महाभारतम्-12-शांतिपर्व-349
← शांतिपर्व-348 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-349 वेदव्यासः |
शांतिपर्व-350 → |
श्रीहरेर्थज्ञेष्वग्रभागभाक्त्वप्रकारं पृष्टेन सौतिना तत्कथनाय शौनकादीन्प्रति ब्रह्मादीनां श्वेतद्वीपगमनादिप्रतिपादक व्यासवैशंपायनादिसंवादानुवादः।। 1।।
शौनक उवाच।
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः।
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा।। 12-349-1
निवृत्तं चास्थितो धर्मं क्षेमी भागवतः प्रभुः।
निवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः।। 12-349-2
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः।
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः।। 12-349-3
एतं नः संशयं सौते छिन्धि गुह्यं सनातनम्।
त्वया नारायणकथाः श्रुता वै धर्मसंहिताः।। 12-349-4
सौतिरुवाच।
जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः।
तत्तेऽहं कथयिष्यामि पौराणं शौनकोत्तम।। 12-349-5
श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः।
जनमेजयो महाप्राज्ञो वैशंपायनमब्रवीत्।। 12-349-6
इमे सब्रह्यका लोकाः ससुरासुरमानवाः।
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः।। 12-349-7
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम्।
ये तु मुक्ता भवन्तीह पुण्यपापविवर्जिताः।
ते सहस्रार्चिषं देवं प्रविशन्तीह शुश्रुम्।। 12-349-8
अयं हि दुरनुष्ठेयो मोक्षधर्मः सनातनः।
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन्।। 12-349-9
किंच ब्रह्मा च रुद्रश्च बलभित्प्रभुः।
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च।। 12-349-10
आकाशं जगती चैव ये च शेषा दिवौकसः।
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्।। 12-349-11
ततस्तेनास्थिता मार्गं ध्रुवमक्षरमव्ययम्।
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः।
दोषः कालपरीमाणो महानेष क्रियावताम्।। 12-349-12
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम्।
छिन्धीतिहासकथनात्परं कौतूहलं हि मे।। 12-349-13
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज।
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः।। 12-349-14
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम।
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै।। 12-349-15
वैशंपायन उवाच।
अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर।
नातप्ततपसा ह्येष नावेदविदुषा तथा।
नापुराणविदा चैव शक्यो व्याहर्तुमञ्जसा।। 12-349-16
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः।
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः।। 12-349-17
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः।
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः।। 12-349-18
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान्।
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान्।। 12-349-19
वेदानध्यापयामास महाभारतपञ्चमान्।
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते।। 12-349-20
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत्।
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः।। 12-349-21
ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत।। 12-349-22
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः।
पराशरसुतः श्रीमान्व्यासो वाक्यमथाब्रवीत्।। 12-349-23
मया हि सुमहत्तप्तं तपः परमदारुणम्।
भूतं भव्यं भविष्यं च जानीयामिति सत्तमाः।। 12-349-24
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च।
नारायणप्रसादेन क्षीरोदस्यानुकूलतः।। 12-349-25
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम्।
तच्छृणुध्वं यथान्यायं वक्ष्ये संशयमुत्तमम्।। 12-349-26
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा।
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः।। 12-349-27
महापुरुषसंज्ञां स लभते स्वेन कर्मणा।
तस्मात्प्रसूतमव्यक्तं प्रधानं तं विदुर्बुधाः।। 12-349-28
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्।
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते।। 12-349-29
योसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम्।
योऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः।। 12-349-30
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
अहंकारप्रसूतानि महाभूतानि पञ्चधा।। 12-349-31
महाभूतानि सृष्ट्वैव तान्गुणान्निर्ममे पुनः।
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तश्च ताञ्शृणु।। 12-349-32
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः।
वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा।
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः।। 12-349-33
वेदान्वेदाङ्गसंयुक्तान्यज्ञयज्ञाङ्गसंयुतान्।
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः।। 12-349-34
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्।। 12-349-35
रुद्रो रोषात्मको जातो दशान्यान्सोसृजस्त्वयम्।
एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः।। 12-349-36
ते रुद्राः प्रकृरतिश्चैव सर्वे चैव सुरर्षयः।
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः।। 12-349-37
वयं सृष्टा हि भगवंस्त्वया च प्रभविष्णुना।
येन यस्मिन्नधीकारे वर्तितव्यं पितामह।। 12-349-38
योसौ त्वयाऽभिनिर्दिष्टो ह्यधिकारोऽर्थचिन्तकः।
परिपाल्यः कथं तेन साहंकारेण कर्तृणा।। 12-349-39
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः।
