महाभारतम्-12-शांतिपर्व-350
← शांतिपर्व-349 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-350 वेदव्यासः |
शांतिपर्व-351 → |
वैशंपायनेन जनमेजयंप्रति अर्जुनाय स्वमाहात्म्यख्यापनपूर्वकं श्रीकृष्णकृतनारायणादिस्वनामनिर्वचनानुवादः।। 1।।
जनमेजय उवाच॥
अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् ।
नामभिर्विविधैरेषां निरुक्तं भगवन्मम ॥१॥
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः ।
श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ॥२॥
वैशम्पायन उवाच॥
शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः ।
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥३॥
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः ।
पृष्टवान्केशवं राजन्फल्गुनः परवीरहा ॥४॥
अर्जुन उवाच॥
भगवन्भूतभव्येश सर्वभूतसृगव्यय ।
लोकधाम जगन्नाथ लोकानामभयप्रद ॥५॥
यानि नामानि ते देव कीर्तितानि महर्षिभिः ।
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥६॥
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव ।
न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो ॥७॥
श्रीभगवानुवाच॥
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु ।
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥८॥
साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च ।
बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥९॥
गौणानि तत्र नामानि कर्मजानि च कानिचित् ।
निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ ॥१०॥
कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा ॥१०॥
नमोऽतियशसे तस्मै देहिनां परमात्मने ।
नारायणाय विश्वाय निर्गुणाय गुणात्मने ॥११॥
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः ।
योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ॥१२॥
अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर ।
प्रकृतिः सा परा मह्यं रोदसी योगधारिणी ॥१३॥
ऋता सत्यामराजय्या लोकानामात्मसञ्ज्ञिता ॥१३॥
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् ॥१४॥
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ॥१४॥
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ।
प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण ॥१५॥
तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ॥१५॥
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा ।
क्रोधाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः ॥१६॥
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ ।
तदादेशितपन्थानौ सृष्टिसंहारकारकौ ॥१७॥
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ॥१७॥
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः ।
उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः ॥१८॥
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा ।
नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे ॥१९॥
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे ।
सम्पूजितो भवेत्पार्थ देवो नारायणः प्रभुः ॥२०॥
अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन ।
तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् ॥२१॥
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् ।
आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः ॥२२॥
मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥२२॥
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् ।
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ॥२३॥
रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम् ।
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ॥२४॥
न हि मे केनचिद्देयो वरः पाण्डवनन्दन ।
इति सञ्चिन्त्य मनसा पुराणं विश्वमीश्वरम् ॥२५॥
पुत्रार्थमाराधितवानात्मानमहमात्मना ॥२५॥
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु ।
ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम् ॥२६॥
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः ।
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥२७॥
भविष्यतां वर्ततां च भूतानां चैव भारत ।
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥२८॥
नमस्व हव्यदं विष्णुं तथा शरणदं नम ।
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम ॥२९॥
चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् ।
तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ॥३०॥
अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् ॥३०॥
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः ।
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् ॥३१॥
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।
प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् ॥३२॥
भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः ॥३२॥
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ ।
भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् ॥३३॥
जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत ।
निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च ॥३४॥
नराणामयनं ख्यातमहमेकः सनातनः ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥३५॥
अयनं मम तत्पूर्वमतो नारायणो ह्यहम् ॥३५॥
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः ।
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ॥३६॥
गतिश्च सर्वभूतानां प्रजानां चापि भारत ।
व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ॥३७॥
अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत ।
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः ॥३८॥
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि ।
दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् ॥३९॥
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा ।
ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम् ॥४०॥
ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् ।
पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ॥४१॥
ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः ।
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् ॥४२॥
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत ।
अंशवो ये प्रकाशन्ते मम ते केशसञ्ज्ञिताः ॥४३॥
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः ॥४३॥
स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना ।
उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया ॥४४॥
बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत ॥४४॥
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा ।
उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः ॥४५॥
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् ।
एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥४६॥
मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः ।
तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः ॥४७॥
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् ।
स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥४८॥
वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् ।
प्रयोजयामास तदा नाम गुह्यमिदं मम ॥४९॥
आनुपूर्व्येण विधिना केशवेति पुनः पुनः ।
स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः ॥५०॥
एवं हि वरदं नाम केशवेति ममार्जुन ।
देवानामथ सर्वेषामृषीणां च महात्मनाम् ॥५१॥
अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् ।
अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम् ॥५२॥
अपि हि पुराणे भवति
एकयोन्यात्मकावग्नीषोमौ
देवाश्चाग्निमुखा इति
एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति ॥५३॥ 12.341.51
जनमेजय उवाच। | 12-350-1x |
अस्तौषीद्वैदिकैर्व्यासः सशिष्यो मधुसूदनम्। नामभिर्विविधैरेषां निरुक्तं भगवन्मम।। | 12-350-1a 12-350-1b |
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरः। श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः।। | 12-350-2a 12-350-2b |
वैशंपायन उवाच। | 12-350-3x |
शृणु राजन्यथाचष्ट फल्गुनस्य हरिः प्रभुः। प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम्।। | 12-350-3a 12-350-3b |
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः। पृष्टवान्केशवं राजन्फगुनः परवीरहा।। | 12-350-4a 12-350-4b |
अर्जुन उवाच। | 12-350-5x |
भगवन्भूतभव्येश सर्वभूतसृगव्यय। लोकधाम जगन्नाथ लोकानामभयप्रद।। | 12-350-5a 12-350-5b |
यानि नामानि ते देव कीर्तितानि महर्षिभिः। वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः।। | 12-350-6a 12-350-6b |
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव। न ह्यन्यो वर्णयेन्नाम्नां निरुक्तं त्वामृते प्रभो।। | 12-350-7a 12-350-7b |
श्रीभगवानुवाच। | 12-350-8x |
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु। पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन।। | 12-350-8a 12-350-8b |
साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च। बहूनि मम नामानि कीर्तितानि महर्षिभिः।। | 12-350-9a 12-350-9b |
गौणानि तत्र नामानि कर्मजानि च कानिचित्। निरुक्तं कर्मजानां त्वं शृणुष्व प्रयतोऽनघ।। | 12-350-10a 12-350-10b |
कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा। नमोऽतियशमे तस्मै देवानां परमात्मने।। | 12-350-11a 12-350-11b |
नारायणाय विश्वाय निर्गुणाय गुणात्मने। यस्य प्रसादजो ब्रह्मा रुद्रस्य क्रोधसंभवः।। | 12-350-12a 12-350-12b |
योसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च। अष्टादशगुणं यत्तत्सत्वं सत्ववतांवर।। | 12-350-13a 12-350-13b |
प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी। ऋता सत्याऽमरा जय्या लोकानामात्मसंज्ञिता।। | 12-350-14a 12-350-14b |
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः। तपो यज्ञश्च यष्टा च पुराणः पुरुषो विराट्।। | 12-350-15a 12-350-15b |
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः। ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः।। | 12-350-16a 12-350-16b |
प्रसादात्प्रादुरभवत्पद्ममर्कनिभं क्षणात्। तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः।। | 12-350-17a 12-350-17b |
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा। क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः।। | 12-350-18a 12-350-18b |
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ। तदादर्शितपन्थानौ सृष्टिसंहारकारकौ।। | 12-350-19a 12-350-19b |
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ। कपदीं जटिलो मुण्डः श्मशानगृहसेवकः।। | 12-350-20a 12-350-20b |
उग्रव्रतचरो रुद्रो योगी त्रिपुरदारणः। दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा।। | 12-350-21a 12-350-21b |
नारायणात्मको ज्ञेयः पाण्डवेय युगेयुगे। तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे।। | 12-350-22a 12-350-22b |
संपूजितो भवत्पार्थ देवो नारायणः प्रभुः। अहमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन।। | 12-350-23a 12-350-23b |
तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम्। यद्यहं नार्चयेयं वै ईशानं वरदं शिवम्।। | 12-350-24a 12-350-24b |
आत्मानं नार्चयेत्कश्चिदिति मे भावितात्मनः। मया प्रमाणं हि कृतं लोकः समनुवर्तते।। | 12-350-25a 12-350-25b |
