वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता)

वेदान्तपंचदशी
विद्यारण्यः
१८६४

श्रीविद्यारण्यकृत

वेदान्तपंचदशी

कल्याणपीयूषव्याख्यासमेत





व्याख्याता

रायप्रोलु लिङ्गनसोमयाजी, बि. ए.बि. एल्.,

न्यायवादी - गुटूरु





श्रीचित्रभानु

आश्वयुज सित ९ भानुवासरे

शालि १८६४ - ख्रिस्त १९४२

सर्वाधिकारा व्याख्यातुः

स्वायत्तीकृताः



प्रधमावृत्तिः १०००
मूल्यं ४–०-०



मुद्रकः
प्रिल्ललमरूरि लक्ष्मीनारायणः
लक्ष्मी पवर् मुद्राक्षरशाला
तेनालि







मामकमातृश्रीपितृपाद
पूज्यचरणकमलेभ्यः
उपहरामि

उपोद्घातः।

*

विदितचरमेवैतत्सर्वेषामिह खलु भारते वर्षे सर्वेजना धर्मार्थकाममोक्षाख्याश्चत्वारः पुरुषार्थाः; तेषु चार्थकामयोरैहिकसुखसाधनत्वम् धर्मस्यामुष्मिकसुखसाधनत्वम्, मोक्षस्य निरतिशयनिरवधिकसुखसाधनत्वम् तद्रूपत्वं चेति व्यवस्थाप्य ऐहिकसुखस्य “यस्तु चिरं जीवति स वर्षशतं जीवती"ति पतंजल्युक्तदिशा वर्षशतकालमात्रानुभूयमानत्वेन वर्षशतात्मककालस्य पुनर्जन्मपरंपरामभ्युपगच्छताम् नयेऽत्यल्पतया तत्कालानुभवयोग्यस्य बहुतरदुःखसंभिन्नस्य तस्य साधनभूतयोरर्थकामयोरधमकक्ष्यायां, आमुष्मिकस्य सुखस्य बहुजन्मपरंपरास्वनुभूयमानस्य दीर्घकालव्यापितयैहिकसुखादधिकतया दुःखसंभिन्नतया क्षयिष्णुतया च नित्यनिरवधिकाखंडानंदरूपान्मोक्षसुखादत्यल्पतया च तत्साधनभूतस्य धर्मस्य मध्यमकक्ष्यायाम्, नित्यनिरवधिकाखंडानंदरूपस्य लेशतोऽपि दुःखस्पर्शशून्यस्य सुखस्य साधनतया मोक्षस्योत्तमकक्ष्यायाम् च निवेशमभ्युपयन्तो मोक्षः प्रधानपुरुषार्थ इति प्रायो मन्यन्त इति ।

 एवं विधस्य प्रधानभूतस्य मोक्षस्य प्राप्तये विप्रतिपन्नाः पूर्वे आचार्यास्तत्वनिर्णयविषये विवदमानास्तत्तत्तत्त्वनिर्णयानुसारेण विभिन्नान्मार्गान्प्रादर्शयन् ।

 तेषु च चार्वाका:। प्रत्यक्षातिरिक्तं नास्ति प्रमाणम् । प्रत्यक्षगोचराणि पृथिव्यप्तेजोवायुरूपाणि चत्वार्येव भूतानि । तानि तत्त्वानि । नान्यत्किंचिदस्ति । तेषां भूतानां स्वभावबलेन संयोगविशेषात् स्थूलदेहो जायते । तत्र च किण्वादिभ्यो मदशक्तिवच्चैतन्यमुपजायते । चैतन्यविशिष्टदेह एवात्मा, तद्देहविलय एव मोक्षः । नास्ति पुनर्जन्म । नापि परलोकः । तदभावादेव पारलौकिकर्मफलदानानुरोधेनेश्वरोऽपि नांगीकरणीयः । पारलौकिककर्मप्रणाली च बुद्धिपौरुषहीनैर्डांभिकैस्स्वजीविकायै परिकल्पिता । ऐहिककर्मानुसारिफलदाता लोकसिद्धो राजैव परमेश्वर इति वदन्ति ।

 अन्ये च तदनुयायिन इंद्रियविनिर्मुक्त्ते मृतदेहे चैतन्यादर्शनादिंंद्रियैरेव सर्वज्ञानानामुदयदर्शनादिंद्रियाण्येव चैतन्यवन्त्यात्मभूतानि। सर्वमन्यत्पूर्ववदित्याहुः।

 बौद्धास्तु। "इंद्रियाणां चैतन्ये इंद्रियैरनुभूयमानस्येंद्रियोपघाते स्मरणाॊ

संभवात्तानि नात्मीभवितुमर्हन्ति । चार्वाकानामप्यनुमानप्रमाणानुरोधि-व्यवहारदर्शनेनानुप्रामाण्यापलपनं परिहासास्पदमित्यभिप्रेत्यानुमान-प्रामाण्यमभ्युपगच्छन्ति ।

 तेषु माध्यमिका:। “शून्यमेव तत्त्वम् । सर्वोऽपि लोकव्यवहार आरोपमूलक एव । नेदं रजतमिति बाधानुरोधेन रजतांशस्यारोपितत्वेनासत्यत्ववदिदमंशस्या- प्यारोपितत्वेनासत्यत्वमेवास्तु । विशिष्टनिषेधेन तत्रापि बाधसंभवात् । लोकव्यवहारस्यारोपमूलकत्वमभ्युपगच्छन्ति वेदान्तिनोऽपि । परं तु निरधिष्ठानारोपस्यासंभवादधिष्ठानस्य सत्यत्वमभ्युपगच्छन्ति ते । तत्तु न युज्यते । “न मया दृष्टमिदं रजतमि"ति स्वप्ने जागरणे च विशिष्टनिषेधस्यानुभूयमानत्वात् । यदि दृष्टं सद्द्रूपं तदा तद्विशिष्टस्य दर्शनस्येदंताया अधिष्ठानस्य तस्मिन्नध्यस्तस्य रजतादेस्तत्संबद्धस्य समवायादेश्च सत्त्वं प्रसज्येत । अध्यस्तरजतादेस्सत्त्वं न तैरप्यभ्युपेयते । तस्यास- त्त्वांगीकारेऽर्थजरतीयस्यानौचित्येन शून्यवाद एव पर्यवसानं स्यात् । ततश्व सदस- दुभयानुभयात्मककोटिचतुष्टयविनिर्मुक्तं शून्यमेव तत्वम् । यदि घटादेस्सत्त्वमसत्वं वा स्वभावस्तदा कारकव्यापारवैयर्थ्यम् । लोकव्यवहारस्तु स्वप्नव्यवहारवदविद्ययोप पादनीयः । अत एव शून्य्म् शून्यमित्युपदिष्टमाचार्येण बुद्धेन । एवं तत्त्वे विविक्ते न किंचिदवशिष्यत इति स एव मोक्ष इति वर्णयन्ति ।

 योगाचारास्तु । बुद्धोपदिष्टं शून्यत्वं बाह्यार्थस्यैव न तु विज्ञानस्य । लोकेऽपि निरधिष्ठानारोपस्यादृष्टचरत्वात् । अतो विज्ञानमेवात्मा। तच्चाल्यविज्ञानम् प्रवृत्तिविज्ञानं चेति द्विविधम् । तत्रालयविज्ञानम् अहमित्याकारकम् । तच्चानादि वासनावशादनेकाकारमवभासते । तत्तदाकारेणावभासमानं विज्ञानमेव प्रवृत्तिविज्ञानमित्युच्यते । लोकानां तत एव प्रवृत्तेः । तच्च विज्ञानं क्षणिकम् । सर्वं सत् क्षणिकम् । जलधरपटलवत् । इत्यनुमानात् । तस्य चार्थक्रियाकारित्वात्सत्वं । अत एवोपदिष्टम् । "क्षणिकं क्षणिक"मिति । सर्वं क्षणिकमित्यादिभावनोत्कर्षेण निखिलवासनाविलये सति विगलितविषयाकारं क्षणिकं शुद्धविज्ञानम् धारारूपेणावतिष्ठते । स एव मोक्ष इत्युच्यते । एवं च क्षणिकविज्ञानमेवात्मा । मृगमदवासनाया वसन इव पूर्वपूर्वविज्ञानगतवासनाया उत्तरोत्तरविज्ञाने संक्रमणेन न

स्मरणानुपपत्तिरित्यादि वदन्ति ।

 सौत्रान्तिकास्तु। विज्ञानातिरिक्तबाह्यशून्यत्ववादो न युक्तः । प्रमाणाभावात् । ग्राह्यग्राहकयोर्भेदस्य लोके प्रसिद्धत्वात् । ज्ञानस्यांतर्मुखतया ज्ञेयस्य बहिर्मुखतया च भेदेन प्रतिभासमानत्वात् । नीलाद्यर्थस्य ज्ञानरूपत्वे तु तस्यापि ज्ञानवदहमिति प्रतिभासस्स्यात् । अतो बाह्यार्थस्य क्षणिकत्वेनाप्रत्यक्षत्वेऽपि तदाकारसमर्पकत्वेनानुमेयत्वं सिद्धम् । एवं बाह्यघटादिवदान्तरसुखादयोऽपि ज्ञानाद्भिन्नतया विषया भवन्ति । एवं चैषां मते रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञिकं स्कंधपंचकं तत्त्वम् । तत्र रूप्यन्ते एभिरिति व्युत्पत्त्या रूप्यन्ते एते इति व्युत्पत्त्या च सविषयाणींद्रियाणि रूपस्कंधः। आलयविज्ञानप्रवृत्तिविज्ञानधारा विज्ञानस्कंधः । उक्तविज्ञानद्वयजन्यस्सुखदुःखदिप्रत्ययप्रवाहो वेदनास्कंधः । तत्तच्छब्दोल्लेखि-प्रत्ययप्रवाहस्संज्ञास्कंधः । वेदनास्कंधनिमित्तका रागद्वेषादयो मदमानादयः धर्माधर्मौर्मौ च संस्कारस्कंधः । एतत्स्कंधपंचकातिरिक्तं नान्यदात्मवस्त्वस्ति । तदिदं सर्वं दुःखायतनं दुःखसाधनं चेति भावयेत् । तदेतदाह बुद्धः दुःखं दुःखमिति । तन्निरोधनाय तत्त्वज्ञानं संपादयेत् । तत्वानि च दुःखसमुदायनिरोधमार्गाश्चत्वारः। दुःखं प्रसिद्धम् । समुदायो दुःखकारणम् । स च प्रत्ययोपनिबंघनो हेतूपनिबंधनश्चेति द्विविधः । तन्निरोधस्तदनंतरं विमलज्ञानोदयेन मुक्तिः । तन्निरोधोपायो मार्गः । स च तत्त्वज्ञानम् । तच्च पूवोंक्तभावनाबलाद्भवतीति वदन्ति ।

 वैभाषिकाः पुनः । ग्राह्यनुमेयत्ववादे प्रत्यक्षसिद्धस्य कस्याप्यभावे व्याप्तिग्रहे। दृष्टान्तासंभवेन तदसंभवादनुमानमेव न प्रसरेत् । अनुभवविरोधश्च । ततश्चथों द्विविधः । ग्राह्योऽध्यवसेयश्चेति । तत्र ग्रहणं निर्विकल्पकरूपम् प्रमाणम् । कल्पनारहितत्वात् । अध्यवसायस्सविकल्पकरूपोऽप्रमाणम् । कल्पनारूपत्वात् । निर्विकल्पकज्ञानविषयं वस्तु सत्यम् । सविकल्पकज्ञानविषये धर्मांशः कल्पितः । कल्पितत्वादेव स धर्मो जातिरिति केचन । अन्यापोहरूप इति केचन विवदमाना दृश्यन्ते । सविकल्पस्य भ्रमत्वेऽपि मणिप्रभाविषयमणिविकल्पन्यायेन अर्थप्राप्तिसंवादावुपपद्यते । सर्वमन्यत् सौत्रान्तिकवदित्याहुः ।

 अर्हताः पुनः । क्षणिकविज्ञानवादे लौकिकफलसाधनसंपादनमैहिकं विफलमेव स्यात् एककृतमन्येनानुभूयत इति न कश्चन सचेता अनुमन्यते । पूर्वकृतमनु

भवामीति सर्वानुभवविरोधश्च प्रसज्येतेत्यादिदूषणमुत्पश्यंतः कंचन स्थायिनमात्मानमभ्युपगच्छंतः स्वसिद्धान्तमेवं वर्णयन्ति । “सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः। यथा स्थितार्थवादी च देवोऽर्हन् परमेश्वर” इति हेमचंद्रोपविष्टः अर्हन्नेव परमेश्वरः। तदुपदिष्टमार्गो निश्श्रेयससाधनम् । स च मार्गः सम्यग्दर्शनं, सम्यक् ज्ञानं, सम्यक् चारित्रं चेति त्रिप्रकारः। अर्हदुक्ते तत्त्वार्थे विपरीताभिनिवेशराहित्यरूपं श्रद्धानं सम्यग्दर्शनम् । येन स्वभावेन जीवादयो व्यवस्थितास्तेन स्वभावेन मोहसंशय राहित्येनावगमः सम्यक् ज्ञानम् । संसरणकर्मनाशाय प्रयतमानस्य श्रद्धधानस्य ज्ञानवतः पापगमनकारणक्रियानिर्वृत्तिः सम्यकू चारित्त्रम् । तच्चाहिंसासूनृतास्तेय ब्रह्मचर्यापरिग्रहरूपेण पंचविधम् । एतानि भाषितानि पंचमहाव्रतानि भवन्ति । तैर्मोक्षं साधयेत् । एतन्मते बोघात्मको जीवः । अबोधात्मकश्चाजीवः । तावेव चिदचिदित्युचेते । तयोर्विवेकं कृत्वा अचिद्रूपं परित्यज्य चिद्रूपमुपादेयम् । अस्य जीवस्यौपशमिकः क्षयिक इति द्वौ भावौ । कर्मणोऽनुदयप्राप्तिरूपे उपशमे सति उत्पद्यमानो भावः औपशमिकः । यथा कालुष्यसंपादके पंके कतकादिसंबंधादधः कृते जलस्य स्वच्छता । आर्हतत्तत्त्वानुसंधानेन रागादिपंकक्षालनेन कर्मनाशे सति जायमानो नैर्मल्यापादको भावः क्षयिकः । यथा पंकात् पृथक्कृतस्य निर्मलस्य स्फटिकादिभाजनगतस्य जलस्य स्वच्छता । उभयात्माभावो मिश्रः । यथा जलस्य अर्थस्वच्छता । तस्य जीवस्य चैतन्यादिः पारिणामिकस्सहजो भावः। तदेव चैतन्यं ज्ञानमित्युच्यते । ज्ञानादात्मा नात्यंतं भिन्नः । ज्ञानस्य जीवावस्थारूपत्वात् । नात्यंतमभिन्नः । अवस्थावस्थावतोः अस्येयमवस्थेति भेदेन लोके व्यवहारात् । अतो भिन्नाभिन्नात्मको जीवः । स एवात्मेत्युच्यते । स च जीवः सर्वशरीरावच्छेदेन सुखदुखभोगदर्शनात् शरीरसमपरिमाणत्वेन मध्यमपरिमाणः । तच्च परिमाणं गजादिदेहसंबंधे किंचिन्महद्भवति । मशकादिदेहसंबंधे सत्यल्पी भवति च जीवस्य सावयत्वेनावयवानां मृदुलनिबिडसंयोगविशेषेण तूलराशेरिव परिमाणाल्पत्वाधिक्ये न विरुध्येते । एवंविधस्य चिद्रूपस्य जीवस्य स्वरूपे अचितो विविच्य ज्ञाते स्वरूपेणावस्थितिरूपो मोक्षः संपद्यत इति ।

 रामानुजीयाः पुनः । आर्हतमते जीवस्य देहसमपरिमाणत्वांगीकारे योगबलादनेकदेहपरिग्राहकयोगिशरीरेषु प्रतिशरीरं जीवविच्छेदः प्रसज्येत । मनुष्यशरीर

परिमाणो जीवो मतं गजदेहं कृत्स्नम् प्रवेष्टुं न प्रभवेत् । पिपीलिकादिदेहं प्रविशतः प्राचीनशरीरसमानप्रमाणतासंकोचोऽपि प्रसज्येत । न च यथा प्रदीपप्रभाविशेषः प्रपाप्रासादाद्युदरवर्तिसंकोचविकासवान् तथा जीवोऽपि तत्तच्छरीरेषु संकोचविकासवान् भवतीति शंकनीयम् । तथा सति प्रदीपवद्विकारित्वेनानित्यत्वप्राप्त्या कृतहानाकृताभ्यागमप्रसंगात् । इत्यादिदूषणं प्रदर्श्य स्वसिद्धान्तमेवं वर्णयन्ति । एतन्मते चिदचिदीश्वरभेदेन भोक्तृभोग्यनियामकभेदेन च त्रयः पदार्थाः । तत्र चिद्रूपो जीवो भोक्ता । अचिद्रूपं सर्वं विषयजातं भोग्यम् । व्यवस्थया तत्तत्कर्मानुसारेण भोगनियामक ईश्वरः । तत्र चिदीश्वरौ ज्ञानस्वरूपौ । ज्ञानगुणकौ च द्युमणिप्रभृतितेजोद्रव्यं प्रभारूपेणावतिष्ठमानं प्रभारूपगुणाश्रयीभूतमित्यनुभवात् ज्ञानरूपस्य ज्ञानाश्रयत्वमविरुद्धम् । ज्ञानस्य प्रभावत्स्वतो द्रव्यत्वेऽपि तच्छेषत्वनिबंधनो गुणत्वव्यवहारः । ज्ञानरूपस्येश्वरस्य ज्ञानगुणकत्वं श्रुतिषु प्रदर्शितम् । ईश्वरस्य चिदचिदात्मकस्सर्वोऽपि तच्छेषत्वेन तच्छरीरभूतः। शरीरशरीरिणोस्तादात्म्यस्य लोकेऽनुभूयमानत्वाच्छरीरभूतजीवादिविशिष्टं ब्रह्मतत्वमेकमेवेत्यभेदबोधकश्रुतीनां तात्पर्यम् । शरीरशरीरिणोर्ममेदं शरीरमिति व्यवहाराद्भेदोऽपि । ईश्वरो जगतः कर्ता, उपादानं च स च परमेश्वरो भक्तवत्सलस्तत्तदुपासकानुगुणभफलदानाय स्वलीलावशादर्चाविभवव्यूहसूक्ष्मांतर्यामिभेदेन पंचधाऽवतिष्ठते । उपासनाकर्मसमुच्चितेन विज्ञानेन परमकारुणिकः परमेश्वरो निजयाथाम्यानुभवानुगुणनिरवधिकानंदरूपं पुनरावृत्तिरहितं स्वपदं प्रयच्छति । एतदेव सर्ववेदसारभूतमिति एतन्मते जीवोऽणुः । भगवद्दासश्च। वेदोऽपौरुषेयः सिद्धार्थबोधकः स्वतः प्रमाणभूतः शब्दोऽपि प्रमाणम् । पांचरत्रस्यापि । प्रामाण्यम् । प्रपंचभेदस्सत्य इति ।

 माध्वा: पुनः । रामानुजाभ्युपगतं प्रायशोऽङ्गीकृत्य तदभ्युपगतं भेदाभेदपक्षं परस्परविरुद्धम् प्रतिक्षिपन्ति । स्वसिद्धान्तमप्येवं वर्णयन्ति । तत्वं द्विविधम् । स्वतंन्त्रम् परतंत्रं चेति । तत्र स्वतंत्रो भगवान् विष्णुः सर्वज्ञः अचिंत्यशक्तिः अनन्तकल्याणगुणपूर्णः । सर्ववेदान्तानां तदुत्कर्ष एव तात्पर्यम्। अस्वतन्त्रं महालक्ष्म्यादिसर्वमपि प्रपंचजातम् । तदपि भावाभवरूपेण द्विविधम् । भावरूपमपि चेतनाचेतनरूपेण द्विविधम् । चेतनमपि नित्यमुक्तं संसारयोगी चेति द्विविधम् । तत्र नित्यमुक्ता महालक्ष्मीः संसारयोगि च मुक्तामुक्तभेदेन द्विविधम् । तत्र ब्रह्मादयो मुक्ताः

अमुक्ताश्चोत्तममध्यमाधमभेदेन त्रिविधः। तत्रोत्तमा मुक्तियोग्याः। देवर्षिभगवद्भक्तादयः। मध्यमाः केवलकर्मठाः नित्यसंसारिणः। अथमा भगवद्वेषिणो दैत्यरक्षः प्रभृतयो नित्यनारकाः । अचेतनोऽपि नित्यानित्यभेदेन द्विविधः । देशकालादयो नित्याः । कार्यजातं सर्वमनित्यम् । ते च मुक्तियोग्या जीवा अंकननामकरणभजनरूपत्रिविधभगवच्छेवया पुनरावृत्तिरहितं विष्णुलोकं प्राप्नुवन्ति । सैव मुक्तिरिति ।

 वैशेषिकास्तु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावभेदेन सप्तपदार्थानंगीकुर्वन्ति । आत्मानो ज्ञानेच्छादिगुणकाः । नानाच ते च प्रवृत्तिरूपाद्धर्मादभ्युदयं लभन्ते । निवृत्तिरूपान्निश्श्रेयसम् । दुःखध्वंस एव मोक्षः । तदानीं ज्ञानेच्छादीनामभावान्मोक्षे जडीभूतास्तिष्ठन्ति । धर्मेणैव सर्वनिर्वाहेणालमीश्वरेणेति वदन्ति ।

 गौतमीयास्तु वैशेषिकाभ्युपगतं सर्वमप्यंगीकृत्य नित्यज्ञानाद्याश्रितमीश्वर- मप्यंगीकुर्वन्ति ।

 सांख्यास्तु। जीवा निर्लिप्ताश्शुद्धज्ञानस्वरूपा बंधमोक्षव्यवस्थानुरोधेन नाना सत्त्वरजस्तमोगुणात्मिका प्रकृतिर्जगतः कर्त्री, तद्विकारभूता महदादयः, तत्र महत्तत्त्वं बुद्धिः, तदेव च भोक्तृत्वादिधर्मविशिष्टम्, प्रकृतिपुरुषयोर्भेदाग्रहेण चेतने बुद्धिनिष्ठभोक्तृत्वरूपेण बद्धत्वव्यवहारः, तद्विवेके सत्यारोपनिमित्ताभावादात्मनः स्वस्वरूपेण स्थितिस्संपद्यते, सैव मुक्तिरिति । एतन्मते ईश्वरो नास्त्येव । जगत्सृष्टृत्वेन हि तत्सिद्धिः । परमकारुणिकस्यावाप्तसकलकामस्य कामनाभावात्परमकारुणिकत्वेन दुःखहेतुभूतजगत्सर्जनासंभवात् कारुणिको हि परकीयदुःखहेतुभूतं न किंचिदपि कल्पयते । तथा सति कारुणिकत्वस्य भंगापत्तेरिति ।

 जैमिनीया वैशेषिकवद्धर्मेणैव सर्वनिर्वाहं अभ्युपगच्छन्त ईश्वरं प्रतिक्षिपन्ति। एतन्मते जीवात्मनो बोधाबोधस्वरूपाः। ते च धर्माधर्मवशाद्वद्धा भवन्ति । क्रमेणाधमें विनष्टे दुःखासंभिन्नसुखरूपं अनंतं स्वर्गम् लभन्ते । स एव मोक्ष इति ।

 योगिनस्तु जडस्य धर्मस्य फलदानाक्षमत्वादीश्वरमप्यभ्युपगच्छन्ति । अन्यस्सर्वं सौख्योक्तमेवाभ्युपगच्छन्ति ।

 एवं बहुधा विप्रतिपन्नेषु तत्तद्दर्शनकारेषु तत्तदभ्युपगतमात्मानं यथा योग-

मन्नमयादिपंचकोशेष्वंतर्भावयन्तो वेदान्तिनो नित्यबुद्धमुक्तस्वभावं सत्यज्ञानानन्द

लक्षणं निर्गुणं निष्क्रियं ब्रह्म एकमेव तत्त्वम् । अन्यत्सर्वं शुक्तौ रजतमिवाधिष्ठाने ब्रह्मण्यविद्यापरिकल्पितम् । तच्च न सत् । भाधदर्शनात् । नाप्यसत् । प्रतीयमानत्वात् । अतस्सदसद्विलक्षणमनिर्वचनीयम् तत् । ज्ञातायां शुक्तिकायां तत्र कल्पितरजतस्येव ब्रह्मणि ज्ञाते तत्र कल्पितप्रपंचस्यापि निवृत्तिर्भविष्यति । निवृत्तिश्चात्र मिथ्यात्वनिश्चय एव । तत्र मिथ्यात्वे निश्चिते ऐंद्रजालिककल्पितमायापदार्थस्येव सुखदुःखादिरूपबंधहेतुत्वाभावान्मोक्ष एव भविष्यति । जीवस्य स्वरूपे उपाधिविनिर्मोकेण विविच्यमाने सत्यज्ञानानन्दरूपमेवावशिष्यत इति तस्य सत्यज्ञानानन्दरूपत्वेन ब्रह्मलक्षणाक्रांततया ब्रह्मभाव एव भवति ।

 एवं शोधितं जीवतत्त्वं ब्रह्मणो नातिरिच्यत इति विवेकेन जीवब्रह्मैक्यज्ञानादेव मोक्षः। इति सर्वश्रुतिसिद्धस् सिद्धान्तं प्रदर्शयन्तः पंचदशप्रकरणात्मकं वेदान्तपंचदशीनामकं ग्रंथम् व्यरचयन् श्रीविद्यारण्यस्वामिनः।

 यद्यपि वेदस्य बहुशाखाविप्रकीर्णतया तत्तात्पर्यविषयीभूतसिद्धान्तपरिज्ञानं सर्वेषाममुलभं मत्वा भगवान् व्यासापरनामधेयो बादरायणो ब्रह्मसूत्राणि प्रणिनायि । मुमुक्षुजनानुजिघृक्षया तत्सूत्रार्थनिर्णये च प्रयतमानेषु श्रीमच्छंकरभगवत्पूज्यपादा अद्वैतसिद्धान्तस्यैवोपनिषत्सूत्रतात्पर्यविषयत्वमिति प्रकटयन्तश्शारीरक-मीमांसाभाष्यं विरचयांचक्रुः । तदनुसारेण च बहवो ग्रंथा विरचिताः पंडितप्रकांडैः । तत एव जीवब्रह्मैक्यज्ञानं सुसंपादम् । तथापि तेषां ग्रंथनामतिप्रौढतया शास्त्रनिष्णातमात्रोपकारकत्वेऽपि साधारणजनोपकारकत्वं नैव घटत इत्यभिप्रेत्य मुमुक्षूणां सुखेन सिद्धान्तबोधायायं प्रयास आदृतः श्रीस्वामिचरणैः। अयं च ग्रंथो भागत्रयात्मकतया संलक्ष्यते । तत्र विवेकपंचकमित्येको भागः । दीपपंचकमित्यपरः । आनंदपंचकमित्यन्यः। विचार्यमाणे आनंदपंचकस्य पृथग्ग्रंथत्वमेव ब्रह्मानंदाभिख्यया प्रतिभाति । तदुपक्रमे “ब्रह्मानंदं प्रवक्ष्यामी"ति प्रतिज्ञादर्शनात् तत्रत्यतत्तत्प्रकरणावसाने “ब्रह्मानंदे योगानंदः आत्मानंदः इत्याद्युपसंहारदर्शनाच्च । न चैव प्रतिज्ञाप्रकरणान्तरेषु कापि दृश्यते । यद्यपि ग्रंथारंभे तत्त्वविवेकस्यैव प्रतिज्ञातत्त्वेन दीपपंचकस्य पार्थक्यं