एवमुक्तो महादेवो देवांस्तानिदमब्रवीत्।। 12-349-40
ब्रह्मोवाच।
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः।
ममाप्येषा समुत्पन्ना चिन्ता या भवतामिह।। 12-349-41
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः।
कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च वै।। 12-349-42
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम्।
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम्।। 12-349-43
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा।
क्षीरादस्योत्तरं कूलं जग्मूर्लोकहितार्थिनः।। 12-349-44
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम्।
स महानियमो नाम तपश्चर्या सुदारुणा।। 12-349-45
ऊर्ध्वदृग्बाहवश्चैव एकाग्रमनसोऽभवन्।
एकपादस्थिताः सर्वे काष्ठभूताः समाहिताः।। 12-349-46
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा सुदारुणम्।
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम्।। 12-349-47
वागुवाच।
भोभोः सब्रह्यका देवा ऋषयश्च तपोधनाः।
स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम्।। 12-349-48
विज्ञातं वो मया कार्यं तच्च लोकहितं महत्।
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम्।। 12-349-49
सुतप्तं वस्तपो देवा ममाराधनकाम्यया।
भोक्ष्यथास्य महासत्वास्तपसः फलमुत्तमम्।। 12-349-50
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः।
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः।। 12-349-51
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः।
तत्र श्रेयोऽभिधास्यामि यथाऽधीकारमीश्वराः।। 12-349-52
वैशंपायन उवाच।
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः।
ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः।। 12-349-53
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन्।
तस्मिन्सत्रे सदा ब्रह्मा स्वयं भागमकल्पयत्।। 12-349-54
देवा देवर्षयश्चैव स्वंस्वं भागमकल्पयम्।
ते कार्तयुगधर्माणो भागाः परमसत्कृताः।। 12-349-55
प्राहुरादित्यवर्णं तं पुरुषं तमसः परम्।
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम्।। 12-349-56
ततोऽथ वरदौ देवस्तान्सर्वानमरान्स्थितान्।
अशरीरो बभापेदं वाक्यं स्वस्थो महेश्वरः।। 12-349-57
येन यः कल्पितो भागः स तथा मामुपागतः।
प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्।
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम्।। 12-349-58
यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः।
युगेयुगे भविष्यध्वं प्रवृत्तिफलभागिनः।। 12-349-59
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः।
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान्।। 12-349-60
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ।
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः।। 12-349-61
यूयं लोकान्भावयध्वं यज्ञभागफलोचिताः।
सर्वार्थचिन्तका लोके मयाऽधीकारनिर्मिताः।। 12-349-62
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः।
ताभिराप्यायितबला लोकान्वै धारयिष्यथ।। 12-349-63
यूयं हि भाविता यज्ञैः सर्वयज्ञेषु मानवैः।
मां ततो भावयिष्यध्वमेषा वो भावना मम।। 12-349-64
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह।
एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ।। 12-349-65
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम्।
मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिह।
चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः।। 12-349-66
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः।
वसिष्ठ इति सप्तैते मनसा निर्मिता हि ते।। 12-349-67
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः।
प्रवृत्तिधर्मिणश्चैव प्राजापत्ये च कल्पिताः।। 12-349-68
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः।
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः।। 12-349-69
सनः सनत्सुजातश्च सनकः ससनन्दनः।
सनत्कुमारः कपिलः सप्तमश्च सनातनः।। 12-349-70
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः।
स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः।। 12-349-71
एते योगविदो मुख्याः साङ्ख्यशास्त्रविशारदाः।
आचार्या धर्मशास्त्रेषु मोक्षधर्मप्रवर्तकाः।। 12-349-72
यतोऽहं प्रसृतः पूर्वमव्यक्तात्रिगुणो महान्।
तस्मात्परतरो योसौ क्षेत्रज्ञ इति कल्पितः।। 12-349-73
सोहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः।
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि।। 12-349-74
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोश्नुतेऽवशः।
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः।। 12-349-75
एष माता पिता चैव युष्माकं च पितामहः।
मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः।। 12-349-76
अस्य चैवात्मजो रुद्रो ललाटाद्यः समुत्थितः।
ब्रह्मानुशिष्टो भविता सर्वभूतधरः प्रभुः।। 12-349-77
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि।
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम्।। 12-349-78
प्रदिश्यन्तां च कर्माणि प्राणिनां गतयस्तथा।
परिनिष्ठितकालानि आयूंषीह सुरोत्तमाः।। 12-349-79
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः।
अहिंस्या यज्ञपशवो युगेऽस्मिन्न तदन्यथा।। 12-349-80
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः।
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति।। 12-349-81
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे।
