महाभारतम्-03-आरण्यकपर्व-037
← आरण्यकपर्व-036 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-037 वेदव्यासः |
आरण्यकपर्व-038 → |
युधिष्ठिरेण व्यासोपदिष्टमन्त्रोपदेशपूर्वकमस्त्रग्रहणाय स्वर्गंप्रत्यर्जुनस्य प्रस्थापनम् ।। 1 ।।
स्वर्गं प्रस्थितेनार्जुनेन यध्येपथमिन्द्रकीलगिरौ तपश्चर्या ।। 2 ।।
तत्र मुनिरूपिण इन्द्रस्य दर्शनम् ।। 3 ।।
दिव्यास्त्रदानं याचितेनेन्द्रेणार्जुनंप्रति तपसा रुद्रप्रसादनानन्तरमस्त्रलाभाय स्वर्गागमनचोदना ।। 4 ।।
वैशम्पायन उवाच।।
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः ।
संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ।।१।।
विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् ।
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ।।२।।
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः ।
धनञ्जयं धर्मराजो रहसीदमुवाच ह ।।३।।
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत ।
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ।।४।।
ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् ।
सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः ।।५।।
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः ।
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ।।६।।
सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा ।
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ।।७।।
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा ।
त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः ।।८।।
तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम ।।८।।
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ।
तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते ।।९।।
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ।।९।।
देवतानां यथाकालं प्रसादं प्रतिपालय ।
तपसा योजयात्मानमुग्रेण भरतर्षभ ।।१०।।
धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः ।
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ।।११।।
इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय ।।११।।
वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् ।
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ।।१२।।
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति ।
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ।।१३।।
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ।
दीक्षितं विधिना तेन यतवाक्कायमानसम् ।।१४।।
अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः ।।१४।।
निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम् ।
धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी ।।१५।।
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् ।
हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ।।१६।।
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः ।
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ।।१७।।
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् ।
अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ।।१८।।
क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि ।।१८।।
तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् ।
मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् ।।१९।।
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय ।
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ।।२०।।
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् ।
ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका ।।२१।।
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे ।
रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः ।।२२।।
नैव नः पार्थ भोगेषु न धने नोत जीविते ।
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ।।२३।।
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते ।
जीवितं मरणं चैव राज्यमैश्वर्यमेव च ।।२४।।
आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ।।२४।।
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् ।
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत ।।२५।।
दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ।।२५।।
ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः ।
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ।।२६।।
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः ।
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ।।२७।।
सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः ।
मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ।।२८।।
हिमवन्तमतिक्रम्य गन्धमादनमेव च ।
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ।।२९।।
इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः ।
अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा ।।३०।।
ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् ।
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ।।३१।।
सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः ।
कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी ।।३२।।
निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ।।३२।।
नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः ।
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ।।३३।।
नेहास्ति धनुषा कार्यं न सङ्ग्रामेण कर्हिचित् ।
निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् ।।३४।।
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् ।
तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ।।३५।।
