महाभारतम्-03-आरण्यकपर्व-070
← आरण्यकपर्व-069 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-070 वेदव्यासः |
आरण्यकपर्व-071 → |
बाहुकस्य सारध्यसामर्थ्यविस्मितेन ऋतुपर्णेन तंप्रति पुञ्जीभूतवस्तुपरिसंख्याने स्वीयसामर्थ्यनिवेदनम् ।। 1 ।।
वृक्षशाखास्थपर्णेषु तत्परीक्षया विस्मितेन नलेनाश्वहृदयविद्यादानप्रतिज्ञानन तदीयाक्षहृदयादिविद्यास्वीकरणम् ।। 2 ।।
ततो नलदेहाद्वहिर्निःसृतेन कलिना नलशापभयात्तस्मै वरदानपूर्वकं विभीतकवृक्षप्रवेशः ।। 3 ।।
बृहदश्व उवाच।।
स नदीः पर्वतांश्चैव वनानि च सरांसि च ।
अचिरेणातिचक्राम खेचरः खे चरन्निव ।।१।।
तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः ।
उत्तरीयमथापश्यद्भ्रष्टं परपुरञ्जयः ।।२।।
ततः स त्वरमाणस्तु पटे निपतिते तदा ।
ग्रहीष्यामीति तं राजा नलमाह महामनाः ।।३।।
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् ।
वार्ष्णेयो यावदेतं मे पटमानयतामिति ।।४।।
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव ।
योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः ।।५।।
एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः ।
आससाद वने राजन्फलवन्तं बिभीतकम् ।।६।।
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत ।
ममापि सूत पश्य त्वं सङ्ख्याने परमं बलम् ।।७।।
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ।।८।।
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक ।
पतितानि च यान्यत्र तत्रैकमधिकं शतम् ।।९।।
एकपत्राधिकं पत्रं फलमेकं च बाहुक ।।९।।
पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः ।
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ।।१०।।
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ।।१०।।
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् ।
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ।।११।।
अथ ते गणिते राजन्विद्यते न परोक्षता ।
प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् ।।१२।।
अहं हि नाभिजानामि भवेदेवं न वेति च ।
सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ।।१३।।
मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ।।१३।।
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् ।
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ।।१४।।
प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् ।
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ।।१५।।
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन ।
त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक ।।१६।।
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद ।
शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि ।।१७।।
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक ।
विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे ।।१८।।
अथाब्रवीद्बाहुकस्तं सङ्ख्यायेमं बिभीतकम् ।
ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम ।।१९।।
अकाम इव तं राजा गणयस्वेत्युवाच ह ।
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ।।२०।।
ततः स विस्मयाविष्टो राजानमिदमब्रवीत् ।
गणयित्वा यथोक्तानि तावन्त्येव फलानि च ।।२१।।
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् ।
श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप ।।२२।।
तमुवाच ततो राजा त्वरितो गमने तदा ।
विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम् ।।२३।।
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम ।
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ।।२४।।
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् ।
हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः ।।२५।।
यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम् ।
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक ।।२६।।
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ।।२६।।
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः ।
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ।।२७।।
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ।
स तेन कर्शितो राजा दीर्घकालमनात्मवान् ।।२८।।
ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः ।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ।।२९।।
