महाभारतम्-12-शांतिपर्व-275
← शांतिपर्व-274 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-275 वेदव्यासः |
शांतिपर्व-276 → |
भीष्मेण युधिष्ठिरंप्रति गोकपिलसंवादानुवादः।। 1।।
कपिल उवाच।
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः।
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः।। 12-275-1
निर्द्वन्द्वा निर्नमस्कारा निराशीर्बन्धना बुधाः।
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः।। 12-275-2
अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः।
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः।। 12-275-3
येऽशोका नष्टरजसस्तेषां लोकाः सनातनाः।
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम्।। 12-275-4
स्यूमरश्मिरुवाच।
यद्येषां परमा निष्ठा यद्येषां परमा गतिः।
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते।। 12-275-5
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः।
एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः।। 12-275-6
गृहस्थ एव यजते गृहस्थस्तप्यते तपः।
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेव हि।। 12-275-7
प्रजनाद्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुनेः।
प्रजनं चाप्युतान्यत्र न कथंचन विद्यते।। 12-275-8
यास्तु स्युर्बहिरोषध्यो बहिरन्यास्तथाऽद्रिजाः।
ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते।। 12-275-9
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति।
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः।। 12-275-10
निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः।
शमस्योपरमो दृष्टः प्रव्रज्यायामपण्डितैः।। 12-275-11
त्रैलोक्यस्येव हेतुर्हि मर्यादा शाश्वती ध्रुवा।
ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते।। 12-275-12
प्राग्गर्भाघानमन्त्रा हि प्रवर्तन्ते द्विजातिषु।
अविश्वस्तेषु वर्तन्ते विश्वस्तेष्वपि संश्रिताः।। 12-275-13
दाहे पुनः संश्रयणे संश्रिते पात्रभोजने।
दानं गवां पशूनां वा पिण्डानामप्सु मज्जनम्।। 12-275-14
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरस्तथा।
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम्।। 12-275-15
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित्।
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु।। 12-275-16
श्रिया विहीनैरलसैः पण्डितैश्च पलायितम्।
वेदवादापरिज्ञानं सत्याभासमिवानृतम्।। 12-275-17
न वै पापैर्हियते कृष्यते वा
यो ब्राह्मणो यजते वेदशास्त्रैः।
ऊर्ध्वं यजन्पशुभिः सार्धमेति
ततः पुनस्तर्कयते न कामान्।। 12-275-18
न वेदानां परिभवान्न शाठ्येन न मायया।
महत्प्राप्नोति पुरुषो ब्राह्मणो ब्रह्म विन्दति।। 12-275-19
कपिल उवाच।
दर्शश्च पूर्णमासश्च अग्निहोत्रं च धीमताम्।
चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः।। 12-275-20
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंज्ञिताः।
ब्राह्मणा एव ते देवांस्तर्पन्त्यमृतैरिव।। 12-275-21
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः।। 12-275-22
चतुर्द्वारं पुरुष चर्तुर्मुखं
चतुर्मुखो नैनमुपैति निन्दा।
बाहुभ्यां पद्भ्यामुदरादुपस्था
त्तेषां द्वारं द्वारपालो बुभूषेत्।। 12-275-23
नाक्षैर्दीव्येन्नाददीतान्यवित्तं
न वाऽयोनीयस्य शृतं प्रगृह्णात्।
क्रुद्धो न चैव प्रहरेत धीमां
स्तथास्य तत्पाणिपादं सुगुप्तम्।। 12-275-24
नाक्रोशमृच्छेन्न वृथा वदेच्च
न पैशुनं जनवादं च कुर्यात्।
सत्यव्रतो मितभाषोऽप्रमत्त
स्तथाऽस्य वाग्द्वारमथो सुगुप्तम्।। 12-275-25
नानाशनः स्यान्न महाशनः स्या
न्न लोलुपः साधुभिरागतः स्यात्।
यात्रार्थमाहारमिहाददीत
तथाऽस्य स्याज्जाठरद्वारगुप्तिः।। 12-275-26
न वीरपत्नीं विहरेत नारीं
न चापि नारीमनृतावाह्वयीत।
भार्याव्रतं ह्यात्मनि धारयीत
तथास्योपस्थद्वारगुप्तिर्भवेत्।। 12-275-27
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः।
उपस्थमुदरं पाणी वाक्चतुर्थी स वै द्विजः।। 12-275-28
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत।
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना।। 12-275-29
अनुत्तरीयवसनमनुपस्तीर्णशायिनम्।
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः।। 12-275-30
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः।
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः।। 12-275-31
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या।
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः।। 12-275-32
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः।
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः।। 12-275-33
नान्तरेणानुजानाति वेदानां यत्क्रियाफलम्।
अविज्ञाय च तत्सर्वमन्यद्रोचयते फलम्।। 12-275-34
स्वकर्मभिः संश्रितानां तपो घोरत्वमागमत्।
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्।। 12-275-35
अशक्नुवन्तश्चरितुं किंचिद्धर्मेषु सूत्रितम्।
निरापद्धर्म आचारो ह्यप्रमादो पराभवः।। 12-275-36
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रवाणि च।
विगुणानि च पश्यन्ति तथा नैकानि केन च।। 12-275-37
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चात्र सुदुष्कराः।
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि।। 12-275-38
