महाभारतम्-13-अनुशासनपर्व-090
← अनुशासनपर्व-089 | महाभारतम् त्रतयोदशपर्व महाभारतम्-13-अनुशासनपर्व-090 वेदव्यासः |
अनुशासनपर्व-091 → |
च्यवनेन कुशिकम्प्रति स्वस्य तद्गृहे निवासादेः कारणकथनम्।। 1 ।। तथा तस्य ब्राह्मण्यप्राप्तीच्छावगमेन तत्पौत्रादेस्तल्लाभवरदानम्।। 2 ।।
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि।
तं प्रब्रूदि नरश्रेष्ठ सर्वं सम्पादयामि ते।। 13-90-1a
कुशिक उवाच।
यदि प्रीतोसि भगवंस्ततो मे वद भार्गव।
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम्।। 13-90-2a
शयनं चैकपार्श्वेन दिवसानेकविंशतिम्।
न किञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गवः।। 13-90-3a
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्।
पुनश्च शयनं विप्र दिवसानेकविंशतिम्।। 13-90-4a
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम।
समुपानीय विविधं यद्दग्धं जातवेदसा।। 13-90-5a
निर्याणां च रथेनाशु सहसा यत्कृतं त्वया।
धनानां च विसर्गश्च वनस्यापि च दर्शनम्।। 13-90-6a
प्रासादानां बहूनां च काञ्चनानां महामुने।
मणिविद्रुमपादानां पर्यङ्काणां च दर्शनम्।। 13-90-7a
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्।
अतीव ह्यत्र मुह्यामि चिन्तयानो भृगूद्वह।। 13-90-8a
13-90-8b
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्।
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन।। 13-90-9a
च्यवन उवाच।
शृणु सर्वमशेषेणि यदिदं येन हेतुना।
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव।। 13-90-10a
पितामहस्य वदतः पुरा देवसमागमे।
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु। 13-90-11a
ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः।
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः।। 13-90-12a
ततः स्वकुलरक्षार्थमहं त्वां समुपागतः।
चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव।। 13-90-13a
ततोऽहमागम्य पुरे त्वामवोचं महीपते।
नियमं कञ्चिदारप्सये शुश्रूषा क्रियतामिति।। 13-90-14a
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे।
तेन जीवसि राजर्षे न भवेथास्त्वमन्यथा।। 13-90-15a
एवं बुद्धिं समास्थाय दिवसानेकविंशतिम्।
सुप्तोस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव।। 13-90-16a
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः।
अहं तदैव ते प्रीतो मनसा राजसत्तम।। 13-90-17a
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते।
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो।। 13-90-18a
अन्तर्हितः पुनश्चास्मि पुनरेव च ते गृहे।
योगमास्थाय संसुप्तो दिवसानेकविंशतिम्।। 13-90-19a
क्षुधितौ मामसूयेथां श्रमाद्वेति नराधिप।
एतां बुद्धिं समास्थाय कर्शितौ वां क्षुधा मया।। 13-90-20a
न च तेऽभूत्सुसूक्ष्मोपि मन्युर्मनसि पार्थिव।
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम्।। 13-90-21a
भोजनं च समानाय्य यत्तदादीपितं मया।
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च मे।। 13-90-22a
ततोऽहं रथमारुह्य त्वामवोचं नराधिप।
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा।। 13-90-23a
अविशङ्को नरपते प्रीतोऽहं चापि तेन ह।
धनोत्सर्गेऽपि च कृते न त्वां क्रोधोप्यधर्षयत्।। 13-90-24a
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव।
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप।। 13-90-25a
प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम्।
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं सुदर्शनम्।। 13-90-26a
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव।
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम।। 13-90-27a
निदर्शनार्थं तपसो धर्मस्य च नराधिप।
तत्र नासीत्स्पृहा राजंस्तच्चापि विदितं मया।। 13-90-28a
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते।
अवमत्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव।। 13-90-29a
एवमेतद्यथातत्वं ब्राह्मण्यं तात दुर्लभम्।
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता।। 13-90-30a
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः।। 13-90-31a
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति।
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा।। 13-90-32a
पौत्रस्ते भविता विप्रस्तपस्वी पावकद्युतिः।
जमदग्नौ महाभाग तपसा भावितात्मनि।।' 13-90-33a
यः स देवमनुष्याणआं भयमुत्पादयिष्यति।
त्रयाणामेव लोकानां सत्यमेतद्ब्रवीमि ते।। 13-90-34a
वरं गृहाण राजर्षे यस्ते मनसि वर्तते।
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते।। 13-90-35a
कुशिक उवाच।
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने।
भवत्वेतद्यथार्थत्वं भवेत्पौत्रो ममानघ।। 13-90-36a
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः।
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै।। 13-90-37a
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन।
कश्चासौ भविता बन्धुर्मम कश्चापि सम्मतः।। 13-90-38a
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि नवतितमोऽध्यायः।। 90 ।।
अनुशासनपर्व-089 | पुटाग्रे अल्लिखितम्। | अनुशासनपर्व-091 |