शंकितुं शक्यम् । तथापि तत्रोपक्रान्तप्रत्यक्तत्वनिरूपणस्य पंचभूतविवेकादिनिरूपणमन्तरा दुश्शकतया प्रत्यक्त्त्वविवेकनिरूपणे प्रतिज्ञाते पंचभूतविवेकादिनिरूपण

स्येव तद्विवेकस्य च शास्त्रयुक्तिभ्यां निरूपणे सिद्धेप्यनुभवेनापि निरूपणार्थं दीपपंचकस्यावश्यकतया पृथक् तत्प्रतिज्ञाया अनपेक्षणात् । न चैवमानन्दपंचकम् । तद्विनाऽपि शास्त्रत्वसंपत्तेस्संभवे नैतच्छास्त्रान्तर्भावस्य सर्वात्मनाऽसंभवात् । पृथग्भूतोऽप्ययं ग्रन्थः ब्रह्मज्ञानफलप्रदर्शनपरतया मन्दमध्यमाधिकारिणामप्येतद्गन्थपरिशीलने प्रवृत्तिसंपादनाय तत्त्वविवेके संयोजत इपि प्रतिभाति। एवं च ब्रह्मानन्दस्य पृथग्ग्रन्थत्वमस्तु । एतद्ग्रन्थघटकत्वं वाऽस्तु । सर्वद्वैतग्रन्थजन्यज्ञानफलप्रदर्शकतयाऽत्र योजनं युज्यत एव । केचित्तु ब्रह्मानन्दग्रन्थस्यान्यकर्तृकत्वमभिप्रयन्ति। तन्न सम्यक् । ब्रह्मानन्दांतर्गतविद्यानन्दशेषे “उभये तृप्तिदीपे हि सम्यगस्माभिरीरितमि"ति वचनेन तृप्तिदीपकर्तृकत्वस्य स्फुटं प्रतीतेः । न च दीपपंचकमानन्दपंचकं चैककर्तृकमस्तु । विवेकपंचकं तु भिन्नकर्तृकमिति शंक्यम् । तथा सति दीपपंचकप्रारंभे प्रतिज्ञाया अवश्यकर्तव्यत्वप्रसंगात् । यद्यपि प्रत्यक्तत्त्वविवेकेनैव सर्वोऽपि शास्त्रार्थः प्रतिपादितः । तथाप्यवशिष्टस्य तद्विवरणरूपतया तद्ग्रंथघटकत्वमुपपद्यत एव । यथा ब्रह्मसूत्रसारस्य चतुस्सूत्र्या प्रतिपादनेऽपि तद्विवरण तयाऽवशिष्टभागस्य तच्छास्त्रघटकत्वम् । यथा वा भगवद्गीतायां द्वितीयाध्याये “अशोचानन्वशोचस्त्व”मित्यारभ्य “एषा तेऽभिहिता सांख्ये बुद्धि"रित्येतत्पर्यन्तेन ग्रन्थेन गीताशास्त्रार्थस्य सर्वस्य संक्षेपेणाभिहितत्वेऽप्यवशिष्टस्य सर्वस्य तद्विवरणरूपतया गीताशास्त्रघटकत्वम् । इति ध्येयम् ।

 एतच्छास्त्रस्य ब्रह्मात्मैक्यं विषयः । तत् ज्ञानान्मूलाविद्यानिवृत्तौ ब्रह्मरूपेणावस्थानं प्रयोजनम् । साधनचतुष्टयसंपन्नोऽधिकारी संबंधश्च यथायथमूहनीयः । अत्रात्मनो ब्रह्मरूपत्वसंपत्तये सत्यज्ञानानन्दरूपस्य ब्रह्मलक्षणस्य प्रत्यगात्मनि सत्त्वं प्रथमतः प्रतिपाद्य तदेवैक्यं तत्त्वमस्यादिमहावाक्यैर्बोधितमित्युपसंहृतं प्रकरणान्ते प्रत्यगात्मनस्सत्यज्ञानानन्दरूपत्वमसद्भूतेभ्यो भूतभौतिकपदार्थेभ्यो विविच्य प्रत्यगात्मप्रदर्शनमन्तरा दुर्ज्ञेयमित्याशयेन भूतभौतिकसृष्टिं तन्निधानभूत-जीवेश्वरसृष्टिं च प्रादर्शयत् । तादृशसृष्टेर्निदानतया सत्त्वरजस्तमोगुणमयी सदसद्विलक्षणतयाऽनिर्वचनीया प्रकृतिरित्यभिधाना काचन शक्तिरभ्युपेयते । सा च सत्त्वप्रथाना

चेतनसृष्टिं तमःप्रधाना भूतभौतिकसृष्टिं चाकरोत् । सा च शुद्धसत्त्वप्रधाना मायाभिधाना ईशोपाधितया चेतनस्येशत्वमकल्पयत् । सति मालिन्येऽविधाभिधाना

जीवोपाधिभूता चेतनस्य जीवत्वमकल्पयत् । मायोपाधिक ईश्वरस्तमःप्रधानां प्रकृतिमुपादानीकृत्य स्वयं निमित्तोभूय भूतसृष्टिं जीवस्य भोग्यभोगायतनसिद्धये भूतपंचीकरणपूर्वकं भौतिकसृष्टिं च व्यतनोत् । सर्वस्यापि सृष्टस्य प्रपंचस्य मायिकतयैंद्रजालिकमायाकल्पितपदार्थजातस्येव सति मिथ्यात्वनिश्चये तद्विविक्ततयानुभवगोचरः प्रत्यगात्मा सत्यज्ञानानन्दरूप इत्यवगन्तुं शक्यते । एवमवगतः कूटस्थः ब्रह्मलक्षणलक्षिततया ब्रह्मैव भवितुमर्हतीति ब्रह्मात्मैक्यं सिद्ध्यतीति सिद्धान्तं बोधयितुं प्रत्यक्तत्वविवेकाख्यप्रकरणमारब्धम् । एतादृशस्य विवेकस्य भूतस्वरूपनिर्णयपूर्वकं तद्वैलक्षण्यप्रदर्शनमन्तरा दुर्लभमिति तत्प्रदर्शनाय भूतानां तदुपादानभूतमायायाश्च गुणवैषम्येण परस्परविवेकं तेषु सर्वेषु सत्तानुवृत्त्या सद्रूपस्य ब्रह्मणोऽवश्याभ्युपेयत्वं तस्य च सर्ववस्तुवैलक्षण्यं च मायाभूतभौतिकप्रपंचाद्विविक्तं ब्रह्म बोधयन् ब्रह्मलक्षणाक्रान्ततया प्रत्यगात्मनस्तदैक्यमबोधयन्महाभूतविवेकाख्येन प्रकरणेन । यथा च पंचभूतविवेकेन मायिकादीश्वरान्निष्कृष्टं ब्रह्मतत्त्वं विज्ञातुं शक्यते तथैव पंचकोशविवेकेन तत्तादात्म्याध्यासापन्नजीवान्निष्कृष्टं प्रत्यक्तत्वं विज्ञातुं शक्यत इत्याशयेन पंचकोशविवेकाख्यं प्रकरणं व्यरचयन् । एवं सत्यपि विवेके मिथ्याभूतस्य प्रपंचस्य शरीरसद्भावपर्यन्तं तत्तद्भासकेन्द्रियाणां मिथ्याभूतानामपि सद्भावात्तत्तत्पदार्थभानं दुर्वारमिति जीवन्मुक्तब्यवहारो निरालंबन एव स्यादित्याशङ्क्य तद्भानं न मुक्तिप्रतिबंधकम् । तद्भानेऽपि तस्य मिथ्यात्वनिश्चयेन बंधकत्वं नास्ति । वस्तुत ईशसृष्टस्य प्रपंचस्य साक्षाद्बंधहेतुत्वमेव नास्ति। परं त्वीशसृष्टप्रपंचं भोग्याकारतां मनसा प्रापयज्जीवः । तथा च जीवसृष्टस्य मनोमयप्रपंचस्यैव स्वप्नप्रपंचवद्बन्धहेतुत्वम् । अतो मनोमयप्रपंचस्यैव सर्वथा निवृतिरपेक्ष्यते मुक्तिसिद्धये । प्रत्यग्ब्रह्मात्मज्ञाने जीवोपाधिभूताज्ञाननिवृतौ तद्धेतुकमनसो निवृत्या सर्वथा मनोमयप्रपंचो निवर्तते । तन्निवृत्तिरेवापेक्ष्यते मुक्तिसिद्धये ईशसृष्टस्य न निवृत्तिरपेक्ष्यते । किं तु मिथ्यात्वबुद्धिमात्रमिति बोधयितुमीशसृष्टं जीवसृष्टं च द्वैतं द्वेधा विभज्य प्रदर्शितम् । ईशसृष्टप्रपंचमन्तरा तदाकाराकारितमनोमयसृष्टेरसंभवेन बंधस्यैव दुरुपपादतया तदाकारसमर्पकतया ईशसृष्टं बाह्यं द्वैतमभ्युपेयमेव । प्रमाणबलात्मतीयमानस्य तस्य दुर्निवारत्वाच्च। एतेन बंधे बाह्यद्वैतस्यानुपयोगे बाह्यशून्यवादप्रसंग इति परास्तम्।

एतदंशबोधनायैव द्वैतविवेकाख्यप्रकरणमारब्धम् ।

१०

 एवं प्रकरणचतुष्टयेन साधितं युक्तिसिद्धमर्थं श्रुतिप्रमाणसिद्धमिति निरूपयितुं महावाक्यविवेकनामकं पंचमं प्रकरणं व्यरचयन् ।

 अनेन प्रकरणपंचकेन सर्वोऽपि वेदान्तसिद्धान्तः स्पष्टं निरूपित इत्यवधेयम्। एवं श्रुतियुक्तिभ्यां सिद्धमर्थमनुभवेनाप्युत्तमाद्यधिकारिणां क्रमेण बोधयितुं दीपपंचकं प्रारब्धम् । तत्र मंदमध्यमाधिकारिणां तत्तस्य परोक्षतया ज्ञानेऽपि मोक्षोपयोग्यपरोक्षसाक्षात्कारो नैव घटत इति पर्यालोच्य तदनुजिघृक्षया ध्यानेन स संपादनीय इत्युपदेष्टुं ध्यानदीपप्रकरणं च तत्र निवेशितम् । सुकुमारबुद्धीनां कान्तासम्मिततयोपदेशस्य देशिकाभिमततया तादृशानामुपदेशाय नाटकदीपाख्यमपि प्रकरणं विनिवेशितम्। “प्रयोजनमनुद्दिश्य न मंदोऽपि प्रवर्तत” इति न्यायमनुसृत्य परमानंदावाप्तिलक्षणं प्रयोजनं दर्शयितुमानंदपंचकमिति ध्येयम्

 एवं मोक्षप्राप्त्युपायप्रदर्शकस्य सकलवेदान्तसारभूतस्य वेदान्तपंचदशीनामकस्यास्य ग्रंथस्य स्वभावतस्सुबोधत्वेऽपि कालक्रमेण संस्कृतभाषापरिज्ञाने संकोचमापन्ने सामान्याकारेण संस्कृतभाषापरिज्ञानवतां प्रकारांतरेण तत्त्वविमर्शनचतुराणामनायासेन बोधं संपादयितुकामः आंग्लभाषापरिज्ञानेन न्यायवादिपदमलंकुर्वाणः स्वनाम्नैव स्वस्य श्रोत्रियाभिजनत्वमावेदयिता अग्लभाषापठनावसरे स्वाभिजनानुरोधेन संस्कृतभाषां तदपेक्षिताधिकमभ्यस्य तत्पाटववशात्प्रस्थानत्रयं समुचिताचार्यमुखादधीत्य अद्वैतसिद्धान्ते बद्भादरः आत्रेयगोत्रोद्भवो रायप्रोलूफ्नामक लिङगन सोमयाजी अस्य ग्रन्थस्य सरलामतिसुलभां कांचन व्याख्यां समरचयत् । यद्यप्यस्य ग्रन्थस्य बहुभिः पंडितप्रकांडैर्विरचिताः प्राचीनव्याख्याः संत्येव । तथापि तासामतिप्रौढतया अद्यत्वे अनायासेन मूलग्रन्थतात्पर्यबोधनक्षमास्सामान्यज्ञानवतां न भवम्तीत्यालोच्य तादृशानामप्यनायासेन बोधो भवत्वितीच्छया एतद्याख्यानरचने प्रवृत्त इति ज्ञायते तत्तद्वाख्यानदर्शनसमकालमेतद्व्याख्यानदर्शने । तथा हि । अस्यां च व्याख्यायां यथा साकल्येन पदव्युत्पत्तिः पदार्थयोजना च दृश्येते तथा न पूर्वासु व्याख्यासु । अन्यच्च तासु व्याख्यासु मूलप्रतिपादितार्थोपपादकतया श्रुतयो वैरल्येन प्रदर्शिताः। तासामप्यर्थविशेषो न प्रदर्शितः । अत्र तु तादृशश्रुतयः प्राचुर्येण

प्रदर्शिताः तत्तच्छृतिसंदर्भविशेषपुरस्सरं तत्तदर्थप्रदर्शनं च सम्यक्कृतम्। एतद्ग्रन्थ

११

परिज्ञाने उपनिषद्ग्रन्थपठनमन्तराप्येतत्ग्रन्थापेक्षितसकलश्रुत्यर्थपरिज्ञानमनायासेन संजायत इति ज्ञायते । एतद्ग्रन्थपाठकानामिति प्राचीनव्याख्यापेक्षयेयं महते उपकाराय कल्पते, सामान्यतोऽधिकारिणां मुमुक्षूणाम् । एतद्ग्रन्थदर्शनावसरे “पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवधं मित्यादिमहाकविसूक्तिऋ स्मृतिपथमधिरोहति । एतादृगुपकारकं विधाय महदुपकृतमास्तिकलोकस्यानेन विद्वन्मणिनेति तद्विषये सर्वेऽप्यास्तिकजनाः कृतज्ञा भवंतीत्याशासे ।

विजयनगरम्,
महामहोपाध्याय,
 
१६-१०-४२.
ताता सुब्बरायशास्त्री।
 

प्ररोचना।

वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu

"आ परितोषाद्विदुषां।
न साधु मन्ये प्रयोगविज्ञानं ।।”

विदितचरमेवाखिलविद्वज्जनलोकस्य विविधौषधीनामाकरभूतं सान्द्रारण्यमिव ज्योतिर्वैद्यधर्मशास्त्रव्याकरणमीमांसावेदान्ताद्यशेषविद्यानामावासभूता ये त्रयीमातुर्निजपरिचर्यया नूतनशोभां संपादितवन्तो विजयनगरसाम्राज्यस्थापनाचार्याः श्रीविद्यारण्यमुनिवरेण्या शालिवाहनशकीयत्रयोदशशताब्द्यां प्रादुर्बभूवुरिति । तैर्व्यरच्यल्पधियामपरिज्ञातत्रयोशिरस्साराणां मुमुक्षूणामुपकारकतयाऽद्वैतसिद्धान्तपीयूषसारः करतलामलकीकृतनिखिलनिगमान्तार्थगंभीरभावो ललितपदविलसितः पञ्चदशीति नाम्ना विख्यातो ग्रन्थराजः । ग्रन्थस्यास्य च प्राचीनपंडितविरचितं व्याख्यानद्वयं प्रधितमेव ।

 तच्चानधिगतशास्त्रार्थानां यथार्थतत्त्वग्राहकं न भवतीति मम प्रस्थानत्रयस्य शान्तिपाठानन्तरमस्मद्गुरुकुलावतंसाः प्रातस्मरणीयनामधेयाः श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशंकरपदमावेशप्रकाशितजगद्गुरु श्रीकल्याणानन्दभारतोमान्ताचार्यचरणाः सामान्याकारेण संस्कृतभाषापरिचयवतामप्यनुग्रहाय वेदान्तपञ्चदश्याः निर्दुष्टार्थप्रकटनपरां कांचिद्वाख्यां विरचितुं मामादिशन् । नियुक्तकार्येऽपर्याप्तेनाप्यधमर्णेन आचार्याणामादेशममोघा आशिषश्च शिरस्यवधार्य प्रमाधिवत्सरे श्रीशंकरजयन्त्युत्सवावसरे मयोपक्रान्तोऽयमखिलशास्त्रनिष्णातसाध्यः श्रीविद्यारण्यचरणानां गंभीरवागर्थाविष्करणैकपरोऽयं महान् प्रयत्न:। तद्वत्सरीयशिवरात्रिप्रयुक्तगौरीरमणचरणार्चनावसानसमये समापितश्च । अशेषनागरकतोन्मूलनपर्यवसानकेऽस्मिन् कराले युद्धसंरंमेऽलब्धपत्रकं मुद्रणे विलंबनमनिवार्यमासीत् ।

 "पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना आक्षेपस्य समाधानमिति" पञ्चलक्षणलक्षितां व्याख्यानसरणिमनुसृत्य यथामति मया व्याख्यातोऽयं ग्रन्थः ।

तत्र बहूनामपूर्वपदानां व्युपत्तिरभिहिता । अध्येतृजनसौकर्याय बह्वय: शंकाः सोप

१३

पांतकं विशदीकृताः। भावश्चोचितस्थलेषु क्रोडीकृतः । मूलग्रन्थे उदाहृतानां श्रुतिस्मृतिसूत्राणां प्रकरणपुरस्सरं तात्पर्यप्रकटनं च विपुलतया कृतम् । अन्यानि चाद्वैतसिद्धान्तप्रतिपादकान्यौपनिषदानि प्रमाणान्युपशतत्रयसंख्याकान्युदाहृतानि येन ग्रन्थान्तरमन्तरा सर्वमद्वैतमतप्रदीपकं प्रमाणजातमत्रैव करतलगतं भवेत् । अस्मिन् व्याख्यानरचनाविधौ श्रीभगवत्पादादीनां भाष्यादिभ्यः पूर्वव्याख्यानेभ्यश्च विशेषविषयान् यथेच्छमाहरतोऽल्पमतेर्न मे कापि क्षतिर्न्यूनता वा संभाव्यते । वरी वर्तते महान् पंडितवर्गो यो विग्रहवानखिलविद्यावबोधः । तं प्रत्यनिशं नमोवाकमाशास्महे ।

 सामान्याकारेण संस्कृतभाषापरिचयवतामप्यनायासेन विषयग्राहकपटीयसीं शैलीमाश्रित्य व्याख्यातोऽयं ग्रन्थः । तथा हि । सर्वो हि वेदवेदान्तराशिर्वैदिकवाङ्मयो विराजते । अविदितनिगमार्थानामनुग्रहाय विपुलस्यापि विषयजातस्य संग्रहेण प्रतिपादनाय तत्तच्छास्त्रकारा विविधानि सूत्राणि वार्तिकादीनि प्रसन्नगंभीराणि भाष्याणि च व्यरीरचन् । यत्र विषयविशयपूर्वपक्षसिद्धान्तादीनां साकल्यं विमर्शनेन प्रतिपाद्याथों सुविशदं विज्ञायते । तत्र परिदृश्यमाना शैली च प्रसन्नगंभीरा विविक्षितार्थस्य सुविशदीकरणपटीयसी निरुपमा च शोभते । तत्रत्या भाषा शास्त्रभाषेति व्यवह्रियते । भाष्याद्युपवर्णितविविधविषयनिर्णये पाटवाभावेन प्रमेयनिर्णयासमर्थानामानुकूल्याय परिकल्पिता नव्यतर्ककर्कशा प्रमेयनिर्णयपटीयसी प्रतिवादिजनविमोहिनी काचित् परिष्कारात्मिका भाषा । एवंविधापि शास्त्रभाषात्वेन व्यवह्रियमाणा तत्तच्छास्त्रज्ञैकसमधिगम्या दृश्यते । यया परिष्कारात्मिकया अशेषमिदं शास्त्रजातं समन्ततो व्याप्तम् । अध्येतृलोकस्य या नितरां क्लेशमापादयति च । अन्येषामपि विषयविशेषपरिशीलनपराणां वैरस्यमादधती प्राचीनैरादृतां प्रसादविमलां शैलीं समूलमुन्मूलयति । वाल्मीकिकालिदासादिभिरालंबिता दृश्यश्रव्यात्मिका सहजपेशला सकलांगसौष्ठवोपेता नवरसरुचिरा कोमलपदविन्यासा काचिदव्यक्तसुकुमारमूर्तिलौकिकभाषा सहृदयानानन्दयति । यत्र निगूढार्थपरिज्ञानमनायासेन जायते । काले गच्छति संस्कृतभाषायां राजपोषणात् प्रच्युतिमापन्नायां

सर्वतोमुखवैदुष्यं च क्रमशः कार्श्यमाप्नोति । शास्त्राणां पठनपाठनवैरल्येन भारतधर्मस्य विज्ञानस्य च ग्लानिरनुदिनमभिवर्धते । तस्याचिरादेव विप्लवश्च जायेतेति

१४

भीतिरुदेति भारतवैज्ञानिकाभिमानिनां हृदयसीमसु । तस्योद्धरणे नान्यमुपायमुपलभामहे ऋते गीर्वाणवाणीमुखेनार्याणां विज्ञानपरिज्ञानात् । शास्त्रजातस्य क्लिष्टतया तद्बोधितविषयाणामौपनिषदस्य तत्त्वस्य च सुगमतया बोधकः संस्कृतभाषात्मको ग्रन्थराशिः तादृशं व्याख्यानजातं चाद्य भृशमपेक्ष्यते । प्राप्तोऽयं समयः संस्कृतभाषाभिज्ञानां लौकिकभाषात्मकग्रन्थरचनायै यावदध्येतृजनोऽचिरेणैव लोकयात्रायामुत्तमं स्थानमाक्रामेत् । यथार्हमभ्युदयनिःश्रेयसे प्राप्नुयाच्च ।

 पञ्चपञ्चप्रकरणपरिमितभागत्रयविशिष्टानि पञ्चदशप्रकरणान्यस्मिन् ग्रन्थे संलक्ष्यन्ते । तत्र प्रथमो भागो विवेकपञ्चकमिति, द्वितीयो दीपपञ्चकमिति तृतीय आनन्दपञ्चकमिति च ज्ञायते । ब्रह्मशब्देन सच्चिदानन्दात्मकमेकमेवाद्वितीयं परं ब्रह्माभिधीयते । तच्च साक्षात्कार्यं वस्तु । तद्भिन्नतया भासमानस्य भूतभौतिकसृष्टेस्तन्निदानभूतजीवेश्वरसृष्टेश्च विवेचनेन तत्साक्षात्कारसिद्धिः। एवमसतो विवेचितस्य परमात्मनः प्रत्यगभिन्नता च तत्त्वमस्यादिमहावाक्यार्थविचारणेन बोध्यते । इयं विवेचनारीतिर्वेिवेकपञ्चकाख्ये प्रथमपञ्चके विव्रियते । एतादृशविवेचनाफलं च तत्त्वमसीतिमहावाक्यघटकतच्छब्दबोधितस्य प्रत्यगभिन्नपरब्रह्मणोऽवगतिः । अद्वितीये परे ब्रह्मणि मायया जगज्जीवेश्वराः प्रकल्पिताः । कूटस्थब्रह्मजीवेश्वरा इति चितेश्चातुर्विध्यं त्रिविधायाः प्रकृतेरन्यतमया अविद्यया परिकल्पितस्य जगज्जीवेशब्रह्मभेदभावस्य मिथ्यात्वं अविद्यानाशकमार्गश्च द्वितीये पञ्चके विज्ञाप्यते । जीवेशगताविद्यातमोनाशने दीपायत इति दीपपञ्चकमित्यन्वर्थनाम्ना तदुच्यते । तत्फलं चोक्तमहावाक्यगत "त्वं" पदार्थस्य स्पष्टतः प्रतीतिः । जीवब्रह्मणोरसिशब्देन बोधितमैक्यं ब्रह्मणः परमानन्दस्वरूपत्वम् । अन्ये विद्यानन्दादयस्तस्य परमानन्दस्य मात्राभूताः । एते विविधानन्दा आनन्दाभिधे तृतीयपञ्चके वर्ण्यन्ते । एवं सर्वोपनिषदां मकुटालंकारभूतस्य “तत्त्वमसी"ति महावाक्यस्य व्याख्यानस्थानमलंकुर्वत् विवेकदीपानन्दाभिधेयं प्रकरणपञ्चकत्रयमन्वर्थनाम भवति ।

 आसृष्टेरपि यन्मूलकारणान्वेषणे महतामपि बुद्धिः कुंठीभवत्यचिन्त्यरचनावैभवस्यास्य जगतोऽसत्यत्वं तमोरूपया मायया नित्ये निर्विकारे परे ब्रह्मणि तस्यारोपितत्वं जीवब्रह्मणोरैक्यज्ञानमन्तरा निःश्रेयसाख्यस्य मोक्षस्य दुःसाधत्वं जीवेशयो

१५

रपि चिदाभासस्वरूपेण तथैव मायया निर्मितत्वं चेति सर्वंसिद्धान्तानामलंकारभूतमिदं परमरहस्यमस्मत्प्राचीनैरन्तर्मुखैर्महर्षिभिस्तत्त्वनिश्चयकामैः श्रुत्यर्थमननेन साक्षात्कारेण च प्रतिपाद्यते । आधुनिकैर्वस्तुशास्त्ररसवादशास्त्रकुशलिभिः पंण्डितैरप्ययमेवार्थो दृढीक्रियते । परमाणुसंघातात्मकं द्व्यणुकादिपरिकल्पितं सर्वं वस्तुजातं तच्चालनात्मिका तदतीता तदाश्रया काचिच्छक्तिरिति (matter and energy) च सर्वं जगत् द्विधा विभक्तमिति प्राचीनानां वस्तुशास्त्रवादिनां मतम् । आधुनिकास्तु सर्वं परमाणुस्वरूपं “अयान्” “प्रोटान्” नामकशक्तिघनानां परमाणोरपि सूक्ष्मतमानां संघात एवेति सनिदर्शनं निरूपयन्ति । चेतनात्मिका च शक्तिः । एवं सर्वं वस्तुजातं चेतनात्मकमित्यद्वैतवादः संपद्यते। शक्तितद्विशिष्टपदार्थनिमित्तको विभागोऽपास्तो भवति । न च प्राचीनशास्त्रज्ञै: प्रतिपादितश्चैतन्यसाहित्यराहित्यनिमित्तश्चेतनाचेतनविभाग आधुनिकैरंगीक्रियते । वृक्षादिषु चैतन्यप्रतीतिर्बोस्-महाशयेन विस्पष्टं सिद्धान्तिता। बुद्धिप्रतिबिंबितचिदाभानससत्वासत्त्वाभ्यां चेतनाचेतनविवेक इत्यद्वैतिनां मतम् । रसवादशास्त्रज्ञाः पूर्वेतनास्सर्वे पदार्थाः षण्णवतिसंख्याकानां पदार्थानामन्यतमानां सम्मिश्रणेन संजाता इत्यमंसत । आधुनिकास्तु सर्वपदार्थानां एकस्यैव पदार्थस्य मूलकारणत्वं तस्य प्रस्थानभेदतस्तेषामसंख्याकत्वं चोपपादयन्ति । एवमेव तेषां चिज्ज़डात्मकविभागः पूर्वपक्षतामाधुनिकैगैमितः । सर्वं वस्तुजातं मनः कल्पितमित्यधुनातना अभिप्रयन्ति । अयं सिद्धान्तोऽद्वैतिनां मायावादस्योपोद्बलकं भवति । विपुलोऽयं विषयो नात्र प्रपञ्चनमर्हति । आस्मीकेनैर्महर्षिभिः प्रज्वलितोऽद्वैतज्ञानदीपः पाश्चात्यविज्ञानेन संचालितः प्रकाशतेतमामिति च संतुष्यामः । सर्वे हि द्वैतवादा परस्परं विरुद्धार्थप्रतिपादकतया सुन्दोपसुन्दन्यायेन मिधो व्याहृन्यन्त इति न तेषां खण्डनापेक्षा। अथापि क्वचिदभ्युपगमवादेन निराकृतास्ते । अद्वैतवादस्तु सर्वेषामनभिमतोऽपि प्रमाणशतैरेकरूपतया भगवत्पादादिभिरैककण्ठ्येन प्रतिपादितोऽमृतह्रद इव रसघनो नितरामात्मानमात्मनैव मण्डयति ।

