महाभारतम्-03-आरण्यकपर्व-082
← आरण्यकपर्व-081 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-082 वेदव्यासः |
आरण्यकपर्व-083 → |
पुलस्त्येन भीष्मंप्रति नानातीर्थमाहात्म्यकथनम् ।। 1 ।।
महाभारतस्य पर्वाणि |
---|
पुलस्त्य उवाच।
ततो गच्छेन्महाराज धर्मतीर्थमनुत्तमम्।
[यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः ।।
तेन तीर्थं कृतंपुण्यं स्वेन नाम्ना च विश्रुतम् ।।] 3-82-1
तत्रस्नात्वा नरो राजन्धर्मशील समाहितः।
आसप्तमं कुलं चैव पुनीते नात्र संशयः ।। 3-82-2
ततो गच्छेत राजेन्द्र ज्ञानपावनमुत्तमम्।
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ।। 3-82-3
सौगन्धिकवनं राजंस्ततो गच्छेत मानवः।
तत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ।। 3-82-4
सिद्धचारणगन्धर्वाः किन्नराश्च महोरगाः।
कतद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ।। 3-82-5
ततश्चापि सरिचच्छ्रेष्ठा नदीनामुत्तमा नदी।
प्लक्षा देवी स्मृता राजन्पुण्या देवी सरस्वती ।। 3-82-6
तत्राभिषेकं कुर्वीत वल्मीकान्निः सृतेजले।
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ।। 3-82-7
कवेराध्युषितं नाम तत्र तीर्थं सुदुर्लभम्।
पट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ।। 3-82-8
कपिलानां सहस्रं च वाजिमेधं च विन्दति।
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ।। 3-82-9
सुगन्धां शतकुम्भां च पञ्चयक्षां च भारत।
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ।। 3-82-10
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः।
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः ।। 3-82-11
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम्।
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता ।। 3-82-12
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रता।
आहारं सा कृतवती मासिमासि नराधिप ।। 3-82-13
ऋषयोऽभ्यागतास्तत्रदेव्या भक्त्या तपोधनाः।
आतिथ्यं च कृतं तेषां शाकेन किल भारत।
ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ।। 3-82-14
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः।
त्रिरात्रमुषितः शाकं भक्षयित्वा नरः शुचिः ।। 3-82-15
शाकाहारस्य यत्किंचिद्वर्षैर्द्वादशभिः कृतम्।
तत्फलं तस्य भवति देव्याश्छन्देन भारत ।। 3-82-16
ततो गच्छेत्सुवर्णाख्यं त्रिषु लोकेषु विश्रुतम्।
तत्र विष्णुः प्रसादार्थं रुद्रकमाराधयत्पुरा ।। 3-82-17
वरांश्च सुबर्हूल्लेभे दैवतेषु सुदुर्लभान्।
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ।। 3-82-18
अपिच त्वं प्रियतरो लोके कृष्ण भविष्यसि।
त्वन्मुखं च जगत्सर्वं भविष्ति न संशयः ।। 3-82-19
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम्।
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ।। 3-82-20
धूमावतीं ततो गच्छेत्रिरात्रोपोषितो नरः।
मनसा प्रार्थितान्कार्माल्लभते नात्र संशयः ।। 3-82-21
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप।
तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः।
महादेवप्रसादाद्धि गच्छेत परमां गतिम् ।। 3-82-22
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ।
धारां नाम महाप्रात्र सर्वपापप्रमोचनीम् ।। 3-82-23
तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप।
ततो गच्छेत धर्मज्ञ नमस्कृत् महागिरिम् ।। 3-82-24
अशीतियोजनशतं पुष्करं स्वर्गमुच्यते।
अशीतिं धर्मपृष्ठात्तु प्रवदन्ति मनीषिणः ।। 3-82-25
षष्टिं प्रयागाद्राजेन्द्र कुरुक्षेत्रात्तु द्वादश।
संयुक्तमेव राजेन्द्र गङ्गाद्वारं त्रिविष्टपम्' ।। 3-82-26
स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः।
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः ।। 3-82-27
पौण्डरीकमवाप्नोति कुलं चैव समुद्धरेत्।
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ।। 3-82-28
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन्।
देवान्पितॄंश्च विधिवत्पुण्ये लोके महीयते ।। 3-82-29
ततः कनस्वले स्नात्वा त्रिरात्रोपोषितो नरः।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ।। 3-82-30
कपिलावटं ततो गच्छेत्तीर्थसेवी नराधिप।