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम्। यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु।। | 12-350-26a 12-350-26b |
रुद्रो नारायणश्चैव सत्वमेकं द्विधा कृतम्। लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु।। | 12-350-27a 12-350-27b |
न हि मे केनचिद्देयो वरः पाण्डवनन्दन। इति संचिन्त्य मनसा पुराणं रुद्रमीश्वरम्।। | 12-350-28a 12-350-28b |
पुत्रार्थमाराधितवानहमात्मानमात्मना। न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय च।। | 12-350-29a 12-350-29b |
ऋते आत्मानमेवेति ततो रुद्रं नमाम्यहम्। सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः।। | 12-350-30a 12-350-30b |
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्। भविष्यतां वर्ततां च भूतानां चैव भारत।। | 12-350-31a 12-350-31b |
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः। नमस्व हव्यदं विष्णुं तथा शरणदं नमः। | 12-350-32a 12-350-32b |
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नमः। चतुर्विधा मम जना भक्ता एव हि मे श्रुतम्।। | 12-350-33a 12-350-33b |
तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः। अहमेव गतिस्तेषां निराशीः कर्मकारिणाम्।। | 12-350-34a 12-350-34b |
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः। सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक्।। | 12-350-35a 12-350-35b |
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः। प्रबुद्धचर्याः सेवन्तो मामेवैष्यन्ति यत्फलम्।। | 12-350-36a 12-350-36b |
भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः। त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ।। | 12-350-37a 12-350-37b |
भारावतरणार्थं तु प्रविष्टौ मानुषीं तनुम्। नानीभ्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत।। | 12-350-38a 12-350-38b |
निवृत्तिलक्षणो धर्मस्तथाऽऽभ्यदयिकोऽपि च। नराणामयनं ख्यातमहमेकः सनातनः।। | 12-350-39a 12-350-39b |
आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं मम ताः पूर्वमतो नारायणोस्म्यहम्।। | 12-350-40a 12-350-40b |
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः। सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम्।। | 12-350-41a 12-350-41b |
गतिश्च सर्वभूतानां प्रजनश्चापि भारत। व्याप्ते म रोदसी पार्थ कान्तिश्चाभ्यधिका मम। | 12-350-42a 12-350-42b |
अधिभूतनिविष्टश्च तद्विश्वं चास्मि भारत। क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः।। | 12-350-43a 12-350-43b |
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति ह। दिवं चोर्वी च मध्यं च तस्माद्दामोदरो ह्यहम्।। | 12-350-44a 12-350-44b |
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा। ममैतानि सदा गर्भः पृश्निगर्भस्ततो ह्यहम्।। | 12-350-45a 12-350-45b |
ऋषयः प्राहुरेवं मां त्रितं कूपनिपातितम्। पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम्।। | 12-350-46a 12-350-46b |
ततः स ब्रह्मणः पुत्र आद्यो ह्यृषिवरस्त्रितः। उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात्।। | 12-350-47a 12-350-47b |
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत। अंशवो यत्प्रकाशन्ते ममैते केशसंज्ञिताः।। | 12-350-48a 12-350-48b |
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः। स्वपत्न्यामाहितो गर्भ उचथ्येन महात्मना।। | 12-350-49a 12-350-49b |
उचथ्येऽन्तहिंते चैव कदाचिद्देवताज्ञया। बृहस्पतिरथाविन्दत्तां पत्नीं तस्य धीमतः।। | 12-350-50a 12-350-50b |
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा। उवाच गर्भः कौन्तेय पञ्चभूतगुणात्मकः।। | 12-350-51a 12-350-51b |
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम्। एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च।। | 12-350-52a 12-350-52b |
मैथुनायागतो यस्मात्त्वयाऽहं विनिवारितः। तस्मादन्धो यास्यसि त्वं मच्छापान्नात्र संशयः।। | 12-350-53a 12-350-53b |
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान्। स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा।। | 12-350-54a 12-350-54b |
वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान्। प्रयोजयामास तदा नाम गुह्यमिदं मम।। | 12-350-55a 12-350-55b |
आनुपूर्व्येण विधिना केशवेति पुनः पुनः। स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः।। | 12-350-56a 12-350-56b |
एवं हि वरदं नाम केशवेति ममार्जुन। देवानामथ सर्वेषामृषीणां च महात्मनाम्।। | 12-350-57a 12-350-57b |
अग्निः सोमेन संयुक्त एकयोनिर्मुखं कृतम्। अग्नीषोममयं तस्माज्जगत्कृत्स्नं चराचरम्।। | 12-350-58a 12-350-58b |
अपि हि पुराणे भवति एकयोन्यावग्नीषोमौ देवाश्चाग्निमुखा इति। एकयोनित्वाच्च परस्परं हर्षयन्तो लोकान्धारयन्त इति ।। | 12-350-59a |
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये पञ्चाशदधिकत्रिशततमोऽध्यायः।। 350।। |
12-350-1 निरुक्तं निर्वचनम्।। 12-350-3 गुणकर्मजं गुणः सर्वज्ञत्वादिस्तज्जम्। कर्म जगत्सृष्ट्यादि तज्जम्।। 12-350-14 ऋता सत्या महाराज या लोकानामसंज्ञिता इति थ. पाठः।। 12-350-17 पद्मं पद्मनिभेक्षणेति झ. पाठः।। 12-350-32 स्तव्यः पूज्यश्च नित्यश इति ध. पाठः।। 12-350-33 चतुर्विधाः आर्तो जिज्ञासुरर्थाथां ज्ञानी चेति गीतोक्ताः।। 12-350-40 तेन नारायणोऽस्म्यहमिति ट. ध. पाठः।। 12-350-41 वासयामिजगद्विश्वमिति ध. पाठः।। 12-350-42 सर्वभूतानां ब्रह्मादीनां च भारतेति थ. पाठः।। 12-350-45 पृच्छन्त्येनं जिज्ञासवो धर्मजातमिति वा पृच्छन्त्येनं क्षुधितादय इति वा पृश्निर्वेदोऽत्रादि वा गर्भो गर्भस्थानि।।
शांतिपर्व-349 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-351 |