 येषां निरुपमकृपाविशेषेणामेयशिष्यवत्सलतया चांगीरससंवत्सराषाढासितद्वितीयामारभ्य हायनषट्कपर्यन्तं प्रस्थानत्रयश्रवणानन्तरमिमं ग्रन्थं विरच्य पाठकमहाशयानां

पुरत उपस्थापनयोग्यता मे प्रसादिता तेषामस्मद्गुरुकुलावतंसानामानृण्यं

१६

जन्मान्तरेऽपि दुस्साधमिति नातिशयोक्तिः । तेष नित्यकल्याणमूर्तिर्विहरत्वनिशं मे हृदयसीम्नीति परमेश्वरीमभ्यर्थये ।

 स्वकं श्रमातिशयमनाकलय्य व्याख्यानस्यास्य संशोधनं गंभीरमुपोद्धातं च सोत्साहं विरच्य मामतीव बहूकृतवतामस्मद्गोत्रालंकारायमाणानां पितृकल्पानां श्रीमहामहोपाध्याय कलाप्रपूर्ण वैयाकरणसार्वभौमादि बिरुदांचितानां श्रीताता सुब्बरायशास्त्रिपादमहोदयानां मामकीनामपारां कृतज्ञतामत्र सप्रणामं विज्ञापयामि ।

 मय्यतीव सुदृढबद्धादरा सिंहपुरी (नेल्लूरु) संस्कृतकलाशालाध्यक्षाः विद्याभूषण श्रीगाजुलपल्लि हनुमच्छास्त्रिचरणा: तेनालि संस्कृतकलाशालाध्यक्षाः श्रीजम्मुलमड़क माधवरामशर्माणः गुंटूरु हिंदूहैस्कूल संस्कृतोपाध्याया व्याकरणविद्याप्रवीण श्रीओरुगंटि नीलकंठशास्त्रिणः अस्सद्दीक्षागुरुपुत्राः साहित्यविद्याप्रवीण श्रीभारतुल नरसिंहशर्माणः अन्ये माननीयाः सुहृद्वरा येऽस्य ग्रन्थस्य मातृकाया आयतीकरणे मुद्रणविधौ परिशोधने च महान्तमपि श्रममपरिगणय्य साह्यमरीरचंस्ते सर्वेऽपि मत्समर्पिता नुतिततो: स्वीकृत्यानुगृह्णन्त्विमं जनमिति मुहुर्मुहुरभ्यर्थये ।

 तेनालिपुरी विराजमान लक्ष्मीपवर् मृद्रणालयाधिकारिणां श्री पिल्ललमरूरि लक्ष्मीनारायणार्याणां संस्कृतभाषासेवैकसमर्पितचितानां नितरामात्मीयां कृतज्ञतां निवेदयामि ।

 मुद्रणस्यास्येदं प्रथमतया भ्रमप्रमादजनितानि स्खलितानि ग्रन्थान्तेऽनुबद्व शुद्धिपत्रमुखेन परिहरणीयानीत्यध्येतृमहाशयेभ्यो विज्ञापयामि ।

ललितारामं (बृंदावनम्)

रायप्रोलु लिंगन सोमयाजी

गुम्टूरु

श्रीचित्रभानु आश्वयुज शु ९

१८-१०-४२

विषयसूचिका ।


१. तत्त्वविवेकप्रकरणम् ॥ १-३४॥

मंगलाचरणम् । २| जीवस्य संसारप्राप्तितन्निवृतिविचारः १७ ज्ञानस्य नित्यत्वनिरूपणम् । ४। पञ्चकोशविवरणम् । १८ ज्ञानस्य आत्मत्वपरमानन्दत्वनिरूपणम् ७ ॥ पञ्चकोशविवेकेन ब्रह्मावाप्तिकथनम् । २२ ज्ञानस्य परब्रह्माभिन्नत्वनिरूपणम् । ८ | भागत्यागेन “तत्त्वमसीति" आत्मभाने प्रतिबन्धविचारः । ९ वाक्यार्थनिर्णयः । २४ प्रकृतिस्वरूपनिरूपणम् ।। ११ । अत्र पूर्वपक्षनिरासः । २७ कारणशरीरनिरूपणम् ।। ११ | श्रवणमनननिदिध्यासविवरणम् । २९ लिंगशरीरनिरूपणम् । १२ | समाधितत्फलनिरूपणम् । ३० पन्चीकरणविवरणम् । १५) परोक्षापरोक्षज्ञानफलम् ।। ३३

२. महाभूतविवेकप्रकरणम् ॥ ३५-७१ ॥

भूतगुणकथनम् । ३६ | मायायाः ब्रह्मण एकदेशवृत्तित्व ज्ञानेन्द्रियतत्त्स्थाननिरूपणम् । ३७ | कथनम् । ५५ कर्मेन्द्रियतत्स्थाननिरूपणम् । ३९ । आद्यविकारस्याकाशस्य मनसः सर्वेन्द्रियाध्यक्षत्वकथनम् । ३९ मिथ्यात्वविचारः । ५७ पुण्यपापोत्पत्तिक्रमविचारः । ४० | वायोर्मिथ्यात्वविचारः । ६४ इन्द्रियाणां भौतिकत्वविचारः । ४१ | अग्नेर्मिथ्यात्वविचारः । ६७ "सदेव सोम्ये"ति श्रुत्यर्थविचारः । ४१ | अपां मिथ्यात्वविचारः । ६९ शून्यवादनिरासः । ४६ | पृथिव्याः मिथ्यात्वविचारः। ६९ नैय्यायिकमतनिरासः । ५० | ब्रह्मांडादिमिथ्यात्वविचारः । ७० मायास्वरूपनिरूपणम् ।। ५२ | द्वैतावज्ञाफलमद्वैतम् । ७२

३. पञ्चकोशविवेकप्रकरणम् ॥ ७६-६४ ॥

पञ्चकोशस्वरूपनिरूपणम् । ७६ | आत्मनः सत्यत्वज्ञानत्वविचारः । ८५

स्वयंप्रकाशस्वरूपस्याऽत्मनो आत्मनोऽनन्तत्वविचारः । ९१

वेद्यत्वनिरासः । ८२ ब्रह्मणो जीवेश्वरत्वमुपाधिकल्पितम्। ९१

विषयसूचिका ।

४. द्वैतविवेकप्रकरणम् ॥ ६५-१२६ ॥

ईशसृष्टद्वैतवर्णना । ९५ | ईशसृष्टिर्न ज्ञानबाधकं जीवसृष्टद्वैतकथनम् ।१०१| किं तु साधकम् । ११२ जोवद्वैतस्य द्विप्रकारकत्वचविचारः। ११४ जीवस्य मनसः सर्वबन्धकारणत्व विचारः १०२ | कामादीनामशेषतः परित्याज्यत्व विचारः । १२० विज्ञानवादनिरासः । १०९ | मनोराज्यपरित्यागप्रशंसा। १२३

५. महावाक्यप्रकरणम् ॥ १२७-१३६ ॥

"प्रज्ञानं ब्रह्मे"ति ऐतरेय- "तत्त्वमसी"ति छांदोग्य- महावाक्यार्थविचारः । १२८ | महावाक्यार्थविचारः । १३४ “अहं ब्रह्मास्मी"ति बृहदारण्य- “अयमात्मा ब्रह्मे"त्याधर्वणिक- महावाक्यार्थविचारः । १३१ महावाक्यार्थविचारः । १३५

६. चित्रदीपप्रकरणम् ॥ १३७-२४१ ॥

चित्रपटदृष्टान्तेन परमात्मन्य- आत्मस्वरूपविषये विविघ- वस्थाचतुष्टयकथनम् । १३७ | मतनिरूपणम् । १६० अविद्यायाः संसारकारणत्वं आत्मपरिमाणविषये विविध विद्यायाः तन्निवारकत्वम् । १४० | मतनिरूपणम् । १६५ परोक्षाऽपरोक्षविद्यास्वरूपविचारः। १४१ आत्मनश्चिदचिदुभयात्मकत्वे चिच्चातुर्विध्यविचारः तस्य विविधमतविचारः । १६८ महाकाशादिसाम्यम् । १४२ ईश्वरस्वरूपविषये विविधमतविचारः १७४ कूटस्थजीवयोरन्योन्याध्यासः । १४४ | ईश्वरविषयकसर्वमतसमन्वयः । १८० आवरणविक्षेपविचारः । १४५ मायातत्कार्यविचारः । १४१ शुक्तिरजतदृष्टान्तेनाध्यासविवरणम् १४८ | सृष्टेर्मायाबीजत्वविचारः । १८८ कूटस्थात्मस्वयं शब्दानां ईश्वरस्य मायोपाधिकत्वविचारः । १९० समानार्थकत्वनिरूपणम् ।। १५१ | ईश्वरस्य सर्वेश्वरत्वविचारः। १९२ अविद्यानिवृत्तौ तत्कार्यनाशः । १५६ | ईश्वरस्य सर्वज्ञत्वविचारः । १९३ मतानामनेकत्वे सम्यग्विचारा ईश्वरस्यान्तर्यामित्वविचारः । १९४ भाव’ एव कारणम् । १५८ | ईश्वरस्य जगद्योनित्वविचारः । २०३ विषयसूचिका पुटः ईश्वरस्य जगदुपादानत्वविचारः । २०४ आत्मनः परमार्थतो बन्धाभाव ब्रह्मणो जगद्धेतुत्वमध्यासमूलकम्। २०६ विचारः । २२१ षड़विधलिंगैस्तात्पर्यविचारफलम्। २०७ । कूटस्थब्रह्मणोरभेदविचारः २२२ जगत्सृष्टिवणना । २०९ अद्वैतद्वैतयोस्सत्यासत्यत्व- सर्वस्य वस्तुजातस्य पूज्यत्वविचारः २१२ विचारः। २२४ मुक्तिस्तु ज्ञानादेव । २१३ तत्वज्ञानफलनिरूपणम् ।। २३० जीवेश्वरभेदो मायाकल्पितः ।। २१३ साङ्ग्ययोगयोर्वेदान्तमत वैराग्यबोधोपरतीनां हेतुस्वरूप- विरुद्धांशविचारः । २१९ कार्यादिविवरणम् । २३६ ७. तृप्तिदीपप्रकरणम् ॥ २४२-३४३ ॥ ‘आत्मानं चेद्विजानीयादिति ” जीवन्मुक्तसंसारिणां प्रवृत्तौ श्रुत्यर्थविचारः प्रकरणविषयः । २४२ विशेषविचारः।। २८८ तदंत “पुरुष"शब्दार्थविचारः। २४३ “आत्मानं चेदिति "श्रुतेरुतरार्थ- “अस्मो”ति शब्दर्थविचारः । २४५ विचारः । २९० “श्रुतिगतायं” शव्दार्थविचारः। २४९ काम्यकामुकयोरभावे सन्तापाभावः२९० चिदाभासस्य सप्तावस्थाविवरणं। २५२ ज्ञानिनः प्रारब्धानुभवविचारः । २९३ अज्ञानादोनां बन्धकारणत्वविचारः २५४ त्रिविधेच्छाविचारः । २९५ तन्निवृत्तेमोक्षहेतुकथनम् । २५७ "किमिच्छन्नि " त्यत्र इच्छाबाध परोक्षज्ञानस्य प्रमात्वनिश्चयः ।। २५९ कत्वमेव निषिध्यते। २९८ विचारसहकृतज्ञानं न भ्रमः । २६२ विद्वदिच्छाविचारः। २९९ लक्षणावृत्या महावाक्यार्थविचारः २६८ विद्यारब्धयोरविरोधित्वविचारः । ३०२ ब्रह्मणः सोपाधिकत्वविचारः । २७२ विद्यास्वरूपनिरूपणम्। ३०६ ब्रह्मणः फलव्याप्यत्वाभावविचारः २७५ अपरोक्षबोधस्य द्रढीकरणोपायाः| २७७ “कस्ये" ति शब्दार्थविचारः ३०९ तत्प्रतिबन्धप्रतीकारविचारः । २७८ "संज्वरेदि” ति शब्दार्थविचारः। ३१९ ब्रह्मभ्यासप्रकारविचारः २८० शरीरस्यैव ज्चरसन्तापः। ३२० ब्रह्माभ्यासस्य नियमाभावविचारः ।२८३ क्रमशो ज्ञानेन चिदाभासधी तत्त्वानुसन्धाने कृष्यादीनां ध्वंसकथनम्। ३२२ विक्षेपत्वविचारः। २८६ तृप्तिस्वरूपविचारः । ३२८ ४ विषयसूचिका | पुटः पुट: ज्ञानिनः प्रवृत्तेः सर्वनियमा जीवन्मुक्तस्य निरतिशयानन्द भावविचारः। ३२९ वर्णनम् । ३४० ८. कूटस्थदीपप्रकरणम् ॥ ३४४-३७० ॥ देहस्य कूटस्थचिदाभासो विवरणाचार्यकृतमुख्य- भयभास्यत्वनिरूपणम्। ३४४ सामानाधिकरण्यविवरणम्। ३६१ दृष्टान्तमुखेन चिदाभास कूटस्थब्रह्मशब्दार्थविचारः । ३६२ ब्रह्मणोर्भेदप्रदर्शनम्। ३४५ ब्रह्मणि जीवम्यारोपितत्वविचारः । ३६२ कूटस्थचिदाभासयोर्विवेचनाप्रकारः भ्रमस्य स्वरूपनिवारणाविचारः । ३६३ ३५१ पुराणेषु कूटस्थविवेचनाप्रकार कूटस्थकल्पनागौरववादनिरासः । ३५४ वर्णनम् ३६४ चिदाभासस्य बुद्धेः पार्थक्य जोबेश्वरभेदविचारः। ३६५ प्रदर्शनम् । ३५६ कूटस्थस्य सत्यत्वनिरूपणम् ३६७ बाधसामानाधिकरण्येन मुमुक्षूणां श्रुतिरेव शरणम् । ३६७ वाक्यार्थज्ञानप्रकारनिरूपणम्। ३६० श्रुतिबोधिततत्वनिर्णयः । ३६९ ६. ध्यानदीपप्रकरणम् ॥ ३७१-४३० ॥ संवादिभ्रमस्य मुक्तिफलकत्व तत्त्वविदो लौकिकव्यवहारस्य कथनम् । ३७१ अविरोधित्वविचारः। ४०५ ब्रह्म परोक्षमवगम्योपासनाकर्तव्या।३७६ उपासकस्य ध्यानैकपरत्वविचारः। ४१४ ब्रह्मणः परोक्षज्ञानस्य प्रमात्वविचारः ३७८ निर्गुणोपासनस्य विज्ञानसामी फलोद्गमे प्रतिबन्धविचारः।. ३८४ प्यविचारः। ४१६ मन्दबुद्धीनामुपासना विधीयते । ३९२ उपासनेऽधिकारिविचारः। ४१९ निर्गुणब्रह्नोपासनस्य साध्यत्वविचारः३९१ अपकोपासकनां गतिविचारः४२१ निर्गुणब्रह्मोपासनस्य परंपरया उपासनासामर्थ्यात् ज्ञानोत्पत्तिः ४२३ मोक्षसाधनत्वकथनम् ।। । ३९७ ओंकारोपासनस्य सगुणत्व. निर्गुणोपासनाप्रकारविचारः । ३९८ निर्गुणत्वकथनम् ४२७ ज्ञानोपासनयोर्भेदकथनम्। १०१ निरुक्तस्य पंडितर्थकथनम्। ४२७ विषयसूचिका १०. नाटकदीपप्रकरणम् ॥ ४३१-४४० ॥ पुटः पुटः आत्मन्यध्यारोपविचारः। ४३१ साक्षिणो देशकालवस्त्वाद्य जीवस्वरूपनिरूपणम् । । ४३३ वच्छिन्नत्वकथनम्। ४३७ परमात्मस्वरूपनिरूपणम्। ४३४ सर्वद्वैतशान्तौ साक्षी स्वयं प्रकाशते ४३८ साक्षिणि बुद्धिचांचल्यारोपकथनम् ४३६ ११. योगानन्दप्रकरणम् ॥ ४४१-४८६ ॥ ब्रह्मानन्दस्य सर्वानर्थहनन ब्रह्मानन्दलाभे गुरुशास्त्रे साधनम् । ४७१ पूर्वकसुखहेतुत्वकथनम् । । ४४१ आनन्दभेदनिरूपणम् । ४७३ ब्रह्मानन्दस्य त्रैविध्योक्तिविचारः। ४४८ जाग्रति ब्रह्मनन्दावाप्त्युपायकथनम् ४७५ ब्रह्मण आनन्दस्वरूपत्वकथनम्। ४४९ बासनानन्दस्वरूपविचारः। ४७६ सुखस्वरूपत्व स्वप्रकाशत्व मानन्दस्य लक्षणम्। ४५३ समाधौ निजानन्दानुभवकथनम्। ४७८ सौषुप्तिसुखस्वरूपविचारः। ४५५ ब्रह्मानन्दस्य सातत्यविचारः । ४८४ सौषुप्तिकसुखं ब्रह्मानन्द एव । ४६६ जाग्रति ब्रह्मनन्दावाप्तिविचारः ४८६ सुषुप्तवानन्दमयस्य ब्रह्मा स्वप्नेऽपि ब्रह्मनन्दावाप्तिकथनम् ।४८८ नन्दानुभवकथनं । ४६३ १२. आत्मानन्दप्रकरणम् ॥ ४६०-५१६ ॥ मन्दप्रज्ञ आत्मानन्देन बोध्यः । ४९० गौणमुख्यमिथ्यामविचारः । ५०० सर्वमात्मार्थं प्रियं भवति । ४२२ आत्मनो निरतिशयप्रेमा- आत्मनस्तु कामायेति स्पदत्वकथनम्। ५०५ श्रुत्यर्थविचारणा। । ४९२ आत्मनः । परमानन्दरूपत्वकथनम्। ५०९ प्रीतिस्वरूपविचारः। ४९४ चिदानन्दयोर्भेदः कल्पितः ५११ “आत्मनस्तु कामाये”ति- ज्ञानयोगयोः फलादिसर्व क्षुत्यथों युक्तयनुभवसिद्धः। ४९७ साम्यविचारः। ५१२ १३. अद्वैतानन्दप्रकरणम् ॥ ५१७-५५३ ॥ आनन्दस्य जगत्कारणत्वकथनम् । ५१८ शक्तेः शक्ता दपार्थक्योक्तिः। ५२१ उपादानस्य त्रैविध्यविवरणम् । ५१९ शक्तेः स्वरूपनिरूपणम्। ५२६ G विषयसूचका ५४७ शक्तिकार्यस्वरूपनिरूपणम् ।। ५२७ नामरूपयोः काल्यनिकत्वकथनम् ५४५ वाचारंभणश्रुतेरर्थविचारः। ५२९ नामरूपयोवज्ञाफलकथनम् । ५४६ कारणस्य सत्यत्वविचारः । ५३१ ब्रह्माभ्यासस्वरूपविचारः ५४६ आरंभादिविवरणम् । ५३३ मायाशक्तेरनेकविकारो कारणांशस्यैव बोद्धव्यताकथनम्। ५३६ त्पादकत्वकथनम्। ५४७ सर्वविज्ञानश्रुतितात्पर्यकथनम्। ५३८ नामरूपयोरूपेक्षायां ब्रह्मज्ञानसिद्धिः ५४९ कार्यकारणस्वरूपनिरूपणम् ।। ५३९ नामरूपावगमनाय ब्रह्मव- आकाशस्वरूपविचारः। ५४१ गतिरावश्यकी । । ५५१ स्वरूपसुखलक्षणविचारः । ५४३ प्रकरणस्य फलकथनम् । ५५२ १४. विधानन्दप्रकरणम् ॥५५४-५६७ ॥ विद्यानन्दस्वरूपविचारः । ५५४ ज्ञानिनः कामावाप्तिविचारः ५५८ विद्यानन्दस्य चातुर्विध्यविचारः। ५५४ कृतकृत्यताविचारः । ५६१ ज्ञानिनः आमुष्मिकदुःखाभावकथनम् । ५५६ प्राप्तप्राप्यताविचारः । ५६६ १५. विषयानन्दप्रकरणम् ॥ ५६८-५७८ ॥ विषयानन्दस्य ब्रह्मानन्दस्य | शान्तासु मुखानुभवनिरूपणम् । ५७२ द्वारभूतत्वकथनम् । ५६८ | सच्चिदानन्दस्फुरणस्थलनिरूपणम् ५७३ मनोवृत्तीनां त्रैविध्यकथनम् ।। ५६८ | मायात्रितयस्य स्फुरणस्थलनिर्णयः ५७४ सर्ववृतिषु चिद्रूपप्रतिबिम्बनोक्तिः ५६९ मिश्रब्रहाध्यानप्रकारविचारः। ५७१

घोरमूढवृतृिषु मुखाभावनिरूपणम् ५७१ विद्यास्वरूपनिरूपणम्।। ५७६

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

श्रीगणेश।यनमः

तत्त्वविवेकप्रकरणम् ।

कल्याणपीयूषव्यारव्यारम्मः।


श्रीकल्याणगुणाकरानसदृशानन्दानुसन्धायिनः
कृत्वाऽस्मान् सकलान् महाश्रुतिशिरःश्रीभारतीभारतीन् ।
दत्वाऽत्म्यैक्यमतिं च नः स्वसहजां वेदान्तपारीणता
भिख्यां ख्यापयतोऽन्वहं हृदि भजे श्रीभारतीस्वामिनः ॥ १ ॥

श्रीतातान्वयभूषणं फणिपवागम्बोधिकुम्भोद्भवम्
सुब्बारायबुधं महान्वितमहोपाध्यायमीडे ततः ।
काशोकृष्णबुधं कणादवचसामध्यापकं मे मुदा ।
विद्यावार्ध्यवधानिपण्डितशिरोरत्नं नमाम्यन्वहम् ॥ २ ॥

यो वेदीत्रयवेदनादमुदितो यश्चान्ध्रभूविश्रुतः
मत्तातावधि यत्र मूलपुरुषादारभ्य यज्ञेश्वरम् ।
सन्तर्प्योत्तमदक्षिणैर्बहुमखैः सर्वेऽभवन्याजिनः
सोऽयं राजति रायप्रोल्वभिधया वंशोऽधुनाप्युच्चकैः ॥ ३ ॥

तदन्वयेऽभूद्वहुशास्त्रवेत्ता वाग्मी बुधः श्रीरमणाभिधानः ।
यो राज्यलक्ष्मीं परिणीय सोमं पीत्वा लसत्कण्डलितामवाप्तः ॥ ४ ॥

[तत्वविवेके
पञ्चदशी

तद्गर्भजो लिन्गनसोमयाजी कल्याणपीयूपपदाभिधेयाम् ।
व्याख्यां तनोत्यर्पयितुं स्वपित्रोः पदाम्बुजे पञ्चदशीविपञ्चीम् ॥ ५॥

यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।
व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ ६ ॥

 इह खलु मुमुक्षुजनानुजिघृक्षया वेदान्ततत्त्वव्युत्पित्सूनां सुखबोधाय परमकारुणिकस्तत्रभवानपरशङ्करावतारः श्रीविद्यारण्यगुरुः पञ्चदशीनाम्ना विख्याते प्रन्थराजे तत्वविवेकाख्यमादिमं प्रकरणमारभमाणः प्रारीप्सितग्रन्थस्य निरन्तराय परिसमाप्तेस्साधनीभूतं शिष्टसम्प्रदायानुमितश्रुतिबोधिनेतिकर्तव्यताकमिष्टदेवता गुरुनमस्काररूपं प्रेक्षावत्प्रवृत्तिप्रयोजकं शिष्यपरम्परानुकरणकारणीभूतं विषयप्रयोजनाधिकार्यनुबंधित्रयसूचकं मङ्गलमादावुपनिबध्नात्यनुष्टुब्रूपेण, नम इति ।

पञ्चदशीप्रारम्भः ।

मङ्गलाचरणम्

नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने ।
सविलासमहामोहग्राहग्रासैककर्मणे ॥ १ ॥

 पञ्चदशप्रकरणान्यस्मिन् ग्रन्थे सन्तीति स्त्रीलिङ्गप्रत्ययेन वेदान्तपञ्चदशीत्याख्यया विख्यातोऽयं ग्रन्थः । ननु न केनापि प्रत्ययेन स्त्रीप्रत्ययसम्पादकेन मतुबर्थकेन व्युत्पादयितुं शक्यत इति चेन्न; "आर्श आदिभ्योऽच्" इति सूत्रेण अच्प्रत्यये ‘नस्तद्धित’ इति टिलोपे पञ्चदशेति रूपनिष्पत्तौ तस्य गौरादिपाठात् ’षिद्गौरादिभ्यश्चे' ति ङीष्प्रत्ययस्य सुसाधत्वात्; किञ्च पूर्वपदस्य तदधिकलक्षणया पञ्चाधिकानां दशानां प्रकरणानां समाहार इत्यर्थे तद्धितार्थेत्यादिना समाहारसमासे पञ्चतक्षेत्यादाविव ‘अनो नलोपश्च वा द्विगुस्त्रिया' मिति वार्तिकेन नलोपे ‘द्विगो' रिति ङीपा वा समाधेयम्; यद्वा पञ्चदशानां पूरणीत्यर्थे डिटि टित्वप्रयुक्तेन ङीपा पञ्च दशीति प्रत्येतव्यः। 'पक्षान्तौ पञ्चदश्या’ वित्यमरकोशबलेन पञ्चदशीशब्देन पूर्णिमार्थे गृहीते ‘मञ्चाः क्रोशन्ती' तिवत् तात्स्थ्यलक्षणया ज्योत्स्नेत्यर्थस्सम्पद्यते ।