स्यूमरश्मिरुवाच।
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा।
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे।। 12-275-39
कपिल उवाच।
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः।
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते।। 12-275-40
स्यूमरश्मिरुवाच।
स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः।
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया।। 12-275-41
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे।
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः।
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते।। 12-275-42
1
अन्यत्र तर्कशास्त्रेभ्य आगमार्थं यथागमम्।
आगमो वेदवादास्तु तर्कशास्त्राणि चागमः।। 12-275-43
यथाश्रममुपासीत आगमस्तत्र सिध्यति।
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्ययात्।। 12-275-44
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना।
ह्रियमाणा कथ विप्र कुबुद्धींस्तारयिष्यति।। 12-275-45
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भो।
नैव त्यागी न संतुष्टो नाशोको न निरामयः।
नानिर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन।। 12-275-46
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम्।
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु।। 12-275-47
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु।
एकमालम्बमानानां निर्णये किं निरामयम्।
`एतद्ब्रवीतु भगवानुपपन्नोस्य्यधीहि भो।।' 12-275-48
कपिल उवाच।
यद्यदाचरते शास्त्रमर्थ्यं सर्वप्रवृत्तिषु।
यस्य यत्र ह्यनुष्ठानं तस्य तत्तु निरामयम्।। 12-275-49
सर्वं प्रापयति ज्ञानं ये ज्ञानं ह्यनुवर्तते।
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः।। 12-275-50
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरमयाः।
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते।। 12-275-51
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबलाज्जनाः।
कामद्वेषाभिभूतत्वादहंकारवशं गताः।। 12-275-52
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः।
ब्रह्मस्तेना निरारम्भा अपक्वमनसोऽशिवाः।। 12-275-53
नैर्गुण्यमेव पश्यन्ति न गुणाननुयुञ्जते।
तेषां तमः शरीराणां तम एव परायणम्।। 12-275-54
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः।
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः।
नित्यमेवानुवर्तन्ते गुणाः प्रकृतिसंभवाः।। 12-275-55
ये तद्बुद्ध्वाऽनुपश्यन्तः संत्यजेयुः शुभाशुभम्।
परां गतिमभीप्सन्तो यतयः संयमे रताः।। 12-275-56
स्यूमरश्मिरुवाच।
सर्वमेतत्त्वया ब्रह्मञ्शास्त्रतः परिकीर्तितम्।
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः।। 12-275-57
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः।
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः।। 12-275-58
न प्रवृत्तिर्ऋते शास्त्रात्काचिदस्तीति निश्चयः।
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः।। 12-275-59
शास्त्रादपेतं पश्यन्ति बहवोऽत्यर्थमानिनः।
शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे।
[इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु।। 12-275-60
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु।
एकमालम्बमानानां निर्णये सर्वतो दिशम्।। 12-275-61
आनन्त्यं वदमानेन शक्तेनावर्जितात्मना]।
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः।। 12-275-62
शक्यं त्वेकेन युक्तेन कृतकृत्येन सर्वशः।
पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतो दिशम्।। 12-275-63
नात्यन्तं वन्दमानेन शक्तेन विजितात्मना।'
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभापितुम्।
अपेतन्यायशास्त्रेण सर्वलोकविगर्हिणा।। 12-275-64
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम्।
दानमध्ययनं यज्ञः प्रजासंतानमार्जवम्।। 12-275-65
यद्येतदेवं कृत्वाऽपि न विमोक्षोऽस्ति कस्यचित्।
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः।। 12-275-66
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतः क्रिया।
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा।। 12-275-67
तत्त्वं वदस्व मे ब्रह्मन्नुपसन्नोस्म्यधीहि भोः।
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम्।। 12-275-68
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चसप्तत्यधिकद्विशततमोऽध्यायः।। 275।।
12-275-11 श्रमस्योपरमो दृष्ट इति ट.थ. पाठः।। 12-275-14 दानं पुनः संग्रहणं संश्रिता पात्रभोजनम्। इति ट. थ. पाठः। दाहः पुनः संचयनं संस्थितः पात्रभोजनमिति ध. पाठः।। 12-275-19 ब्रह्म ब्रह्मणि विन्दतीति ट. थ. पाठः।। 12-275-20 तेषु धर्मः सनातन इति झ. पाठः।। 12-275-22 सर्वज्ञानेन पश्यतः इति ट. पाठः।। 12-275-24 नायोनिजस्येह स्रुवं प्रगृह्णादिति ट.थ. पाठः। नायोनिजस्यैव सुतां प्रगृह्णादिति ध. पाठः।। 12-275-26 साधुरनागसः स्यादिति ट. थ. पाठः।। 12-275-27 धैर्यव्रतं ह्यात्मनीति ध. पाठः।। 12-275-39 यथा च देवब्राह्मण्यमत्यागश्च कलौ यथेति थ. पाठः।। 12-275-44 यथागममुपासीतेति थ. पाठः यथाकाममुपासीतेति ध.पाठः।।
शांतिपर्व-274 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-276 |