महाभारतम्-03-आरण्यकपर्व-008
← आरण्यकपर्व-007 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-008 वेदव्यासः |
आरण्यकपर्व-009 → |
तदा समागतेन व्यासेन धृतराष्ट्रंप्रति पाण्डवैः सह विरोधस्यानर्थहेतुत्वकथनपूर्वकं तैः सह शमविधानम् ।। 1 ।।
व्यास उवाच।।
धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम ।
वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् ।।१।।
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् ।
निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः ।।२।।
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे ।
विमोक्ष्यन्ति विषं क्रुद्धाः करवेयेषु भारत ।।३।।
तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः ।
पाण्डवान्नित्यसङ्क्रुद्धो राज्यहेतोर्जिघांसति ।।४।।
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः ।
वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ।।५।।
यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् ।
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ।।६।।
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः ।
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ।।७।।
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत ।
उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् ।।८।।
अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः ।
पाण्डवैः सहितो राजन्नेक एवासहायवान् ।।९।।
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः ।
यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर ।।१०।।
अथ वा जायमानस्य यच्छीलमनुजायते ।
श्रूयते तन्महाराज नामृतस्यापसर्पति ।।११।।
कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा ।
भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ।।१२।। 3.8.12
व्यास उवाच। | 3-7-1x |
धतराष्ट्र महाप्राज्ञ निबोध वचनं मम। वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम् ।। | 3-7-1a 3-7-1b |
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्। निकृत्त्या निकृताश्चैव दुर्योधनपुरोगमैः ।। | 3-7-2a 3-7-2b |
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे। विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ।। | 3-7-3a 3-7-3b |
तदयं किंनु पापात्मा तव पुत्रः सुमन्दधीः। पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति ।। | 3-7-4a 3-7-4b |
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः। वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति ।। | 3-7-5a 3-7-5b |
यथाऽऽह विदुरः प्राज्ञो यथा भीष्मो यथा वयम्। यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ।। | 3-7-6a 3-7-6b |
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः। अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ।। | 3-7-7a 3-7-7b |
समीक्षा यादृशी ह्मस्य पाण्डवान्प्रति भारत। उपेक्ष्यमाणा सा राजन्महान्तमनयं व्रजेत् ।। | 3-7-8a 3-7-8b |
अथवाऽयं सुमन्दात्मा वनं गच्छतु ते सुतः। पाण्डवैः सहितो राजन्नेक एवासहायवान् ।। | 3-7-9a 3-7-9b |
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः। यदि स्यात्कृतकृत्यस्त्वं भवेथाः पुरषर्षभ ।। | 3-7-10a 3-7-10b |
अथवा जायमानस्य यच्छीलमनुजायते। श्रूयते तन्महाराज नामृतस्यापसर्पति ।। | 3-7-11a 3-7-11b |
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोपिवा। भवान्वाऽत्र परं कार्यं पुरा चार्थो निवर्तते ।। | 3-7-12a 3-7-12b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि अष्टमोऽध्यायः ।। 8 ।। |
3-7-2 निकृताः निर्जिताः ।। 3-7-3 विषमिव विषं शस्त्रम् ।। 3-7-8 समीक्षा विचारपूर्विका बुद्धिः ।। 3-7-11 एतदपि दुर्घटमित्याह अथवेति ।।
आरण्यकपर्व-007 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-009 |