महाभारतम्-12-शांतिपर्व-137
← शांतिपर्व-136 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-137 वेदव्यासः |
शांतिपर्व-138 → |
भीष्मेण युधिष्ठिरंप्रति अनागतापत्प्रतिविधाने दृष्टान्ततया मत्स्योपाख्यानकथनम्।। 1।।
भीष्म उवाच॥
अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम् ।
दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये ॥१॥
नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः ।
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥२॥
अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः ।
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ॥३॥
कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः ।
निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः ॥४॥
प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे ।
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ॥५॥
इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् ।
शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति ॥६॥
अनागतमनर्थं हि सुनयैर्यः प्रबाधते ।
न स संशयमाप्नोति रोचतां वां व्रजामहे ॥७॥
दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते ।
न तु कार्या त्वरा यावदिति मे निश्चिता मतिः ॥८॥
अथ सम्प्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम् ।
प्राप्ते काले न मे किञ्चिन्न्यायतः परिहास्यते ॥९॥
एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः ।
जगाम स्रोतसैकेन गम्भीरसलिलाशयम् ॥१०॥
ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् ।
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ॥११॥
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये |
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः ॥१२॥
उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः |
प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान् ॥१३॥
ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः ।
सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति ॥१४॥
ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले ।
त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं सम्प्रतिपत्तिमान् ॥१५॥
दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः ।
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ॥१६॥
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते ।
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ॥१७॥
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् ।
स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान् ॥१८॥
अनागतविधानं तु यो नरः कुरुते क्षमम् ।
श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ ॥१९॥
कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः ।
पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च ॥२०॥
पृथिवी देश इत्युक्तः कालः स च न दृश्यते ।
अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा ॥२१॥
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः ।
प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम् ॥२२॥
परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत् ।
देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात् ॥२३॥ 12.137.24
भीष्म उवाच। | 12-137-1x |
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः। द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति।। | 12-137-1a 12-137-1b |
अत्रैव चेदमव्यग्रं शृण्वाख्यानमनुत्तमम्। द्रीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये।। | 12-137-2a 12-137-2b |
नातिगाधे जलस्थाने सुहृदः कुशलास्त्रयः। प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः।। | 12-137-3a 12-137-3b |
तत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथाऽपरः। दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम्।। | 12-137-4a 12-137-4b |
क्रदाचित्तज्जलस्थानं मत्स्यबन्धाः समन्ततः। स्रावयामासुरथो निम्नेषु विविधैर्मुखैः।। | 12-137-5a 12-137-5b |
क्षीयमाणं तद्बुद्ध्वा जलस्थानं भयागमे। अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा।। | 12-137-6a 12-137-6b |
ज्ञयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम्। शीघ्रमन्यत्र गच्छामः पन्था यावन्न शुष्यति।। | 12-137-7a 12-137-7b |
अनागतमनर्थं हि सुनयैर्यः प्रबाधते। स न संशयमाप्नोति तथाऽन्यत्र व्रजामहे।। | 12-137-8a 12-137-8b |
शीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुष्यताम्। न तु कार्या त्वरा तावदिति मे निश्चिता मतिः।। | 12-137-9a 12-137-9b |
अथ संप्रतिपत्तिज्ञस्त्वब्रवीद्दीर्घदर्शिनम्। प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते।। | 12-137-10a 12-137-10b |
एवप्नुक्तो निराक्रामद्दीर्घदर्शी महामतिः। अगाम स्रोतसैकेन गम्भीरं सलिलाशयम्।। | 12-137-11a 12-137-11b |
ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम्। बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः।। | 12-137-12a 12-137-12b |
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये। अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरै----।। | 12-137-13a 12-137-13b |
उद्दानं क्रियमाणं तु मत्स्यानां ------। प्रविश्यान्तरमन्येषामग्रसत्प्रति-------।। | 12-137-14a 12-137-14b |
ग्रस्तमेव तदुद्दानं गृहीत्वा----सः। सर्वानेव च तांस्तत्र ते वि--- इति।। | 12-137-15a 12-137-15b |
ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले। त्वक्त्वा रज्जुं प्रमुक्तोसौ शीघ्रं संप्रतिपत्तिमान्।। | 12-137-16a 12-137-16b |
दीर्घसूत्रस्तु मन्दात्मा हीनेयुद्धिरचेतनः। मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः।। | 12-137-17a 12-137-17b |
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते। स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः।। | 12-137-18a 12-137-18b |
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान्। स हि संशयमाप्नोति यथा संप्रतिपत्तिमान्।। | 12-137-19a 12-137-19b |
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः। द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति।। | 12-137-20a 12-137-20b |
काष्ठा कला मुहूर्ताश्च दिनरात्र्यः क्षणा लवाः। मासाः पक्षाः षडृतवः कालः संवत्सराणि च।। | 12-137-21a 12-137-21b |
पृथिवी देश इत्युक्तः स च कालो न दृश्यते। अभिप्रेतार्थसिद्ध्यर्थं दूरतो न्यायतस्तथा।। | 12-137-22a 12-137-22b |
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः। प्रधानाविति निर्दिष्टौ कामे चाभिमतौ नृणाम्।। | 12-137-23a 12-137-23b |
परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत्। देशकालावभिप्रेतौ तोभ्यां फलमवाप्नुयात्।। | 12-137-24a 12-137-24b |
।। इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः।। 137।। |
12-137-4 तत्रैको दीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः इति झ. पाठः।। 12-137-5 विविधैर्मुखैर्जलनिर्गमनमार्गैः।। 12-137-11 सलिलाशयं जलाशयान्तरम्।। 12-137-14 उद्दानं ग्रथनं अग्रसत् ग्रथनसूत्रं मुखेन जग्राहेत्यर्थः।। 12-137-15 सच मत्स्यः तथैव गृहीतवदेव तत्रास्ते इति शेषः।। 12-137-21 कालस्य देशस्य च सूक्ष्मतां अवहितो जानीयादिति श्लोकद्वयार्थः।। 12-137-23 एतौ देशकालौ।।
शांतिपर्व-136 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-138 |