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः ।
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ।।३०।।
इन्द्रसेनस्य जननी कुपिता माशपत्पुरा ।
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ।।३१।।
अवसं त्वयि राजेन्द्र सुदुःखमपराजित ।
विषेण नागराजस्य दह्यमानो दिवानिशम् ।।३२।।
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः ।
मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ।।३३।।
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः ।
ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् ।।३४।।
कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ।।३४।।
ततो गतज्वरो राजा नैषधः परवीरहा ।
सम्प्रनष्टे कलौ राजन्सङ्ख्यायाथ फलान्युत ।।३५।।
मुदा परमया युक्तस्तेजसा च परेण ह ।
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ।।३६।।
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ।।३६।।
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः ।
नलः सञ्चोदयामास प्रहृष्टेनान्तरात्मना ।।३७।।
विदर्भाभिमुखो राजा प्रययौ स महामनाः ।
नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् ।।३८।।
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते ।
विमुक्तः कलिना राजन्रूपमात्रवियोजितः ।।३९।। 3.72.43
बृहदश्व उवाच। | 3-70-1x |
स नदीः पर्वतांश्चैव वनानि च सरांसि च। अचिरेणातिचक्राम स्वेचरः खे चरन्निव ।। | 3-70-1a 3-70-1b |
तथा प्रयाते तु रथे तदा भागस्वरिर्नृपः। उत्तरीयमधोपश्यद्धष्टं परपुरंजयः ।। | 3-70-2a 3-70-2b |
ततः स त्वरमाणस्तु पटे निपतिते तदा। ग्रहीष्यामीति तं राजा नलमाह महामनाः ।। | 3-70-3a 3-70-3b |
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्। वार्ष्णेयो यावदेनं मे पटमानयतामिह ।। | 3-70-4a 3-70-4b |
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव। योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः ।। | 3-70-5a 3-70-5b |
एवमुक्ते नलेनाथ नातिप्रीतमना नृपः। आससाद वने राजन्फलवन्तं बिभीतकम् ।। | 3-70-6a 3-70-6b |
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभापत। ममापि सूत पश्य त्वं संख्याने परमं बलम् ।। | 3-70-7a 3-70-7b |
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन। नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित् ।। | 3-70-8a 3-70-8b |
वृक्षेऽस्मिन्यानि पर्णानि फलामेकं च बाहुक। पतितान्यपि यान्यत्रतत्रैकमधिकं कृतम् ।। | 3-70-9a 3-70-9b |
एवपत्राधिकं चात्र फलमेकं च बाहुक। फलकोट्यपि पत्राणां द्वयोरपि च शाखयोः। `प्रवक्ष्यामि फलान्यत्र यानि संख्यास्यते भवान् ।।' | 3-70-10a 3-70-10b 3-70-10c |
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः। आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ।। | 3-70-11a 3-70-11b |
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत्। परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ।। | 3-70-12a 3-70-12b |
प्रत्यक्षमेतत्कर्ताऽस्मि शातयित्वा विभीतकम्। अथ ते गणिते राजन्द्विजामाम्यपरोक्षताम् ।। | 3-70-13a 3-70-13b |
प्रत्यक्षं ते महाराज् गणयिष्ये विभीतकम्। अहं हि नाभिजानामि भवेदेव नवेति वा ।। | 3-70-14a 3-70-14b |
संख्यास्यामि फलान्यस्य पशय्तस्ते जनाधिप। मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ।। | 3-70-15a 3-70-15b |
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्। बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ।। | 3-70-16a 3-70-16b |
प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान्। एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ।। | 3-70-17a 3-70-17b |
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन। त्वभेव यन्ता नान्योस्ति पृथिव्यामपि बाहुक ।। | 3-70-18a 3-70-18b |
त्वत्कृतेयातुमिच्छामि विदर्भान्हयकोविद। शरणं त्वांप्रपन्नोस्मि न विघ्नं कर्तुमर्हसि ।। | 3-70-19a 3-70-19b |
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक। विदर्भान्यदि यात्वाऽद्य सूर्यं दर्शयितासि मे। | 3-70-20a 3-70-20b |
अथाब्रवीद्बाहुकस्तं संख्यायच बिभीतकम्। ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम ।। | 3-70-21a 3-70-21b |
