महाभारतम्-12-शांतिपर्व-328
← शांतिपर्व-327 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-328 वेदव्यासः |
शांतिपर्व-329 → |
कपिलेनासुरि प्रति तत्वविभागादिकथनम्।। 1।।
कपिल उवाच। | 12-328-1x |
यदप्युक्तं कति तत्वानि भवन्ति तत्वमेतानि। यमानुपूर्व्यशः प्रोक्तान्येवमाह।। | 12-328-1a 12-328-1b |
तत्वान्यथोक्तानि। तथाविद्यो निबुद्ध्यते। न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात्।। | 12-328-2a 12-328-2b |
यदप्युक्तं इहाद्यं मध्यमं च तत्वानामित्यत्र ब्रूमः।। | 12-328-3a |
एवमाद्यं मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्वानि विशेषपर्यवसानानि ज्ञातव्यानि भवन्तीत्येव मामकेनेत्यत्रोच्यते।। | 12-328-4a |
तदेव तद्यदा दत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिरेतानि ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्याभ्युक्तानि एतदाद्यं मध्यमं च। एतस्मात्तत्वानामुत्पत्तिर्भवति अत्र प्रलीयन्ते। केचिदाहुराचार्याः।। | 12-328-5a |
अहमित्येतदात्मकं सशीरसङ्घातं त्रिषु लोकेषु व्यक्तमव्यक्ताधिष्ठितमेतद्देवदत्तसंज्ञकम्।। | 12-328-6a |
योगदशमपुरुषदर्शनानां तु पञ्चविंशतितत्वानां प्रतिबुध्यमानयोर्व्यतिरिक्तं शुचिव्यभ्रमित्याहुराचार्याः। एवमाह।। | 12-328-7a |
चतुर्विशतितत्वज्ञस्त्वव्यक्ते प्रतितिष्ठति। पञ्चविंशतितत्वज्ञोऽप्यव्यक्तमधितिष्ठति।।' | 12-328-8a 12-328-8b |
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाविंशत्यधिकत्रिशततमोऽध्यायः।। 328।। |
शांतिपर्व-327 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-329 |