महाभारतम्-12-शांतिपर्व-336
← शांतिपर्व-335 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-336 वेदव्यासः |
शांतिपर्व-337 → |
वैशंपायनादिशिष्यप्रवासेन विमनसं व्यासंप्रति नारदस्यागमनम्।। 1।।
भीष्म उवाच॥
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः ।
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा ॥१॥
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् ।
तन्नो मनसि संरूढं करिष्यामस्तथा च तत् ॥२॥
अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः ।
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः ॥३॥
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने ।
वेदाननेकधा कर्तुं यदि ते रुचितं विभो ॥४॥
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः ।
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् ॥५॥
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते ।
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम् ॥६॥
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना ।
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च ॥७॥
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् ।
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा ॥८॥
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः ।
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः ॥९॥
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् ।
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥१०॥
तं ददर्शाश्रमपदे नारदः सुमहातपाः ।
अथैनमब्रवीत्काले मधुराक्षरया गिरा ॥११॥
भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ।
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव ॥१२॥
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते ।
रजसा तमसा चैव सोमः सोपप्लवो यथा ॥१३॥
न भ्राजते यथापूर्वं निषादानामिवालयः ।
देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः ॥१४॥
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः ।
विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा ॥१५॥
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् ।
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण ॥१६॥
एतन्मनोनुकूलं मे भवानर्हति भाषितुम् ।
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली ॥१७॥
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् ।
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते ॥१८॥
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर ।
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः ॥१९॥
नारद उवाच॥
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् ॥२०॥
अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता ।
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः ॥२१॥
भीष्म उवाच॥
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् ।
तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः ॥२२॥
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ।
स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव ॥२३॥
तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः ।
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः ॥२४॥
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ।
शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥२५॥
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् ।
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् ॥२६॥
शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः ।
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् ॥२७॥
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः ।
तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः ॥२८॥
आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना ।
न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय ॥२९॥
देवयानचरो विष्णोः पितृयानश्च तामसः ।
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः ॥३०॥
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः ।
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥३१॥
तत्र देवगणाः साध्याः समभूवन्महाबलाः ।
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥३२॥
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः ।
अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम् ॥३३॥
अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः ।
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् ॥३४॥
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् ।
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥३५॥
प्रेरयत्यभ्रसङ्घातान्धूमजांश्चोष्मजांश्च यः ।
