महाभारतम्-12-शांतिपर्व-111
← शांतिपर्व-110 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-111 वेदव्यासः |
शांतिपर्व-112 → |
भीष्मेण युधिष्ठिरंप्रति परीक्षायाः सौम्यासौम्यत्वनिर्धारणसाधनताप्रतिपादकव्याघ्रगोमायुचरितकथनम्।। 1।।
युधिष्ठिर उवाच॥
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः |
ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम् ॥१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर ॥२॥
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः |
परहिंसारुचिः क्रूरो बभूव पुरुषाधमः ॥३॥
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् |
गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा ॥४॥
संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः |
न भक्षयति मांसानि परैरुपहृतान्यपि ॥५॥
अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः |
चकार च यथाकाममाहारं पतितैः फलैः ॥६॥
श्मशाने तस्य चावासो गोमायोः संमतोऽभवत् |
जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् ॥७॥
तस्य शौचममृष्यन्तः सर्वे ते सहजातयः |
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः ॥८॥
वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि |
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः ॥९॥
तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम् |
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते ॥१०॥
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः |
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ॥११॥
अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम् |
प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः ॥१२॥
श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम् |
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् ॥१३॥
आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे |
किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् ॥१४॥
भवन्तः सर्वलोभेन केवलं भक्षणे रताः |
अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः ॥१५॥
अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् |
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये ॥१६॥
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः |
कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् ॥१७॥
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह |
व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः ॥१८॥
तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे |
मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति ॥१९॥
अथ सम्पूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः |
गोमायुः प्रश्रितं वाक्यं बभाषे किञ्चिदानतः ॥२०॥
सदृशं मृगराजैतत्तव वाक्यं मदन्तरे |
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् ॥२१॥
न शक्यमनमात्येन महत्त्वमनुशासितुम् |
दुष्टामात्येन वा वीर शरीरपरिपन्थिना ॥२२॥
सहायाननुरक्तांस्तु यतेतानुपसंहितान् |
परस्परमसङ्घुष्टान्विजिगीषूनलोलुपान् ॥२३॥
तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः |
पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन् ॥२४॥
न त्वेवं मम सन्तोषाद्रोचतेऽन्यन्मृगाधिप |
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् ॥२५॥
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः |
ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे ॥२६॥
संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् |
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः ॥२७॥
दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः |
कृती चामोघकर्तासि भाव्यैश्च समलङ्कृतः ॥२८॥
किं तु स्वेनास्मि सन्तुष्टो दुःखा वृत्तिरनुष्ठिता |
सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः ॥२९॥
राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् |
वनचर्या च निःसङ्गा निर्भया निरवग्रहा ॥३०॥
नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि |
न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् ॥३१॥
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् |
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥३२॥
अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः |
उपघातैर्यथा भृत्या दूषिता निधनं गताः ॥३३॥
यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते |
समयं कृतमिच्छामि वर्तितव्यं यथा मयि ॥३४॥
मदीया माननीयास्ते श्रोतव्यं च हितं वचः |
कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा ॥३५॥
न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित् |
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि ॥३६॥
एक एकेन सङ्गम्य रहो ब्रूयां हितं तव |
न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते ॥३७॥
मया संमन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया |
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः ॥३८॥
एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः |
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः ॥३९॥
तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि |
प्राद्विषन्कृतसङ्घाताः पूर्वभृत्या मुहुर्मुहुः ॥४०॥
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च |
दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः ॥४१॥
अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः |
अशक्ताः किञ्चिदादातुं द्रव्यं गोमायुयन्त्रिताः ॥४२॥
व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते |
धनेन महता चैव बुद्धिरस्य विलोभ्यते ॥४३॥
न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह |
अथास्य समयं कृत्वा विनाशाय स्थिताः परे ॥४४॥
ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् |
अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि ॥४५॥
यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम् |
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् ॥४६॥
समयोऽयं कृतस्तेन साचिव्यमुपगच्छता |
नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता ॥४७॥
भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते |
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत ॥४८॥
कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम् |
सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना ॥४९॥
सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम् |
बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् ॥५०॥
छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः |
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते ॥५१॥
इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते |
श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः ॥५२॥
वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः |
धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः ॥५३॥
कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम् ॥५३॥
मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः |
आज्ञापयामास तदा गोमायुर्वध्यतामिति ॥५४॥
शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः |
मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत् ॥५५॥
पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम् |
कर्मसङ्घर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः ॥५६॥
नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका |
शुचेरपि हि युक्तस्य दोष एव निपात्यते ॥५७॥
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः |
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः ॥५८॥
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः ॥५८॥
बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः |
कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि ॥५९॥
शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव |
नेच्छते दीयमानं च साधु तावद्विमृश्यताम् ॥६०॥
असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शिनः |
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥६१॥
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव |
न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ॥६२॥
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् |
परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते ॥६३॥
न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम् |
श्लाघनीया च वर्या च लोके प्रभवतां क्षमा ॥६४॥
स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः |
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् ॥६५॥
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् |
स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति ॥६६॥
तस्मादथारिसङ्घाताद्गोमायोः कश्चिदागतः |
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ॥६७॥
ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः |
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ॥६८॥
अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् |
तेनामर्षेण सन्तप्तः प्रायमासितुमैच्छत ॥६९॥
शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः |
अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् ॥७०॥
तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमम् |
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा ॥७१॥
पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः |
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि ॥७२॥
स्वसन्तुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः |
स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः ॥७३॥
परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः |
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः ॥७४॥
सन्तापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः |
अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः ॥७५॥
अवमानेन युक्तस्य स्थापितस्य च मे पुनः |
कथं यास्यसि विश्वासमहमेष्यामि वा पुनः ॥७६॥
समर्थ इति सङ्गृह्य स्थापयित्वा परीक्ष्य च |
कृतं च समयं भित्त्वा त्वयाहमवमानितः ॥७७॥
प्रथमं यः समाख्यातः शीलवानिति संसदि |
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ॥७८॥
एवं चावमतस्येह विश्वासं किं प्रयास्यसि |
त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति ॥७९॥
शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः |
अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् ॥८०॥
दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते |
भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते ॥८१॥
कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः |
कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः ॥८२॥
सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् |
समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते ॥८३॥
अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् |
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ॥८४॥
एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत् |
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् ॥८५॥
अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् |
गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ ॥८६॥ 12.111.90
12-111-10 विप्रतिपत्तिर्विपरीता बुद्धिः।। 12-111-16 अनुबन्धेषु परिणामेषु।। 12-111-17 अप्रत्ययोऽसंतोषस्तेन कृताम्। अर्थापनयो धर्महानिः।। 12-111-19 यात्रां राजकार्यं गच्छ प्राप्नुहि। परिहार्याश्चानीप्सिताः।। 12-111-20 ज्ञापयामहे सूचयामहे।। 12-111-22 मदन्तरे मन्निमित्तम्।। 12-111-23 न शक्यम्। राज्ञेति शेषः।। 12-111-26 -- ----- -- सन्तोशदिति ट. ड. थ. द. पाठः।। 12-111-27 योक्ष्यति योगं प्राप्स्यति। दुःखशीला भविष्यन्ति।। 12-111-29 स्थूललक्षो बहुप्रदः।। 12-111-31 उपक्रोधो निन्दा तज्जा दोषा उपक्रोशदोषाः सन्ति।। 12-111-33 यत्र निर्वृतिः सुखं तत्खलु सुखं स्वर्गं पश्यामि। निर्वृतिः सुस्थितिरिति वा।। 12-111-34 शिष्टाः कृतदण्डः।। 12-111-46 तस्य गोमायोर्वेश्मनि।। 12-111-47 तस्य गोमायोः। कारणार्थं स्वस्य बन्धविच्छेदो भवत्विति हेतोरित्यर्थः।। 12-111-51 परोक्षस्त्वथ इति ट. द. पाठः।। 12-111-55 विप्रत्ययोऽविश्वासः।। 12-111-56 गोमायोर्गृहे ढौकीतं प्रवेशितं मांसं प्रदर्शयामासुरित्यर्थः। तत्क्षणादेव दर्शितं इति द. पाठः।। 12-111-58 शार्दूलस्य वचः श्रुत्वा इति झ. पाठः।। 12-111-59 संघर्षजैः स्पर्धोत्थैः।। 12-111-60 प्रक्रिया प्रकृष्टं कर्म।। 12-111-66 तलवत् अवाङ्भुस्वकटाहगर्भवत्।। 12-111-68 प्रभवतां प्रभूणाम्।। 12-111-71 गोमायोश्चारः।। 12-111-73 प्रायं मरणार्थमुपवेशनं आसितुं आचरितुम्।। 12-111-76 वक्तुं नार्होस्म्यहं त्वया इति ट. ड. द. पाठः।। 12-111-79 अपरसाश्च अधनाश्चेति अपरसाधनाः। प्रीतिशून्या निर्घनाश्चेत्यर्थः।। 12-111-84 छिद्रानुदर्शिनः इति झ. पाठः।। 12-111-87 पुरुषज्ञानं सुदुःखं दुर्लभं यत एषां नृपाणां चित्तं चलाचलमस्थिरं गम्यते ज्ञायते सुपुरुषज्ञानं दुर्धटमित्यर्थः।। 12-111-88 प्रक्रिया महीकरणं बुद्धेर्लाघवं तुच्छत्वमेव हेतुः।। 12-111-89 प्रसादयित्वा प्रसाद्य।। 12-111-90 अगृह्य अगृहीत्वा।।
शांतिपर्व-110 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-112 |