महाभारतम्-12-शांतिपर्व-170
← शांतिपर्व-169 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-170 वेदव्यासः |
शांतिपर्व-171 → |
गौतमेन स्वस्यानर्हत्वं जानतापि विरूपाक्षेण वकराजगौरवात्प्रदत्तं धनभारमुदूह्य सायं पुनर्बकालयं प्रत्यागमनम्।। 1।। तत्र परेद्युः स्वभवनं जिगमिषुणा गोतमेन पार्थयार्थं रात्रौ बकवधनिर्धारणम्।। 2।।
भीष्म उवाच॥
ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् ।
पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे ॥१॥
पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् ।
न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः ॥२॥
ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च ।
गोत्रमात्रविदो राजा निवासं समपृच्छत ॥३॥
क्व ते निवासः कल्याण किङ्गोत्रा ब्राह्मणी च ते ।
तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् ॥४॥
गौतम उवाच॥
मध्यदेशप्रसूतोऽहं वासो मे शबरालये ।
शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ॥५॥
भीष्म उवाच॥
ततो राजा विममृशे कथं कार्यमिदं भवेत् ।
कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत् ॥६॥
अयं वै जननाद्विप्रः सुहृत्तस्य महात्मनः ।
सम्प्रेषितश्च तेनायं काश्यपेन ममान्तिकम् ॥७॥
तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा ।
भ्राता मे बान्धवश्चासौ सखा च हृदयङ्गमः ॥८॥
कार्त्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः ।
तत्रायमपि भोक्ता वै देयमस्मै च मे धनम् ॥९॥
ततः सहस्रं विप्राणां विदुषां समलङ्कृतम् ।
स्नातानामनुसम्प्राप्तमहतक्षौमवाससाम् ॥१०॥
तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशां पते ।
यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा ॥११॥
बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् ।
भूमौ वरकुथास्तीर्णाः प्रेष्यैर्भरतसत्तम ॥१२॥
तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः ।
व्यराजन्त महाराज नक्षत्रपतयो यथा ॥१३॥
ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाः शुभाः ।
वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृताप्लुताः ॥१४॥
तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः ।
ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा ॥१५॥
विशेषतस्तु कार्त्तिक्यां द्विजेभ्यः सम्प्रयच्छति ।
शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ॥१६॥
सुवर्णं रजतं चैव मणीनथ च मौक्तिकम् ।
वज्रान्महाधनांश्चैव वैडूर्याजिनराङ्कवान् ॥१७॥
रत्नराशीन्विनिक्षिप्य दक्षिणार्थे स भारत ।
ततः प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः ॥१८॥
गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः ।
येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः ॥१९॥
तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत ॥१९॥
इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि ।
यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः ॥२०॥
ततो महार्हैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः ।
ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् ॥२१॥
ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः ।
नानादिगागतान्राजन्राक्षसान्प्रतिषिध्य वै ॥२२॥
अध्यैकदिवसं विप्रा न वोऽस्तीह भयं क्वचित् ।
राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् ॥२३॥
ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः ।
गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ॥२४॥
कृच्छ्रात्समुद्वहन्वीर न्यग्रोधं समुपागमत् ।
न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह ॥२५॥
ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः ।
स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः ॥२६॥
तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः ।
पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत् ॥२७॥
स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा ।
हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ॥२८॥
गृहीतो लोभमोहाद्वै दूरं च गमनं मम ॥२८॥
न चास्ति पथि भोक्तव्यं प्राणसन्धारणं मम ।
किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत् ॥२९॥
ततः स पथि भोक्तव्यं प्रेक्षमाणो न किञ्चन ।
कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ॥३०॥
अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम ।
इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम् ॥३१॥ 12.171.35
12-170-2 ब्रह्मधारणमिति ध. पाठः।। 12-170-15 विलिप्ताश्चन्दनेन।। 12-170-25 इष्टतः इष्ट देशम्।। 12-170-30 ततस्तौ संविदमित्यर्धं झ. पाठे नास्ति। तत्र गौतमश्चिन्तयामासेत्यस्य स्थाने स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा इत्यर्धं वर्तते।।
शांतिपर्व-169 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-171 |