एवं च प्रकृतीनां सुधाकरदीधितिरिव जिज्ञासूनामतिदुरूदाऽद्वैतसिद्धान्तरहस्यपरि

प्रकरणम् ।
कल्याणपीयूषव्याख्यासमेता

शोधनश्रमापनोदकाह्लादनपूर्वकमर्थप्रकाशनक्षमो भवत्ययं ग्रन्थ इति कौमुदीसादृश्य मूलकज्योत्स्नात्वारोपोऽत्रेति नार्थाऽसङ्गतिः।

 नमः नमस्कारोऽस्तु; कस्मै ? श्रीशङ्करानन्दगुरुपादाम्बुजन्मने, श्रिया अणिमाद्यष्टैश्वर्यैर्युक्तः स चासौ शङ्करश्च श्रीशङ्करः । शं निरतिशयानन्दं करोत्यशेषदुःखोन्मूलकज्ञानोपदेशेन प्रापयतीति शङ्करः । शङ्करश्चासावानन्दश्च शङ्करानन्दः आनन्दः परं ब्रह्म, ब्रह्मभावमापन्न इत्यर्थः; यद्वा शङ्करः निरतिशय सुखकारी ज्ञानिलोकस्य परमात्मा, ‘एष ह्येवानन्दयाती'ति श्रुतेः' (तै.२.७) आनन्दः शोधितजीवः प्रत्यगात्मा, तदभिन्नं परं ब्रह्मेत्यर्थः ‘आनन्दो ब्रह्मेति व्यजाना'दिति श्रुतेः(तै. ३. ६)। शङ्करानन्दशब्दयोस्सामानाधिकरण्येन परमात्म प्रत्यगात्मनोरभेदस्सूचितः । स एव गुरुः देशिकः, तस्य पाद एव अम्बुजन्म नीरजं तस्मै; पाद इति जातावेकवचनम्; अम्बुजन्मने कथं भूताय ? स विलास महामोहग्राहग्रासैककर्मणे विलासः सृष्टिरूपः कार्यवर्गः, तेन सहितो यो महामोहः मूलाज्ञानं स एव ग्राहः मकरः, तस्य ग्रासः निर्मूलनं, स एव एकं मुख्यं, कर्म चेष्टा यस्य तस्मै । नन्वचेतनस्य अम्बुजन्मनश्चेतनसाध्यस्य ग्राह ग्रासैकरूपस्य कर्मणोऽसम्भव इति चेन्न; अचेतनस्याप्यम्बुजन्मनो गुरुपादत्वेन परिणामेन ग्रासैककर्मणि क्षमत्वात्; परिणामोऽयमलङ्कारः, ‘परिणामः क्रियार्थश्चेद्विषयी विषयात्मना,’ यथा 'प्रसन्नेन दृगज्जेन वीक्षते मदिरेक्षण' । अशेषसंसार कारणीभूताज्ञानोच्छेदनक्षमगुरुचरणसरोजाभ्यां नमोवाकमाशास्महे इति भावः । अत्र शङ्करानन्दशब्दयोस्सामानाधिकरण्येन जीवब्रह्मणोरैक्यम् विषयसूचितः,महा मोहग्राहग्रासैकेत्यादिनाशेषावरणोन्मूलकब्रह्मसाक्षात्कारः प्रयोजनं सूचितम् ॥ १ ॥

 पूर्वत्र व्यङ्ग्यमर्यांदया सूचिते विषयप्रयोजनेऽधिकारिणं च स्पष्टमुपपादयति, तदिति,

तत्पदाम्बुरुहद्वन्द्वसेवानिर्मलचेतसाम् ।
सुखबोधाय तत्त्वस्य विवोकोऽयं विधीयते ॥ २ ॥

 तत्पदाम्बुरुहद्वन्द्वसेवानिर्मलचेतसां तस्य पादावेव अम्बुरुहे तयोर्द्वन्द्वं

युग्मं तस्य सेवया अर्चनेन पूर्वोत्थानजघन्यशायित्वाद्युपलक्षितपरिचर्यया

[तत्त्वविवेक
पञ्चदशी

निर्मलचेतसां अपेताशेषकलुषान्तःकरणानाम् "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया" (गी. ४. ३४) इति स्मृतेर्गुरुचरणसेवाया एव विशिष्टज्ञानसाधकत्वेनाभ्युपगमात्ः निर्मलचेतसामित्यनेन रागादिदोषादूषितस्साधनचतुष्टयसम्पन्नोऽत्राधिकारीति सूच्यते; एवङ्र्गुणविशिष्टो जिज्ञासुरुपदेशार्हो भवति गुरुसत्तमानामिति भावः। तेषां सुखबोधाय अनायासेन बोधाऽवाप्तये अयं वक्ष्यमाणः तत्त्वस्य विवेकः पञ्चकोशेभ्यो विवेचना विधीयते क्रियते । तत्त्वम्पदाभ्यां बोधितयोः परमात्मप्रत्यगात्मनोरसिशब्देन बोधितमैक्यं, तेन लब्धो योऽखण्डार्धस्स तत्त्वशब्देन विवक्षित; यद्वा तदिति परंब्रह्म तस्य भावः तत्त्वम् । ब्रह्मणो याधार्थ्यमनारोपितस्वरूपं ज्ञेयं वस्तु, तस्य पञ्चकोशेभ्यो विवेको विषय:, ज्ञेयं वस्तु, नस्सुखबोधैव प्रयोजनम् । रागरहितानामधिकारिणां जिज्ञासूनां सुखेन तत्त्वज्ञानावाप्तिसिद्धये परब्रह्मणः पञ्चकोशविवेचनामधिकृत्य तत्त्वविवेकनामकमिदं प्रकरणं विरच्यत इति भावः ॥ २॥

 ननु ब्रह्मणो नित्यैकज्ञानरूपतया तद्भिन्नस्यानृततया च श्रुतिसिध्दत्वेनानुभूयमानो घटज्ञानं पटज्ञानमिति ज्ञानभेदः, घटज्ञानं नष्टमित्यादिनाशव्यवहारश्च कथमुपपद्यत इत्याशङ्क्तं निराकरोति शब्देत्यादिभिः पञ्चभिः।

ज्ञानस्यनित्यत्वनिरूपणम् ।

‘शब्दस्पर्शदयो वेद्या वैचित्र्याज्जागरे पृधक्
ततो विभक्ता तत्संविदैकरूप्यान्न भिद्यते ॥३॥

 तत्र तावदादौ जागरे ज्ञानम्यैकत्वं प्रतिपादयति, शब्देति । शब्दस्पर्शादयः श्रोत्रत्वगादीन्द्रियाणां विषयाः, आदिशब्देन श्रोत्रत्वगादीनि शब्दस्पर्शादीनां ग्राहकेन्द्रियाणि तदभिव्यक्तिस्थानान्याकाशादीनि च गृह्यन्ते, ते वेद्याः विदिक्रियायाः कर्मभूताः ज्ञानविषया इत्यर्थः, ते जागरे सर्वेन्द्रियाणां व्यापारदशायां, वैचित्र्यात् विलक्षणस्वभावोपेतत्वात् पृथक् परस्परं भिन्नः, ततो वैलक्षण्येन प्रतीयमानेभ्यो विषयेभ्यो, विभक्ताः पृथक्कृताः विषयविनिर्मुक्ताः । तत्संवित् तेषां वेद्यानां संवित् ज्ञानं, न भिद्यते । तत्र कारणमाह, ऐकरूप्यादिति,

ऐकरूप्यात् एकं रूपं यस्यास्सा एकरूपा । तस्याः भावात्, संवित्संविदित्येकाकरेण

प्रकरणम्।]
कल्याणपीयूषव्याख्यासमेता

भासमानत्वात् । एकरूपा संवित् घटपटाद्युपाधिभेदेन भिन्नेव भासमानाप्युपाधि परामर्शविरहिता सती एकैव भातीति भावः ।

 अत्र शब्दस्पर्शादयो वेद्यास्तद्ग्राहिका संविदिति चोक्तम् । संविन्नाम विषयोपलब्धिप्रयोजकं चेतनात्मकं वस्तु । तच्छान्तःकरणे प्रतिबिम्बतचिदभासद्वारा विषयान् प्रकाशयति, प्रदीपः प्रभाद्वारा छायापटमिव । चिदाभासेन प्रकाशितमंतःकरणं ज्ञानेंद्रियैर्विविधविषयान् संगृह्य केदारप्रविष्टतटाकोदकमिव तदाकाराकारितं भवति । तदा तत्तद्विषयोपलब्धिर्भवति । प्रकाशे सति दर्पणस्य विविधविषयप्रतिबिम्बग्राहकत्वसिद्धिः । प्रतिबिम्ब्यवस्त्वभावेऽपि दर्पणं प्रकाशत एव । दर्पणाभावेऽपि तत्प्रकाशिका सूर्यकांतिः स्वयमेव प्रकाशते । इदं स्वयंप्रकाशं चिदात्मकं वस्तु संविदित्युच्यते । तस्य भासा विविधविषया अवभास्यन्त इति भावः ॥३॥

जागरे संविदः एकरूपतां निरूप्य स्वप्नेप्यतिदिशति । तथेपि ।

तथा स्वप्नेऽत्र वेद्यं तु न स्थिरं जागरे स्थिरम् ।
तद्भेदोऽतस्तयोस्संविदेकरूपा न भिद्यते ॥ ४॥

 जागरे यथा ज्ञेयानामनेकत्वेऽपि संविदः एकरूपता तथा स्वप्ने उपसंहृतबाह्यकरणावस्थायामपि विषया एव भिन्ना; संविच्चैका । जाग्रत्स्वप्नयोर्विषयाणामनेकत्वमेकत्वं च संविदस्समानमेव। तर्हि तयोः किमन्तरमित्यत आह, अत्रेति । अत्र स्वप्ने, वेद्यं तु ज्ञेयजातं न स्थिरं स्वप्नापगमे तस्याऽप्रतीतेः “माया मात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति (ब्र.सू. ३. १. ३०)सूत्रात् जागरे यद्वेद्यं तत् स्थिरम् कालान्तरेऽप्युपलभ्यमानत्वात्; अतो वेद्ययोः स्थिराऽस्थिरत्वमात्रकृत एव तद्भेद: जाग्रत्स्वप्नयोर्भेदः, तयोर्जागत्स्वप्नयोः संविन्नभिद्यते, किन्तु एकरूपा, जाग्रत्स्वप्नयोर्विषयाणामनेकत्वं संविद: एकत्वं च समानमेव । किन्तु वेद्यस्य स्थिरास्थिरत्वमात्रेणैव तदूमेद इति भावः ।४॥

अनन्तरं सौषुप्तिकसंविदोऽप्येकत्वविवक्षया आदौ तदस्तित्वं साधयति, सुप्तेति।

सुप्तोत्थितस्य सौषुप्ततमो बोधो भवेत् स्मृतिः ।
सा चाऽवबुद्धाविषयाऽवबुद्धं तत्तदा तमः ॥ ५॥

[तत्त्वविवेक
पञ्चदशी

 सुप्तोत्थितस्य, पूर्वे सुप्तः पश्चादुत्थित: यद्वा सुप्तं सुषुप्तिः तस्मादुत्थितः तस्य, सैषुप्ततमोबोधः, सुषुप्तिर्गाढनिद्रावस्था यत्रोपसंहृतानि मनसा सह सर्वेन्द्रियाणि, तत्रानुभूयगानं तमः यदज्ञानं तस्य बोधः न किञ्चिदवेदिषमित्याकारकं ज्ञानं स्मृतिर्भवेत्; सा च नाऽनुभवः, तदा विषयेन्द्रियसन्निकर्षाऽभावात्; नानुमितिः, लिङ्गादेरभावात्; अतः सा स्मृतिः अवबुद्धविषया अवबुद्धोऽवगतो विषयो यस्यास्सा स्मृतिरनुभूतपूर्वविषयजन्यं ज्ञानमेव भवति। तया च नियमेनानुभवपूर्वकतया भवितव्यं, कारणम्य कार्यनियतपूर्ववृत्तित्वात् । स चानुभवोऽवश्यं सुषुप्तिकालिक एव स्यात्, अवस्थान्तरे तदनुभवाऽभावात् । सर्वोऽप्यनुभवो ज्ञानात्मकः । तर्हि सौषुप्तिकानुभवरूपं ज्ञानं किं विषयमेित्याशंक्याह, अवबुद्धमिति । तदा सुषुप्तौ तत् न किचिदवेदिषमिति सर्वजनानुभवसिद्धं तमः अज्ञानं अवबुद्धमनुभूतम्। न किंचिदवेदिपमितिज्ञाने ज्ञानाभावो विषयइति वक्तुं न शक्यते, तस्य दुरुपपादत्वात् । ज्ञानाभावो हि ज्ञानसत्वे दुर्निरूपः। अत्र नित्यस्य अहमिति प्रतीयमानस्य ज्ञानरूपस्य सत्त्वात्तदभावो दुर्निरूपः । प्रतिबंधकवशात् ज्ञानाभाव इतिचेत् किं तत्प्रतिबन्धकम्? स्वरूपावरकं तम इति चेत् तदेव तमः न किञ्चिदवेदिषमित्यनुभवे विषय इति ब्रूमः । किं पृधग्ज्ञानाभावकल्पनया ? तथा च सिद्धं ज्ञानाभवविलक्षणं भावरूपं तमः अज्ञानावरणाभिधेयमिति विवेकः ॥५॥

 सौषुप्तिकसंविदोऽस्तित्वं प्रदर्श्य तस्य विपयाद्भेदं जाग्रदादिसंविदोऽभेदम् च प्रदर्शयन्नित्यत्वमुपपादयति स इति ॥

स बोधो विषयाद्भिन्नो न बोधात्स्वप्नबोधवत् ।
एवं स्थानत्रयेऽप्येका संवित्तद्वद्दिनान्तरे ॥ ६ ॥

मासाब्दयुगकल्पेषु गतागतेष्वनेकधा ।
नोदेति नाऽस्तमेत्येका संविदेषा स्वयम्प्रभा ॥ ७॥

 सः ‘न किञ्चिदवेदिष' मित्याकारकस्मृत्यनुभवरूपो बोधः विपयात् स्वज्ञेयविषयात्तमसो भिन्नः, विषयविषयिणोर्भेदात्, स्वप्नबोधवत् यथा स्वाप्निकज्ञानं स्वविषयात्स्वाप्निकशिरश्छेदादेर्भिन्नं, तथा सौषुप्तिकबोधो बोधात् स्वाप्निकात्

न भिन्नः; स्वप्नबोधात्सौषुप्तिकबोधो न भिद्यते, यथा जाग्रद्वोधात्स्वप्नभोधो न

प्रकरणम् ।]
कल्याणपीयूषव्याख्यासमेता ।

भिद्यतेः तद्वत् एवं स्थानत्रयेऽप्येकस्मिन्दिने जाग्रदादिषु संविदेकेति निरूपिता। एवं निरूप्य तस्याः कालिकाभेदमपि । प्रतिपादयति, तद्वदिति । दिनान्तरेऽपि तद्वत् तधैव अभिन्ना। अनेकधा सृष्ट्यादि बहुधा गतागतेषु अतीताऽगामिषु मासाब्दयुगकल्पेषु सर्वकालेषु संविदेका सा संविन्नोदेति न जायते नाऽस्तमेति न नश्यति, कालत्रयाबाध्यत्वात् सत्या नित्या चेति भावः । एषैका संवित् स्वयम्प्रभा स्वयम्प्रकाशा नान्यैः प्रकाश्यते, अन्यस्य प्रकाशकश्य विद्य- मानत्वेऽनवस्थादोषापतेः; ‘विज्ञातारमरे केन विजानीयात्’ (बृ.४.५.१५) अमृतोऽदृष्टो द्रष्टाऽश्रुतश्श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता’ (बृ. ३.७.२३) "तस्य भासा सर्वमिदं विभाति" (कठ. २. ५. १५) “न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्," (कठ. १.२.१८) इत्यादिश्रुतिशतं चात्र प्रमाणम् । ननु यदि स्वयम्प्रकाशा संवित्तदा घटवत्तस्या अपि वेद्यता स्यादिति चेन्न; बेद्यत्वे सति केन वेद्या भवेत् ? स्वेनाऽन्येन वा ? आद्ये स्वेनैव स्वयं ज्ञायत इति विरुद्धम्, एकस्यैव कर्तृकर्मव्यपदेशाऽनर्हत्वात् ; द्वितीयेऽनवस्थादोषप्रसङ्गः; अतः संवित्, स्वयम्प्रभा अपरोक्षाऽप्यवेद्या चेति भावः। ११६. ७.११.

 ननु सुखबोधाय तत्त्वविवेकः क्रियत इति प्रतिज्ञा कथमुपपद्यते ? बोध- रूपायास्संविदो नित्यत्वप्रसाधनेन सिद्धरूपतया बोधायेति फलत्वोक्तेरसङ्गतेरित्या- शङ्कय आह, इयमिति ।

ज्ञानस्य आत्मत्वपरमानन्दत्वनिरूपणम् ।

इत्यमात्मा परानन्दः परप्रेमास्पदं यतः ।
मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥ ८॥

 इयं संविदेव आत्मा भवितुमर्हति, नित्यत्वे सति सत्यत्वसिद्धेः। जायतेऽस्ति वर्धते परिणमत्यपक्षीयते नश्यतीति षड्विकारराहित्यं नित्यत्वम्; तदेव सत्यत्व मपि। "यद्रूपेण यन्निश्चितं वस्तु तद्रूपं न व्यभिचरति तत्सत्यम्; यद्रूपेण यन्निश्चितं वस्तु तद्रूपं व्यभिचरति तदनृतमित्युच्यते" । एवं सति नित्यसत्यस्वप्र- काशस्वरूपसंविदभिन्नः आत्मेति सम्पन्नम्। स आत्मा परानन्दः निरतिशयसुख

स्वरूपः । कुतः ? यतः परप्रेमास्पदम् निरतिशयप्रेम्णस्स्थानमात्मा भवति। आत्मनः

[तत्त्वविवेक
पञ्चदशी

परप्रेमास्पदत्वं साधयति, मेति । हि यस्मात् कारणात् मा न भूवं न कदापि नाभूवं ममासत्वं माभूत्, किञ्च भूयासमेव सदा मम सत्त्वमेव भूयादिति कामयमानस्य आत्मनि प्रेम ईक्ष्यते दृश्यते ॥ ८॥

एवमात्मनि प्रेमास्पदत्वं प्रदर्श्य तस्य प्रेम्णः परत्वं साधयति,तदिति ।

तत्प्रेमार्थमन्यत्र नैवमन्यार्थमात्मनः।
अतस्तत्परमं तेन परमानन्दताऽत्मनः ॥ ९॥


 अन्यत्र जायापतिवित्तश्वादिपु यत् प्रेम प्रदर्श्यते तत्प्रेम आत्मार्थमात्मनः प्रयोजनायैव । एवम्प्रकारेण आत्मनि दृश्यते यत्प्रेम तदन्यार्थमन्यप्रयोजनाय न । ‘आत्मनस्तु कामाय सर्वं प्रियं भवती' ति श्रुतेः. (बृ.४. ५. ६)। अतः आत्मनि दृश्यमानं यत्प्रेम तत्परमं निरतिशयं भवति । निरतिशयत्वं च प्रेमान्तरा प्रयोज्यम् । आत्मनि प्रेम प्रेमाऽन्तराप्रयोज्यम्। दारादिषु प्रेम तु आत्मप्रेम प्रयोज्यम्। तेनाऽत्मनः परमानन्दता । आत्मन्यनुभूयमानं प्रेम प्रयोजनान्त रानपेक्षि, अन्यत्र तु आत्मप्रेमापेक्षि; इति परमप्रेमास्पदत्वेन आत्मन एव निरति शयसुखानन्दत्वमिति भावः ।

 विषयोऽयं द्वादशाध्याये षष्टश्लोकादारभ्य पंचाशत्तमश्लोकपर्यन्तं विपुलतरं व्याख्यातः ॥ ९ ॥

 एवंतावन्नित्यसत्यस्वप्रकाशस्वरूपा संवित्, सैव परमानन्दस्वरूपा आत्माऽभिन्नेति च प्रदर्शिता । तस्याः परब्रह्माऽभिन्नत्वं दर्शयति, इत्थमिति ।

ज्ञानस्य परब्रह्माभिन्नत्वनिरूपणम् ।

इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम् ।
परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ॥ १०॥


 इत्थं तृतीये श्लोके ज्ञानस्य नित्यत्वमुक्तवा तस्यैवाष्टमे आत्मत्वं प्रतिपाद्य आत्मनो नवमे परानन्दरूपत्वं च प्रदर्शितम् । एवं युक्त्या लोकानुभवहेतुपरामर्शेन

आत्मा सञ्चित्परानन्दः सच्चिदानंदरूप इति सिद्धः। आत्मनि परानन्दत्वं

प्रकरणम्।]
कल्याणपीयूषव्याख्यासमेता

प्रतिपाद्य ब्रह्माभेदं प्रतिपिपादयिषुर्ब्रह्मणः श्रौतं लक्षणमाह, तथाविधमिति । परं ब्रह्म च तथाविधं सच्चिदानन्दरूपमेवेति “सत्यं ज्ञानमनन्तं ब्रह्म (तै.२-१)' ‘विज्ञानमानन्दं ब्रह्म’ (बृ. ३-९-२८)। “अत्रायं पुरुषः स्वयंज्योतिर्भवति।' (बृ.४–३-९) “ज्ञोऽत ए ” (ब्र. सू. २-३-१८) वेत्यादिभिः श्रूयते।। एवं लक्षणैक्यात्तयोरात्मब्रह्मणोस्सिद्धमैक्यं प्रमाणेन भूषयति, तयोरिति । तयोरात्मब्रह्मणोरैक्यमखण्डैकरसत्वं श्रुत्यन्तेषु श्रुतीनामन्तेषु निश्चितार्थासूपनिषत्सु “अयमात्मा ब्रह्मे"त्यादिषु (बृ. ४. ४. ५) उपदिश्यते आप्तीभूय प्रतिपाद्यते ॥१०॥

आत्मनः परमानन्दरूपत्वे विप्रतिपत्तिमाशङ्क्तय परिहरति,अभान इति,

अभाने न परं प्रेम, भाने न विषये स्पृहा ।
अतो भानेऽप्यभाताऽसौ परमानन्दताऽत्मनः॥११॥

 आत्मनः परमानन्दता भासते न वा ? अन्त्ये आह, अभान इति। अभाने सत्यननुभूते सति तस्मिन् परं प्रेम न स्यात्; लोके तावत् ज्ञातपूर्वरामणीयकविषय- स्यैव प्रेमजनकत्वात्; एवं च तस्य परप्रेमास्पदत्वमसिद्धमिति भावः । आद्ये आह, तस्य भाने सति, विषये सुखकारणे स्रगादौ स्पृहा अनुभूयमाना विषयेच्छा न स्यात् । निरतिशयसुखानन्दानुभवे सति तत्साधनीभूतविषयेच्छा न स्यात्, उपाये- च्छाया उपेयेच्छाधीनत्वात्, उपेयस्य आनन्दस्य सिद्धत्वेन तदिच्छाया अनुत्पत्तेः।तथा च वैषयिकसुखेच्छा ह्यनिशं जायमाना अनुपपन्ना स्यात्; अतोऽभानमेवाऽङ्गीकार्यमिति परप्रेमास्पदत्वरूपहेतुरसिद्ध इति प्राप्ते आह, अत इति; अत: उभयधाऽप्यनुपपत्तिरिति हेतोरात्मनोऽसौ परमानन्दता भानेऽप्यभाता भवति । अभानप्राया भवतीति भावः॥११॥

 आत्मानन्दस्याप्यनुभूयमानत्वेऽपि विषयानन्दसम्मिश्रणेन पृथग्भानाऽभावं दृष्टान्तयति अध्येत्रिति,

आत्मभाने प्रतिबन्धविचारः ।

अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत् ।
भानेऽप्यभानं भानस्य प्रतिबन्धेन युज्यते ॥ १२॥

१०
[तत्त्वविवेके
पञ्चदशी

 अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत्, वेदाध्ययनपराणां समूहे विद्यमानः कुमारःतत्कर्तृकं यद्ध्ययनं वेदपठनं तस्य शब्दवत्, यथा तत् ध्वनिः पार्थक्येन न श्रूयते किन्तु सामान्यतःतथा परमानन्दस्य भानेऽपि स्वप्रकाशरूपतया भानेऽपि प्रतिबन्धेन विषयानन्दात् पार्थक्येन अभानं युज्यते । रागादिप्रतिबन्धेन निरति- शयानन्दस्वरूपं परं ब्रह्म भासमानमपि न विशेषतस्साक्षात्क्रियत इति भावः ॥१२॥

 प्रतिबन्धस्वरूपमाह, प्रतिबन्ध इति ।

प्रतिबन्धोऽस्ति भातीति व्यवहारार्हवस्तुनि,
तन्निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ॥ १३ ॥


 अस्ति भातीत्येवंरूपेण व्यवहारार्हवस्तुनि यद्वस्तु तादृग्व्यवहारमर्हति तस्मिन्वस्तुनि अस्तित्वप्रकाशत्वाभ्यां व्यवहार्ये वस्तुनि तत् व्यवहारं निरस्य, विरुद्धस्य नास्ति न भातीत्येवंरूपस्य विरुद्धस्य तस्य व्यवहारस्योत्पादनं जननं प्रतिबन्ध इत्युच्यते ॥ १३॥

प्रतिबन्धस्वरूपमुक्त्वा दृष्टान्तदार्ष्टान्तिकयोस्तस्यहेतुं प्रदर्शयति,तस्येति।

तस्य हेतुस्समानाभिहारः पुत्रध्वनिश्रुतौ ।
इहाऽनादिरविद्यैव व्यामोहैकनिबन्धनम् ॥ १४ ॥

 पुत्रध्वनिश्रुतौ दृष्टान्ते तस्य पार्थक्येन श्रवणप्रतिबन्धस्य हेतुः कारणं समानाभिहारः अन्यैस्सह पठनम् । इह दार्ष्टान्तिके व्यामोहैकनिबन्धनं व्यामोहानां मिथ्याभूतवस्तुज्ञानानां एकनिबन्धनं मुख्यं कारणं। अनादिरविद्या अज्ञानं प्रतिबन्धस्य हेतुरित्यर्थः । भासमानमप्यानन्दस्वरूपमनाद्यविद्यवशान्न विशेषतः परिज्ञायत इति भावः ॥ १४ ॥

 स्वस्वरूपाऽभिव्यक्तिप्रतिबन्धहेतुभूताया अनाद्यविद्याया व्युत्पिपादयिषया

तन्मूलभूतां प्रकृतिं लक्षयन् तद्विभागमाह चिदानन्देति ।

प्रकरणम्।]
११
कल्याणपीयूषव्याख्यासमेता

प्रकृतिस्वरूपनिरूपणम् ।

चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता ।
तमोरजस्सत्वगुणा प्रकृतिर्द्विविधा च सा ॥ १५॥

 चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता, यच्चिदानन्दरूपं ब्रह्म तस्य प्रतिबिम्बेन प्रतिच्छायया समन्विता युक्ता, तमोरजस्सत्वगुणा तद्गुणत्रयात्मिका या मूलाविद्या सा प्रकृतिरित्युच्यते । चिदानन्दमयप्रतिबिम्बसमन्वितत्वे सति सत्व रजस्तमोणुणात्मकत्वं प्रकृतेर्लक्षणम् । न तु सत्वरजस्तमसां साम्यावस्थारूपत्वं साङ्ख्यतन्त्रोक्तम्। “अध्यारोपाऽपवादाभ्यां निष्प्रपञ्चम्प्रपच्चयते" इति न्यायमनु- सृत्य तत्वं कथयन् लोकव्यवहारसिद्धो जगज्जीवेश्वरभेद औपाधिको, न तु स्वाभाविक इति गूढाऽभिसन्धिपुरस्सरं प्रकृतिद्वैविध्यं निरूपयति, द्विविधेति,सा प्रकृतिर्द्विविधा भवति । अनुक्तसमुच्चायकेन चशब्देन “तमःप्रधानप्रकृते"रित्यादि- प्रकारान्तरं संगृहीतं भवतीत्याशयेन त्रैविध्योक्तिः । तस्मात्त्रिविधा प्रकृतिरित्यभिप्रायः । उक्तत्रैविध्यमेव षट्चत्वारिंशत्तमे श्लोके स्पष्टमुदाहृतम् । अत्र त्रिविधेति कथनीये द्विविधा च सेति द्वैविध्यबोधनात् जीवेश्वरोपाधिभेदेन प्रकृतेर्द्वैविध्यं, षठचत्वारिंशत्तमे त्रितयोति व्यवहारोऽवयवावयविन्यायेन समाधातुं शक्यमिति सुधीभिराकलनीयम्। पक्षेऽस्मिन् द्वैविध्यसमर्थनं त्वित्थं बोध्यम्, जीवेश्वरोपाधिभेदेन द्विविधैव प्रकृतिः । तत्रेश्वरोपाधिभूताया मायाया जगदुपादानत्वनिमित्तत्वसंपादकत्वरूपधर्मवैलक्षण्येन भेदं परिकल्प्य मायावान्तरभेदस्याप्यवयवावयवस्समुदायावयव इति न्यायेन प्रकृत्येकदेशत्वमभ्युपेत्य त्रयवकत्वं प्रकृतेरित्याशयेनात्रैवमुक्तिस्संगच्छते। अन्यथा सृष्टिस्थितिलयकारणत्वेन सत्त्वरजस्तमसामुद्रेकस्य तदा तदावश्यमभ्युपेयत्वेन प्रकारान्तरस्यापि सम्भवेन त्रितयीत्युक्तेर्न्यूनता दुष्परिहारा। पूर्वत्र तु जीवेश्वरो- पाधिप्रदर्शनतात्पर्येण तदवान्तरभेदानपरिगणय्य द्वैविध्यमुक्तमिति ॥ १६॥

 उक्तविभागं विवृणोति, सत्त्वेति,

कारणशरीरनिरूपणम् ।

सत्त्वशुद्ध्यविशुद्धिभ्यां मायाऽविद्ये च ते मते ।
मायाबिम्बो वशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः ॥ १६॥

१२
[तत्त्वविवेक
पञ्चदशी

 सत्त्वशुध्दविशुद्धिभ्यां, सत्त्वस्य प्रकाशकस्वभावस्य शुद्धिः गुणान्तरेणानभिभवः, अविशुद्धिः न विशेषेण शुद्धिः रजस्तमोभ्यां न्यूनाधिकतया मिश्रणः ताभ्यां मायाविद्येति ते मते, एवं निरूपणप्रयोजनमाह, मायेति । मायाबिम्बः मायायां प्रतिफलितो यश्चिदाभासः तां मायां वशीकृत्य विद्यमानस्सर्वज्ञ ईश्वरस्यात्;ा चिदानन्दप्रतिबिम्बयुक्ता शुद्धसत्त्वप्रधाना प्रकृतिर्मायेत्युच्यते । तस्यां प्रतिबिम्बितो वशीकृतमायस्सर्वज्ञ ईश्वर इत्युच्यते ; चिदाभासप्रतिबिम्बयुक्ता मलिनसत्त्वप्रधाना रजस्तमोमिश्रिता प्रकृतिरविद्येत्युच्यत इत्यर्थः ॥ १६॥

 अविद्यां निरूपयति, अविद्येति ।

अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा ।
सा कारणशरीरं स्यात्प्राङ्ञस्तत्राऽभिमानवान् ॥ १७॥

 अविद्यावशगो मलिनसत्त्वप्रधानायां प्रकृतौ प्रतिबिम्बितस्तत्परतन्त्रश्चिदाभासस्त्वन्यो जीवो भवेत् । स जीवो वैचित्र्यान् रजस्तमोरूपमालिन्यांशस्य न्यूनाऽधिकताभेदेन कल्पितानां विकाराणामनेकत्वादनेकधा देवमनुष्यतिर्यगादिभेदेन भवति । सा अविद्या कारणशरीरं स्यात्; स्थूलसूक्ष्मादिशरीरपरम्परावृतस्य जगत उत्पत्तैः कारणभूतत्वात् कारणत्वं, विद्यया नष्टत्वात् शरीरत्वं चोक्तम् । तत्र कारणशरीरेऽभिमानवानहं ममेत्यभिमानाविष्टो जीवः प्राज्ञ इत्युच्यते ; प्रज्ञा अवि- नाशिंस्वरूपा अनुभवरूपा अस्य अस्तीति प्रज्ञः। स एव प्राज्ञः मलिनसत्त्वप्रधाना- यामविद्यायां प्रतिबिम्बितश्चिदाभासः कारणाभिमानी प्रज्ञाभिधेयो भवति । अनेनाविद्याया जीवस्य कारणशरीरत्वप्रतिपादनेनार्धान्मायाया ईश्वरस्य कारणशरीरत्वं सूच्यते ॥ १७॥

 एवं कारणदेहं प्रतिपाद्य सूक्ष्मदेहं तदुपाधिकं जीवं च निरूपयितुं सूक्ष्म देहकारणीभूताकाशादिसृष्टिमाह तम इति ।

लिंगशरीरनिरूपणम् ।

तमःप्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया ।
वियत्पवनतेजोऽम्बुभुवो भूतानि जज्ञिरे ॥ १८ ॥

प्रकरणम्]
१३
कल्याणपीयूषव्याख्यासमेता।

 तद्भोगाय तेषां प्राज्ञानां भोगाय सुखदुःखानुभवाय तमः प्रधानप्रकृतेः तमोगुणाधिकायाः प्रकृतेरीश्वराज्ञया “स ईक्षत लोकान्नुसृजा इती” (ऐत १-१) त्याकारिकया सिसृक्षया वियत्पवनतेजोऽम्बुभुवः पञ्चभूतानि जज्ञिरे जातानि ॥

 अत्रेदं बोध्यं । सत्त्वरजस्तमोगुणात्मिका प्रकृतिः । तत्र रजस्तमोऽमिश्रिता शुद्धसत्वा माया। सा चेश्वरोपाधिः। ताभ्यां मिश्रिता । अविशुद्धा मलिनसत्वा अविद्या । सा च जीवोपाधिः। त्रिगुणानां मिश्रणे न्यूनाधिकभेदेनाविद्याया बहूनि विकाराणि। यदा तमोगुणस्याधिक्यं तदा तम:प्रधाना ततो भूतभौतिकसृष्टिरिति॥ १८॥

 भौतिकसृष्टावादौ ज्ञानेन्द्रियसृष्टिमाह सत्त्वेति ।

सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् ।
श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते ॥ १९ ॥

 तेषां वियदादीनां पञ्चभिस्सत्त्वांशैः श्रोत्रत्वगक्षिरसनघ्राणाख्यं शब्द- स्पर्शरूपरसगन्धग्राहकं धीन्द्रियपञ्चकं ज्ञानजनकेन्द्रियपञ्चकं क्रमादुपजायते । वियदादीनां सत्त्वांशानां प्रत्येकमसाधारणकार्याणि ज्ञानेन्द्रियाणीति भावः ॥१९॥

 भूतपञ्चकसत्त्वांशसमष्टिकार्यभूतमन्तःकरणं विवृणोति, तैरिति ।

तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद्विधा।
मनो विमर्शरूपं स्यादूबुद्धिस्स्यान्निश्चयात्मिका ॥ २०॥

 तैस्सर्वैर्वियदादिपञ्चकस्य समष्टिभूतैस्सत्वांशैर्मिळितैरन्तःकरणमुपजायते । अन्तः भवं करणं ज्ञानसाधनमित्यन्तःकरणम् । तत् वृत्तिभेदेन द्विधा भवति

मनोबुद्धोति । तत्र मनो विवृणोति, मन इति। विमर्शरूपं परीक्षा विमर्शः स्थाणुरयं पुरुषो वेत्याकारिका संशयात्मिका वृत्तिः; सैव स्वरूपं यस्य तत् विमर्शरूपं मनस्स्यात् । बुद्धिस्वरूपं विवृणोति, बुद्धिरिति । निश्चयात्मिका विमर्शानन्तरं नाऽयं पुरुषः स्थाणुरेवेत्याकारकविषयाध्यवसायो निश्चयः;स एव आत्मा स्वरूपं यस्यास्सा निश्चयात्मिका बुद्धिस्स्यात् ॥ २० ॥

१४
[तत्त्वविवेक
पञ्चदशी

 वियदादीनां रजोऽम्शानां प्रत्येकमसाधारणकार्याणि कर्मेन्द्रियाण्याह, रजोऽम्शैरिति ।

रजोऽम्शैः पञ्चभिस्तेषां क्रमात्कर्मेन्द्रियाणि तु ।
वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे ॥ २१॥

 तेषां वियदादीनां क्रमाद्रजोऽम्शै: प्रत्येकं प्रत्येकं वाक्पाणिपादपायूपस्थाऽभिधानानि कमेंन्द्रियाणि क्रियाचरणयोग्यानीन्द्रियाणि जज्ञिरे अजायन्त ॥२१॥

 तेषां समष्टिकार्यभूतं प्राणपञ्चकमाह तैरिति ।।

तैस्सर्वैस्सहितैः प्राणो वृत्तिभेदात्स पञ्चधा।
प्राणोपानस्समानश्चोदानव्यानौ च ते पुनः ॥ २२॥

 तैस्सर्वैस्सहितैः वियदादीनां रजोऽम्शानां सम्मिश्रितैः प्राणोऽजायत । स प्राणो वृत्तिभेदात् प्राणनादिव्यापारभेदात् पुनः पञ्चधा भवति । एवं ते पञ्चविधाः प्राणाः प्राणोऽपानस्समानः उदानव्यानौ चेति व्यवह्रियन्ते । तत्तद्वृत्तिव्यञ्जकपदेनैव तत्तन्नामापि गृह्यते। प्राणनात्प्राणो भवति । अपनयनान्मूत्रपुरीषादेरपानोऽधोवृत्तिर्वायुः; समानो नाम भुक्ताऽन्नादेस्समीकरणे नाभिदेशस्थो वायुविशेषः। उद्वेजयति मर्माणि उदानो नाम मारूतः । व्यानो व्यानयत्यन्नम् सर्वव्याधिप्रकोपनः ॥२२॥

 एवमाकाशादीनां सत्त्वरजोऽम्शानां समष्टिव्यष्टिभूतानां बुद्ध्यादीनां समाहारस्सूक्ष्मशरीरमित्यभिधीयत इत्याह, बुद्धीति,

बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया ।
शरीरं सप्तदशभिस्सूक्ष्मं तल्लिङ्गमुच्यते ॥ २३ ॥

 बुद्धिकर्मेन्द्रियप्राणपञ्चकैः बुद्धीन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकं तैः मनसा विमर्शाऽत्मकेन, धिया निश्चयरूपया सह सप्तदशभिसूक्ष्मं शरीरं भवति ।

तदेव लिङ्गमिति लिङ्गशरीरमिति संज्ञान्तरेणोच्यते ॥२३॥

प्रकरणम्।]
१५
कल्याणपीयूषव्याख्यासमेता

सूक्ष्मशरीराभिमानप्रयुक्तं प्राज्ञेश्वरयारेवस्थान्तरमाह प्राज्ञेति ।

प्राज्ञस्तत्राऽभिमानेन तैजसत्वं प्रपद्यते ।
हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता ॥ २४॥

 तत्र लिङ्गशरीरे अभिमानेन तादात्म्यसम्भवेन प्राज्ञो मलिनसत्त्वप्रधानाविद्योपाधिको जीवः तैजसत्वं तैजस इति शास्त्रप्रसिद्धिं प्रपद्यते प्राप्नोति । ईशः विशुद्धसत्त्वप्रधानमायोपाधिकः परमेश्वरस्तत्र शरीरेऽहमित्यभिमानेन हिरण्यगर्भतां हिरण्यगर्भ इति प्रसिद्धिं प्रपद्यते । प्राजेश्वरयोस्सूक्ष्मशरीराभिमाने समाने किंरूपस्तयोर्भेद इत्यत आह, तयोरिति । व्यष्टिसमष्टिता एव तयोर्भेदः; तैजसो व्यष्टिरूपः; हिरण्यगर्भस्समष्टिरूपः । राजेव हिरण्यगर्भस्सर्वप्राणिष्वभिमानवान् भवति, प्रजा इव जीवाः स्वस्वोपाध्यभिमानवन्तो भवन्तीति भावः । २४॥

तैजसहिरण्यगर्भयोर्व्यष्टिसमष्टिरूपत्वे कारणमाह, समष्टिरिति ।

समष्टिरीशस्सर्वेषां स्वात्मतादात्म्यवेदनात् ।
तदभावात्ततोऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया ॥ २५॥

 ईशः हिरण्यगर्भस्सर्वेषां सूक्ष्मशरीरोपाधिकानां तैजसानां स्वात्मतादात्म्य- वेदनात् स्वात्मना तादात्म्यस्यैकत्वस्य वेदनात् परिज्ञानात् समष्टिर्भवति । ततो हिरण्यगर्भाद्भिन्ना अन्ये जीवास्तु तदभावात् तस्य सर्वेषां स्वात्मतादात्म्यवेदनस्य अभावात् व्यष्टिसंज्ञया कथ्यन्ते । जीवानां तु प्रत्येकं तत्तत्तादात्म्यवेदनमेव, न सर्वतादात्म्यवेदनमिति भावः ॥ २५ ॥

पुञ्जीकरणविवरणम् ।

 अथ स्थूलसृष्टिविवक्षया पञ्चीकरणं विवृणोति, तदिति ।

तद्भोगाय पुनर्भोग्यभोगायतनजन्मने ।
पञ्चीकरोति भगवान् प्रत्येकं वियदादिकम् ॥ २६ ॥

 भगवानणिमाद्यष्टैश्वर्यसम्पन्नः प्रथमतः प्राज्ञादीन् सृष्ट्वा पुनस्तद्भोगाय

तैजसानां भोगाय कर्मफलानुभवाय भोग्यभोगायतनजन्मने भोग्यमनुभवार्हमन्नपानादि

१६
[तत्त्वविवेक
पञ्चदशी

तस्य यो भोगोऽनुभवः, तस्य यदायतनं स्थानं शरीरजातं च, तयोर्जन्मने संजननार्थं वियदादिकं आकाशादिभूतपञ्चकं प्रत्येकमेकैकं पञ्चीकरोति वक्ष्यमाणरीत्या पञ्चाम्भकं करोति । २६ ॥

 पञ्चीकरणरीतिं विवृणोति द्विधेति ।

द्विधा विधाय चेकैकं चतुर्धा प्रथमं पुनः
स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते ॥ २७॥

 वियदादिपञ्चभूतानि द्विधा विधायेकैकं द्विधा द्विधा विभज्य, पुनः भागद्वयमध्ये प्रथमं भागं चतुर्धा चतुर्धा चतुर्धा विभज्य स्वस्वेतरद्वितीयांशैः स्वस्मात् स्वस्मादितरेषां चतुर्णां भूतानां “यो यो द्वितीय स्थूलो भागस्तेन तेन सह प्रथमं प्रथमांशानां चतुर्णाम् चतुर्णाम् मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्च पञ्चपञ्चात्मका" भवन्ति । अतः पञ्चीकरणानन्तरमेकैकस्मिन् भूते स्वस्वांशस्य अर्धभागतया,इतरेषां चतुणों भूतानां प्रत्यंकमष्टमांशानां चतुर्णो संकरणेनाऽर्धभागतया भावस्थितिर्बोध्यते ॥ २७ ॥

 पञ्चीकरणानन्तरं स्थूलशरीरोत्पत्तिं हिरण्यगर्भस्य तत्सृष्ट्यभिमानत्वे वैश्वानरसंज्ञां च वक्ति, तैरिति ।

तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद्भवः ।
हिरण्यगर्भस्स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ॥ २८ ॥

 तैः पञ्चीकृतभूतैरण्डः ब्रह्माण्ड उत्पद्यते । तत्र ब्रह्माण्डे भुवनं चतुर्दशलोकाश्च समभवन् । तत्र भोग्यभोगाश्रयोद्भवो भोग्यान्यन्नादीनि भोगस्य आश्रयास्तत्तल्लोकोचितानि शरीराणि तेषामुद्भवः उत्पत्तिरभवत् । अस्मिन् स्थूले देहे हिरण्यगर्भः समष्ट्यभिमानी वैश्वानरस्तरत्संज्ञको भवेत् ॥ २८ ॥

 व्यष्ट्यभिमानिनां संज्ञां तद्विभागादिकं च दर्शयति तैजसा इति ।

तैजसा विश्वतां याता देवतिर्यङ्नरादयः ।
ते पराग्दर्शिनः प्रत्यक्तत्वबोधविवर्जिताः ॥ २९॥

प्रकंरणम्।]
१७
कल्याणपीयूषव्याख्यासमेता

 व्यष्टिलिङ्गशरीराभिमानिनस्तैजसाः व्यष्टिस्थूलशरीराभिमानेन विश्वतां विश्व इति संज्ञां याताः। तथा विश्वतां यातास्तैजसा एव देवतिर्यङ्नरादय इति जातिभेदेन भिद्यन्ते । ते विश्वसंज्ञिका जीवाः पराग्दर्शिनः पराञ्चि बाह्यानि शब्दादीनि पश्यन्तीति तथोक्ताः । “ पराञ्चि खानि व्यतृणत् स्वयम्भूः” इति (कठ.२.४.१) श्रुतेः । तत्र कारणमाह, प्रत्यगिति । प्रत्यक्तत्वबोधविवर्जिताः यथार्धात्मज्ञानविकला इति हेतुगर्भविशेषणम् । श्रौततत्वज्ञानशून्यत्वमेव तेषां बाह्यदृष्टेः कारणमिति भावः ॥ २९ ॥

जीवस्य संसारप्राप्तितन्निवृत्तिविवरणम् ।

 तेषां बाह्यदृष्टेः फलमाह, कुर्वत इति ।

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते ।
नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते ॥
व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ॥ ३०॥

 भोगाय भोगापेक्षया कर्म पुनर्जन्मनिमित्तं शुभाऽशुभं कुर्वते; कर्म कर्तुं भुञ्जते; व्यवहरन्तः तदनुकूलफलं च भुञ्जन्ति तत्फलोचितं जन्म प्राप्नुवन्ति “ रमणीयचरणाः रमणीयां योनिमापद्यन्ते “ (भां.५.१०.७) इत्यादि श्रुतेः। फलोपभोगानन्तरं शेषकर्मोशफलानुभवाय जन्मान्तरमाप्नुवन्ति । “तस्मिन्यावत्स- म्पातमुषित्वाधैतमेवाध्वानं पुनर्निवर्तन्ते” (भां. ५. १०.५) इति श्रुतेः। तत्र दृष्टान्तमाह, नद्यामिति । यथा नद्यां नदीवेगे कीटाः प्रवाहनिरोधनासमर्धा: क्षुद्रप्राणिन आशु शीघ्रं आयासोपशमनात्प्रागेव आवर्तादावर्तान्तरमावर्तपरम्परां व्रजन्ति । तद्वत्ते पराग्दर्शिनो देवादयो जन्मनो जन्म अन्यज्जन्म व्रजन्तो निर्वृतिं निरतिशयसुखं नैष्कर्म्यं नैव लभन्ते “मृत्योस्स मत्युं गच्छति य इह नानेव पश्यती"तिश्रुतेः । (कठ. २.४. ११.)

तर्हि तेषां निर्वृतिप्राप्याशैव नास्तीत्याशङ्कय आह, सत्कर्मेति ।

सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः ।
प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् ॥ ३१ ॥

१८
[तत्त्वविवेक
पञ्चदशी

उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः ।
पञ्चकोशविवेकेन लभन्ते निर्वृतिं पराम् ॥ ३२॥

 सत्कर्मपरिपाकान् पूर्वोपार्जितसुकृतविशेषस्य परिपाकात्सम्यक् फलोद्भमात् करुणानिधिना करुणा स्वयंसहायासमर्थेषु कृपणेषु दया, तस्या निधिराकरः तेनात्यन्तकृपालुना पुरुषेणोद्धृताः प्रवाहाद्बहिरुन्नीताः कीटाः तीरतरुच्छायां प्राप्य यथासुखं विश्राम्यन्ति ॥ ३१ ॥

 एवं पराग्दर्शिनो देवादयः पूर्वसुकृतफलोद्गमे आचार्यादुपदेशं श्रवणरूपमवाप्य मननादिना तत्त्वदर्शिनस्संतोऽन्नमयादिपञ्चकोशविवेकेन प्रत्यगात्मानं तेभ्यो विविच्य परां निर्वृतिं नैष्कर्म्यं निरतिशयसुखं लभन्ते । जगत्सृष्टिस्थिति- लयानां यत्कारणं तद्बह्योत्याचार्येणोपदिष्टो भृगुस्खयं पुन:पुनस्तपस्तप्त्वान्नमयादि- पञ्चकोशविवेचनेनान्ते “ आनन्दो ब्रह्मेति" यथा व्यजानात्तथेति भावः ॥ ३२ ॥

पञ्चकोशविवरणम् ।

 विवेच्यान् पञ्चकोशान् विवृणोति, अन्नमिति ।

अन्नं प्राणो मनो बुद्धिरानन्दश्चेति पञ्च ते।।
कोशास्तैरावृतस्स्वात्मा विस्मृत्य संम्सृतिं व्रजेत् ॥३३॥

 अन्नं प्राणो मनो बुद्धिरानन्दश्चेति ते कोशाः पञ्च । ‘नामैकदेशे नामग्रहण'मिति न्यायेन अन्नादिशब्दैरन्नमयादिकोशाः प्रकीर्तिताः । बुद्धिर्नाम विज्ञानं । तैः पञ्चकोशैरावृतः स्वात्मा निजहृत्पुण्डरीक एव स्वस्वरूपेण साक्षात्कारयोग्य आत्मा। विस्मृत्या स्वस्वरूपविस्मरणेन, संस्सृतिं संसारं व्रजेत् गच्छेत्॥ ३३ ॥

पञ्चकोशानां स्वरूपविवरणे आदावन्नमयप्राणमयकोशावाह, स्यादिति।

स्यात्पञ्चीकृतभूतोत्थो देहस्स्थूलोऽन्नसंज्ञिकः ।
लिङ्गं तु राजसैः प्राणै: प्राणः कर्मेन्द्रियैस्सह ॥ ३४ ॥

 पञ्चीकृतभूतोत्थः पञ्चीकृतभूतेभ्य उत्पन्नः स्थूलो देहोऽन्नसंज्ञिकः अन्नमय-

कोश इत्युच्यते । प्राणस्तु प्राणमयकोशस्तु लिङ्गे लिङ्गशरीरे विद्यमानैः राजसैः

प्रकरणम्।]
१९
कल्याणपीयूषव्याख्यासमेता

पञ्चभूतानां समष्टिकृतैः पञ्चभी रजोंशैरुत्पन्नै: प्राणैः प्राणादिवायुपञ्चकेन कर्मेन्द्रियैस्सह तेषां प्रत्येकं प्रत्येकं रजोंशैरुत्पादितैर्वागादिकर्मेन्द्रियैस्सह दशभिः प्राणः प्राणमयकोशस्स्यात् ॥ ३४ ॥

 अथ मनोमयविज्ञानमयावाह, सात्त्विकैरिति ।

सात्त्विकैर्धीन्द्रियैस्साकं विमर्शात्मा मनोमयः ।
तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका ॥ ३५॥

 सात्त्विकैर्धीन्द्रियैस्साकं पञ्चभूतानां प्रत्येकशस्सत्वांशैरुत्पादितानि यानि श्रोत्रादिज्ञानेन्द्रियाणि तैस्सहितं विमर्शात्मा । तेषां समष्टिभूतसत्वांशैरुत्पादितं संकल्पविकल्पात्मकवृत्तिरूपं मनोमयः कोशस्स्यात् । तैरेव ज्ञानेन्द्रियैस्सहिता निश्चयात्मिका धीः निश्चयवृत्तिस्वरूपा बुद्धिर्विज्ञानमयकोशस्स्यात् ॥ ३५ ॥

 अयमत्र संग्रहः । अन्नमय प्राणमय, मनोमय, विज्ञानमयानन्दमया इति पञ्चकोशाः। तमःप्रधानायाः प्रकृतेः कार्यमधिकतमोंशकं सत्त्वरजस्सम्मिश्रितमाकाशादिभूतपञ्चकम् । तेषां प्रत्येकं सत्वरजोम्शसमारब्धे ज्ञानेन्द्रियकर्मेन्द्रियपञ्चके। तेषामेव समष्टिसत्त्वांशोद्भूतं ज्ञानशकत्त्यात्मकमंतःकरणम् । तच्च विमर्शनिश्चयरूपवृत्तिभेदान्मनो बुद्धिरिति द्विविधम् । तेषां समुदायरजोंशसमुद्भतः प्राणः । स च प्राणनादिहेतुः क्रियाशकत्त्यात्मकः प्राणापानादिवृत्तिभेदेन पञ्चधा भवति । एतत्पञ्चकत्रयमंतःकरणं च गुणत्रयस्य तरतमभेदेन सम्मिश्रणाद्भवति । स्थूलशरीरोऽन्नमयकोशः। ततस्सूक्ष्मतरः प्राणमयकोशः। अन्तःकरणोपादानभूतसत्त्वगुणस्य सुखप्रकाशनगुणप्रकटनसामर्थ्यं तत्कार्येऽन्तःकरणेऽप्यभिव्यज्यते । सत्वगुणस्वरूपप्रकाशनात्मिका वृत्तिः संकल्पविकल्पस्वरूपा मन इत्यभिधीयते । तत्स्वरूपसुखाभिव्यञ्जिका निश्चयात्मिका बुद्धिरितीरिता । वृत्तिद्वयस्यापि चक्षुरादीन्द्रियाणि तत्तद्ज्ञानसाधनत्वेनोपकुर्वन्ति । अतो विमर्शसाधनज्ञानेन्द्रियपञ्चकसचिवमन्तःकरणवृतिविशेषात्मकं मनो मनोमयकोशः; निश्चयज्ञानसाधनज्ञानेन्द्रियपञ्चकसचिवान्तःकरणवृत्तिविशेषात्मिका बुद्धिर्विज्ञानमयकोशो भवति । सर्वत्रेदमित्थमिति निश्चयकरणात्

