।।३०।। 3.38.35
जनमेजय उवाच। | 3-38-1x |
भगवञ्श्रोतुमिच्छासमि पार्थस्याक्लिष्टकर्मणः। विस्तरेण कथामेतां यथाऽस्त्राण्युपलब्धवान् ।। | 3-38-1a 3-38-1b |
कथं च पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः। वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ।। | 3-38-2a 3-38-2b |
किंचानेन कृतंतत्रवसता ब्रह्मवित्तम। कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ।। | 3-38-3a 3-38-3b |
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम। त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ।। | 3-38-4a 3-38-4b |
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः। भवेन सह संग्रामं चकाराप्रतिमं किल। पुरा प्रहरतांश्रेष्ठः संग्रामेष्वपराजितः ।। | 3-38-5a 3-38-5b 3-38-5c |
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्। शूराणामपि पार्थानां हृदयानि चकम्पिरे ।। | 3-38-6a 3-38-6b |
यद्यच्च कृतवानन्यत्पार्थस्तदस्विलं वद ।। | 3-38-7a |
न ह्यस् निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये। चरितं यस्य शूरस्य तन्मे सर्वं प्रकीर्तय ।। | 3-38-8a 3-38-8b |
वैशंपायन उवाच। | 3-38-9x |
कथयिष्यामि ते तात कथामेतां महात्मनः। दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ।। | 3-38-9a 3-38-9b |
गात्रसंस्पर्शसंबद्धां त्र्यम्बकेण महाहवे। पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ।। | 3-38-10a 3-38-10b |
युधिष्ठिरनियोगात्स जगामामितविक्रमः। शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् ।। | 3-38-11a 3-38-11b |
दिव्यं तद्धनुरादाय खङ्गं च पुरुषर्षभः। महाबलो महाबाहुरर्जुनः कार्यसिद्धये ।। | 3-38-12a 3-38-12b |
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति। ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ।। | 3-38-13a 3-38-13b |
त्वरया परया युक्तस्तपसे धृतनिश्चयः। वनं कण्टकितं घोरमेक एवान्वपद्यत ।। | 3-38-14a 3-38-14b |
नानापुष्पफलोपेतं नानापक्षिनिनादितम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम् ।। | 3-38-15a 3-38-15b |
ततः प्रयाते बीभत्सौ वनं मानुषवर्जितम्। शङ्खानां पटहानां च शब्दः समभवद्दिवि ।। | 3-38-16a 3-38-16b |
पुष्पवर्षं च सुमहन्निपपात महीतले। मेघजालं च सततं छादयामास सर्वतः ।। | 3-38-17a 3-38-17b |
सोतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः। शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ।। | 3-38-18a 3-38-18b |
तत्रतत्र द्रुमान्फुल्लान्विहगैर्वल्गुनादितान्। नदीश्च विपुलावर्ता वैदूर्यनीलसंनिभाः ।। | 3-38-19a 3-38-19b |
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा। पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ।। | 3-38-20a 3-38-20b |
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः। पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत् ।। | 3-38-21a 3-38-21b |
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा। तपस्युग्रे वर्तमान उग्रतेजा महामनाः ।। | 3-38-22a 3-38-22b |
दर्भचीरं निवस्याथ दण्डाजिनबिभूषितः। शीर्णं च पतितं भूमौ पर्णं समुपभुक्तवान् ।। | 3-38-23a 3-38-23b |
पूर्णेपूर्णे त्रिररात्रे तु मासमेकं फलाशनः। द्विगुणेनैव कालेन द्वितीयं मासमत्ययात् ।। | 3-38-24a 3-38-24b |
तृतीयमपि मासं स क्रमेणाहारमाचरन्। चतुर्थे त्वथ संप्राप्ते मासे भरतसत्तमः ।। | 3-38-25a 3-38-25b |
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः। ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः ।। | 3-38-26a 3-38-26b |
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः। विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ।। | 3-38-27a 3-38-27b |
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्। विवेदयिषवः पार्थं तपस्युग्रे समास्थितम् ।। | 3-38-28a 3-38-28b |
नीलकण्ठं महादेवमभिवाद्य प्रणम्य च। सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ।। | 3-38-29a 3-38-29b |
एकः पार्थो महातेजा हिमवत्पृष्ठमाश्रितः। उग्रे तपरसि दुष्पारे स्थितो धूमापयन्दिशः ।। | 3-38-30a 3-38-30b |
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्। संतापयति नः सर्वानसौ साधु निवार्यताम् ।। | 3-38-31a 3-38-31b |
तेषां तद्वचनं श्रुत्वा मुननां भावितात्मनाम्। उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह ।। | 3-38-32a 3-38-32b |
न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः। शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ।। | 3-38-33a 3-38-33b |
अहमस्य विजानामि संकल्पं मनसि स्थितम्। नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः। यत्तस्य काङ्क्षितं प्राप्तुं तत्करिष्येऽहमद्य वै ।। | 3-38-34a 3-38-34b 3-38-34c |
वैशंपायन उवाच। | 3-38-35x |
तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः। प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमम् ।। | 3-38-35a 3-38-35b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि अष्टत्रिंशोऽध्यायः ।। 38 ।। |
टिप्पणी
सम्पाद्यताम्3-38-12 खङ्गं च कनकत्सरुं इति झ. पाठः। तत्र कनकत्सरुं स्वर्णमुष्टिंमित्यर्तः ।। 3-38-13 ऐन्द्रिरर्जुनः ।। 3-38-14 कण्टकितं कण्टकाक्रान्तम् ।। 3-38-23 दर्भचीरं तृणमयं वासः। निवस्य परिधाय ।। 3-38-24 द्विगुणेन षट्रात्रेण अत्ययात् अतिवाहितवान् ।। 3-38-25 पक्षेणाहारमाचरन् इति झ. पाठः ।। 3-38-26 निरालम्बो निराश्रयः ।। 3-38-30 धूमापयन् धूमवतीरिव कुर्वन् ।। 3-38-34 संकल्पं मनोरथम् ।।
आरण्यकपर्व-037 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-039 |