उपोष्य रजनीं तत्र गोसहस्रफलं लभेत् ।। 3-82-31
नागराजस्य राजेन्द्र कपिलस्य महात्मनः।
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ।। 3-82-32
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप।
कपिलानां सहस्रस्य फलं विन्दति मानवः ।। 3-82-33
ततो ललितकं गच्छेच्छन्तनोस्तीर्थमुत्तमम्।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ।। 3-82-34
गङ्गायमुनयोर्मध्ये स्नाति यः संगमे नरः।
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ।। 3-82-35
ततो गच्छेत राजेन्द्र सुगन्धं लोकविथुतम्।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ।। 3-82-36
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप।
तत्रस्नात्वा नरो राजन्स्वर्गलोके च गच्छति ।। 3-82-37
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे।
स्नात्वाऽश्वमेधं प्राप्नोति स्वर्गलोकं च गच्छति ।। 3-82-38
भद्रकर्णएश्वरं गत्वा देवमर्च्य यथाविधि।
न दुर्गतिमवाप्नोति नाकपृष्ठे च पूज्यते ।। 3-82-39
तत कुब्जावतीं गच्छेत्तीर्थसेवी नराधिप।
रगोसहस्रमवाप्नोति स्वर्गलोकं च नच्छति ।। 3-82-40
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप।
सामुद्रकमुपस्पृश्य ब्रह्मचारी समाहितः ।। 3-82-41
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः।
गोसहस्रफलं विद्यात्कुलं चैव समुद्धरेत् ।। 3-82-42
कब्र्हमावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः।
अश्वमेधमवाप्नोति सोमलोकं च गच्छति ।। 3-82-43
यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम्।
अश्वमेधफंल लब्ध्वा स्वर्गलोके महीयते ।। 3-82-44
दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम्।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ।। 3-82-45
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम्।
तत्रोष्य रजनीः पञ्च विन्देद्बहु सुवर्णकम् ।। 3-82-46
अथ वेदीं समासाद्य नरः परमदुर्गमाम्।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ।। 3-82-47
ऋषिकुल्यां समासाद्य वासिष्ठं चैवभारत।
वासिष्ठीं समतिक्रम्य सर्वे वर्णा द्विजातयः ।। 3-82-48
ऋषिकुल्यां समासाद्य नरः स्नात्वा विकल्मषः।
देवान्पितॄंश्चार्चयित्वा ऋषिलोकं प्रपद्यते ।। 3-82-49
यदि तत्रवसेन्मासं शाकाहारो नराधिप।
द्वादशाहस्य यज्ञस्य फलं स लभते नरः' ।। 3-82-50
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत्।
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ।। 3-82-51
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत।
अग्निष्टोमातिरात्राभ्यां फलमाप्नोति मानवः ।। 3-82-52
तत्र संध्यां समासाद्य विद्यातीर्थमनुत्तमम्।
उपस्पृश्य च वै विद्यां यत्र तत्रोपपद्यते ।। 3-82-53
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने।
एककालं निराहारो लोकानावसते शुभान् ।। 3-82-54
षष्ठाकालोपवासेन मासमुष्य महालये।
सर्वपापविशुद्दात्मा विन्देद्बहु सुवर्णकम्।
दशापरान्दशपूर्वान्नरानुद्धरते कुलम् ।। 3-82-55
अथ वेतसिकां गत्वा पितामहनिषेविताम्।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ।। 3-82-56
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम्।
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः ।। 3-82-57
ततो वै ब्राह्मणं गत्वा ब्रह्मचारी जितेन्द्रियः।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ।। 3-82-58
ततस्तु नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम्।
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह ।। 3-82-59
नैमिषं मृगयाणस् पापस्यार्धं प्रणश्यति।
प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ।। 3-82-60
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि नैंमिषे ।। 3-82-61
कृताभिषेकस्तत्रैव नियतो नियताशनः।
गवां मेधस्य यज्ञस्य फलं प्राप्नोति भारत।
पुनात्यासप्तमं चैव कुलं भरतसत्तम ।। 3-82-62
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः।
स मोदेत्सर्वलोकेषु एवमाहुर्मनीषिणः ।। 3-82-63
नित्यं मेध्यं च पुण्यं च नैमिषं नृपसत्तम ।। 3-82-64
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः।
वाजपेयमवाप्नोति ब्रह्मभूतो भवेत्सदा ।। 3-82-65
