महाभारतम्-13-अनुशासनपर्व-159
← अनुशासनपर्व-158 | महाभारतम् त्रतयोदशपर्व महाभारतम्-13-अनुशासनपर्व-159 वेदव्यासः |
अनुशासनपर्व-160 → |
भीष्मेण युधिष्ठिरंप्रति पुण्यपापकर्मफलभेदस्य पुण्यकर्मणां च तरतमभावस्य च बोधनाय तादृश कर्मविशेषसाध्यफलविशेषप्रतिपादकशक्रगौतमसंवादानुवादः।। 1 ।।
युधिष्ठिर उवाच।
एको लोकस्तु कृतिनां स्वर्गे लोके पितामह।
उत तत्रापि नानात्वं सर्वं ब्रूहि पितामह।। 13-159-1
भीष्म उवाच।
कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः।
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो नराः।। 13-159-2
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गौतमस्य मुनेस्तात संवादं वासवस्य च।। 13-159-3
ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः।
महावने हस्तिशिशुं परिद्यूनममातृकम्।। 13-159-4
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः।
स तु दीर्घेण कालेनि बभूवातिबलो महान्।। 13-159-5
13-159-5b
तं प्रपन्नं महादीर्घं प्रभूतं सर्वतोमदम्।
धृतराष्ट्रस्वरूपेण शक्रो जग्राह हस्तिनम्।। 13-159-6
ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः।
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः।। 13-159-7
मामाहार्षीर्हस्तिनं पुत्रमेनं
दुःखात्पुष्टं धृतराष्ट्रात्कृतज्ञ।
मैत्रं सतां सप्तपदं वदन्ति
मित्रद्रोहो नेह राजन्स्पृसेत्त्वाम्।। 13-159-8
इध्मोदकप्रदातारं शून्यपालं ममाश्रमे।
विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि।। 13-159-9
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम।
न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम्।। 13-159-10
धृतराष्ट्र उवाच।
गवां सहस्रं भवते ददानि
शतानि निष्कस्य ददानि पञ्च।
अन्यच्च वित्तं विविधं महर्षे
किं ब्राह्मणस्येह गजेन कृत्यम्।। 13-159-11
गौतम उवाच।
तवैव गावो हि भवन्तु राज-
न्दास्यः सनिष्का विविधं च रत्नम्।
अन्यच्च वित्तं विविधं नरेन्द्र
किं ब्राह्मणस्येह धनेन कृत्यम्।। 13-159-12
धृतराष्ट्र उवाच।
ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं
राजन्यानां नागकुलानि विप्र।
स्वं वाहनं नयतो नास्त्यधर्मो
नागश्रेष्ठं गौतमास्मान्निवर्त।। 13-159-13
गौतम उवाच।
यत्र प्रेतो नन्दति पुण्यकर्मा
यत्र प्रेतः शोचते पापकर्मा।
वैवस्वतस्य सदने महात्मन-
स्तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-14
धृतराष्ट्र उवाच।
ये निष्क्रिया नास्तिकाः श्रद्धधानाः
पापात्मान इन्द्रियार्थे निसृष्टाः।
यमस्य ते यातनां प्राप्नुवन्ति
परं गन्ता धृतराष्ट्रो न तत्र।। 13-159-15
गौतम उवाच।
वैवस्वती संयमनी जनानां
यत्रानृतं नोच्यते यत्र सत्यम्।
यत्रांबलान्बलिनो घातयन्ति
तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-16
धृतराष्ट्र उवाच।
ज्येष्ठां स्वसारं पितरं मातरं च
गुरून्यथाऽमानयन्तश्चरन्ति।
तथाविधानामेष लोको महर्षे
परं गन्ता धृतराष्ट्रो न तत्र।। 13-159-17
गौतम उवाच।
मन्दाकिनी वैश्रवणस् राज्ञो
महाभागा भोगिजनप्रवेश्या।
गन्धर्वयक्षैरप्सरोभिश्च जुष्टा
तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-18
धृतराष्ट्र उवाच।
अतिथिव्रताः सुव्रता ये जना वै
प्रतिश्रयं ददति ब्राह्मणेभ्यः।
शिष्टाशिनः संविभज्याश्रितेभ्यो
मन्दाकिनीं तेऽपि हि भूषयन्ति।। 13-159-19
गौतम उवाच।
मेरोरग्रे यद्वनं भाति रम्यं
सुपुष्पितं किन्नरीगीतजुष्टम्।
सुदर्शना यत्र जम्बूर्विशाला
तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-20
धृतराष्ट्र उवाच।
ये ब्राह्मणा मृदवः सत्यशीला
बहुश्रुताः सर्वभूताभिरामाः।
येऽधीयते सेतिहासं पुराणं
मध्वाहुत्या जुह्वति वै द्विजेभ्यः।। 13-159-21
तथाविधानामेष लोको महर्षे
परं गन्ता धृतराष्ट्रो न तत्र।
यदन्यत्ते विदितं स्थानमस्ति
तद्ब्रूहि त्वं त्वरितो ह्येष यामि।। 13-159-22
गौतम उवाच।
सुपुष्पितं किंनरराजजुष्टं
प्रियं वनं नन्दनं नारदस्य।
गन्धर्वाणामप्सरसां च सद्म
तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-23
धृतराष्ट्र उवाच।
ये नृत्यगीते कुशला जनाः सदा
देवात्मानः प्रियकामाश्चरन्ति।
तथाविधानामेष लोको महर्षे
परं गन्ता धृतराष्ट्रो न तत्र।। 13-159-24
गौतम उवाच।
यत्रोत्तराः कुरवो भान्ति रम्या
देवैः सार्धं मोदमाना नरेन्द्रः।
यत्राग्नियौनाश्च वसन्ति विप्रा
अब्योनयः पर्वतयोनयश्च।। 13-159-25
यत्र शक्रो वर्षति सर्वकामा-
न्यत्र स्त्रियः कामचारा भवन्ति।
यत्र चेर्ष्या नास्ति नारीनराणां
तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-26
धृतराष्ट्र उवाच।
ये सर्वभूतेषु निवृत्तकामा
अमांसादा न्यस्तदण्डाश्चरन्ति।
न हिंसन्ति स्थावरं जङ्गमानि
भूतानां ये सर्वभूतात्मभूताः।। 13-159-27
निराशिषो निर्ममा वीतरागा
लाभालाभे तुल्यनिन्दाप्रशंसाः।
तथाविधानामेष लोको महर्षे
परं गन्ता धृतराष्ट्रो न तत्र।। 13-159-28
गौतम उवाच।
ततोऽपरे भान्ति लोकाः सनातनाः
सुपुण्यगन्धा विरजा वीतशोकाः।
सोमस्य राज्ञः सदने महात्मन-
स्तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-29
धृतराष्ट्र उवाच।
ये दानशीला न प्रतिगृह्णते सदा
न चाप्यर्थांश्चाददते परेभ्यः।
येषामदेयमर्हते नास्ति किञ्चि-
त्सर्वातिथ्याः सुप्रजना जनाश्च।। 13-159-30
ये क्षन्तारो नाभिजल्पन्ति चान्या-
ञ्शक्ता भूत्वा सततं पुण्यशीलाः।
तथाविधानामेष लोको महर्षे
परं गन्ता धृतराष्ट्रो न तत्र।। 13-159-31
गौतम उवाच।
ततोऽपरे भान्ति लोकाः सनातना
विराजसा वितमस्का विशोकाः।
आदित्यदेवस्य पदं महात्मन-
