महाभारतम्-03-आरण्यकपर्व-145
← आरण्यकपर्व-144 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-145 वेदव्यासः |
आरण्यकपर्व-146 → |
गन्धमादनं प्रस्थितेषु पाण्डवेषु मध्येमार्गं महावृष्टेः प्रादुर्भावः ।। 1 ।। तदा पादपाद्यन्तरितैस्तैर्वृष्ट्युपरमे पुनः प्रस्थानम् ।। 2 ।।
वैशंपायन उवाच। | 3-145-1x |
ते शूरा सज्जधन्वानस्तूणवन्तः समार्गणाः। बद्धगोधाङ्गुलित्राणाः खङ्गवन्तोऽमितौजसः ।। | 3-145-1a 3-145-1b |
परिगृह्य द्विजश्रेष्ठाञ्ज्येष्ठाः सर्वधनुष्मताम्। पञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ।। | 3-145-2a 3-145-2b |
सरांसि सरितश्चैव पर्वतांश्च वनानि च। वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ।। | 3-145-3a 3-145-3b |
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान्। आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः ।। | 3-145-4a 3-145-4b |
चेरुरुच्चावचाकारान्देशान्विषमसंकटान्। पश्यन्तो मृगजातानि बहूनि विविधानि च ।। | 3-145-5a 3-145-5b |
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्। विविशुस्ते महात्मानः किन्नराचरितं गिरिम् ।। | 3-145-6a 3-145-6b |
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्। चणअडवातं महद्वर्षं प्रादुरासीद्विशांपते ।। | 3-145-7a 3-145-7b |
ततो रेणुः समुद्भूतः सपत्रबहुलो महान्। पृथिवीं चान्तरिक्षं च द्यां चैव सहसाऽवृणोत् ।। | 3-145-8a 3-145-8b |
न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना। न चापि शेकुस्तत्कर्तुमन्योन्यस्याभिभाषणम् ।। | 3-145-9a 3-145-9b |
न चापश्यंस्ततोऽन्योन्यं तमसाऽऽवृतचक्षुषः। आकृष्यमाणा वातेन साश्मचूर्णेन भारत ।। | 3-145-10a 3-145-10b |
द्रुमाणां वातरुग्णआनां पततां भूतलेऽनिशम्। अन्येषां च महीजानां शब्दः समभवन्महान् ।। | 3-145-11a 3-145-11b |
द्यौः स्वित्पतति किं भूमिर्दीर्यते पर्वतोनु किम्। इति ते मेनिरे सर्वेपवनेन विमोहिताः ।। | 3-145-12a 3-145-12b |
ते पथाऽनन्तरांन्वृक्षान्वल्मीकान्विषमाणि च। पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ।। | 3-145-13a 3-145-13b |
ततः कार्मुकमादाय भीमसेनो महाबलः। कृष्णामादाय संगम्य तस्थावाश्रित्य पादपम् ।। | 3-145-14a 3-145-14b |
धर्मराजश्च धौम्यश् निलिल्याते महावने। अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ।। | 3-145-15a 3-145-15b |
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः। वृक्षानासाद्य संत्रस्तास्तत्रतत्र निलिल्यिरे ।। | 3-145-16a 3-145-16b |
मन्दीभूते तु पवने तस्मिन्रजसि शाम्यति। महद्भिर्जलधारौर्घर्वर्षमभ्याजगाम ह ।। | 3-145-17a 3-145-17b |
भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव। ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः ।। | 3-145-18a 3-145-18b |
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः। प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ।। | 3-145-19a 3-145-19b |
तत्र सागरगा ह्यापः कीर्यमाणाः समन्ततः। प्रादुरासन्सकलुषाः फेनवत्यो विशांपते ।। | 3-145-20a 3-145-20b |
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्। परिसमस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ।। | 3-145-21a 3-145-21b |
तस्मिन्नुपरते शब्देबाते च समतां गते। गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ।। | 3-145-22a 3-145-22b |
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत। प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम् ।। | 3-145-23a 3-145-23b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ।। 145 ।। |
3-145-13 पथा मार्गेण। अनन्तरान्सन्निहितान्। निलिल्यिरे निलीनाः ।। 3-145-14 संगम्यादायेत्यन्वयः। गत्वा गृहीत्वेत्यर्थः ।। 3-145-19 अश्मसहिता_ करकासहिताः ।। 3-145-21 वारि वहन्त्यो नद्यः ।।
आरण्यकपर्व-144 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-146 |