अकाम इव तं राजा गणयस्वेत्युवाच ह। एकदेशं च शाखायाः समादिष्टं मयाऽनघ ।। | 3-70-22a 3-70-22b |
गणयस्वाश्वतत्वज्ञ ततस्त्वंप्रीतिमावह। सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ।। | 3-70-23a 3-70-23b |
ततः स विस्मयाविष्टो राजानमिदमब्रवीत्। गणयित्वायथोक्तानि तावन्त्येव फलानि तु ।। | 3-70-24a 3-70-24b |
अत्युद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्। श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप ।। | 3-70-25a 3-70-25b |
तमुवाच ततो राजा त्वरितो गमने नृप। विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् ।। | 3-70-26a 3-70-26b |
बाहुकस्तमुवाचाथ देहि विद्याद्वयं च मे। मत्तोऽपि चाश्वहृदयं गृहाण पुरुपर्पभ ।। | 3-70-27a 3-70-27b |
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्। हयज्ञानस्य लोभाच् तं तथेत्यब्रवीद्वचः ।। | 3-70-28a 3-70-28b |
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम्। निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक। एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ।। | 3-70-29a 3-70-29b 3-70-29c |
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः। कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्। कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ।। | 3-70-30a 3-70-30b 3-70-30c |
सातेन कर्शितो राजादीर्घकालमनात्मवान् ।। | 3-70-31a |
`तं भ्राम्तरूपं निःशोभं संक्लिष्टमकरोत्कलिः'। ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः। तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ।। | 3-70-32a 3-70-32b 3-70-32c |
ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः। तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ।। | 3-70-32a 3-70-32b |
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः। कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ।। | 3-70-33a 3-70-33b |
इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा। यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ।। | 3-70-34a 3-70-34b |
अवसं त्वयि राजेन्द्र सुदुःखभपराजित। विषेण नागराजस्य दह्यमानो दिवानिशम् ।। | 3-70-35a 3-70-35b |
शरणं त्वां प्रपन्नोस्मि शृणु चेदं वचो मम। ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः। मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति ।। | 3-70-36a 3-70-36b 3-70-36c |
`न तेषां मानसं किंचिच्छारीरं वाचिकं तथा। भविष्यति महाराज कीर्तयिष्यन्ति ये नलम्'। भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे ।। | 3-70-37a 3-70-37b 3-70-37c |
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः। ततो बीतः कलिः क्षिप्रं प्रविवेश विभीतकम्। कलिस्त्वन्येन नो दृष्टः कथयन्नैषधेन वै ।। | 3-70-38a 3-70-38b 3-70-38c |
ततो गतत्वरो राजा नैषधः परवीरहा। संप्रनष्टे कलौ राजा संख्यायास्य फलान्युत ।। | 3-70-39a 3-70-39b |
मुदा परमया युक्तस्तेजसाऽथ परेण वै। रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ।। | 3-70-40a 3-70-40b |
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात्। `ततः प्रभृतिराजेन्द्र लोकेऽस्मिन्पाण्डुनन्दन'।। | 3-70-41a 3-70-41b |
हयोत्तभानुत्पततो द्विजानिव पुनः पुनः। नलः संचोदयामास प्रहृष्टेनान्तरात्मना ।। | 3-70-42a 3-70-42b |
विदर्भाभिमुखो राजा प्रययौ स महायशाः। नले तु समतिक्रान्ते कलिरप्यगमद्गृहम् ।। | 3-70-43a 3-70-43b |
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः। विमुक्तः कलिना राजन्रूपमात्रवियोजितः ।। | 3-70-44a 3-70-44b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्ततितमोऽध्यायः ।। 70 ।। |
3-70-9 तत्रैकमधिकं शतमिति झ. पाठः ।। 3-70-10 पञ्चकोट्योऽथ पत्राणामिति झ. पाठः ।। 3-70-26 अक्षहृदयज्ञं अक्षाणां अक्षाभिमानिदेवताया हृदयवद्वशीकरणार्थो मन्त्रः अक्षहृदयम्। येन ज्ञातेन द्यूतेऽक्षा अनुकूला भवन्ति। संख्याने राशीकृतानां पत्रपुष्पफलधान्यादीना राश्यायामविस्तारोच्छ्रायाद्यालोचनेन पाटीगणितरीत्या झटिति तत्संख्याकथने ।। 3-70-30 शापाग्निर्दमयन्तीनिशृष्टः स विषरूपः ।। 3-70-39 फलानि संख्याय। अक्षविद्यासामर्थ्यात् राशेरायामादिकमनालोच्यैवेति भावः ।। 3-70-42 द्विजानिव पक्षिण इव ।।
आरण्यकपर्व-069 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-071 |