स्तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-32
धृतराष्ट्र उवाच।
स्वाध्यायशीला गुरुशुश्रूषकाश्च
तपस्विनः सुव्रताः सत्यसन्धाः।
आचार्याणामप्रतिकूलभाषिणो
नित्योत्थिता गुरुकर्मस्वचोद्याः।। 13-159-33
तथाविधानामेष लोको महर्षे
विशुद्धानां भावितो वाग्यतानाम्।
सत्ये स्थितानां वेदविदां महात्मनां
परं गन्ता धृतराष्ट्रो न तत्र।। 13-159-34
गौतम उवाच।
ततोऽपरे भान्ति लोकाः सनातनाः
सुपुण्यगन्धा विरजा विशोकाः।
वरुणस्य राज्ञः सदने महात्मन-
स्तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-35
धृतराष्ट्र उवाच।
चातुर्मास्यैर्ये यजन्ते जनाः सदा
तथेष्टीनां दशशतं प्राप्नुवन्ति।
ये चाग्निहोत्रं जुह्वति श्रद्दधाना
यथान्यायं त्रीणि वर्षाणि विप्राः।। 13-159-36
स्वदारगाणां धर्मकृतां महात्मनां
यथोदिते वर्त्मनि सुस्थितानाम्।
धर्मान्मनामुद्वहतां गतिं तां
परं गन्ता धृतराष्ट्रो न तत्र।। 13-159-37
गौतम उवाच।
इन्द्रस्य लोका विरजा विशोका
दुरन्वयाः काङ्क्षिता मानवानाम्।
तस्याहं ते भवने भूरितेजसो
राजन्निमं हस्तिनं यातयिष्ये।। 13-159-38
धृतराष्ट्र उवाच।
शतवर्षजीवी यश्च शूरो मनुष्यो
वेदाध्यायी यश्च यज्वाऽप्रमत्तः।
एते सर्वे शक्रलोकं व्रजन्ति
परं गन्ता धृतराष्ट्रो न तत्र।। 13-159-39
गौतम उवाच।
प्राजापत्याः सन्ति लोका महान्तो
नाकस्य पृष्ठे पुष्कला वीतशोकाः।
मनीषिणां सर्वलोकाभयानां
तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-40
धृतराष्ट्र उवाच।
ये राजानो राजसूयाभिषिक्ता
धर्मात्मानो रक्षितारः प्रजानाम्।
ये चाश्वमेधावभृथे प्लुताङ्गा-
स्तेषां लोका धृतराष्ट्रो न तत्र।। 13-159-41
गौतम उवाच।
ततःपरं भान्ति लोकाः सनातनाः
सुपुण्यगन्धा विरजा वीतशोकाः।
तस्मिन्नहं दुर्लभे चाप्यधृष्ये
गवां लोके हस्तिनं यातयिष्ये।। 13-159-42
धृतराष्ट्र उवाच।
यो गोसहस्री शतदो महात्मा
यो गोशती दश दद्याच्च शक्त्या।
तथा दशभ्यो यश्च दद्यादिहैकां
पञ्चभ्यो वा दानशीलस्तथैकाम्।। 13-159-43
ये जीर्यन्ते ब्रह्मचर्येणि विप्रा
ब्राह्मीं वाचं परिरक्षन्ति चैव।
मनस्विनस्तीर्थयात्रापरा ये
ते तत्र मोदन्ति ततो विमानैः।। 13-159-44
प्रभासं मानसं तीर्थ पुष्कराणि महत्सरः।
पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम्।। 13-159-45
गां हयशिरश्चैव विपाशां स्थूलवालुकाम्।
तूष्णीं गङ्गां शनैर्गङ्गां महाह्रदमथापि च।। 13-159-46
गोमतीं कौशिकीं पंपां महात्मानो धृतव्रताः।
सरस्वतीदृषद्वत्यौ यमुनां ये तु यान्ति च।। 13-159-47
तत ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः।
प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै।। 13-159-48
गौतम उवाच।
यत्र शीतभयं नास्ति न चोष्णभयमण्वपि।
न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा।। 13-159-49