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः।
सारस्वतेषु लोकेषु मोदते नात्र संशयः ।। 3-82-66
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः।
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते।
देवसत्रस्य यज्ञस्य फलंप्राप्नोति कौरव ।। 3-82-67
ततः क्षीरवतीं गच्छेत्पुण्यां पुण्यतरैर्वृताम्।
पितृदेवार्चनपरो वाजपेयमवाप्नुयात् ।। 3-82-68
विमलाशोकमासाद्य ब्र्हमचारी समाहितः।
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ।। 3-82-69
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम्।
यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः।
देहं त्यक्त्वा महाराज तस्य तीर्थस्य तेजसा ।। 3-82-70
रामस्य च प्रसादेन व्यवसायाच्च भारत।
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप।
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ।। 3-82-71
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन।
अश्वमेधमवाप्नोति पुनाति च कुलं नरः ।। 3-82-72
शतसाहस्रकं तीर्थं तत्रैव भरतर्षभ ।। 3-82-73
तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः।
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ।। 3-82-74
रततो गच्छेत राजेनद्र भर्तृस्थानमनुत्तमम्।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।। 3-82-75
कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप।
गोसहस्रफंल विद्यात्तेजस्वी च भवेन्नरः ।। 3-82-76
ततो वाराणसीं गत्वा अर्चयित्वा नृषध्वजम्।
कपिलाह्रदे नरः स्नात्वाराजसूयमवाप्नुयात् ।। 3-82-77
अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह।
दर्शनाद्देवदेवस्य मुच्यते ब्रह्महत्यया ।। 3-82-78
प्राणानुत्सृज्यतत्रैव मोक्षं प्राप्नोति मानवः।
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् ।। 3-82-79
गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते।
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ।। 3-82-80
ततो गयां समासाद्य ब्रह्मचारी समाहितः।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।। 3-82-81
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः।
तत्र दत्तं पितृभ्यस्तु भवत्यक्षयमुच्यते ।। 3-82-82
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः।
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ।। 3-82-83
ततो ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्।
ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम् ।। 3-82-84
ब्रह्मणा तत्र सरसि यूपश्रेष्ठः समुच्छ्रितः।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ।। 3-82-85
ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम्।
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ।। 3-82-86
सर्वपापविशुद्धात्मा सोमलोकं ब्रजेद्भुवम्।
तत्र चिह्निं महद्राजन्नद्यापि सुमहद्भृशम् ।। 3-82-87
कपिलायाः सवत्सायाश्चरन्त्याः पर्वते कृतम्।
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ।। 3-82-88
तेषूपस्पृश्य राजेन्द्रपदेषु नृपसत्तम।
यत्कंचिदशुभं कर्म तत्प्रणश्यति भारत ।। 3-82-89
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः।
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ।। 3-82-90
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम्।
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ।। 3-82-91
उद्यन्तं च ततो गच्छेत्पर्वतं गीतनादितम्।
सावित्र्यास्तु पदं तत्र दृश्यते भरतर्षभ ।। 3-82-92
तत्रसंध्यामुपासीत ब्राह्मणः संशितव्रतः।
उपासिता भवेत्संध्या तेन द्वादशवार्षिकी ।। 3-82-93
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ।
तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् ।। 3-82-94
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः।
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ।। 3-82-95
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्।
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ।। 3-82-96
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप।
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ।। 3-82-97
ततो गच्छेत राजेन्द्र धर्मप्रस्थं समाहितः।