प्राग्गुणदोषविषयपरिच्छेदरूपस्यासाधारणकारणस्यावश्यकत्वान्मनोमयकोशस्य कर

२०
[तत्वविवेक
पञ्चदशी

णत्वमिदमित्थमितिनिश्चायकस्य विज्ञानमयस्य कर्तुत्वं चावश्यमुपपद्येते । एवं चाहंकर्तेति वृत्तिज्ञानवेद्यं यद्वस्तु तद्विज्ञानमिति प्रतिपन्नम् । निश्चायकवस्तुज्ञानं निश्चेयवस्तुज्ञानमिति च अन्तःकरणस्य वृत्तिद्वयं समुपपद्यते । निश्चायकवस्तुज्ञान- महंकर्तेति ज्ञातारमेव विषयीकरोति । स च विज्ञानमयः । निश्चेयवस्तुज्ञानं तु ज्ञातुरन्यमिदंपदार्थं विषयीकरोति । पार्श्वतो निहितं कोष्टमनुसन्धेयमस्मिन्नर्थे ।

 नायमात्मा विज्ञानमयः आत्मैव सर्वव्यवहारप्रमाता कर्तेति न वक्तव्यम्, तस्य कर्तृत्वस्योपाधिधर्माध्यासेन प्राप्तत्वात् तत्त्वतः शुद्धबुद्धमुक्तस्वभावो निष्क्रियो निष्कलश्वात्मा । अविद्योपार्जितोपाधिधर्मारोपेण कर्तृत्वभोवतृत्वे तस्मिन्नवकल्प्येते । “ कर्ता शास्त्रार्धवत्त्वात्” (ब्र.सू. २. ३. ३३) “यथा च तक्षोभयथा” (ब्र. सू. २.३.४०) इत्यादि सूत्रबलात् । “तक्षेवायमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति " । न च कर्तृत्वमापादयति शास्त्रमात्मनः । किन्तु “ यजेत, जुहूया" दित्यादिविशेषविधिशास्त्रमादाय कर्तव्यविशेषमेवोपपाद- यतीति ॥ ३५ ॥

 अनन्तरमानन्दमयकोशस्वरूपमुच्यते, कारण इति ।

कारणे सत्त्वमानन्दमयो मोदादिवृत्तिभिः।
तत्तकोशैस्तु तादात्म्यादात्मा तत्तन्मयो भवेत् ॥ ३६ ॥

 कारणे कारणशरीरभूतायामविशुद्धसत्त्वस्वरूपाविद्यायां यत्सत्त्वमविशुद्धसत्त्वमस्ति तन्मोदादिवृत्तिभिस्सहितं आनन्दमयस्तत्संज्ञिको जीवो भवेत् । ननु "अन्योऽन्तर आत्मा प्राणमयः " (तै. २. २) इत्यादिभिरन्नमयादिशब्दानां कोशपरत्वेन विवक्षितत्वात्कथं तेषां जीवबोधकत्वमित्यत आह तत्तदिति । तत्तत्कोशैस्त्वन्नमयप्राणमयादिकोशैस्तु तादात्म्यात्तत्तत्कोशस्वरूपाभिमानादात्मा तत्तन्मयस्तत्कोशस्वरूप इव भवेत् । ततत्स्वरूपेण व्यवह्रियत इति भावः ॥ ३६ ॥

प्रकरणम्।]
२१
कल्याणपीयूषव्याख्यासमेता

परब्रह्मप्रतिबिम्बिता प्रकृतिः शुद्धसत्वा माया अविशुद्धसत्वा अविद्या ईश्वरोपाधिः कारणशरीरः - जीवोपाधिः (आनन्दमयकोशः)

                     तमःप्रधाना 
                    आकाश - सत्त्व--श्रोत्र 
                            रज:       वाक् 
                    वायु   - सत्त्व--त्वक् 
                            रज:       पाणि 
                   अग्नि  - सत्त्व--चक्षु: 

समष्टिरजः समष्टिसत्त्व रज: पाद

                    जल   - सत्त्व--जिह्वा 
        अंतःकरण            रज:       पायु 

प्रा अव्या उ स पृथिवी - सत्त्व--घ्राण ण पा न दा मा रज: उपस्था

      बुध्दि मनः
  न    न न

प्राणपञ्चकम् विज्ञानमयकोश मनोमयकोश प्राणमयकोश सूक्ष्मशरीर व्यष्टिरूपाःतैजसाः समष्टिरूपो हिरण्यगर्भः विश्वाः

देवनरतिर्ययादयः अन्नमयकोशः

२२
[तत्त्वविवेक
पञ्चदशी

पञ्चकोशविवेकेन ब्रह्मावाप्तिविवरणम्

 तत्तत्कोशतादात्म्यमापन्नस्य जीवस्य कथं ब्रह्मत्वमित्यत आह, अन्वयेति।

अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकतः ।
स्वात्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते ॥ ३७ ॥

 अन्वयव्यतिरेकाभ्यां, अस्मिन्प्रकरणेऽन्वयशब्देनानुवृत्तिर्व्यतिरेकशब्देन व्यावृत्तिश्चाभिधीयते । न तु यत्सत्वे यत्सत्वं यदसत्वे यदसत्वमिति लक्षणलक्षिता। अनुवृत्तिर्नाम प्रतीतिः । व्यावृत्तिर्नामाप्रतीतिः। निजमण्डलं प्रविष्टं सम्राजमनुसृत्य निजमंण्डलान्तमनुवर्तते सामन्तराजः । तस्मिन्मण्डलान्तरं प्रविशति स निवर्तते । समस्तमण्डलानि पर्यटति राजा तत्तत्सामन्तराजैरनुवृतः । ते च स्वस्वमण्डल- सीमान्तमनुवर्त्य ततो निवर्तन्ते । मण्डलान्तरे तु नाऽनुवर्तन्ते । एवं सामन्तराजा सम्राजो भिन्नाः। तथैव ताभ्यां पञ्चकोशविवेकतोऽन्नमयादीनां प्रत्यगात्मनो विभजनेन स्वात्मानं ततः पञ्चकोशेभ्यः सम्राजं सामन्तराजेभ्य इव उद्धृत्य विवेचितमात्मानं बुध्द्था निश्चित्य परं ब्रह्म प्रपद्यते आप्नोति । तद्भावमाप्नोतीति भावः ॥ ३७ ॥

 अन्नरसमयस्स्थूलदेहात्मकोऽयं पुरुषः; अन्नकार्यत्वात्, अन्नेनैवोपचीयमानत्वात्, तस्मिन्नेव विलीयमानत्वाच्च । तत्र स्थूलदेहस्य व्यावृत्तिं पुरुषस्यानुवृत्तिं च दर्शयति, अभान इति ।

अभाने स्थूलदेहस्य स्वप्ने यद्भानमात्मनः ।
सोऽन्वयो व्यतिरेकस्तद्भानेऽन्यानवभासनम् ॥ ३८ ॥

 स्थूलदेहस्यान्नमयकोशस्य स्वप्ने अभाने सति आत्मनो यद्भानं स्फुरणमस्ति सोऽन्वयः । तद्भाने तदात्मनो भानेऽपि स्वप्नेऽन्यानवभासनमन्यस्य स्थूलदेहस्याप्रतीतिर्व्यतिरेकः । अन्नमयकोशो नात्मा, स्वप्ने ह्यात्मनि भासमानेऽपि

तद्भाषादिति भावः ॥ ३८ ॥

प्रकरणम्।]
२३
कल्याणपीयूषवत्र्याख्यासमेता।

 स्थूलशरीरमात्मा माऽस्तु । सूक्ष्मशरीरं कि न स्यात् ? तत्रैव प्राणनादि- क्रियाशक्तेस्संकल्पविकल्पनिश्चयात्मकसर्वव्यवहारस्य दृश्यमानत्वादित्याशङ्कय तस्य सुषुप्तौ व्यावृत्तिं आत्मनोऽनुवृत्तिं च दर्शयति, लिङ्गेति ।

लिङ्गाभाने सुषुप्तौ स्यादात्मनो भानमन्वयः ।
व्यतिरेकस्तु तद्भाने लिङ्गस्याभानमुच्यते ॥ ३९ ॥

लिङ्गस्य सूक्ष्मशरीरस्याभाने सर्वेन्द्रियाणां तत्र विलीनत्वादात्मनो भानमन्वयः।। सुषुप्तौ तद्भाने तस्य आत्मनो भाने लिङ्गस्य लिङ्ग रीरस्याभानं व्यतिरेकः उच्यते । लिङ्गशरीरादात्मा भिन्नः सुषुप्तौ लिङ्गशरीरस्योपरमेऽप्यात्मनम्साक्षि- रूपेण भासमानत्वात् । नाऽत्मा सूक्ष्मशरीरं, सुषुप्तावात्मनि भासमानेऽपि तद- भानात् ॥ ३९ ॥

 काशाववचनप्रकरण लिङ्गदेहविवेचनमसम्बद्धम्, तस्य कोशत्वनानुक्तरित्याशङ्कय प्राणमयादिकोशत्रयस्य तत्रान्तर्भावात् तद्विवेचने त्रितयस्यापि विवेचनं कृतं स्यादिति तद्विवेचनस्य नाप्रकृतत्वामित्याशयं विवृणोति, तदिति ।

तद्विवेकाद्विविक्तास्स्युः कोशाः प्राणमनोधियः ।
ते हि तत्र गुणावस्थाभेदमात्रात्पृथक्कृताः ॥ ४० ॥

 तद्विवेकात् तस्य सूक्ष्मशरीरस्य विवेकात्, प्राणमनोधियः कोशाः विविक्तास्स्युः। कुतः ? हि यस्मात्कारणात् ते प्राणमयादयस्तत्र तस्मिन्सूक्ष्म- शरीरे गुणावस्थाभेदमात्रात् गुणौ च तदवस्थे च गुणावस्थाः, तेषां भेदः, “द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं सम्बध्यते " इति न्यायाद्गुणभेदमात्रात्तदवस्थाभेद- मात्रादित्यर्थः तद्भेदमात्रत्वात् , समुदायादिसम्मिश्रणकृतावस्थाविशेषादेव पृथक्कृताः विभक्ताः । सूक्ष्मशरीरस्यात्मनो विभक्तत्वे सति तद्धटकीभूतसत्वरजोगुणसम्मिश्रण- मेदेन कृतं प्राणमयादिकोशत्रितयमपि विभक्तमेव भवतीत्यर्थः ॥ ४० ॥

 आनन्दमयस्याप्यनात्मत्वमुपदिशति, सुषुप्तीति ।

सुषुप्त्यभाने भानन्तु समाधावांत्मनोऽन्वयः ।
व्यतिरेकस्त्वात्मभाने सुषुप्त्यनवभासनम् ॥ ४१ ॥

२४
[तत्त्वविवेक
पञ्चदशी

 समाधौ सुषुप्त्यभानं सुषुप्तेस्तदुपलक्षितकारणदेहात्मिकाविद्याया अभानेऽपि आत्मनो भानं अशेषावरणोच्छेदनानन्तरं प्रकाशनं तिरस्करण्यपनयनानन्तरं दीपस्येव यदस्ति सोऽन्वयः । आत्मभाने प्रत्यगात्मप्रकाशने सुषुप्त्यनवभासनं सुषुप्त्युपलक्षिताज्ञानानवभासनं व्यतिरेकः ।

 अयं भावः । अन्नमयादिपञ्चकोशाः परस्परं व्यावर्तन्ते । एकतरस्य भानेऽप्यन्यतरस्याभानात् । आत्मापि तेभ्यो व्यावर्त्यते, तेषामभानेऽपि तद्भानात् । यदितरेषामभानेऽपि स्वयं भासते तदितरेभ्यो भिद्यते । एवं पञ्चकोशेभ्यः प्रत्यगात्मा विवेचनीय इति ॥ ४१ ॥

 एवं पञ्चकोशविवेकफलबोधिकां ‘‘तां स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृत”मिति । (कठ. २. ३. १७.) श्रुतिमर्थतः पठति यथेति ।

यथा मुञ्जादिषीकैवमात्मा युक्त्त्या समुद्धृतः।
शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥ ४२ ॥

 यथा मुञ्जान्नामकतृणविशेषादिषेकान्तर्गर्भस्थः कोमलकाण्डस्समुद्धृतः तथा धीरैः धियं रातीति धोरः यद्वा धियमोरयतीति धीरः । शरीरत्रितयात् स्थूलसूक्ष्मकारणशरीरत्रयाद्युक्त्या अन्वयव्यतिरेकरूपया आत्मा समुद्धृतः पृथक्कृतश्चेत्परं ब्रह्मैव चिदानन्दरूपं जायते ॥ । ४२ ॥

"तत्त्वमसीति" वाक्यस्यार्धनिर्णयः

 एवं युक्त्या सम्पादितं जीवब्रह्मणोरैक्यं तत्त्वमसीत्यादिमहावाक्यैरुपदिष्टमित्याह, परेति

परापरात्मनोरेवं युक्त्या संभावितैकता ।
तत्त्वमस्यादिवाक्यैस्सा भागत्यागेन लक्ष्यते ॥ ४३ ॥

प्रकरणम्।]
२५
कल्याणपीयूषव्याख्यासमेता

 एवं पूर्वोक्तरूपया युक्त्या अन्वयव्यतिरेकरूपया परापरात्मनोर्जीवब्रह्मणोरेकता सम्भाविता ज्ञापिता। सा ह्येकता तत्त्वमस्यादिवाक्यैः भागत्यागेन परस्परविरुद्धतया प्रतीयमानानां भागानां त्यागेन वक्ष्यमाणरीत्या संत्यजनेन लक्ष्यते लक्षणया बोध्यते ॥ ४३ ॥

 भागत्यागविवरणस्य पूर्वाङ्गत्वेन "तत्त्वमसी"ति तिमहावाक्यगततच्छब्दार्थमाह, जगत इति ।

जगतो यदुपादानं मायामादाय तामसीम् ।
निमित्तं शुद्धसत्त्वां तामुच्यते ब्रह्म तद्विरा ॥ ४४ ॥

 तामसीं तमःप्रधानां मायामादाय उपाधित्वेन स्वीकृत्य जगत उपादानमुपादानकारणं शुद्धसत्वां तां मायाप्रकृतिमादाय निमित्तं निमित्तकारणञ्च यद्ब्रह्म भवति तत्गिरा तत्त्वमसीतिमहावाक्ये तच्छब्देनोच्यते बोध्यते । तम:प्रधानीभूत- मायामादाय सृष्टेरुपादानकारणीभूतां, शुद्धसत्त्वप्रधानां तामादाय निमित्तभूतं च ब्रह्म श्रुतिघटकतच्छब्दाभिधेयं भवतीत्यर्थः ॥ ४४ ॥

 अनन्तरं त्वंशब्दार्थमाह, यवेति ।

यदा मलिनसत्त्वां तां कामकर्मादिदूषिताम् ।
आदत्ते तत्परं ब्रह्म त्वंपदेन तदोच्यते ॥ ४५ ॥

 तत्परं ब्रह्म तदेव परं ब्रह्म यदा मलिनसत्त्वामविशुद्धामत एव कामकर्मादि दूषितां यत्र “कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते" इति लक्षितामविद्यास्वरूपां तां प्रकृतिमादत्ते अधितिष्ठति तदा त्वंपदेनोच्यते । परं ब्रह्म अविद्यामास्थाय जीवस्वरूपेण यदा भोगायतनपरम्परामभिमन्यते तदा त्वंपदवाच्यं भवतीति भावः ॥ ४५ ॥

 तत्त्वंपदार्थमभिधाय वाक्यार्थमभिदधाति, त्रितयीति ।

त्रितयीमपि तां मुक्त्वा परस्परविरोधिनीम् ।
अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते ॥ ४६ ॥

२६
[तत्वविवेक
 

 परस्परविरोधिनीं शुद्धसत्त्वप्रधाना मलिनसत्त्वप्रधाना तमःप्रधानेति भिन्नतया भासमानां त्रितयीमपि त्रिप्रकारिकां तां प्रकृतिं मुक्त्वा महावाक्येन तत्त्वमसीति वाक्येनाखण्डं सच्चिदानन्दं भेदत्रयविरहितं शुद्धबुद्धमुक्तस्वभावं ब्रह्म लक्ष्यते वाक्यस्य लक्ष्यं भवति । अधिष्ठानपरित्यागे तत्कृतभेदनाशः ; तन्नाशेऽधि- ष्टातुरैक्यमेव शिष्यत इति भावः ॥ ४६ ॥

 एवं भागपरित्यागेन वाक्यार्थकल्पने दृष्टान्तमाह, स इति ।

सोऽयमित्यादिवाक्येषु विरोधात्तदिदन्तयोः।
त्यागेन भागयोरेक आश्रयो लक्ष्यते यथा ॥ ४७ ॥

 यथा सोऽयमित्यादिवाक्येपु सोऽयं देवदत्त इत्यादिषु स देवदत्तो ह्ययमेवेत्यन्वये कर्तव्ये तच्छब्देन यः पूर्वस्मिन्काले कस्मिम्श्चित्स्थले तावद्वयस्को देवदत्ताख्यः परोक्षः पुरुष उच्यते, इदंशब्देन अस्मिन्समये अत्रैतावद्वयस्कः प्रत्यक्षेण ग्राह्य इत्यादिवाक्येषु तदिदन्तयोः तत्पदार्थं विशेषणतया भासमानस्य तद्देशवृत्तित्वादेरिदंपदार्थविशेषणतया भासमानस्यैवैतद्देशवृत्तित्रादेश्च विरोधात् परस्परभेदादसीति पदबोधितमैक्यमनुपपन्नमित्यनुपपत्तिमूलकलक्षणामहिम्ना भागयोर्विरुद्धविशेषणांशयोस्त्यागेनैक आश्रयोऽवशिष्टा एका देवदत्तरूपा व्यक्तिर्यथा लक्ष्यते जहदजहल्लक्षणया बुध्यते ॥ ४७ ॥

 तथैव तत्त्वमसीति महावाक्ये परित्याज्यपरिग्राह्यांशौ विशदयति, मायेति ।

मायाऽविद्ये विहायैवमुपाधी परजीवयोः ।
अखण्डं सच्चिदानन्दं परब्रह्मैव लक्ष्यते ॥ ४८ ॥

 एवं परजीवयोः परः शुद्धसत्त्वप्रधानमायाप्रतिबिम्बितत्वेन निमित्तभूता, तम:प्रधानमायाप्रतिबिम्बितत्वेनोपादानभूता च या चित् , तद्रूप ईश्वर:, जीवः कामकर्मदूषितमलिनसत्त्वप्रधानामविद्यामाश्रित्य जीवस्वरूपेण प्रतीयमानः तयोरुपाधी विशेषणीभूते मायाऽविद्ये बिहाय अखण्डं भेदतयशून्यमवशिष्टं सच्चिदानन्दं परं

ब्रह्मैव लक्ष्यते ॥ ४४ ॥

प्रकरणम्।]
२७
कल्याणपीयूषव्याख्यासमेता।

 अभिधा लक्षणा व्यञ्जनेति च त्रिप्रकारिका अर्धबोधिका वृत्तिः । तत्र पुनर्लक्षणावृत्तिस्त्रिविधा १. जहत्स्वार्था । २. अजहत्स्वार्था. ३. जहदजहत्स्वार्था- चेति । यत्र मुख्यार्थस्य बाधे सति बोधिते अर्थान्तरे मुख्यार्धस्य सर्वथा त्यागस्तत्र जहत्स्वार्था, यथा गङ्गायां घोष इत्यत्र प्रवाहे ग्रामस्य स्थितेरसम्भवाद्गङ्गाशब्दस्य तीरे लक्षणा आश्रीयते । मुख्यार्थमपरिहाय यत्रान्यार्धोपि गृह्यते तत्राऽजहत्स्वर्था । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकशब्देन काकमपरिहाय दध्युपघातुकमार्जा- लादयोऽपि गृह्यन्ते । पदार्थैकदेशमपहायांशांतरं यत्र गृह्यते तत्र जहदजहत्स्वार्था यथा सोऽयं देवदत्त इत्यत्र मुख्यार्थैकदेशविशेषणांशपरित्यागेन भागान्तरस्य परित्रह इतिदिक् ।। ४८ ॥

अत्रपूर्वपक्षनिरास:

 ननु लक्ष्यार्थस्सर्वोऽपि लक्ष्यतावच्छेदकधर्मवैशिष्टयेनैव बुध्यत इत्यनुभवः। धर्मविशिष्टमवस्त्वित्यौपनिषदानां सिद्धान्तः । एवं स्थिते ब्रह्म लक्ष्यत इति कथमुच्यत इति शङ्कते, सविकल्पस्येति ।

सविकल्पस्य लक्ष्यत्वे लक्ष्यस्य स्यादवस्तुता ।
निर्विकल्पस्य लक्ष्यत्वं न दृष्टं न च सम्भवि ॥ ४६॥

 सविकल्पस्य विकल्पेन विपरीतत्वेन कल्पितेन नामरूपादिधर्मेण सह वर्तत इति सविकल्पो धर्मविशिष्टः ; तादृशस्य लक्ष्यत्वे वाक्यलक्ष्यत्वाङ्गीकारे लक्ष्यस्य परब्रह्मणोऽवस्तुता स्यात् । सधर्मकत्वप्रसङ्गेन मिथ्या स्यात्, सधर्मकस्य वस्तुनस्सिद्धान्तरीत्या मिथ्यात्वाभ्युपगमादिति भावः । परं ब्रह्मैव लक्ष्यत इत्युक्तिस्तु सर्वथा असङ्गतेत्याह, निर्विकल्पेति । निर्विकल्पस्य नामरूपादिधर्मर्शून्यस्य लक्ष्यत्वं लक्षणावृत्या बोध्यत्वं न च दृष्टं न हि लोके कुत्रापि व्यवहारसिद्धम् । व्यवहारे अदर्शनमात्रमेव न, युक्त्यापि साधयितुं न शक्यमित्याह, न सम्भवीति । निर्विकल्पस्य लक्ष्यत्वं युक्त्या न सिद्ध्यति ।। ४९ ॥

 सिद्धान्तापरिज्ञानेनेद्भावितां शङ्कामग्रे तत्प्रख्यापनेनैव परिजिहीर्षु:

प्रथमं वैतण्डिकतामवलम्ब्य तदुक्तशङ्काया एव नावकाश इंति प्रतिपक्षिणमाक्षिपति, विकल्पेति ।

२८
[तत्वविवेक
पञ्चदशी

विकल्पो निर्विकल्पस्य सविकल्पस्य वा भवेत् ।
आद्ये व्याहतिरन्यत्रानवस्थाऽत्माश्रयादयः ॥ ५० ॥

 विकल्पो महावाक्यार्थस्य लक्ष्यत्वं वा । भवेदिति पूर्वपक्षिणा कृतो यो विकल्पस्स निर्विकल्पंस्य सविकल्पस्य वा भवेत्? आद्ये तावद्व्याहतिः स्ववचनव्याघातः ; विकल्परहितस्य विकल्पासम्भवात् । अन्यत्र सविकल्पस्य विकल्प इति पक्षे अनवस्थात्माश्रयादयः । तत्र विशेषणीभूतविकल्पात् विधेयभूतो विकल्पो भिन्नोऽभिन्नो वा ? अभिन्नत्वे विधेयस्य अज्ञातत्वनियमेन तस्यैव विशेणत्वे विशेषणस्याज्ञनाद्विशेषणविशिष्टस्य उद्देश्यस्य ज्ञानं न सम्भवति ; विशिष्टज्ञानस्य विशेषणज्ञानपूर्वकत्वनियमात् । एवं च आत्माश्रयाद्विकल्पविशिष्टस्य विकल्प इति वाक्यस्य अबोधकत्वप्रसङ्गः । यदि विशेषणीभूतविकल्पात् विधेयभूतो विकल्पो भिन्न इत्युच्यते तदा विशेषणीभूतविकल्पस्सविकल्पकस्य निर्विकल्पकस्य वेति विकल्पे, तत्र विकल्पस्य प्रथमविकल्पात्मकत्वेऽन्योन्याश्रयः द्वितीयविकल्पात्मकत्वे आत्माश्रयः । तस्यापि विकल्पान्तरापेक्षत्वे तस्यापि विकल्पस्य विकल्पान्तरापेक्षत्वमित्यादिक्रमेणानवस्था । अतस्त्वदुक्तो विकल्प अयुक्त एवेति भावः ॥ ५० ॥

 न केवलमत्रैवेयमनुपपत्तिः किन्तु नैय्यायिकानां पदांर्थविभागेऽपि दृश्यत इत्याह, इदमिति ।

इदं गुणक्रियाजातिद्रव्यसम्बन्धवस्तुषु ।
समं तेन स्वरूपस्य सर्वमेतदितीष्यताम् ॥ ५१ ॥ ।

 इदं विकल्पनिराकरणं गुणक्रियाजातिद्रव्यसंबंधवस्तुषु तद्रूपेषु वस्तुषु सममेव । तथाहि गुणः किं गुणवति निर्गुणे वा ? क्रिया तद्वति तद्रहिते वा ? द्वितीये स्ववचनव्याघातः । प्रथमे पूर्ववत्स्वाश्रयादिदोषापत्तिरित्यर्थः । एवं वितण्डया

पूर्वपक्षस्यानुपपत्तिं प्रदर्शये स्वमतानुसारेणोत्तरमाह , तेनेति । तेन विकल्पस्यासङ्गतत्वेनैतत्सर्वं गुणक्रियादयो धर्मास्सर्वेऽपि स्वरूपस्य वस्तुनो नामरूपात्मकस्य न तु परमार्थवस्तुन इतीष्यताम् । परमार्थवस्तुनो गुणक्रियारूपादिरहितत्वात्तस्य भेदकल्पनाया असङ्गतिः। नामरूपविशिष्टस्यानेकतया प्रतीयमानस्यास्य जगत ।

प्रकरणम्।]
२९
कल्याणपीयूषव्याख्यासमेता

एवैष विभागो न तु परमार्थवस्तुनः। "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य" मिति श्रुतेः (छां. ६. १.४) ॥ ५१ ॥

 नायं पदार्थत्वविचारः परमार्थवस्तुनीत्येवमर्थमेव प्रपञ्चयति, विकल्पेति।}}

विकल्पतदभावाभ्यामसंस्पृष्टात्मवस्तुनि ।
विकल्पितत्वलक्ष्यत्वसम्बन्धाद्यास्तु कल्पिताः ॥ ५२॥

 विकल्पतदभावाभ्यां महावाक्यलक्षितं परमार्थं वस्तु सविकल्पं वा निर्विकल्पं वेत्याकारकविचारणया असंस्पृष्टात्मवस्तुनि असङ्गात्मपदार्थे विकल्पि- तत्वलक्ष्यत्वसंबंधाद्यास्तु विकल्पितत्वं सविकल्पत्वमुत निर्विकल्पत्वमिति विचारणा- विषयत्वं लक्ष्यत्वं सम्बन्धस्समवायादिः आदिर्येषां ते तथाभूताः ; आदिशब्देन द्रव्यादिसप्तपदार्था गृह्यन्ते ; ते कल्पिताः आरोपिताः। तार्किकाभिमतद्रव्यत्वादि- पदार्थविभाजकधर्माः नामरूपात्मकस्य जगतो न तु परमार्थवस्तुनः । तच्च “अशब्दमस्पर्शमरूपमव्यय" मित्यादिना (का. १. १५) ज्ञेयम् । ननु सिद्धान्ति- भिरपि लक्षणावृत्तिस्स्वीक्रियत इति चेन्न; महावाक्यार्थरूपव्यवहारदशायामेव तस्याङ्गीकृतत्वात् ॥ ५२ ॥