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति।। 12-349-82
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति।
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति।। 12-349-83
ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते।
एकपादस्थितो धर्मो यत्र तत्र भविष्यति।। 12-349-84
देवा ऊचुः।
देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम्।
एकपादस्थिते धर्मे यत्र क्वचन गामिनि।
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः।। 12-349-85
श्रीभगवानुवाच।
गुरवो यत्र पूज्यन्ते साधुवृत्तसमन्विताः।
वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते।।' 12-349-86
यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा।
अहिंसा धर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः।
स वो देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत्।। 12-349-87
व्यास उवाच।
तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा।
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान्।। 12-349-88
गतेषु त्रिदिवौकस्सु ब्रह्मैकः पर्यवस्थितः।
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम्।। 12-349-89
तं देवो दर्शयामास कृत्वा हयशिरो महत्।
साङ्गानावर्तयन्वेदान्कमण्डलुत्रिदण्डधृक्।। 12-349-90
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम्।
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया।। 12-349-91
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः।
स परिष्वज्य देवेन वचनं श्रावितस्तदा।। 12-349-92
भगवानुवाच।
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि।
धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः।
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा।। 12-349-93
यदा च सुरकार्यं ते अविषह्यं भविष्यति।
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदैशिकः।। 12-349-94
व्यास उवाच।
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत।
तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः।। 12-349-95
एवमेष महाभागः पद्मनाभः सनातनः।
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा।। 12-349-96
निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम्।
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम्।। 12-349-97
स आदिः स मध्यः स चान्तः प्रजानां
स धाता स धेयं स कर्ता स कार्यम्।
युगान्ते प्रसुप्तः सुसंक्षिप्य लोकान्
युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज।। 12-349-98
तस्मै नमध्वं देवाय निर्गुणाय महात्मने।
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम्।। 12-349-99
महाभूताधिपतये रुद्राणां पतये तथा।
आदित्यपतये चैव वसूनां पतये तथा।। 12-349-100
अश्विभ्यां पतये चैव मरुतां पतये तथा।
वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च।। 12-349-101
समुद्रावसिने नित्यं हरये मुञ्जकेशिने।
शान्ताय सर्वभूतानां मोक्षधर्मानुभाषिणे।। 12-349-102
तपसां तेजसां चैव पतये यशसामपि।
वचसां पतये नित्यं सरितां पतये तथा।। 12-349-103
कपर्दिने वराहाय एकशृङ्गाय धीमते।
विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा।
सूक्ष्माय ज्ञानदृश्याय अजरायाक्षयाय च।। 12-349-104
एष देवः संचरति सर्वत्र गतिरव्ययः।
[एष चैतत्परं ब्रह्म ज्ञेयो विज्ञानचक्षुषा।।] 12-349-105
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा।
कथितं तच्च वै सर्वं मया पृष्टेन तत्त्वतः।। 12-349-106
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः।
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि।। 12-349-107
वैशंपायन उवाच।
इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता।
सर्वे शिष्या सुतश्चास्य शुकः परमधर्मवित्।। 12-349-108
स चास्माकमुपाध्यायः सहास्माभिर्विशांपते।
चतुर्वेदोद्गताभिस्तमृग्भिः समभितुष्टुवे।। 12-349-109
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः।। 12-349-110
यश्चेदं शृणुयान्नित्यं यश्चैनं परिकीर्तयेत्।
नमो भगवते कृत्वा समाहितमतिर्नरः।। 12-349-111
भवत्यरोगो मतिमान्बलरूपसमन्वितः।
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।। 12-349-112
कामकामी लभेत्कामं दीर्घं चायुरवाप्नुयात्।
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत्।। 12-349-113
वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात्।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्।। 12-349-114
लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम्।
बन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत्।। 12-349-115
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि।
यो यं कामं कामयते स तमाप्नोति च ध्रुवम्।। 12-349-116
इदं महर्षेर्वचनं विनिश्चितं
महात्मनः पुरुषवरस्य कीर्तितम्।
समागमं चर्षिदिवौकसामिमं
निशम्य भक्ताः सुसुखं लभन्ते।। 12-349-117
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
एकोनपञ्चाशदधिकत्रिशततमोऽध्यायः।। 349।।
12-349-1 यज्ञेष्वाहूयते प्रभुरिति ट. ध. पाठः।। 12-349-2 क्षेमं भागवतं प्रभुरिति ट. पाठः।। 12-349-12 स्मृतिकालपरीमाणमिति झ. पाठः।। 12-349-29 लोकेषु महाराजेति कथ्यत इति थ. पाठः।। 12-349-32 निष्पन्नानष्टौ मूर्तिमतः शृण्विति ध. पाठः।। 12-349-35 निर्ममे लोकसृष्ट्यर्थमिति थ. ध. पाठः।। 12-349-90 कमण्डलुपवित्रधृगिति ध. पाठः।। 12-349-94 तदात्मज्ञानयोगजमिति ट. ध. पाठः।।
शांतिपर्व-348 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-350 |