महाभारतम्-12-शांतिपर्व-159
← शांतिपर्व-158 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-159 वेदव्यासः |
शांतिपर्व-160 → |
भीष्मेण तपोनिरूपणम्।। 1।।
भीष्म उवाच।
सर्वमेतत्तपोमूलं कवयः परिचक्षते।
न ह्यतप्ततपा मूढः क्रियाफलमवाप्नुते।। 12-159-1
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः।
तथैव वेदानृषयस्तपसा प्रतिपेदिरे।। 12-159-2
तपसैव ससर्जान्नं फलमूलानि यानि च।
त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः।।
औषधान्यगदादीनि तिस्त्रो विद्याश्च संस्कृताः।
तपसैव हि सिद्ध्यन्ति तपोमूलं हि साधनम्।। 12-159-4
यद्दुरापं दुराराध्यं दुराधर्षं दुरुत्सहम्।
तत्सर्वं तपसा शक्यं तपो हि दुरतिक्रमम्।
ऐश्वर्यमृषयः प्राप्तास्तपसैव न संशयः।। 12-159-5
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः।
तपसैव सुतप्तेन नरः पापात्प्रमुच्यते।। 12-159-6
तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः।
निवृत्त्या वर्तमानस्य तपो नानशनात्परम्।। 12-159-7
अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः।
एतेभ्यो हि महाराज तपो नानशनात्परम्।। 12-159-8
न दुष्करतरं दानान्नाति मातरमाश्रमः।
त्रैविद्येभ्यः परं नास्ति संन्यासान्नापरं तपः।। 12-159-9
इन्द्रियाणीह रक्षन्ति विप्रर्षिपितृदेवताः।
तस्मादर्थे च धर्मे च तपो नानशनात्परम्।। 12-159-10
ऋषयः पितरो देवा मनुष्या मृगपक्षिणः।
यानि चान्यानि भूतानि स्यावराणि चराणि च।। 12-159-11
तपः परायणाः सर्वे सिध्यन्ति तपसा च ते।
इत्येवं तपसा देवा महत्त्वं प्रतिपेदिरे।। 12-159-12
इमानीष्टविभागानि फलानि तपसः सदा।
तपसा शक्यते प्राप्नुं देवत्वमपि निश्चयः।। 12-159-13
।। इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः।। 159।।
= =
12-159-3 तपसो ह्यानुपूर्व्येण फलमूलानिलाशिनः। इति द. ध. पाठः।। 12-159-9 मातरमतिक्रम्याश्रमो न। सर्वेष्वप्याश्रमेषु माता पालनीयैव। तत्त्यागस्य संन्यासिनोऽप्ययोगात्।। 12-159-13 इमानिं नक्षत्रादीनि। सुकृतां वा एतानि ज्योतीषि यन्नक्षत्राणीश्रुतेः।।
शांतिपर्व-158 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-160 |