महाभारतम्-12-शांतिपर्व-064
← शांतिपर्व-063 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-064 अज्ञातलेखकः |
शांतिपर्व-065 → |
भीष्मेण युधिष्ठिरंप्रति इन्द्ररूपिहरिणा मांधातारं प्रत्युक्तराजधर्मादिकथनम्।। 1।।
इन्द्र उवाच।
एवंवीर्यः सर्वधर्मोपपन्नः
क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः।
पाल्यो युष्माभिर्लोकपालैरुदारै
र्विपर्यये स्यादभवः प्रजानाम्। 1
भूसस्कारं धर्मसंस्कारयोग्यं
दीक्षाचर्यां पालनं च प्रजानाम्।
विद्याद्राज्ञः सर्वभूतानुकम्पा
देहत्यागं चाहवे धर्ममग्र्यम्।। 2
त्यागं श्रेष्ठं मुनयो वै वदन्ति
सर्वश्रेष्ठं यच्छरीरं त्यजन्ति।
नित्यं व्यक्तं राजधर्मेषु सर्वे
प्रत्यक्षं ते भूमिपाला यथैते।। 3
बहुश्रुत्या गुरुशुश्रूषया वा
परस्पराः संहननाद्वदन्ति।
नित्यं धर्मं क्षत्रियो ब्रह्मचारी।
चरेदेको ह्याश्रमं धर्मकामः।। 4
सामान्यार्थे व्यवहारे प्रवृत्ते
प्रियाप्रिये वर्जयन्नैव यत्नात्।
चातुर्वर्ण्यं स्थापनात्पालनाच्च
तैस्तैर्योगैर्नियमैरौषधैश्च।। 5
सर्वोद्योगैराश्रमं धर्ममाहुः
क्षात्रं श्रेष्ठं सर्वधर्मोपपन्नम्।
वंस्वं धर्मं येन चरन्ति वर्णा
स्तांस्तान्धर्मानन्यथार्थान्वदन्ति।। 6
नेर्मर्यादान्नित्यमर्थे निविष्टा
नाहुस्तान्वै पशुभूतान्मनुष्यान्।
यथा नीतिं गमयत्यर्थयोगा
च्छ्रेयस्तस्मादाश्रमात्क्षत्रधर्मः।। 7
त्रैविद्यानां या गतिर्ब्राह्मणानां
ये चैवोक्ताः स्वाश्रमा ब्राह्मणानाम्।
एतत्कर्म क्षत्रियस्याहुरग्र्य
मन्यत्कुर्वञ्छूद्रवच्छस्त्रवध्यः।। 8
चातुराश्रम्यधर्माश्च वेदवादाश्च पार्थिव।
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कदाचन।। 9
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते।
कर्मणा वर्धते धर्मो यथा धर्मस्तथैव सः।। 10
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति।
कर्म स्वमप्रयुञ्जानमविश्वास्यं हि तं विदुः।। 11
एते वर्णाः सर्वधर्मैश्च हीना
उत्क्रष्टव्याः क्षत्रियैरेव धर्माः।
तस्माच्छ्रेष्ठा राजधर्मा न चान्ये
वीर्यश्रेष्ठा राजधर्मा मता मे।। 12
मान्धातोवाच।
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः।
शकास्तुषाराः कङ्काश्च पल्लवाश्चान्ध्रमद्रकाः।। 13
उष्ट्राः पुलिन्दा आरट्टाः काचा म्लेच्छाश्च सर्वशः।
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः।। 14
कथं धर्मांश्चरिष्यन्ति सर्वे विषयवासिनः।
मद्विधैश्च कथं स्थाप्याः सर्वे वै दस्युजीविनः।। 15
एतदिच्छाम्यहं श्रोतुं मघवंस्तद्ब्रवीहि मे।
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर।। 16
इन्द्र उवाच।
मातापित्रोर्हि शुश्रूषा कर्तव्या सर्वदस्युभिः।
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम्।। 17
भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः।
देशधर्मक्रियाश्चैव तेषां धर्मो विधीयते।। 18
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च।
दानानि च यथाकालं दातव्यानि द्विजातिषु।। 19
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम्।
भरणं पुत्रदाराणां शौचमद्रोह एव च।। 20
दक्षिणा सर्वयज्ञानां दातव्या धर्ममिच्छता।
पाकयज्ञा महार्थाश्च दातव्याः सर्वदस्युभिः।। 21
एतान्येवंप्रकाराणि विहितानि पुराऽनघ।
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव।। 22
मान्धातोवाच।
दृश्यन्ते मानुषे लोके सर्ववर्णेषु दस्यवः।
लिङ्गान्तरे वर्तमाना आश्रमेषु तथैव च।। 23
इन्द्र उवाच।
विनष्टायां दण्डनीत्यां राजधर्मे विनाकृते।
संप्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ।। 24
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा।
आश्रमाणां विकल्पाश्च वृत्तेऽस्मिन्वैकृते युगे।। 25
अशृण्वानाः पुराणानां धर्माणां शतशो नराः।
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः।। 26
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः।
तदा धर्मो न चलते संभूतः शाश्वतः पुरा।। 27
सर्वलोकगुरुं चैव राजानं योऽवमन्यते।
न तस्य दत्तं न कृतं न श्रुतं फलति क्वचित्।। 28
मानुषाणामधिपतिं देवभूतं महाद्युतिम्।
देवाश्च बहुमन्यन्ते धर्मकामं नरेश्वरम्।। 29
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत्।
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति।। 30
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम्।
स मे मान्यश्च पूज्यश्च स च क्षत्रे प्रतिष्ठितः।। 31
भीष्म उवाच।
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः।
जगाम भवनं विष्णुरक्षरं शाश्वतं परम्।। 32
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ।
कः क्षत्रमतिवर्तेत चेतनावान्बहुश्रुतः।। 33
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च।
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः।। 34
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे।
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ।। 35
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि चतुःषष्टितमोऽध्यायः।। 64।।
2 भूसंस्कारं भुवः संपन्नसस्यत्वम्। राजसंस्कारयोगमिति झ. पाठः। तत्र राजसंस्कारो तजसूयादिरर्थः।। 5 नियमैरौरसैश्चेति झ.पाठः। तत्र औरसैः पौरुषैः इत्यर्थः।। 6 येन क्षात्रधर्मेण। अन्यथार्थान्निष्प्रयोजनान् वदन्ति।। 7 निर्मर्यादे नित्यमर्थे विनष्टे न र्मचिन्ता पशुभूते मनुष्ये। इति ट. ड. थ. पाठः।। 8 या गतिर्यज्ञादिः आश्रमधर्मश्च एतद्द्वयम्।। 10 कर्मणा त्यज्यते धर्मो यथैव स्यात्तथैव सः इति ट. ड. थ. पाठः।। 12 उत्क्रष्टव्या उत्कर्षं प्रापणीया।। 15 दस्युजीविनो दस्युवृत्तिजीविनः।। 26 परमा गतीः इति झ. पाठः।। 31 गतिं फलम्।। 35 आदिपरायणे पूर्वेषां शरणभूते वर्तस्व। ते त्वाम्।।
शांतिपर्व-063 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-065 |