श्रवणादित्रयविवरणम् ।

 एवं तत्त्वमस्यादिमहावाक्यार्थं विचारणाफलानुवादपूर्वकं निरूप्य "आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य" (बृ.४.५. ६.) इत्युपनिषद्वाक्योपात्तश्रवणमनननिदिध्यासनेष्वादावाद्यद्वयस्य स्वरूपं निरूपयति,इत्थमिति ।

इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् ।
युक्तया सम्भावितत्वानुसन्धानं मननन्तु तत् ॥ ५३ ॥

 वाक्यैस्तत्त्वमस्यादिभिरित्थमन्वयव्यतिरेकादियुक्तया पञ्चकोशविवेकेन भागत्यागलक्षणया चोक्तरीत्यार्धकल्पनेन तदर्थानुसन्धानं तेषां महावाक्यानामर्धस्य

जीवब्रह्मणोरैक्यरूपस्यानुसन्धानमवबोधनं श्रवणं भवेत् । एवं श्रवणानन्तरं श्रुतस्यार्धस्य युक्त्या सम्भावितत्वानुसन्धानमिति यत्तत्तु मननमित्यभिधीयते ॥ ५३ ॥

३०
[तत्त्वविवेक
पञ्चदशी

 अनन्तरं निदिध्यासस्वरूपमाह, ताभ्यामिति ।

ताभ्यां निर्विचिकित्मेऽर्थे चेतसःस्थापितस्य यत् ।
एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥ ५४ ॥

 ताभ्यां श्रवणमननाभ्यां निर्विचिकित्सेऽर्थे निर्गता विचिकित्सा शङ्का यस्मात्स असन्दिग्धो योऽर्थस्तस्मिन् स्थांपितस्य स्थिरीकृतस्य चतसः। एकतानत्वमे- काकारवृत्तिप्रवाहवत्वमेतन्निदिध्यासनमुच्यते । हेति प्रसिद्धार्धे । प्रसिद्धिश्च ; 'प्रत्ययैकतानता ध्यान'मिति योगशास्त्रे द्रष्टव्या ॥ ५४ ॥

 समाधितत्फलनिरूपणम् ।

 अत्र ध्यातृध्यानध्येयञ्चेति त्रितयं प्रतीयते । ‘यत्र हि द्वैतमिव भवति । तदितर इतरं पश्यती'ति श्रुतेः (बृ. ४. ५. १५.) तत्सर्वं द्वैतमेव । नैतच्च तत्त्वमस्यादिमहावाक्योपदिष्टमात्मैक्यानुसन्धानमिति मनसि कृत्वा इदानीं तत्साधनीभूतस्समाधिरुच्यत इत्याह, ध्यात्विति ॥

ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् ।
निवातदीपवच्चित्तं समाधिरभिधीयते ॥ ५५॥

 ध्यातृधाने अहं ध्याता इदं ध्यानमित्याकारकं ज्ञानद्वयं क्रमादभ्यासवशात् क्रमशः परित्यज्य चित्तं निवातदीपवत् यथा वायुरहिते प्रदेशे दीपो निश्चलस्तथा ध्येयैकगोचरं ध्येयमेकमेव गोचरो विषयी यस्य तत्तथाविधं यदा भवति तदा समाधिरित्यभिधीयते । यदा अभ्यासवशाद्धयातृव्याने अनवगाह्य ध्येयब्रह्मैकगोचरं चित्तं निवातदीपवन्निश्चलं भवति तदा समाधिरित्युच्यते ॥ ५५ ॥

 समाधावष्यन्तःकरणसद्भावं दर्शयति, वृत्तय इति ॥

वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः ।
स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थितात् ॥ ५६ ॥

 आत्मगोचराः आत्मविषयका अन्तःकरणस्य वृत्तयस्तदानीं समाधिसमये

अज्ञाता: । तथापि व्युत्थितस्य समाधेरुत्थितस्य समुत्थितादुत्पन्नात्स्मरणादेवेतावन्तं

प्रकरणम्।
३१
कल्याणपीयूषव्याख्यासमेता

कालं समाहितोऽभूवमिति संस्मरणादनुमीयन्ते । यत्स्मर्यते तदनुभूतपूर्वमिति व्याप्तेः समाधौ ध्यातृध्यानध्थेयानां मध्ये आद्यद्व्यस्य हाने सति ध्येयं परं ब्रह्मैव- शिष्यते ; वशीकृतान्तःकरणस्य निरस्ताहंकर्तृताभिमानत्वात् , न, तथा सुषुप्तौ ॥५॥

 ननु समाधौ निरस्ताहंकर्तृत्वाभिमानत्वे सति वृत्तिपरम्परायां द्वितीयादि वृत्त्त्युत्पादकप्रयत्नासम्भवात्परम्परासिद्धिः कथमित्याशङ्कयाह वृत्तीनामिति ॥

वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि।।
अदृष्टासकृदभ्याससंस्कारसचिवाद्भवेत् ॥ ५७ ॥

 वृत्तीनां परिशिष्टात्मध्यंयैकगोचराणामनुवृत्तिस्तु तस्याः परम्परा प्रथमादपि प्रयत्नात्समाधेः प्राक्कालिकादप्यदृष्टासकृदभ्यासंसस्कारसचिवात् । अदृष्टं अधर्मासंस्पृष्टः पुण्यविशेषः ; असकृदभ्याससंस्कारः पुनःपुनस्समाध्यभ्यासेन जनितो यस्संस्कारो भावनाख्य ; तौ सचिवौ सहकारिकरणो यस्य तादृशात्प्रथमात्प्रयत्नादपि भवेत् । समाधौ वृत्तिपरम्पराघटकद्वितीयादिवृत्तयो न प्रयत्नान्तरमपेक्षन्ते किन्त्वदृष्टादिसहकृत्प्रथमवृत्त्युत्पादकप्रयत्नादेव । जायन्त इति भावः ॥ ५७ ॥

 अमुमेवार्थमर्जुनाय श्रीकृष्णभगवानुपदिदेशेति गीतावाक्य मत्र स्मारयति यथेति ॥

यथा दीपो निवातस्थ इत्यादिभिरनेकथा ।
भगवानिममेवार्थमर्जुनाय न्यरूपयत् ॥ ५८ ॥

 स्पष्टोऽयमर्थ अनेकधा गीतायां ६-११ श्लोकमारभ्य ६-२९ श्लोक पर्यन्तं योगलक्षणविवरणप्रकरणे ॥ ५८ ॥

 नन्वनादौ संसारे वर्तमानस्य धर्माधर्मजनकोभयविधकर्मणां सञ्चिताना- मनुस्यूतत्वेन वृत्तिपरम्परासाधनभूतस्यैकस्य प्रयत्नस्य अधर्मासंस्पृष्टधर्मसचिवत्वं कथं घटते ? धर्मेण सह सञ्चितकर्मजनिताधर्मस्याप्यनुवर्तमानत्वादिस्याशङ्काया- माह, अनादाविति ।

अनादाविह संसारे सञ्चिताः कर्मकोटयः ।
अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ५९ ॥

३२
[तत्त्वविवेक
पञ्चदशी

 अनादावादिविधुरे इह संसारे सञ्चिताः कर्मकोटयः असंख्येयाः पूर्वजन्मार्जिताः भाविफलदाः कर्मणां कोटय अनेन समाधिना विलयं यान्ति निर्मूला भवन्ति । "क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" (मुं. २.२. ८.) इति श्रुतेः । ननु कर्मणः फलदानं विना क्षयस्यासम्भवः । "नाभुक्तं कर्म क्षीयते ; इत्यादिवचनादिति चेन्न । कर्मक्षयनिषेधस्य प्रारब्धकर्ममात्रविषयत्वात् । अन्यथा प्रायश्चित्तविधीनां वैयर्थ्यमेव प्रसज्येत । तत आगामिसञ्चितानां क्षयस्तु प्रायश्चित्तादिना कर्तृत्वाभिमानपरित्यागेन वा सुसम्पाद एव। अतएव" 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" इति सङ्गच्छते । एवं सति किमायातमित्यत आह, शुद्ध इति । शुद्धो धर्मः अविद्यानाशकमोक्षसाधनभूतो विवर्धते ॥ ५९ ॥

 समाधि प्रस्तौति, धर्मेति ।

धर्ममेघमिमं प्राहुस्समाधिं योगवित्तमाः।
वर्षत्येष यतो धर्मामृतधारास्सहस्रशः ॥ ६० ॥

 योगवित्तमाः योगः परं ब्रह्म तत्सम्यक् विदन्तीति तथोक्ताः ब्रह्मविद्वरिष्ठा इमं समाधिं धर्ममेघं धर्मान् मेहति वर्षति धर्मविवर्धको भवतीति प्राहुः। यत एष समाधिस्सहस्रशोऽनेकधा धर्मामृतधाराः धर्म एवामृतं तस्य धाराः वर्षति ॥ ६० ॥

 समाधेः परमं प्रयोजनं द्वाभ्यामाह, अमुनेति ॥

अमुना वासनाजाले निश्शेषं प्रविलापिते ।
समूलोन्मूलिते पुण्यपापाख्ये कर्मसञ्चये ॥ ६१॥
वाक्यमप्रतिबुद्धं सत् प्राक्परोक्षाऽवभासिते ।
करामलकवद्भोधमपरोक्षं प्रसूयते ।

 अमुना समाधिना पुण्यपापाख्ये सुकृतदुष्कृतात्मके कर्मसञ्जये पूर्वजन्मोपार्जिते समूलोन्मूलितो मूलेन सहोन्मूलिने निश्शेषं वासनाजाले दीर्घकालाभ्यस्वकर्मणां संस्कारसमूहे प्रविलापिते समग्रं क्षीणे सति प्रागितः पूर्वं परोक्षाव

प्रकरणम्।]
३३
कल्याणपीयूषव्याख्यासमेता।

भासिते परोक्षतया समाध्यवगते तत्वे तत्त्वमसीति वाक्यमप्रतिबद्धं सत् पूर्वकर्मवासनाद्यवरोधकरहितं करामलकवत् करगतमामलकमिवापरोक्षं साक्षात्काररूपं बोधं प्रसूयते जनयति ॥ ६१, ६२ ॥

परोक्षापरोक्षज्ञानफलम् ।

 आद्य परोक्षज्ञानफलमाह, परोक्षमिति ।

परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम्।
बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ ६३ ॥

 देशिकपूर्वकं देशिकः पूवों यस्य तत् गुरूपदिष्टमित्यर्थः । यत् शाब्दं तत्त्वमस्याद्युपनिषद्वाक्यैर्बोधितं अत एव परोक्षं ब्रह्मविज्ञानं बुद्धिपूर्वकृतं पापं पुण्यपापाख्यं कृत्स्नमशेषं कर्मसञ्चयं वह्निवद्दहति, यथा वह्नी रमणीयमरमणीयं वा वस्तु दहति तद्वदिति भावः ॥ ६३ ॥

 अथापरोक्षज्ञानफलमाह, अपरोक्षेति ।

अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम्।।
संसारकारणाज्ञानतमसश्चण्डभास्करः ॥ ६४ ॥

 देशिकपूर्वकमाचार्योपदिष्टं शाब्दं तथाप्यपरोक्षं दशमस्तत्त्वमसीत्यादिवाक्यजन्यबोधे तत्त्वानुभवादपरोक्षात्म विज्ञानं आत्मनस्स्वरूपस्य विज्ञानं निष्कृष्टज्ञानं संसारकारणाज्ञानतमसः संसारस्य मिथ्याभूतस्य जगतः कारणं यदज्ञानमविद्यारूपं तदेव तमस्तमित्रं तस्य चण्डभास्करः तीक्ष्णकिरणस्सूर्य इव ध्वंसको भवति ॥ ६४ ॥

  ग्रंथादौ प्रतिज्ञातं तत्त्वविवेचनं फलानुवादपूर्वकमुपसंहरति, इत्थमिति ।

इत्थं तत्त्वविवेकं विधाय विधिवन्मनस्समाधाय।
विगळितसंसृतिबन्धं प्राप्नोति परं पदं नरो न चिरात् ॥ ६५॥

३४
[तत्त्वविवेक:
पञ्चदशी

 जिज्ञासुर्नरः इत्थमुक्तरीत्या तत्त्वविवेकं विधाय अन्वयव्यतिरेकाभ्यामात्मानं पञ्चकोशेभ्यो विभज्य श्रवणमनननिदिध्यासनैस्तत्त्वमस्यादिवाक्यार्थं समाधौ साक्षात्कृत्य विधिवत् ध्यातृध्यानपरित्यागेन ध्येयैकगोचरे समाधौ मनस्समाधाय निवातदीपवच्चित्तं संस्थाप्य विगळितसंसृतिबन्धोऽपाकृतसंसारपाशः परं निरतिशयानन्दरूपमुत्कृष्टं पदं ब्रह्म न चिरादनुक्षणमेव प्राप्नोति । ‘ब्रह्मविदाप्नोति पर ’ मिति श्रुतेः । (तै. २. १) ॥ ६५ ॥



इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमादेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं तत्त्वविवे

कस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति तत्त्वविवेकप्रकरणम् ।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


महाभूतविवेकप्रकरणम् ।


 प्रतिपादितं प्रथमे प्रकरणे तावदुत्तमबोधनसरण्या साधकस्यानुभवपूर्वकं सत्यज्ञानानन्दात्मकस्य साक्षिणोऽनाद्यविद्याप्रतिबन्धवशादभानम् पंचतन्मात्रगत- व्यष्टिसमष्टथात्मकसात्त्विकराजसांशसमुद्भूतस्य सप्तदशावयवोपेतस्य लिङ्गशरीरस्य सृष्टिमारभ्य पञ्चीकृततामसपंचतन्मात्रसम्भूतस्थूलभूतकार्यात्मकस्थूलशरीरसृष्टिपर्यन्तं मायागतचित्प्रतिबिम्बस्वरूपस्येश्वरस्याज्ञया कल्पितं कोशचतुष्टयमभिधेयं चाभि- हितम् । अनुवृत्तिव्यावृत्तिभ्यां पञ्चकोशविवेचनेन गुहानिहितस्य साक्षिणस्समाधा- वात्मसाक्षात्कारमार्गश्च दिङ्मूत्रेण प्रदर्शितः । कोशविवेकस्तु कोशस्वरूपपरिज्ञान- मन्तरा दुर्घट इत्याशयेन पञ्चकोशेषु चतुर्णा भूतमूलृकत्वेन मूलभूतभूतविवेकज्ञान मन्तरा भौतिकानां कोशानां विवेकस्य दुर्घटतया मूलभूतभूतविवेकं द्वितीये प्रपञ्चयति सदिति ।

सदद्वैतं श्रुतं यत्तत्पञ्चभूतविवेकतः ।
बोद्धुं शक्यं ततो भूतपञ्चकं प्रविविच्यते ॥ १॥


 सत् "सदित्यस्तितामात्रं वस्त्विन्द्रियागोचरं क्रियागुणरहितं सर्वगतमेकं निरंजनं निरवयवम् विज्ञानम् ।" अद्वैतं द्वितीयं वस्त्वन्तरं यस्य न विद्यते यथा । मृद्व्यतिरेकेण मृदोऽन्यद्धटाकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतस्सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तमनेन प्रतिषिध्यते ।

तदद्वितीयं यत् परं ब्रह्म श्रुतं "सदेवे सोम्येदमग्र आसीत् एकमेवाद्वितीयम्"

३६
[महाभूतविवेक
पञ्चदशी

(छां. २. १.)इत्यादिश्रुतिप्रसिद्धं सृष्टेः प्राग्विद्यमानं तत् परं ब्रह्म पञ्चभूतविवेकतो बोद्धुं विशेषेणावगन्तुं शक्यं सुगमं भवति ततो भूतपञ्चकं प्रविविच्यते पृथक्क्रियते ॥ १ ॥

भूतगुणस्वरूपविवरणम्

 भूतपञ्चकस्यावान्तरभेदज्ञानद्वारा तस्य सतो भेदप्रदर्शनार्थमादौ तस्या- वान्तरभेदं दर्शयति, शब्देति ।

शब्दस्पर्शौ रूपरसौ गन्धो भूतगुणा इमे ।
एकद्वित्रिचतुःपञ्चगुणा व्योमादिषु क्रमात् ॥ २ ॥

 शब्दस्पर्शौ रूपरसौ गन्ध इतीमे पञ्च भूतगुणाः तत्र तत्र प्रत्येकं प्रत्येकं भूतानां गुणसंख्यामाचष्टे एकेति । व्योमादिषु क्रमात् एकद्वित्रिचतुःपञ्चगुणा विद्यन्ते ॥ २ ॥

 तानेव प्रपञ्चयति प्रतिध्वनिरिति ।

प्रतिध्वनिर्वियच्छब्दो वायौ बीसीति शव्दनम् ।
अनुष्णाशीतसंस्पर्शः .... ॥ २- ॥

 प्रतिध्वनिरूपो यश्शब्दो लोके श्रूयते स च वियच्छब्दः वियद्गुणश्शब्दः आकाशगुणोऽपि शब्दस्साक्षात् श्रोत्रगोचरतां न लभते किन्तु वायुनानीतश्श्रोत्र- सविधं प्राप्त एव श्रुतिगोचरो भवति । स च प्रतिध्वनिरूप इति मनसि कृत्वाह प्रतिध्वनिरिति। ततो वायुगुणावाह, वायाविति, वायौ बीसीति कीचकाद्युद्गतश्शब्द- श्शब्दनम् अनुष्णाशीतसंस्पर्शः न उष्णः न शीतो यस्संस्पर्शस्स्वीयोगुणः, स्वकारणीभूताकाशगुणः कार्ये संक्रान्ततया शब्दश्चेति तत्र गुणद्वयमिति भावः ।।२-॥

 तेजसो जलस्य च गुणानाह वह्नाविति ।

....  ….वह्नौ भुगुभुणुध्वनिः ॥ ३ ॥

प्रकरणम् ।]
३७
कल्याणपीयूषव्याख्यासमेता

उष्णस्पर्शः प्रभारूपं जले बुलबुलुध्वनिः ।
शीतस्पर्शश्शुक्लरूपं रसो माधुर्यमीरितः ॥ ४ ॥

 वह्नौ भुगुभुग्विति ज्वलने श्रूयमाणो ध्वनिः उष्णस्पर्शः, प्रभारूपं । एवं शब्स्पर्शरूपगुणात्मकं तेजः । तत्र स्वीयो गुणः प्रभारूपं कारणभूतवायुगुण संक्रमात् शब्दस्पर्शाविति गुणत्रयं वर्तते । एतेनाकाशस्य यस्स्वीयो गुणश्शब्दस्स कार्यभूतवायुद्वारा तत्कार्ये तेजस्यपि संक्रामतीत्यूह्यम्। एवमुत्तरत्रापि पूर्वपूर्वगुणसंक्रमो बोध्यः। जले बुलुबुलुध्वनिः शिलाशर्करसंकीर्णस्थले जलप्रवाहे श्रूयमाणो ध्वनिः शीतस्पर्शः शुक्लरूपं माधुर्य रसः मधुरभावो माधुर्यमिति चत्वारो गुणाः । तत्र माधुर्यं स्वीयो गुणः । इतरे पूर्वोक्तदिशा संक्रान्ता इति बोध्यम् ॥ ४ ॥

भूमौ कडकडाशब्दः काठिन्यं स्पर्श इष्यते ।
नीलादिकं चित्ररूपं मधुराम्लादिको रसः ॥ ५ ॥
सुरभीतरगंधौ द्वौ गुणास्सम्यग्विवेचिताः॥

 भूमौ पृथिव्यां कडकडेति शब्दः काठिन्यं कठिनस्य भावः स्पर्श इष्यते नीलादिकं आदिशब्देन पीतरक्तहरितकपिशादीनि गृह्यन्ते । चित्ररूपं, मधुराम्लादिकः, आदिशब्देन लवणकटुकषायतिक्ताः एवं षड्विघो रसः सुरभिश्च तदितर असुरभिश्चेति गन्धौ द्वौ । एवं शब्दस्पर्शरूपरसगन्धा इति पञ्चगुणास्तिष्ठन्ति, तत्र गन्धस्स्वीयः इतरे संक्रान्ताः । एवं पञ्चगुणास्वीयत्वेन संक्रान्तत्वेन च यत्र यत्र ये ये सन्ति तद्विभागः प्रदर्शित इति सम्यग्विवेचिता इत्यनेन स्फुटीकृतम् ॥ ५ ॥

ज्ञानेन्द्रियतत्स्थाननिरूपणम् ।

 शब्दादिपञ्चकग्राहकेन्द्रियाणि तत्स्थानानि तद्व्यापारांश्चाह, श्रोत्रमिति

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चेन्द्रियपञ्चकम् ॥ ६॥
कर्णादिगोळकस्थं तच्छब्दादिग्राहकं क्रमात् ।
सौक्ष्म्यात्कार्यानुमेयं तत्प्रायो धावेद्वहिर्मुखम् ॥ ७ ॥

३८
[महाभूतविवेक
पञ्चदशी

 श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमितीन्द्रियपञ्चकं कर्णादिगोळकस्थं श्रोत्रादिसूक्ष्मेंद्रियाणि कर्णादिगोळकेषु निक्षिप्तानि, एतत्पञ्चकं क्रमात् शब्दादिग्राहकं शब्दादिज्ञानजनकम् । इन्द्रियसद्भावे मानं कार्यलिङ्गकानुमानमित्याह सौक्ष्म्यादिति, सौक्ष्म्यात् सूक्ष्मस्वभावत इन्द्रियावेद्यत्वात्कार्यानुमेयं तत्तदिन्द्रिय जन्यश्रावणप्रत्यक्षादिकार्येणानुमेयम् कर्णादिगोळकेषु विद्यमानेष्वपीन्द्रियेषु तद्गत सामर्थ्यप्रतिबन्धेन बधिरादयश्रवणादिषु न प्रभवन्ति तेषां । व्यापारे स्वभावमाह प्राय इति । प्रायस्तदिन्द्रियपञ्चकं बहिर्मुखं तद्विषयीभूतेषु बाह्यवस्तुषु धावेद्रच्छेत्। “पराञ्चि खानि व्यतृणत्स्वयम्भू” (कठ. २.४.१.) रितिश्रुतेरित्यर्थः । कादाचि त्कत्वेनेन्द्रियाणामन्तर्मुखताऽपि प्रायश्शब्देन सूच्यते ॥ ६, ७ ॥

 एवं सूचितं प्रायश्शब्दार्थे प्रपञ्चयति ।

कदाचित्पिहिते कर्णे श्रूयते शब्द आन्तरः ।
प्राणवायौ जाठराग्नौ...  

