महाभारतम्-03-आरण्यकपर्व-202
← आरण्यकपर्व-201 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-202 वेदव्यासः |
आरण्यकपर्व-203 → |
महाभारतस्य पर्वाणि |
---|
वैशम्पायन उवाच||
मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन्
अस्ति कश्चिद्भवतश्चिरजाततर इति ||१||
स तानुवाच
अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः
कीर्तिस्ते व्युच्छिन्नेति
स मामुपातिष्ठत्
अथ प्रत्यभिजानाति मां भवानिति ||२||
तमहमब्रुवम्
न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् ||३||
अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः
स भवन्तं यदि जानीयात्
प्रकृष्टे चाध्वनि हिमवान्
तत्रासौ प्रतिवसतीति ||४||
स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः ||५||
अथैनं स राजर्षिः पर्यपृच्छत्
प्रत्यभिजानाति मां भवानिति ||६||
स मुहूर्तं ध्यात्वाब्रवीदेनम्
नाभिजाने भवन्तमिति ||७||
स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत्
अस्ति कश्चिद्भवतश्चिरजाततर इति ||८||
स एवमुक्तोऽब्रवीदेनम्
अस्ति खल्विन्द्रद्युम्नसरो नाम
तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति
सोऽस्मत्तश्चिरजाततरः
तं पृच्छेति ||९||
तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव ||१०||
सोऽस्माभिः पृष्टः
भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति ||११||
स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा
नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ||१२||
ततः सोऽस्माभिः पृष्टः
अस्ति कश्चिदन्यो भवतश्चिरजाततर इति ||१३||
स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति
स मत्तश्चिरजाततर इति
स यदि कथञ्चिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति ||१४||
ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास
अस्त्यस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुम्
साध्वागम्यतां तावदिति ||१५||
एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे ||१६||
आगतं चैनं वयमपृच्छाम
भवानिन्द्रद्युम्नं राजानमभिजानातीति ||१७||
स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसञ्ज्ञकल्पः प्राञ्जलिरब्रवीत्
किमहमेनं न प्रत्यभिजानामि
अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः
सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम्
अत्र चाहं प्रतिवसामीति ||१८||
अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् ||१९||
वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति
प्रस्तुतस्ते स्वर्गः
यथोचितं स्थानमभिपद्यस्व
कीर्तिमानसि
अव्यग्रो याहीति ||२०||
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः |
यावत्स शब्दो भवति तावत्पुरुष उच्यते ||२१||
अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित् |
पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते ||२२|| 3.199.14
तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि |
विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् ||२३||
इत्येतच्छ्रुत्वा स राजाब्रवीत्
तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ||२४||
स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः ||२५||
एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः ||२६||
पाण्डवाश्चोचुः प्रीताः
साधु
शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति ||२७||
अथैनानब्रवीदसौ
ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति ||२८|| 3.199.18