प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ॥३६॥
अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः ।
आवहो नाम संवाति द्वितीयः श्वसनो नदन् ॥३७॥
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ।
अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः ॥३८॥
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् ।
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः ॥३९॥
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति ।
उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः ॥४०॥
समुह्यमाना बहुधा येन नीलाः पृथग्घनाः ।
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ॥४१॥
संहता येन चाविद्धा भवन्ति नदतां नदाः ।
रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च ॥४२॥
योऽसौ वहति देवानां विमानानि विहायसा ।
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥४३॥
येन वेगवता रुग्णा रूक्षेणारुजता रसान् ।
वायुना विहता मेघा न भवन्ति बलाहकाः ॥४४॥
दारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान् ।
पञ्चमः स महावेगो विवहो नाम मारुतः ॥४५॥
यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा ।
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति ॥४६॥
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ।
योनिरंशुसहस्रस्य येन भाति वसुन्धरा ॥४७॥
यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च ।
षष्ठः परिवहो नाम स वायुर्जवतां वरः ॥४८॥
सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति ।
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ ॥४९॥
सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया ।
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥५०॥
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे ।
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ॥५१॥
येन सृष्टः पराभूतो यात्येव न निवर्तते ।
परावहो नाम परो वायुः स दुरतिक्रमः ॥५२॥
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः ।
अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः ॥५३॥
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ।
कम्पितः सहसा तेन वायुनाभिप्रवायता ॥५४॥
विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः ।
सहसोदीर्यते तात जगत्प्रव्यथते तदा ॥५५॥
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति ।
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् ॥५६॥
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ।
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा ॥५७॥
भीष्म उवाच। | 12-336-1x |
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः। अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा।। | 12-336-1a 12-336-1b |
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम्। तन्नो मनसि संरूढं करिष्यामस्तथा च तत्।। | 12-336-2a 12-336-2b |
अन्योन्यं संविभाष्यैवं सुप्रीतमनसः पुनः। विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः।। | 12-336-3a 12-336-3b |
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने। वेदाननेकधा कर्तुं यदि ते रुचितं प्रभो।। | 12-336-4a 12-336-4b |
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः। प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्।। | 12-336-5a 12-336-5b |
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते। अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्।। | 12-336-6a 12-336-6b |
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना। जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाऽभिवाद्य च।। | 12-336-7a 12-336-7b |
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्। संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा।। | 12-336-8a 12-336-8b |
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः। याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः।। | 12-336-9a 12-336-9b |
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्। तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्।। | 12-336-10a 12-336-10b |
`एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा। हिमवन्तमगं द्रष्टुं सिद्धचारणसेवितम्।।' | 12-336-11a 12-336-11b |
तं ददर्शाश्रमपदे नारदः सुमहातपाः। | 12-336-12a 12-336-12b |
भोभो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते। | 12-336-13a 12-336-13b |
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते। | 12-336-14a 12-336-14b |
न भ्राजते यथापूर्वं निषादानामिवालयः। | 12-336-15a 12-336-15b |
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः। | 12-336-16a 12-336-16b |