तत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ।। 3-82-98
तत्र कूपोदकं कृत्वा तेन स्नातः शुचिस्तथा।
पितॄन्देवांस्तु संतर्प्य मुक्तपापो दिवं व्रजेत् ।। 3-82-99
मतङ्गस्याश्रमस्तत्रमहर्षेर्भावितात्मनः ।। 3-82-100
तं प्रविश्याश्रमं श्रीमच्छ्रमशोकविनाशनम्।
गवामयनयज्ञस्य फलंप्राप्नोति मानवः ।। 3-82-101
धर्मं तत्राभिसंस्पृश्य वाजिमेधमवाप्नुयात् ।। 3-82-102
ततो गच्छेत राजेन्द्र ब्रह्मस्थानमनुत्तमम्।
तत्राभिगम्य राजेन्द्र ब्रह्माणं पुरुषर्षभ।
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ।। 3-82-103
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप।
उपस्पृश्य ततस्तत्रकक्षीवानिव मोदते ।। 3-82-104
यक्षिण्या नैत्यकं तत्र प्राश्नीन पुरुषः शुचिः।
यक्षिण्यास्तु प्रसादेन मुच्यते ब्र्हमहत्यया ।। 3-82-105
मणइनागं ततो गत्वा गोसहस्रफलं लभेत् ।। 3-82-106
तैर्थिकं भुञ्जते यस्तु मणिनागस् भारत।
दष्टस्याशीविषेणापि न तस्य क्रमते विपम् ।। 3-82-107
तत्रोष् रजनीभेकां गोसहस्रफंल लभेत्।
ततो गच्छेत ब्रह्मर्पेर्गौतमस्य वनं प्रियम् ।। 3-82-108
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम्।
अभिगम्याश्रमं राजन्विनद्ते श्रियमात्मनः ।। 3-82-109
तत्रोदपानं धर्मज्ञ त्रिपु लोकेषु विश्रुतम्।
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ।। 3-82-110
जनकस् तु राजर्षेः कूपस्त्रिदशपूजितः।
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ।। 3-82-111
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम्।
वाजपेयमवाप्नोति सोमलोकं च गच्छति ।। 3-82-112
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम्।
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ।। 3-82-113
कततो विशल्यामासाद्य नदीं त्रैलोक्यविश्रुताम्।
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ।। 3-82-114
ततोऽधिवङ्गं धर्मज्ञ समाविश्य ततो वनम्।
गुह्यकेषु महाराज मोदते नात्र संशयः ।। 3-82-115
कम्पनां तु समासद्य नदीं सिद्धनिवेषिताम्।
पुण्डरीकमवाप्नोति स्वर्गलोकं च गच्छति ।। 3-82-116
अथ माहेश्वरीं धारां समासाद्य धराधिप।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।। 3-82-117
दिवौकसां पुष्करिणीं समासाद्य नराधिप।
न दुर्गतिमवाप्नोति वाजिमेधं च विन्दति ।। 3-82-118
अथ सोमपदं गच्छेद्ब्रह्मचारी समाहितः।
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ।। 3-82-119
तत्रकोटी तु तीर्थानां विश्रुता भरतर्षभ।
कूर्मरूपेण राजेन्द्र ह्यसुरेण दुरात्मना ।। 3-82-120
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना।
तत्राभिषेकं कुर्वीत तीर्थकोट्यां युधिष्ठिर ।। 3-82-121
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति।
ततो गच्छेत राजेन्द्रस्थानं नारायणस्य च ।। 3-82-122
सदा सन्निहितो यत्रविष्णुर्वसति भारत।
यत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ।। 3-82-123
आदित्या वसवो रुद्रा जनार्दनमुपासते।
शालग्राम इति ख्यातो विष्णुरद्भुतकर्मकः ।। 3-82-124
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम्।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।। 3-82-125
तत्रोपदानं धर्मज्ञ सर्वपापप्रमोचनम्।
समुद्रास्तत्रचत्वारः कूपे संनिहिताः सदा।
तत्रोपस्पृश् राजेन्द्र न दुर्गतिमवाप्नुयात् ।। 3-82-126
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम्।
विराजति यथासोमो मेघैर्मुक्तो नराधिप ।। 3-82-127
जातिस्मरमुपस्पृश्य शुचिः प्रयतमानसः।
जातिस्मरत्वमाप्नोति स्नात्वा तत्र न संशयः ।। 3-82-128
वदेश्वरपुरं गत्वा अर्चयित्वा तु केशवम्।
ईप्सिताँल्लभते कामानुपवासान्न संशयः ।। 3-82-129
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम्।
अभिगम्य हरिं देवं न दुर्गतिमवाप्नुयात् ।। 3-82-130
भरतस्याश्रमं गच्छेत्सर्वपापप्रमोचनम् ।। 3-82-131
कौशिकीं तत्र गच्छेत महापापप्रणाशिनीम्।
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ।। 3-82-132
ततो गच्छेत राजेन्द्र चम्पकारण्यमुत्तमम्।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।। 3-82-133
अथ जेष्ठिलमासाद्य तीर्धं परमदुर्लभम्।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।। 3-82-134
