महाभारतम्-13-अनुशासनपर्व-064
← अनुशासनपर्व-063 | महाभारतम् त्रतयोदशपर्व महाभारतम्-13-अनुशासनपर्व-064 वेदव्यासः |
अनुशासनपर्व-065 → |
भीष्मेण युधिष्ठिरम्प्रति नद्यादितीर्थानां तत्तन्नामविशेषनिर्देशेन तत्सेवनफलप्रतिपादकगौतमाङ्गिरःसंवादानुवादः।। 1 ।।
युधिष्ठिर उवाच।
तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ।
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः। 13-64-1
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ।
वक्तुमर्हसि मे तानि श्रोताऽस्मि नियतं प्रभो।। 13-64-2
भीष्म उवाच।
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते।
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम्।। 13-64-3
तपोवनगतं विप्रमभिगम्य महामुनिम्।
पप्रच्छाङ्गिरसं धीरं गौतमः संशितव्रतः। 13-64-4
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः।
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने।। 13-64-5
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने।
प्रेत्यभावे महाप्राज्ञ तद्यथाऽस्ति तथा वद।। 13-64-6
अङ्गिरा उवाच।
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम्।
विगाह्य वै निराहारो निर्मलो मुनिवद्भवेत्।। 13-64-7
काश्मीरमण्डले नद्यो याः पतन्ति महास्वनम्।
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात्।। 13-64-8
पुष्करं च प्रभासं च नैमिषं सागरोदकम्।
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च।। 13-64-9
विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः।
हिरण्यबिन्दुमालक्ष्य प्रयतश्चाभिवाद्य च।। 13-64-10
कुशेशये च देवत्वं धूयते तस्य किल्बिषम्।
इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ।। 13-64-11
करतोयां कुरुङ्गे च त्रिरात्रोपोषितो नरः।
अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः।। 13-64-12
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते।
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत्।। 13-64-13
अपां ह्रद उपस्पृश्य वाजिमेधफलं लभेत्।
ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः।। 13-64-14
यत्र भागीरथी गङ्गा वहते दिशमुत्तरम्।
महेश्वरस्य त्रिस्थाने यो नरस्त्वभिषिच्यते।। 13-64-15
एकमासं निराहारः स पश्यति हि देवताः।
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन्।। 13-64-16
अर्थान्वै लभते भोक्तुं यो नरो जायते पुनः।
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः।। 13-64-17
एकमासं निराहारः सिद्धिं मासेन स व्रजेत्।
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः।। 13-64-18
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया।
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः।। 13-64-19
देवेषु लभते कीर्तिं यशसा च विराजते।। 13-64-20
देविकायामुपस्पृश्य तथा सुन्दरिकाह्रदे।
अश्विन्यां रूपवर्चस्कं प्रेत्य वै लभते नरः।। 13-64-21
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा।
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः।। 13-64-22
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा।
निवासेऽप्सरसां दिव्ये कामचारी महीयते।। 13-64-23
कालिकाश्रममासाद्य विपाशायां कृतोदकः।
ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भवात्।। 13-64-24
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन्।
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात्।। 13-64-25
महाकूपमुपस्पृश्य त्रिरात्रोपोषितः शुचिः।
त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत्।। 13-64-26
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः।
देवशब्दमवाप्नोति सप्तरात्रोषितः शुचिः।। 13-64-27
शरस्तम्बे कुशस्तम्बे द्रोणशर्मपदे तथा।
अपांप्रपतनासेवी सेव्यते सोप्सरोगणैः।। 13-64-28
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले।
विगाह्य वै निराहारो राजलक्ष्म्या निषेव्यते।। 13-64-29
श्यामायास्त्वाश्रमं गत्वा उषित्वा चाभिषिच्य च।
एकपक्षं निराहारस्त्वन्तर्धानफलं लभेत्।। 13-64-30
कौशिकीं तु समासाद्य वायुभक्षस्त्वलोलुपः।
एकविंशतिरात्रेण स्वर्गमारोहते नरः।। 13-64-31
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति।
विगाहति ह्यनालम्बमन्धकं वै सनातनम्।। 13-64-32
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः।
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः।। 13-64-33
गङ्गाह्रद उपस्पृस्य तथा चैवोत्पलावने।
अश्वमेघमवाप्नोति तत्र मासं कृतोदकः।। 13-64-34
गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ।
दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः।। 13-64-35
यष्टिह्रद उपस्पृश्य चान्नदानाद्विशिष्यते।। 13-64-36
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथाऽपराः।
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ।। 13-64-37
माघमासं प्रयागे तु नियतः संशितव्रतः।
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात्।। 13-64-38