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्। | 12-336-17a 12-336-17b |
एतन्मनोऽनुकूलं मे भवानर्हसि भाषितुम्। | 12-336-18a 12-336-18b |
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम्। | 12-336-19a 12-336-19b |
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर। | 12-336-20a 12-336-20b |
नारद उवाच। | 12-336-21x |
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्। | 12-336-21a 12-336-21b |
अधीयतां भवान्वेदान्सार्घं पुत्रेण धीमता। | 12-336-22a 12-336-22b |
भीष्म उवाच। | 12-336-23x |
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्। | 12-336-23a 12-336-23b |
`* उवाच च महाप्राज्ञं नारदं पुनरेव हि।। | 12-336-24a |
मलं पृथिव्या बाह्लीका इत्युक्तमधुना त्वया। कीदृशाश्चैव वाह्लीका ब्रूहि मे वदतां वर।। | 12-336-25a 12-336-25b |
नारद उवाच। | 12-336-26x |
अस्यां पृथिव्यां चत्वारो देशाः पापजनैर्वृताः। युगन्धरस्तु प्रथमस्तथा भूतिलकः स्मृतः।। | 12-336-26a 12-336-26b |
अच्युतच्छल इत्युक्तस्तृतीयः पारकृत्तमः। चतुर्थस्तु महापापो बाह्लीक इति संज्ञितः।। | 12-336-27a 12-336-27b |
भृगोष्ट्रगर्दभक्षीरं पिबन्त्यस्य युगन्धरे। एवकर्णास्तु दृश्यन्ते जना वै ह्यच्युतस्थले।। | 12-336-28a 12-336-28b |
मेहन्ति च मलं पापा विसृजन्ति जलेषु वै। नित्यं भूतिलकेत्यन्नं तज्जलं च पिबन्ति च।। | 12-336-29a 12-336-29b |
हरिबाह्यास्तु बाहीका न स्मरन्ति हरिं क्वचित्। ऐहलौकिकमोक्षं ते मांसशोणितवर्धनाः। वृथा जाता भविष्यन्ति बाह्लीका इति विश्रुताः।। | 12-336-30a 12-336-30b 12-336-30c |
पुष्कराहारनिरताः पिशाचा यदभाषते। मुसुण्ठीं परिगृह्योग्रां तच्छृणुष्व महामुने।। | 12-336-31a 12-336-31b |
ब्राह्मणीं बहुपुत्रां तां पुष्करे स्नातुमागताम्। युगन्धरे पयः पीत्वा ह्युचिता ह्यच्युतस्थले।। | 12-336-32a 12-336-32b |
तथा भूतिलके स्नात्वा बाह्लीकांश्च निरीक्ष्य वै। आगताऽसि तथा स्नातुं कथं स्वर्गं न गच्छसि।। | 12-336-33a 12-336-33b |
इत्युक्त्वा ब्राह्मणीभाण्डं पोथयित्वा मुसुण्ठिना। उवाच क्रोधताम्राक्षी पिशाची तीर्थपालिका।। | 12-336-34a 12-336-34b |
एतत्तु ते दिवावृत्तं रात्रौ वृत्तमथान्यथा। गच्छ बाह्लीकसंसर्गादशुचित्वं न संशयः।। | 12-336-35a 12-336-35b |
यद्द्विषन्ति महात्मानं न स्मरन्ति जनार्दनम्। न तेषां पुण्यतीर्थेषु गतिः संसर्गिणामपि।। | 12-336-36a 12-336-36b |
उद्युक्ता ब्राह्मणी भीता प्रतियाता सुतैः सह। स्वदेहस्था जजापैवं सपुत्रा ध्यानतत्परा।। | 12-336-37a 12-336-37b |
अनन्तस्य हरेः शुद्धं नाम वै द्वादशाक्षरम्। वत्सरत्रितये पूर्णे ब्राह्मणी पुनरागता।। | 12-336-38a 12-336-38b |
सपुत्रा पुष्करद्वारं पिशाच्याह तथागतम्। नमस्ते ब्राह्मणि शुभे पूताऽहं तव दर्शनात्।। | 12-336-39a 12-336-39b |
कुरु तीर्थाभिषेकं च सपुत्रा पापवर्जिता। हरेर्नाम्ना च मां साध्वी जलेन स्प्रष्टुमर्हसि।। | 12-336-40a 12-336-40b |
इत्युक्ता ब्राह्मणी हृष्टा पुत्रैः सह शुभव्रता। जलेन प्रोक्षयामास द्वादशाक्षरसंयुतम्।। | 12-336-41a 12-336-41b |
तत्क्षणादभवच्छुद्धा पिशाची दिव्यरूपिणी। अप्सरा ह्यभवद्दिव्या गता स्वर्लोकमुत्तभम्।। | 12-336-42a 12-336-42b |
ब्राह्मणी चैव कालेन वासुदेवपरायणा। सपुत्रा चागता स्थानमच्युतस्य शुभं परम्।। | 12-336-43a 12-336-43b |
एतत्ते कथितं विद्वन्मुने कालोऽयमागतः।। | 12-336-44a |
गमिष्येऽहं महाप्राज्ञ आगमिष्यामि वै पुनः। इत्युक्त्वा स जगामाथ नारदो वदतांवरः।। | 12-336-45a 12-336-45b |
द्वैपायनस्तु भगवांस्तच्छ्रुत्वा मुनिसत्तमात्।' शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्। स्वरेणोच्चैः सशैक्ष्येण लोकानापूरयन्निव।। | 12-336-46a 12-336-46b 12-336-46c |
तयोरभ्यसतोरेव नानाधर्मप्रवादिनोः। वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः।। | 12-336-47a 12-336-47b |
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्। शुको वारितमात्रस्तु कौतूहलसमन्वितः।। | 12-336-48a 12-336-48b |
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम्। आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम्।। | 12-336-49a 12-336-49b |
शुकस्यैतद्वचः श्रुत्वा व्यासः परमधर्मवित्। अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्।। | 12-336-50a 12-336-50b |
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः। तमसा रजसा चापि त्यक्तः सत्वे व्यवस्थितः।। | 12-336-51a 12-336-51b |
आदर्शे रस्वामिव च्छायां पश्यस्यात्मानमात्मना। न्यस्यात्मनि स्वयं चेतो बुद्ध्या समनुचिन्तय।। | 12-336-52a 12-336-52b |
देवयानपथो विष्णुः पितृयानपथो रविः। द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः।। | 12-336-53a 12-336-53b |
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः। सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः।। | 12-336-54a 12-336-54b |