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम्।
मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ।
त्रिरात्रोपोषितस्तत्रअग्निष्टोमफलं लभेत् ।। 3-82-135
कन्यासंवेद्यमासाद्य नियतो नयिताशनः।
मनोः प्रजापतेर्लोकानाप्नोति पुरुषर्षभ ।। 3-82-136
कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत।
तदक्षय्यमिति प्राहुर्ऋषयः संशितव्रताः ।। 3-82-137
ततो निर्वीरमासाद्य त्रिपु लोकेपु विश्रुतम्।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।। 3-82-138
ये त्विन्धनं प्रयच्छन्ति निर्वीरासंगमे नराः।
ते यान्ति नरशार्दूल शक्रलोकमनामयम् ।। 3-82-139
तत्राश्रमो वसिष्ठस् त्रिषु लोकेषु विश्रुतः।
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ।। 3-82-140
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम्।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।। 3-82-141
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम्।
यत्र सिद्धिं परां प्राप्तो विश्वामित्रोथ कौशिकः ।। 3-82-142
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ।
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ।। 3-82-143
सर्वतीर्थवरे चैव यो वसेत महाह्रदे।
न दुर्गतिमवाप्नोति विन्द्याद्बहु सुवर्णकम् ।। 3-82-144
कुमारमभिगम्याथ वीराश्रमनिवासिनम्।
अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ।। 3-82-145
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम्।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ।। 3-82-146
अभिगम्य महादेवं वरदं विष्णुमव्ययम्।
पितामहसरो गत्वा शैलराजसमीपतः।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ।। 3-82-147
पितामहस्य सरसः प्रस्रुता लोकपावनी।
कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ।। 3-82-148
यत्रस्नात्वा कृतार्थोस्मीत्यात्मानमवगच्छति।
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ।। 3-82-149
ततो गच्छेत धर्मज्ञ तीर्थसेवनतत्परः।
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् ।। 3-82-150
समारुह्य नरश्रेष्ठ स्तनकुण्डेषु संविशेत्।
स्तनकुण्डमुपस्पृश्य वाजपेयफलं लभेत् ।। 3-82-151
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः।
हयमेधमवाप्नोति शक्रलोकं च गच्छति ।। 3-82-152
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः।
अश्वमेमवाप्नोति ब्रह्मलोकं च गच्छति ।। 3-82-153
नन्दिन्यां च समासाद्य कूपं देवनिषेवितम्।
नरमेधस् यत्पुण्यं तदाप्तोति नराधिप ।। 3-82-154
कालिकासंगमे स्नात्वा कौशिक्यरुणयोर्गतः।
त्रिरात्रोपोषितो राजन्सर्वपापैः प्रमुच्यते ।। 3-82-155
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः।
कुम्भकर्णाश्रमं गत्वा पूज्यते भुविमानवः ।। 3-82-156
कोकामुखमुपस्पृश् ब्रह्मचारी यतव्रतः।
जातिस्मरत्वमाप्नोति दृष्टमेतत्पुरातनैः ।। 3-82-157
प्राङ्गदीं च समासाद्य कृतात्मा भवति द्विजः।
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ।। 3-82-158
ऋषभद्वीपमासाद्य मेध्यं क्रौञ्चनिषूदनम्।
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ।। 3-82-159
औद्दालकं महाराज तीर्थं मुनिनिषेवितम्।
तत्राभिषेकं कृत्वा वै सर्वपापैः प्रमुच्यते ।। 3-82-160
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम्।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ।। 3-82-161
अथ पम्पां समासाद्य भागीरथ्यां कृतोदकः।
दण्डार्तमभिगत्वा तु गोसहस्रफलं लभेत् ।। 3-82-162
`ततो लेवलिकां गच्छेत्पुण्यां पुण्योपसेविताम्।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते' ।। 3-82-163
।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि द्व्यशीतितमोऽध्यायः ।। 82 ।।
3-82-8 शम्या मुद्गराकृतिर्यज्ञोपकरणविशेषः स वलवताक्षिप्तो यावद्दूरं पतेत् तावान्देशः शम्यानिपातः तेषु षट्सु ।। 3-82-9 पुरातने भविष्यपुराणादौ ।। 3-82-16 छन्देन इच्छया ।। 3-82-19 त्वमुखं त्वत्प्रधानम् ।। 3-82-56 औशनसीं गतिं शुक्रत्वम् ।। 3-82-71 व्यवसायान्निश्चयात् ।। 3-82-105 नैत्यक नैवेद्यम् ।।
आरण्यकपर्व-081 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-083 |