न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् ।।३५।।
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव ।
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ।।३६।।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः ।
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ।।३७।।
ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे ।
त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् ।।३८।।
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव ।
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय ।।३९।।
कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् ।।३९।।
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः ।
न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् ।।४०।।
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ।
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ।।४१।।
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ।।४१।।
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् ।
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ।।४२।।
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् ।
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ।।४३।।
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ।
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ।।४४।।
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः ।
अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः ।।४५।। 3.37.59
वैशंपायन उवाच। | 3-37-1x |
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः। संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ।। | 3-37-1a 3-37-1b |
विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ। सान्त्वपूर्वं स्मितं कृत्वापाणिना परिसंस्पृशन् ।। | 3-37-2a 3-37-2b |
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः। धनंजयंधर्मराजो रहसीदमुवाच ह ।। | 3-37-3a 3-37-3b |
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत। धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ।। | 3-37-4a 3-37-4b |
दैवं ब्राह्मं चासुरं च सप्रयोगचिकित्सितम्। सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः ।। | 3-37-5a 3-37-5b |
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः। संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते। सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा ।। | 3-37-6a 3-37-6b 3-37-6c |
आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्न्युत। शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ।। | 3-37-7a 3-37-7b |
अद्य चेयं मही कृत्स्ना दुर्याधनवशानुगा। सग्रामनगरा पार्थ ससागरवनाकरा ।। भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः ।। | 3-37-8a 3-37-8b 3-37-9b |
अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम। कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ।। | 3-37-10a 3-37-10b |
गृहीतया तया सम्यग्जगत्सर्वं प्रकाशते। तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ।। | 3-37-11a 3-37-11b |
देवतानां यथाकालं प्रसादं प्रतिपालय। तपसा योजयात्मानमुग्रेण भरतर्षभ ।। | 3-37-12a 3-37-12b |
धनुष्मान्कवची खङ्गी मुनिः साधुव्रते स्थितः। न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ।। | 3-37-13a 3-37-13b |
इनद्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय। वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम् ।। | 3-37-14a 3-37-14b |
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे। `अनेन ब्रह्मणा तात सर्वं संप्रतिपद्यते ।।' | 3-37-15a 3-37-15b |
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति। दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ।। | 3-37-16a 3-37-16b |
वैशंपायन उवाच। | 3-37-17x |
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ।। | 3-37-17a |
दीक्षितं विधिना तेन यतवाक्कायमानसम्। अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः ।। | 3-37-18a 3-37-18b |
निदेशाद्धर्मराजस्य द्रष्टुकामः पुरंदरम्। धनुर्गाण्डीवमादाय तथाऽक्षय्ये महेषुधी ।। | 3-37-19a 3-37-19b |
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्। हत्वाऽग्निं ब्राह्मणान्निष्कैः स्वस्तिवाच्य मह्यभुज ।। | 3-37-20a 3-37-20b |
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः। वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदैक्षत ।। | 3-37-21a 3-37-21b |
तं दृष्ट्वा तत्रकौन्तेयं प्रगृहीतशरासनम्। अब्रुवन्ब्रह्मणाः सिद्धा भूतान्यन्तर्हितानि च ।। | 3-37-22a 3-37-22b |
क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि। संसाधयस्व कौन्तेय ध्रुवोस्तु विजयस्तव ।। | 3-37-23a 3-37-23b |
अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः। `सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन् ।। | 3-37-24a 3-37-24b |
स्वस्तिव्रतमुपाधत्स्व सङ्कल्पस्तव सिद्ध्यताम्। मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ ।। | 3-37-25a 3-37-25b |
एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा। तपोयोगमनाः पार्थः पुरोहितमवन्दत ।। | 3-37-26a 3-37-26b |
ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत। सहोदरावतिरथौ युधिष्ठिरवृकोदरौ ।। | 3-37-27a 3-37-27b |
तं क्लान्तमनसौ पूर्णमभिगम्य महारथौ। यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ ।। | 3-37-28a 3-37-28b |
अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम्। अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात्। अस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि ।। | 3-37-29a 3-37-29b 3-37-29c |
गिरो ह्यशिथिलाः सर्वा निर्दोषाः संमताः सताम्। त्वमेकः पाण्डवेष्वद्य संप्राप्तोसि धनञ्जय ।। | 3-37-30a 3-37-30b |
न चाधर्मविदं देवा नासिद्धं नातपस्विनम्। द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च ।। | 3-37-31a 3-37-31b |
रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः। शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता ।। | 3-37-32a 3-37-32b |
विश्वस् हन्ता मायावी क्रोधनोऽनृतभाषिता। अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वशङ्कितः ।। | 3-37-33a 3-37-33b |
आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः। स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः ।। | 3-37-34a 3-37-34b |
संभावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः। नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय ।। | 3-37-35a 3-37-35b |
आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता। दमः स्थितिर्धृतिर्धर्मः क्षमा कृत्यमनुत्तमम् ।। | 3-37-36a 3-37-36b |
दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता। मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन। व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः ।। | 3-37-37a 3-37-37b 3-37-37c |
तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय। त्वादृशेन हि देवानां श्लाघनीयः समागमः ।। | 3-37-38a 3-37-38b |
सुहृदां सोदराणां च सर्वेषां भरतर्षभ। त्वं गतिः परमा तात वृत्रहा मरुतामिव ।। | 3-37-39a 3-37-39b |
तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते। सर्वे हिसंश्रयिष्यन्ति बाहुवीर्यं महाबल ।। | 3-37-40a 3-37-40b |
स पार्थ पितरं गच्छ सहस्राक्षमरिन्दम। मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात् ।। | 3-37-41a 3-37-41b |
शतशृङ्गे महाबाहो मघवानिदमब्रवीत्। शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि ।। | 3-37-42a 3-37-42b |
विदितः सर्वभूतानां दिवं तात गमिष्यसि। प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतांवर ।। | 3-37-43a 3-37-43b |
मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि। अवाप्यपरमास्त्राणि पृथिवीं पुनरेष्यसि ।। | 3-37-44a 3-37-44b |
गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि। शृण्वतां सर्वभूतानां पुनः पुनरभाषत ।। | 3-37-45a 3-37-45b |
तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम्। कंचिद्देशमितः प्राप्य तपोयोगमना भव ।। | 3-37-46a 3-37-46b |
कर्तुमर्हसि कौरव्य मघवद्वचनं हितम्। दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टाऽसि त्वं पुरन्दरम् ।। | 3-37-47a 3-37-47b |
तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ। मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः ।।' | 3-37-48a 3-37-48b |
तं तथा प्रस्थितं वीरं सिंहस्कन्धोरसं तदा। प्राञ्जलिः पाण्डवंकृष्णा देवानां कुर्वती नमः। वाग्भिः परमशुद्धाभिर्मङ्गलाभिरभाषत् ।। | 3-37-49a 3-37-49b 3-37-49c |
नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम्। `धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः। ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय ।।' | 3-37-50a 3-37-50b 3-37-50c |
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः। प्रपद्येथा वसूव्रुद्रानादित्यान्समरुद्गणान्। विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ ।। | 3-37-51a 3-37-51b 3-37-51c |
स्वस्ति तेस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ। पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः ।। | 3-37-52a 3-37-52b |
अवरोधाद्वने वासात्सर्वस्वहरणादपि। इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात् ।। | 3-37-53a 3-37-53b |
मास्माकं क्षत्रियकुले जातुचित्पुनरुद्भवः। ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका ।। | 3-37-54a 3-37-54b |
इदं मे परमं दुःखं यः स पापः सुयोधनः। दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि ।। | 3-37-55a 3-37-55b |
तस्माद्दुःखादिदं दुःखं गरीय इतिमे मतिः। यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत ।। | 3-37-56a 3-37-56b |
`ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ। वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे ।।' | 3-37-57a 3-37-57b |
जेता यः सर्वशत्रूणां यः पावकमतर्पयः। जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ ।।' | 3-37-58a 3-37-58b |
अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते। त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा ।। | 3-37-59a 3-37-59b |
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय। तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ।। | 3-37-60a 3-37-60b |
`वसुदेवस्वसा देवी त्वामार्या पुनरागतम्। पश्यतु त्वां पृथा पार्थ सहस्राक्षमिवादितिः' ।। | 3-37-61a 3-37-61b |
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे। रंस्यन्ते तव कर्माणि कीरत्यन्तः पुनः पुनः ।। | 3-37-62a 3-37-62b |
न च नः पार्थ भोगेषु न धने नोत जीविते। तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ।। | 3-37-63a 3-37-63b |
त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते। जीवितं मरणं चैव राज्यमैश्वर्यमेव च ।। | 3-37-64a 3-37-64b |
आपृष्टो नोसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव। कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ।। | 3-37-65a 3-37-65b |
बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयाऽनघ। प्रयाह्यविघ्नेयैवाशु विजयाय महाबल ।। | 3-37-66a 3-37-66b |
ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती। इमा वै तव पान्थस् पालयन्तु धनञ्जय ।। | 3-37-67a 3-37-67b |
वैशंपायन उवाच। | 3-37-68x |
एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी। | 3-37-68a |
ततःप्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः। प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ।। | 3-37-69a 3-37-69b |
`शनैरिव दिशं वीर उदीचीं भरतर्षभ। संहरंस्तरसा वृक्षाँल्लता वल्लीश्च भारत। असज्जमानो वृक्षेषु जगाम सुमहाबलः ।।' | 3-37-70a 3-37-70b 3-37-70c |
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः। युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ।। | 3-37-71a 3-37-71b |
सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान्। दिव्यं हैमवतं पुण्यं देवजुष्टं परंतपः ।। | 3-37-72a 3-37-72b |
अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः। मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः ।। | 3-37-73a 3-37-73b |
हिमवन्तमतिक्रम्य गन्धमादनमेव च। अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ।। | 3-37-74a 3-37-74b |
इन्द्रिकीलं समासाद्य ततोऽतिष्ठद्धनंजयः। `गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः ।। | 3-37-75a 3-37-75b |
प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत्। ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किंचन ।। | 3-37-76a 3-37-76b |
समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः'। अन्तरिक्षे स शुश्राव तिष्ठेति स वचस्तदा ।। | 3-37-77a 3-37-77b |
तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास रपाण्डवः। अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम् ।। | 3-37-78a 3-37-78b |
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्। सोऽब्रवीदर्जुनं तत्रस्थितं दृष्ट्वा महातपाः ।। | 3-37-79a 3-37-79b |
कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी। निबद्धाऽसितलत्राणः क्षत्रधर्ममनुव्रतः ।। | 3-37-80a 3-37-80b |
नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः। विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ।। | 3-37-81a 3-37-81b |
नेहास्ति धनुषा कार्यं न संग्रामोऽत्र कर्हिचित्। निक्षिपैतद्धनुस्तात प्राप्तोसि परमां गतिम् ।। | 3-37-82a 3-37-82b |
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम्। तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत्। न चैनं चालयामास धैर्यात्सुधृतनिश्चयम् ।। | 3-37-83a 3-37-83b 3-3783c |
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव। वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ।। | 3-37-84a 3-37-84b |
एवमुक्तः सहस्राक्षं प्रत्युवाच धनंजयः। प्राञ्जलिः प्रणतो भूत्वा सूरः कुरुकुलोद्वहः ।। | 3-37-85a 3-37-85b |
ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे। त्वत्तोऽद्य भगवन्नस्त्रंकृत्स्नमिच्छामि वेदितम् ।। | 3-37-86a 3-37-86b |
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव। इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय ।। | 3-37-87a 3-37-87b |
कामान्वृणीष्व लोकांस्त्वं प्राप्तोसि परमां गतिम्। एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ।। | 3-37-88a 3-37-88b |
न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम्। न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ।। | 3-37-89a 3-37-89b |
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च। अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ।। | 3-37-90a 3-37-90b |
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्। सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ।। | 3-37-91a 3-37-91b |
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्। तदा दाताऽस्मि ते तात दिव्यान्यस्त्राणि सर्वशः ।। | 3-37-92a 3-37-92b |
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः। दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ।। | 3-37-93a 3-37-93b |
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं पुनः। अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः ।। | 3-37-94a 3-37-94b |
।। इति श्रीमन्महाभारेत अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तत्रिंशोऽध्यायः ।। 37 ।। |
टिप्पणी
सम्पाद्यताम्3-37-2 विविक्तेऽवितथप्रज्ञमिति क. पाठः ।। 3-37-5 दैवं इन्द्रवरुणाद्यस्त्रम्। ब्राह्मं ब्रह्मास्त्रम्. चिकित्सा परप्रयुक्तानां प्रतीकारः ।। 3-37-6 गुरुवत् गुरुष्विव ।। 3-37-7 शान्तिं दोषपरिहारं कर्तुं व्यवहरन्ति यतन्ते। शक्तिं सामर्थ्ये न हापयिष्यन्ति त्याजयिष्यन्ति अपितु उद्दीपयिष्यन्ति ।। 3-37-10 उपनिषत् रहस्यविद्या ।। 3-37-11 तया प्रयुक्तया सम्यगिति झ. पाठः ।। 3-37-12 प्रतिपालय प्राप्नुहि ।। 3-37-13 मार्गं न ददत् अददत् ।। 3-37-14 बलं सर्वास्त्ररूपम् ।। 3-37-15 ततः शक्रात् ।। 3-37-16 दीक्षितः स्वीकृतव्रतः ।। 3-37-17 अध्यापयत विद्ययायोजितवान् ।। 3-37-18 अनुजज्ञे गमनाय अनुज्ञातवान् ।। 3-37-51 ज्येष्टापचयी ज्येष्ठपूजनशीलः ।। 3-37-55 गौरिति बहुपुरुषभोग्येत्युपहासः ।। 3-37-56 अभाषत शत्रुर्यत् तस्माद्दुःखादिदं त्वद्वियोगजमिति पूर्वेण संबन्धः ।। 3-37-69 प्रातिष्ठत महाबाहुः सुमनाः प्रीतिमांस्तदेति क. पाठः ।। 3-37-71 शुष्मिणओ बलिनः ।। 3-37-81 विनीतौ, जितौ क्रोधहर्षौ यैः ।। 3-37-88 कामान् काम्यन्त इति व्युत्पत्त्या इष्टान् ।। 3-37-90 अप्रतियात्यानिस्तीर्य ।।
आरण्यकपर्व-036 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-038 |