तत्र देवगणाः साध्याः संबभूवुर्महाबलाः। तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः।। | 12-336-55a 12-336-55b |
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः। अपानश्च ततो ज्ञेयः प्राणश्चापि तताऽपरः।। | 12-336-56a 12-336-56b |
अनपत्योऽभवत्प्राणो दुर्घर्षः शत्रुतापनः। पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम्।। | 12-336-57a 12-336-57b |
प्राणिनां सर्वतो वायुश्रेष्टां वर्तयते पृथक्। प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते।। | 12-336-58a 12-336-58b |
प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः। प्रथमः प्रथमे मार्गे आवहो नाम योऽनिलः।। | 12-336-59a 12-336-59b |
अम्बरे स्नेहमभ्रेभ्यस्तटिद्भ्यश्च महाद्युतिः। प्रवहो नाम संवाति द्वितीयश्च सतोयदः।। | 12-336-60a 12-336-60b |
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः। अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः।। | 12-336-61a 12-336-61b |
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्। उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः।। | 12-336-62a 12-336-62b |
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति। उद्वहो नाम वर्षिष्ठस्तृतीयः स सदागतिः।। | 12-336-63a 12-336-63b |
समुह्यमाना बहुधा येन नीताः पृथग्घनाः। वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः।। | 12-336-64a 12-336-64b |
संहता येन चाविद्धा भवन्ति नदनान्तराः। रक्षणार्थाय संभूता मेघत्वमुपश्यान्ति च।। | 12-336-65a 12-336-65b |
योऽसौ वहति देवानां विमानानि विहायसा। चतुर्थः संवहो नाम वायुः स गिरिमर्दनः।। | 12-336-66a 12-336-66b |
येन वेगवता तूर्णं रूक्षेणारुजता रसान्। वायुना विहता मेघा न भवन्ति बलाहकाः।। | 12-336-67a 12-336-67b |
दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्। पञ्चमः स महावेगो विवहो नाम मारुतः।। | 12-336-68a 12-336-68b |
यस्मिन्पारिप्लवा दिव्या भवन्त्यापो विहायसा। पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति।। | 12-336-69a 12-336-69b |
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः। यो निरंशुः सहस्रस्य येन भाति वसुंधरा।। | 12-336-70a 12-336-70b |
यस्मादाप्यायते सोमो योनिर्दिव्योऽमृतस्य यः। षष्ठः पिरवहो नाम स वायुर्जयतांवरः।। | 12-336-71a 12-336-71b |
सर्वप्राणभृतां प्राणान्योऽनुकाले निरस्यति। यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ।। | 12-336-72a 12-336-72b |
सम्यगन्वीक्षतां बुद्ध्या शान्तयाऽध्यात्मचिन्तकाः। ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते।। | 12-336-73a 12-336-73b |
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे। दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः।। | 12-336-74a 12-336-74b |
येन सृष्टः पराभूतो यात्येव न निवर्तते। परावहो नाम परो वायुः स दुरतिक्रमः।। | 12-336-75a 12-336-75b |
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः। अनारतं ते संवान्ति सर्वगाः सर्वधारिणः।। | 12-336-76a 12-336-76b |
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः। कम्पितः सहसा तेन वायुनाऽतिप्रवायता।। | 12-336-77a 12-336-77b |
विष्णोर्निः श्वासवातोऽयं यदा वेगसमीरितः। सहसोदीर्यते तात जगत्प्रव्यथते तदा।। | 12-336-78a 12-336-78b |
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति। वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्।। | 12-336-79a 12-336-79b |
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः। उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा।। | 12-336-80a 12-336-80b |
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्त्रिंशदधिकत्रिशततमोऽध्यायः।। 336।। |
12-336-2 तदात्वायतिसंहितम् तदात्वे तत्काले आयतौ उत्तरकाले च संहितं सम्यक्हितम्।। 12-336-14 सोपप्लवो राहुग्रस्तः।। 12-336-15 वेदध्वनिनिराकृत इति झ. ट. पाठः।। 12-336-19 तदाज्ञापय देवर्षे इति ड. पाठः।। 12-336-21 पृथिव्या वाहीका इति ड. पाठः।। 12-336-22 अधीयता भवानिति झ. ड. पाठः। रजोभयकृतं तम इति ध. पाठः।। 12-336-47 समुद्रानिलवेगित इति ट.ड. पाठः।। 12-336-49 पितरं प्रह्ल इति ट. ड. पाठः। अपृच्छत्पितरं पुत्र इति ध. पाठः।। 12-336-52 व्यस्यात्मनि स्वयं वेदानिति झ. पाठः।। 12-336-61 अन्तर्देहेषु चोदानं द्वितीयश्च ततोऽनिल इति ध. पाठः।। 12-336-71 सोमः क्षीणः संपूर्णमण्डल इति झ. पाठः।। 12-336-78 विष्णोर्निश्वासनूतोयमिति थ. पाठः।। 12-336-79 ब्रह्मविदो वेदानिति झ. पाठः।।
- 23 तमश्लेकादुपरि 44 तमश्लोकात्पूर्व वर्तमानाः सार्धविशतिश्लोका ध. पुस्तक एव दृश्यन्ते।
शांतिपर्व-335 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-337 |