महाभारतम्-13-अनुशासनपर्व-095
← अनुशासनपर्व-094 | महाभारतम् त्रतयोदशपर्व महाभारतम्-13-अनुशासनपर्व-095 वेदव्यासः |
अनुशासनपर्व-096 → |
भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमहिमानुवर्णनम्।। 1 ।।
युधिष्ठिर उवाच।
यौ च स्यातां चरणेनोपपन्नौ
यौ विद्यया सदृशौ जन्मना च।
ताभ्यां दानं कतरस्मै विशिष्ट-
मयाचमानाय च याचते च।। 13-95-1a
भीष्म उवाच।
श्रेयो वै याचतः पार्थ दानमाहुरयाचते।
अर्हत्तमो वै धृतिमान्कृपणादकृतात्मनः।। 13-95-2a
क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः।
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान्।। 13-95-3a
याच्यमाहुरनीशस्य अतिहारं च भारत।
उद्वेजयन्ति याचन्ति यदा भूतानि दस्युवत्।। 13-95-4a
म्रियते याचमानो वै तमनु म्रियतेऽददत्।
ददत्संजीवयत्येनमात्मानं च युधिष्ठिर।। 13-95-5a
आनृशंस्यं परो धर्मो याचते यत्प्रदीयते।
अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रयेत्।। 13-95-6a
यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः।
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः।। 13-95-7a
तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि।
अपूज्यमानाः कौरव्य पूजार्हास्तु तथाविधाः।। 13-95-8a
पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः।
तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तपः 13-95-9a
ददद्बहुविधान्देयानुपच्छन्दयते च तान्।। 13-95-10a
यदग्निहोत्रे सुहुते सायंप्रातर्भवेत्फलम्।
विद्यावेदव्रतवति तद्दानफलमुच्यते।। 13-95-11a
विद्यावेदव्रतस्नाता न व्यापाश्रयजीविनः।
गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान्।। 13-95-12a
कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः।
निमन्त्रयेथाः कौरव्य कामैश्चान्यैर्द्विजोत्तमान्।। 13-95-13a
अपि ते प्रतिगृह्णीयुः श्रद्धोपेतं युधिष्ठिर।
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः।। 13-95-14a
अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान्।
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः।। 13-95-15a
अन्नानि प्रातःसवने नियता ब्रह्मचारिणः।
ब्राह्मणास्तात भुञ्जानास्त्रेताग्निं प्रीणयन्त्युत।। 13-95-16a
माध्यंदिनं ते सवनं ददतस्तात वर्तताम्।
गोहिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव।। 13-95-17a
तृतीयं सवनं ते वै वैश्वदेवं युधिष्ठिर।
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि।। 13-95-18a
अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः।
दमस्त्यागो धृतिः सत्यं भवत्यवभृथाय ते।। 13-95-19a
एथ ते चिततो यज्ञः श्रद्धापूतः सदक्षिणः।
विशिष्टः सर्वयज्ञानां नित्यं तात प्रवर्तताम्।। 13-95-20a
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि पञ्चनवतितमोऽध्यायः।। 95 ।।
13-95-1 चरणेनाचरणेन।। 13-95-2 याचतः याचकात् तद्दानादिस्यर्थः।। 13-95-3 अनर्थना अयाच्चा। 13-95-4 याच्यं याचनारूपं कर्म। अनीशस्य दरिद्रस्यातिहारं तिरस्कारमाहुः। यदा यतः याचन्ति याचमानानि भूतानि दस्युवल्लोकानुद्वेजयन्ति।। 13-95-10 उपच्छन्दयते उपच्छन्दयेत। ददद्बहुविधान्दायानुपागच्छन्नयाचतामिति झ.पाठः। अयाचतां अयाचमानानाम्। उपागच्छन्समीपमुपसर्पन् दायान्धनादीन्ददत् दाता भवेति शेषः।। 13-95-15 सोद्धरणान्स्वामिन्यागते दास्यामीति याचमानेभ्यो बालकेभ्य आशाप्रदर्शनमुद्धरणं तत्सहितान्।।
अनुशासनपर्व-094 | पुटाग्रे अल्लिखितम्। | अनुशासनपर्व-096 |