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः।
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः।। 13-64-39
तथा ब्रह्मसरो गत्वा भागीरथ्यां कृतोदकः।
एकमासं निराहारः सोमलोकमवाप्नुयात्।। 13-64-40
उत्पातके नरः स्नात्वा अष्टावक्रे कृतोदकः।
द्वादशाहं निराहारो नरमेधफलं लभेत्।। 13-64-41
अश्मपृष्ठे गयायां च निरविन्दे च पर्वते।
तृतीयां क्रौञ्चपद्यां च ब्रह्महत्यां विशुध्यते 13-64-42
कलविङ्क उपस्पृश्य विद्याच्च बहुशो जलम्।
अग्नेः पुरे नरः स्नात्वा अग्निकन्यापुरे वसेत्।। 13-64-43
करवीरपुरे स्नात्वा विशालायां कृतोदकः।
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते।। 13-64-44
पुनरावर्तनन्दां च महानन्दां च सेव्य वै।
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः।। 13-64-45
उर्वशीं कृत्तिकायोगे गत्वा चैव समाहितः।
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत्।। 13-64-46
रामह्रद उपस्पृश्य विपाशायां कृतोदकः।
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते।। 13-64-47
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः।
एकमासं निराहारो जमदग्निगतिं लभेत्।। 13-64-48
विन्ध्ये संताप्य चात्मानं सत्यसन्धस्त्वहिंसकः।
विनयात्तप आस्थाय मासेनैकेन सिध्यति।। 13-64-49
`मुण्डे ब्रह्मगवा चैव निरिचिं देवपर्वतम्।
देवह्रदमुपस्पृश्य ब्रह्मभूतो विराजते।
कुमारपदमास्थाय मासेनैकेन शुध्यति।।' 13-64-50
नर्मदायामुपस्पृश्य तता शूर्पारकोदके।
एकपक्षं निराहारो राजपुत्रो विधीयते।। 13-64-51
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः।
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति।। 13-64-52
कोकामुखे विगाह्याथ गत्वा चाञ्जलिकाश्रमम्।
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश।। 13-64-53
वैवस्वतस्य सदनं न स गच्छेत्कदाचन।
प्रभासे त्वेकरात्रेण अमावास्यां ममाहितः।
सिद्ध्यते तु महाबाहो यो नरो जायतेऽमरः।। 13-64-55
उज्जानक उपस्पृस्य आर्ष्टिषेणस्य चाश्रमे।
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते।। 13-64-56
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम्।
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः।। 13-64-57
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः।
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः।। 13-64-58
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्।
पुण्डरीकमवाप्नोति उपस्पृश्य नरः शुचिः।। 13-64-59
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च।
कामं जित्वा च वै मासं सर्वयज्ञफलं लभेत्।। 13-64-60
कालोदकं नन्दिकुण्डं तथा चोत्तरमानसम्।
अभ्येत्य योजनशताद्भूणहा विप्रमुच्यते।। 13-64-61
नन्दीश्वरस्य मूर्ति तु दृष्ट्वा मुच्येत किल्बिषैः।
स्वर्गमार्गे नरः स्नात्वा ब्रह्मलोकं स गच्छति।। 13-64-62
विख्यातो हिमवान्पुण्यः शंकरश्वशुरो गिरिः।
आकरः सर्वरत्नानां सिद्धचारणसेवितः।। 13-64-63
दर्शनाद्गमनात्पूतो भवेदनशनादपि।'
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके।। 13-64-64
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः।
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा। 13-64-65
ततः क्रोधं च लोभं च यो जित्वा तीर्थमावसेत्।
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत्।। 13-64-66
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च।
मनसा तानि गम्यानि सर्वतीर्थसमीक्षया।। 13-64-67
इदं मेध्यमिदं पुण्यमिदं स्वर्ग्यमनुत्तमम्।
इदं रहस्यं वेदानामाप्लाव्यं पावनं तथा।। 13-64-68
इदं दद्याद्द्विजातीनां साधोरात्महितस्य च।
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च। 13-64-69
दत्तवान्गौतमस्यैतदङ्गिरा वै महातपाः।
अङ्गिराः समनुज्ञातः काश्यपेन च धीमता।। 13-64-70
महर्षीणामिदं जप्यं पावनानां तथोत्तमम्।
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात्।। 13-64-71
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम्।
उत्तमे च कुले जन्म लभेञ्जातीश्च संस्मरेत्।। 13-64-72
।। इति श्रीमन्महाभारते अनुसासनपर्वणि
दानधर्मपर्वणि चतुःषष्टितमोऽध्यायः।। 64 ।।
13-64-3 तीर्थवंशं तीर्थसंघम्।। 13-64-5 तीर्थेभ्यः तीर्थान्युद्दिश्य।। 13-64-6 प्रेत्यभावे जन्मान्तरे।। 13-64-7 मुनिवद्भवेत् मुनीनां गतिं लभेतेत्यर्थः।। 13-64-8 सिंधुं समुद्रं पतन्तीत्यन्वयः।। 13-64-9 स्वर्गबिन्दुं विगाह्येति थ.ध. पाठः।। 13-64-21 रूपवर्चसोः समाहारः रूपवर्चस्कम्। वर्चस्तेजः।। 13-64-26 त्रसानां जङ्गमानाम्।। 13-64-30 अन्तर्धानफलं गन्धर्वादिभोगम्।। 13-64-35 कालाञ्जने गिराविति थ.ध.पाठः।। 13-64-37 समागच्छन्त्यगावास्यामिति थ.पाठ।। 13-64-43 उर्वशीं उर्वशीतीर्थम्। कृत्तिकायोगे कार्तिक्यां पौर्णमास्याम्।। 13-64-68 इदं तीर्थसेवनम्। मेध्यं यज्ञफलप्रदम्। पुण्यं पापघ्नम्।। 13-64-70 समनुज्ञातः प्रार्थितः। काश्यपेन एतद्विज्ञातुकामेनेति शेषः।।
अनुशासनपर्व-063 | पुटाग्रे अल्लिखितम्। | अनुशासनपर्व-065 |