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा।
न जरामरणे तत्र न पुण्यं न च पातकम्। 13-159-50
तस्मिन्विरजसि स्फीते प्रज्ञासत्वव्यवस्थिते।
स्वयम्भुभवने पुण्ये हस्तिनं यातयिष्यति।। 13-159-51
धृतराष्ट्र उवाच।
निर्मुक्ताः सर्वसङ्गैर्ये कृतात्मानो यतव्रताः।
अध्यात्मयोगसंस्तानैर्युक्ताः स्वर्गगतिं गताः।। 13-159-52
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्विकाः।
न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने।। 13-159-53
गौतम उवाच।
रथन्तरं यत्र बृहच्च गीयते
यत्र वेदिः पुण्यजनैर्वृता च।
यत्रोपयाति हरिभिः सोमपीथी
तत्र त्वाऽहं हस्तिनं यातयिष्ये।। 13-159-54
बुध्यामि त्वां वृत्रहणं शतक्रतुं
व्यतिक्रमन्तं भुवनानि विश्वा।
कच्चिन्न वाचा वृजिनं कदाचि-
दकार्षं ते मनसोऽभिषङ्कात्।। 13-159-55
शतक्रतुरुवाच।
मघवाऽहं लोकपथं प्रजाना-
मन्वागमं परिवादे गजस्य।
तस्माद्भवान्प्रणतं माऽनुशास्तु
ब्रवीषि यत्तत्करवाणि सर्वम्।। 13-159-56
गौतम उवाच।
श्वेतं करेणुं मम पुत्रं हि नागं
प्रियं तु मे षष्टिवर्षं तु बालम्।
यो मे वने वसतोऽभूद्द्वितीय-
स्तमेव मे देहि सुरेन्द्र नागम्।। 13-159-57
शतक्रतुरुवाच।
अयं सुतस्ते द्विजमुख्यनाग
आघ्रायते त्वामभिवीक्षमाणः।
पादौ च ते नासिकयोपजिघ्रते
श्रेयो ममाध्याहि नमश्च तेऽस्तु।। 13-159-58
गौतम उवाच।
शिवं सदैवेह सुरेन्द्र तुभ्यं
ध्यायामि पूजां च सदा प्रयुञ्जे।
ममापि त्वं शक्र शिवं ददस्व
त्वया दत्तं प्रतिगृह्णामि नागम्।। 13-159-59
शतक्रतुरुवाच।
येषां वेदा निहिता वै गुहायां
मनीषिणां सत्यवतां महात्मनाम्।
तेषां त्वयैकेन महात्मनाऽस्मि
बुद्धस्तस्मात्प्रीतिमांस्तेऽहतद्य।। 13-159-60
हन्तैहि ब्राह्मणि क्षिप्रं सह पुत्रेण हस्तिना।
त्वं हि प्राप्तुं शुभाँल्लोकानह्नाय च चिराय च।। 13-159-61
भीष्म उवाच।
स गौतमं पुरुस्कृत्य सह पुत्रेण हस्तिना।
दिवमाचक्रमे वज्री सद्भिः सह दुरासदम्।। 13-159-62
इदं यः शृणुयान्नित्यं यः पठेद्वा जितेन्द्रियः।
स याति ब्रह्मणो लोकं ब्राह्मणो गौतमो यथा।। 13-159-63
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः।। 159 ।।
13-159-2 पुण्यपापयोरिव पुण्यानामवान्तरभेदोऽस्तीत्यर्थः।। 13-159-11 दासीशतं निष्कशतानि पञ्च। इति झ.पाठः।। 13-159-12 ब्राह्मणस्य ब्राह्मणसम्बन्धिना धनेन।। 13-159-14 यातयिष्ये हस्तिनम्। स्वीयं फलं त्वत्तो ग्रहीष्ये इत्यर्थः। हस्तिनं याचयिष्ये इति क.ङ.ध.पाठः।। 13-159-18 यथा शत्रुं मदमत्ताश्चरन्ति इति झ.पाठः।। 13-159-25 अग्नियौना धृष्टद्युम्नवदग्निरेव यौनं योनिर्येषां ते।। 13-159-31 क्षन्तारः क्षमिणः।। 13-159-51 हस्तिनं मे प्रदास्यसि इति झ.पाठः।।
अनुशासनपर्व-158 | पुटाग्रे अल्लिखितम्। | अनुशासनपर्व-160 |