 कदाचिदङ्गुळ्यादिना कर्णे कर्णगोळके पिहिते सति आन्तर२शब्दः प्राणवायौ जाठराग्नौ वर्तमानश्श्रूयते । तयोरान्तरत्वेन श्रोत्रस्यान्तर्मुखत्वमन्तरा न घटत इति तात्पर्यम् ।

...  ...जलपानेऽन्नभक्षणे ॥ ८ ॥ ।
व्यज्यन्तेह्यान्तरास्पर्शा मीलने चान्तरं तमः ।
उद्गारे रसगन्धौ चेत्यक्षाणामान्तरग्रहः ॥ ९॥

 जलपानेऽन्नभक्षणे आन्तरास्पर्शास्वगिन्द्रियविषया व्यज्यन्ते अनुभूयन्ते । तथैव चक्षुर्मीलने चान्तरं तमो व्यज्यते । उद्गारे भुक्तस्यापक्वस्योर्ध्वप्रसरणे रसगन्धौ जिह्माघ्राणविषयौ व्यज्येते । इत्येवमक्षाणामिन्द्रियाणामान्तरग्रह आन्तरस्य विषयस्य ग्रहणम् अक्षाणामिति कर्तरि षष्ठी ॥ ९ ॥

 ज्ञानेन्द्रियपञ्चकस्य व्यापारविवरणानन्तरं कर्मेन्द्रिकपञ्चकव्यापारं विवृणोति पञ्चेति ।

प्रकरणम् ।]
३९
कल्याणपीयूषव्याख्यासमेता

पञ्चोक्तयादानगमनविसर्गानन्दकाः क्रियाः।
कृषिवाणिज्यसेवाद्याः पञ्चस्वन्तर्भवन्ति हि ॥ १० ॥

 उक्त्यादानगमनविसर्गानन्दकाः उक्तिर्वचनं आदानं ग्रहणं विसर्गो मूत्रपुरीषविसर्जनं आनन्दकः विषयानन्दश्चेति पञ्च वाक्पाणिपादपायूपस्थानां क्रिया भवन्ति क्रियान्तराणामपि सत्वात्पञ्चत्वोक्तिरसङ्गतेत्यत आह । कृषीति । कृषि- वाणिज्यसेवाद्या इतराः क्रियाः पञ्चसूक्त्यादिष्वन्तर्भवन्ति हीति निश्चयार्थे ॥ १० ॥

कर्मेन्द्रियतत्स्थाननिरूपणम् ।

 अनन्तरं कर्मेन्द्रियाणि तत्स्थानानि चोच्यन्ते वागिति ।

वाक्पाणिपादपायूपस्थैरक्षैस्तत्क्रियाजनिः ।
मुखादिगोळकेष्वास्तेतत्कर्मेन्द्रियपञ्चकम् ॥ ११ ॥

 स्पष्टोऽर्थः अक्षैरिन्द्रियैः तत्क्रियाजनि:। उक्तयादिक्रियाणामुत्पत्तिः ॥ ११ ॥

मनसःसर्वेन्द्रियाध्यक्षत्वकथनम्।

 मनसस्स्थानमाह, मन इंति ।

मनो दशेन्द्रियाध्यक्षं हृत्पद्मे गोळके स्थितम् ।
तच्चान्त:करणं बाह्येष्वस्वातन्त्र्याद्विनेन्द्रियैः ॥ १२॥

 दशाध्यक्षं कर्मज्ञानेन्द्रियाणामध्यक्षं मनः एतेन मनस इन्द्रियप्रेरणं व्यापार इत्युक्तं भवति । हृत्पद्मे गोळके स्थितं एतेन हृत्पद्मगोळकं तस्य स्थानमित्युक्तं भवति । मनसोऽन्तरिन्द्रियत्वं सनिमित्तकमाह तच्चेति । इन्द्रियैर्विना तेषां सहकारमन्तरा बाह्येषु विषयेष्वस्वातन्त्र्यम् तस्मान्मनः अन्तःकरणमन्तरिन्द्रियमित्युच्यते। विषयग्रहणेऽस्य असाधारणकारणत्वात्करणत्वं चेति भावः ॥ १२ ॥

 ननु रूपादिज्ञानजनने चक्षुरादीनां पर्याप्तत्वेन तदतिरिक्तं मनः किमित्य-

भ्युपेयमित्याशंक्याह, अक्ष इति ।

४०
[महाभूतविवेक
पञ्चदशी

अक्षेष्वर्थार्पितेष्वेतद्गुणदोषविचारकम् ।
सत्त्व रजस्तमश्चास्य गुणा विक्रयत हितैः ॥ १३ ॥

 अक्षेष्विन्द्रियेष्वर्थार्पितेषु तत्तद्विषयैस्सह संयोजितेषु सत्स्वेतन्मनी गुणदोषविचारकं ये गुणदोषा विद्यन्ते तेषां विचारकं विचारणकर्तृ भवति । नेयं विचारणाशक्तिरात्मनः तस्य निर्विकारत्वात्, नाऽपीन्द्रियाणां तेषां केवलविषयग्रहणमात्रचरितार्थत्वात् । तथापीदं ग्राह्यभिदमग्राह्यमिति विचारणा। सार्वजनीना दृश्यते अतस्तदन्यथाऽनुपपत्त्या मन इत्यन्यदन्तरिन्द्रियमवश्यमभ्युपगन्तव्यमिति भावः । मनसो विकारवत्वे हेतुमाह । सत्त्वमेिति अस्य मनसः सत्त्वं रजस्तम इति गुणाः तै गुणैर्विक्रियते विकारमाप्नोति यतोऽस्य विगुणत्वम् ततोऽस्य विकारित्वमिति भावः ॥ १३ ॥

 गुणत्रयजन्यविकारजातमाह वैराग्यमित्यादिना तमसोत्थिता इत्यन्तेन ।

वैराग्यं क्षान्तिरौदार्यमित्याद्यास्सत्त्वसम्भवाः ।
कामक्रोधौ लोभयत्नावित्याद्या रजसोत्थिताः ॥ १४ ॥
आलस्यं भ्रान्तितन्द्राद्या विकारास्तमसोत्थिताः ।

 स्पष्टोऽर्थः । औदार्ये वितरणा आलस्यं विहितकर्माचरणेऽनुत्साहः तन्द्रा ईषन्निद्रा तमोवातकफोद्भवा ॥ १४ ॥

पुण्यपापोत्पत्तिक्रमः ।

 विकाराणां फलमाह सात्त्विकैरिति ।

सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च राजसैः॥१५॥
तामसैर्नोभयं किन्तु वृथायुःक्षपणं भवेत् ।

 सात्त्विकैः वैराग्यादिविकारैः पुण्यनिष्पत्तिः राजसैः कामादिविकारैः पापोत्पत्तिश्च भवति तामसैरालस्यादिविकारैरुभयं पुण्यपापे नोत्पद्येते । किन्तु वृथा

आयुःक्षपणं आयुर्विनाशो भवेत्॥ १५ ॥

प्रकरणम्।]
४१
कल्यांणपीयूषव्याख्यासमेता

 अनन्तरमन्तःकरणादीनां स्वामिनमाह, अत्रेति ।

अत्राहंप्रत्ययी कर्तेत्येवं लोके व्यवस्थितिः॥ १६ ॥

 अत्र अन्तःकरणादिविषये अहंप्रत्ययी अहमिति यो ज्ञानवान् स एव कर्ता भवतीति लोके व्यवस्थितिः व्यवस्था अहंवृत्तिविशिष्टो ह्यात्मा कर्ता भवतीत्यर्थः। एतेन प्रकृत्यादीनां कर्तृत्वं वदन्तस्सांख्यादयः परास्ताः ॥ १६ ॥

इन्द्रियाणांभौतिकत्वनिरूपणम् ।

 जगतो भौतिकत्वज्ञानोपायमाह, स्पष्टेतेि ।

स्पष्टशब्दादियुक्तेषु भौतिकत्वमतिस्फुटम् ।
अक्षादावपि तच्छास्त्रयुक्तिभ्यामवधार्यताम् ॥ १७ ॥

 स्पष्टशब्दादियुक्तेषु स्पष्टैश्शब्दादिगुणैर्युक्तेषु पृथिव्यादिषु भौतिकत्वं भृतकार्यत्वमतिस्फुटं विस्पष्टमेव । तथैवाक्षादावपीन्द्रियादिषु आदिशब्देन मनस्तद्विकाराश्चोक्ताः तेषु तद्भौतिकत्वं शात्रयुक्तिभ्यामवधार्यतां निश्चीयताम् । “अन्नमयं हि सोम्य मनः, आपोमयः प्राणस्तेजोमयी वागित्यादि (छां.६.५.४.) शास्त्रम् । युक्तिश्च तत्तदिन्द्रियं तत्तद्भूतजन्यं तत्तद्भूतगुणग्राहकत्वात् येनेन्द्रियेण यो भूतगुणो गृह्यते तत्तद्भूतजन्यमिति व्याप्तेः ॥ १७॥

"सदेवसोम्येति ” श्रुत्यर्थविचारः ।

 एवं भूतानि भौतिकानि च प्रदर्श्य "सदेव सोम्येदमिति" “ (छां.६. २.१.) सर्वस्यापि जगतस्तदूघटकेदंशब्दार्थत्वमाह, एकादशेति ।

एकादशेन्द्रियैर्युक्तया शास्त्रेणाप्यवगम्यते ।
यावत्किंचिद्भवेदेतदिदंशब्दोदितं जगत् ॥ १८ ॥

 एकादशेन्द्रियैर्ज्ञानकर्मेन्द्रियपञ्चके मनश्च तैः प्रत्यक्षेण युक्त्या अनुमानेन शास्त्रेण श्रुत्या: च याव्रत्किंचिदवगम्यते एतत्सर्वमिदंशब्दोदितं “ सदेव सोम्ये-

दमग्र आसा” दित्यत्रेदंशब्देन अभिहितं भवेत् ॥ १८ ॥

४२
[महाभूतविवेक
पञ्चदशी

 निरुक्तां श्रुतिमर्थतः पठति, इदमिति ।

इदं सर्वं पुरा सृष्टेरेकमेवाद्वितीयकम् ।
सदेवासीन्नामरूपे नास्तामित्यारुणेर्वचः ॥ १९ ॥

 सृष्टेः पुरा इदं सर्वं नामरूपक्रियात्मकतया परिदृश्यमानं सर्वं जगत् एकं स्वोत्पादकावयवविधुरसन्मात्रात्मकम् ।” एव सजातीयभेदरहितं अद्वितीयकं सद्व्यतिरेकेण सहकारिकारणं वस्त्वन्तरं यस्य न विद्यते तत् सदस्तितामात्रं । सूक्ष्मवस्त्वासीत् । ननु तदानीन्तनस्य वस्तुरूपस्य तद्वाचकस्य सदितिशब्दस्य च सत्त्वप्रसंग इत्याशंकां निराकरोति नामेति सृष्टेः प्राक् सदेवासीत् नामरूपे न आस्तां न विद्येते "अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति (छां. ६. ३. २) श्रुतेः । इत्यारुणेररुणस्यापत्यं पुमानारुणिरुद्दालकः तस्य वचः अनूचानमानिनं पुत्रम् प्रत्युपदेशः ॥ १९ ॥

 अन्यत्र दृष्टस्य भेदत्रयस्य सद्वस्तुनोऽपि दृष्टान्तवशात्प्रसक्तस्य निवृत्ति- रेकमेवाद्वितीयमिति पदत्रयेण क्रियत इति श्रुत्याशयं विवृणोति वृक्षेत्यादिद्वाभ्याम् ।

वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः ।
वृक्षान्तरात्सजातीयो विजातीयश्शिलादितः ॥ २० ॥
तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते ।
ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥ २१ ॥

 वृक्षस्य पत्रपुष्पफलादिभिः स्वावयवैः स्वगतो भेदो भवति वृक्षान्तरात्तज्जातिगतवृक्षान्तराद्भेदस्सजातीयः शिलादितः शिलादिजात्यन्तरवस्त्वादेर्विजातीयो भेदः । यथा वृक्षादिषु भेदत्रयमुपलभ्यते तथा सद्वस्तुनः प्राप्तम् नामरूपासंख्येयाकारैरापादितं भेदत्रयं सजातीयविजातीयस्वगतरूपमैक्यावधारणद्वैतप्रतिषेधेः ऐक्यमेकत्वम् अवधारणमेवार्थः द्वैतस्य अन्यवस्तुनः प्रतिषेधः । निषेधः तैस्त्रिभिरेकमेवाद्वितीयमिति शब्दत्रयेण क्रमात् स्वगतसजातीयविजातीयभेदराहित्यबोधकेन निवार्यते ॥ २१ ॥

प्रकरणम्।]
४३
कल्याणपीयूषव्याख्यासमेता

 श्रुतिसिद्धं स्वगतभेदाभावं युक्त्या प्रतिपादयितुं भेदस्य प्रतियोगिप्रसि ध्दयधीनत्वात्प्रतियोगिनस्स्वगतस्याप्रसिद्धौ तद्वेदोऽप्यप्रसिद्ध एवेत्याशयेन प्रतियोग्यप्रसिद्धिं दर्शयति सत इति ।

सतो नावयवाश्शंक्यास्तदंशस्यानिरूपणात् ।
नामरूपे न तस्यांशौ तयोरद्याप्यनुद्भवात् ॥२२॥

 तदंशस्यब्रह्मणोऽवयवस्यानिरूपणात् केनापि प्रमाणेनाप्रतीतेः सतोऽवयवा न शंक्याः। नामरूपे तदंशौ स्यातामित्यत आह नामेति नामरूपे तस्यांशौ न भवतः कुतः ? तयोरद्यापि वर्तमानकालेऽपि अनुद्भवात् मिथ्यात्वात् । अत्र श्रुतावग्रे इत्यनेन विवक्षितस्सृष्टेः प्राक्कालएव वर्तमानत्वेन विवक्षित इति बोध्यम् ॥ २२ ॥

 नामरूपयोस्सृष्टेः प्रागभावमेव विशदयति नांमेति ।

नामरूपोद्भवस्यैव सृष्टित्वात्सृष्टितः पुरा ।
न तयोरूद्भवस्तस्मान्निरंशं सद्यथा वियत् ॥ २३ ॥

 नामरूपोद्भवस्यैव नामरूपयोरूद्भवस्य विवर्तस्यैव सृष्टित्वात्सतो नाम रूपादिकल्पनैव सृष्टिरित्यभिधीयत इति भावः। सृष्टितः पुरा तयोर्नामरूपयोरुद्भवो न तस्माद्यथा वियत् निरंशं अवयवशून्यं तथा सदप्यवयवविरहितमित्यर्थः । यतस्सतो नामरूपकल्पनैव सृष्टिरित्युच्यतेऽतस्स्वगतभेदराहित्यबोघकैकशब्दोऽर्थवान् ॥ २३ ॥

 स्वगतभेदाभावेऽपि सतस्सजातीयभेदोऽस्त्वित्याह सदिति।

सदन्तरं सजातीयं न वैलक्षण्यवर्जनात् ।
नामरूपोपाधिभेदं विना नैव सतो भिदा ॥ २४ ॥

 ननु सदन्तरमन्यत्सजातीयं वृक्षान्तरमिव स्यादितिचेन्न वैलक्षण्यवर्जनात् सतो विलक्षणभावस्याभावात् । एवं च सजातीयभेदराहित्यबोधकं एकपदमर्थवदिति भावः । ननु घटसत्ता पटसत्तेत्यादिविभिन्नप्रतीतिबलात् तत्सत्तयोर्भेदे सिद्धे सजातीयं

४४
पञ्चदशी

सदन्तरं नास्तीति कथमुच्यत इत्याशंक्याह नामेति । नामरूपोपाधिभेदं विना नाम रूपमित्युपाधी तयोर्भेदं विना सतो भिदा भेदो नैव विद्यते। घटाकाशात्पटाकाशो भिन्न इति प्रतीतिविषयस्य भेदस्य विशेष्यभूते आकाशे भेदसांधकवैलक्षण्याभावादनुपपन्नस्य शिखी ध्वस्त इत्यादिप्रतीतिविषयीभूतस्य विशेष्यांशेऽनुपपन्नस्य ध्वंसस्य विशेषणीभूतशिखायां पर्यवसानवत् विलक्षणयोर्घटपटयोः पर्यवसानं बोध्यम् ॥ २४ ॥

 सतो विजातीयभेदमपि पूर्वोक्तदिशैव निरस्यति विजातीयेति।

विजातीयमसत्तत्तु न खल्वस्तीति गम्यते।
नास्यातः प्रतियोगित्वं विजातीयाद्भिदा कुतः ॥ २५ ॥

 सतो विजातीयमसदेव भवति तत्तु “ नास्तोत्यसदि"ति व्युत्पत्या नासदिति अविद्यमाममेवेति गम्यते खलु। अतो विजातीयादसद्रूपात् प्रतियोगित्वमस्य सतो न सम्भवति प्रतियोग्यभावे विजातीयाद्वस्तुनो भिदा भेदः कुतस्सम्पद्यते ? न सम्भवतीत्यर्थः ॥ २५ ॥

 उक्तार्थमेव दृढीकुर्वन् प्रसंगसंगत्या वैनाशिकमतनिरसनपूर्वकमाह, एकमिति ।

एकमेवाद्वितीयं सत्सिद्धमत्र तु केचन ।
विह्वला असदेवेदं पुरासीदित्यवर्णयन् ॥२६॥

 एवं सदूस्तु एकमेवाद्वितीयं स्वगतसजातीयविजातीयभेदरहितमिति सिद्धम् । तथाप्यत्रास्मिन् स्थले तु केचन वैनाशिकाः विह्वलाः सद्युक्तिपरिज्ञानशून्याः इदं जगन्नामरूपात्मकं पुरा सृष्टेः प्रागंसदेवासोदित्यवर्णयन् ॥२६॥

 तेषां विह्वलतायाः कारणं सदृष्टान्तमाह, मग्नस्येति ।

मग्नस्याब्धौ यथाक्षाणि विह्वलानि तथास्य धीः ।
अखंडैकरसं श्रुत्वा निष्प्रचास बिभेत्यतः ॥२७॥

प्रकरणम्।]
४५
कल्याणपीयूषव्याख्यासमेता

 यथा अखंडजलेऽब्धौ मग्नस्याक्षाणि इन्द्रियाणि विह्वलानि भयाविष्टान्य तोऽतीव चञ्चलानि भवन्ति, तथास्य वैनाशिकस्य धीर्बुद्धिरखंडैकरसं श्रुत्वा नेति नेतीतिश्रुत्या सर्वबुद्धिगोचरव्यावर्तकत्वेन सन्मात्रतया बोध्यमानं सच्चिदानन्दस्वरूपं परं ब्रह्म श्रुत्वा निष्प्रचारा प्रचाररहिताऽनवगाहमाना सती अखंडैकरसाद्वस्तुनो बिभेति भयमाप्नोति। अज्ञानमुषितोपनिषदर्थज्योत्स्नानां निजशेमुषीभयकारणमेवेति भावः॥२७॥
 उक्तविहृलतायां कैमुतिकन्यायेनाचार्यसम्मतिमाह,गौडाचार्येति।

गौडाचार्या निर्विकल्पे समाधावन्ययोगिनाम्।
साकारब्रह्मनिष्ठानाम्रत्यन्तं भयमूचिरे ॥२८॥

 निर्विकल्पे ज्ञातृज्ञेयादिविभागशून्ये समाधौ यत्र ध्येयैकगोचरं निवातदीपवञ्चितं भवति तत्र साकारब्रह्मनिष्ठानां सगुणब्रह्मोपासकानां ध्यातृध्यानध्येयभेदे सत्यत्वधियामन्ययोगिनामत्यन्तं भयं गौडाचार्या ऊचिरे साकारनिष्ठानामुपासकानां निर्गुणब्रह्मविषये भयकारणं चेत् किमंग पुनश्चञ्चलचित्तानां स्वाभीष्टभिनिविष्टानां सौगतानामिति भावः ॥२८॥

 आचार्यवाक्यं पठति, अस्पर्शेति ।

अस्पर्शयोगो नामैष दुर्दर्शस्सर्वयोगिभिः ।
योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥२९॥

 अस्पर्शयोगो निर्विकल्पस्समाधिः नामेति प्रसिद्धौ एष स्वानुभवगोचरः। सर्वयोगिभिस्सगुणोपासकैर्दुर्दर्शो दुःखेन द्रष्टुं शक्यो दुष्प्रापः । तत्र कारणमाह । हि यस्मात्कारणादेतेऽन्ययोगिनः अभये भयं न विद्यते यस्मिन् तस्मिन् निर्विकल्पसमाधौ भयदर्शिनः भयं पश्यन्तीति तथाभूता भक्न्ति। तस्मात् योगिनो बिभ्यति ॥ २९ ॥

 श्रीशङ्करभगवत्पादसम्मतिमप्याह, भगवदिति ।

४६
[महाभूतविवेक
पञ्चदशी

भगवत्पूज्यपादाश्च शुष्कतर्कपटूनमून् ।
आहुर्माध्यमिकान्भ्रान्तानचिन्त्येऽस्मिन् सदात्मनि ॥३०॥

 भगवत्पूज्यपादाश्च शुष्कतर्कपटून् शुष्कः प्रमाणविधुरश्चासौ तर्को युक्तिवादः तस्मिन् पटून् दक्षानमून् माध्यमिकान् बौद्धनामवान्तरशाखीयान् अचिन्त्ये मनसोऽगोचरे सदात्मनि सत्स्वरूपे ह्यात्मनि भ्रान्तान् विप्रतिपन्नानाहुः। शिष्यैरवश्यं कर्तव्ययोर्योगाचारयोः प्रथमस्याकरणाद्द्वितीयस्याङ्गीकरणान्माध्यमिका इति प्रसिद्धिः॥३०॥

 पूज्यपादवाक्यं पठति अनादृत्येति ।

अनादृत्य श्रुतिं मौर्ख्यादिमे बौद्धास्तमस्विनः।
आपेदिरे निरात्मत्वमनुमानैकचक्षुषः ॥३१॥

 तमस्विनः तमः अयथार्थज्ञानमेषामस्तीति तमस्विन इमे बौद्धाः मौर्ख्यात् श्रुतिं ‘सदेव सोम्येदमग्र आसी"दित्यादि (छां-६.२.१.) श्रुतिमनादृत्य अप्रमाणीकृत्य अनुमानैकचक्षुषोऽनुमानमेव मुख्यप्रमाणत्वेनांगीकुर्वन्त इति हेतुगर्भविशेषणम्। असच्छब्दस्य शून्यार्थतां प्रकल्प्य निरात्मत्वमात्माभावमेव आपेदिरे अवाप्नुवन्॥३१॥

शून्यवादनिरासः ।

 श्लोकद्वयेन तावदिदानीमसद्वादं विकल्प्य सोदाहरणं निराकरोति, शून्यमिति ।

शून्यमासीदितिब्रूषे सद्योगं वा सदात्मताम्।
शून्यस्य न तदूयुक्तमुभयं व्याहतत्वतः ॥३२॥
न युक्तस्तमसा सूर्यो नापि चासौ तमोमयः ।
सच्छून्ययोर्विरोधित्वाच्छून्यमासीत्कथं वद ॥ ३३ ॥

 शून्यमासीदिति वाक्येन शून्यस्य सद्योगं सत्तायोगं संबंधं आहोस्वि

त्सदात्मतां सत आत्मतां तादात्म्यं ब्रूषे ब्रवीषीति शून्यवादिनं प्रति प्रश्नः।

प्रकरणम्।]
४७
कल्याणपीयूषव्याख्यासमेता ।

तदुभयं सत्तासम्बन्धस्तादात्म्यं वा शून्यस्य तु न युक्तं न युज्यते । कुतः?व्याहतत्वतः माता मे बन्थ्येतिवत् प्राधान्येन वक्तव्यांशविघटकपदार्थघटितार्थबोधकत्वात् । शून्यमासीदित्यत्र सन् घटः सन् पटः इतिवत् सच्छून्यमिति वक्तव्ये केन सम्बन्धेन सता शून्यं सम्बध्यते । घटपटयोरिव संयोगसम्बन्धेन गुणगुणिनोरिव तादात्म्यसम्बन्धेन वा ? शून्यस्य रूपाभावात्संयोगसम्बन्धाभावः । भावाभावयोस्संगोगस्य दुर्घटत्वात् । अतएव तादात्म्यसम्बन्धोऽपि नो घटते । एवं शून्यमासीदिति वाक्याभास एव । अत एतेषामेष घोषो विषमघोष एवेति भावः । तत्र दृष्टान्तमाह नेति। सूर्यस्तमसा न युक्तो न युज्यते तमःप्रकाशयोरस्यन्तविरुद्धस्वभावात् असौ सूर्यस्तमोमयस्तमस्स्वरूपोऽपि न तथैव सच्छून्ययोभावाभावरूपयो र्विरोधित्वात्कथं शून्यमासीदिति वक्तुं शक्यते वद ब्रूहीति प्रश्नः न हि शक्यते वक्तुमिति भावः । ३२, ३३ ॥

 ननु युष्मन्मते सदूस्तुनि वियदादेर्नामरूपेऽविरोधितया कल्पेते । तथैव शून्यस्यापि स्यादिति शून्यवादी प्रतिवदतीति गृहीत्वा समाधत्ते वियदिति ।

वियदादेर्नामरूपे मायया सुविकल्पिते ।
शून्यस्य नामरूपे च तथा चेज्जीव्यतां चिरम् ॥ ३४॥

 यथाऽस्मन्मते वियदादेः प्रथमजत्वाद्वियतो ग्रहणं, नाम इति आकाश इति शब्दः रूपं च नामरूपे मायया सुविकल्पिते सम्यगारोपिते शून्यस्यापि नामरूपे तथा मायया कल्पिते स्यातामिति वदसि चेच्चिरं जीव्यतां दीर्घायुष्मान् भव । बालस्वां मन्दमतिरित्युपालम्भकं वचः । अस्मन्मते वियदादिनामरूपे मायया सति परिकल्पिते तत्त्वतो न विद्येते वाचारम्भणमात्रत्वात् । तथा शून्यस्यापि नामरूपे कल्पित इति वदसि चेत् स्वाभ्युपगमविरोधो वेदान्तमत प्रवेशापतिश्च स्यातामित्युपालम्भः ॥ ३४ ॥

 यद्येवं सर्वत्र नामरूपे सामान्यतः कल्पिते तर्हि सतोऽपि नामरूपे

कल्पिते स्यातामित्यत आह सत इति ।

४८
[महाभूतविवेक
पञ्चदशी

सतोऽपि नामरूपे द्वे कल्पिते चेत्तदा वद।
कुत्रेति निरधिष्ठानो न भ्रमः क्वचिदीक्ष्यते ॥ ३५ ॥

 नामरूपे द्वे सतोऽपि कल्पिते स्वातामिति चेत्तदा सतो नामरूपे कुत्र कस्मिन्नधिष्ठाने कल्प्येते तद्वद। कुतोऽयं प्रश्नः ? निरधिष्ठानः आधारविरहितो भ्रमः क्वचिदपि नेंक्ष्यते । अत्रायमभिसन्धिः। सृष्टेः प्रागत्यन्ताभावरूपं शून्यमेवासीत् । तस्मिन् सतो नामरूपयोः कल्पितत्वाद्भममात्रमेवेति वैनाशिकानामाशयः । एवमत्यन्ताभावे निरधिष्ठाने सतो नामरूपयोः कल्पनाया असम्भव इति सिद्धान्ती प्रतिवदति । सतोः रज्जुशुक्तयोस्सर्परजतभ्रान्तिरुदेति अन्यस्मिन्विद्य- मानेऽन्यस्य नामरूपे तस्मिन्नारोप्येते सतो नामरूपे कस्मिन् कल्प्येते ? सति असति आहोस्विजगति वा ? नाद्यः । स्वस्मिन् स्वनामरूपकल्पनाया असम्भवात् । न हि सर्पे सर्पस्य नामरूपे आरोप्येते । न द्वितीयः । असतो निरात्मकत्वान्न तस्याधिष्ठानत्वयोग्यता । न तृतीयः । सदेवेत्यादिना कारणस्य कार्यनियतपूर्ववृत्तित्वाद्युपपत्तिभिश्च सतो नामरूपकल्पनाधिष्ठानात्मकत्वेनाभिमतस्य जगतस्वपूर्वासिद्धत्वात्॥३५॥

 ननु सिद्धान्तिमताभ्युपगमेऽपि सदासीदित्येकार्थबोधकस्य शब्दद्वयस्य पुनरुक्तिदोषापत्तिस्स्यादिति पूर्वपक्षमनूद्य समाधत्ते, सदिति ।

सदासीदिति शब्दार्थभेदे वैगुण्यमापतेत् ।
अभेदे पुनरुक्तिस्स्यान्मैवं लोके तथेक्षणात् ॥ ३६ ॥

 सदासीदिति भिन्नशब्दयोर्भिन्नार्थकत्वमाहोस्विदेकार्थकत्वं वा स्यात् । आद्ये शब्दार्थभेदे सदासीदिति शब्दयोरर्थे विलक्षणे सति वैगुण्यं अद्वैतसिद्धान्तविरोध आपतेत् । तन्मते सत्पदार्थद्वयानंगीकारात् । द्वितीयेऽभेदें पुनरुक्तिस्स्यात् पर्यायाणां सह प्रयोगाभावात् इति चेदेवं मा बृहि । लोके तथा प्रयोगानामीक्षणाद्दर्शनात् ॥ ३६ ॥

 तादृक्प्रयोंगमुदाहरति कर्तव्यमिति ।

प्रकरणम्।]
४९
कल्याणपीयूषव्याख्यासमेता

कर्तव्यं कुरुते वाक्यं ब्रूते धार्यस्य धारणम्।
इत्यादिवासनाविष्टं प्रत्यासीत्सदितीरणम् ॥ ३७ ॥

 कर्तव्यं कुरुते वाक्यं ब्रूते धार्यस्य धारणमित्यादीनि वाक्यानि लोके प्रसिद्धानि । तेषां वासनाविष्टं संस्कारपूरितं पुरुषं प्रति सदासीदितीरणं श्रुत्या वदनं लोके प्रसिद्धप्रयोगप्रविष्टचेतसां सुखबोधायैवं श्रुतिर्बृवतीति भावः ॥ ३७ ॥

 सदेवेति वाक्यगतपुराशब्दार्थं ब्रूते, कालेति ।

कालाभावे पुरेत्युक्तिः कालवासनया युतम्।।
शिष्यं प्रत्येव तेनात्र द्वितीयं न हि शंक्यते ।। ३८ ॥

 ननु कालत्रयानवच्छिन्ने परे वस्तुनि “पुरासोदिति” कथं भूतकालावच्छेदेनोच्यत इत्यत आह । कालाभावें कालाद्यात्मकस्य प्रपंचस्योत्पत्तेः प्राक्कालस्याभावे निश्चिते सति पुरेत्युक्तिः कालवासनया युतं भूतभविष्यदादिपरिच्छिन्नकालस्य वासनया युतं तद्वासनावासितं शिष्यं प्रत्येवं तथोक्तम् । तेन तन्मात्रेणात्रद्वितीयं कालरूपं वस्तु न हि शंक्यते ॥ ३८ ॥

 शिष्यानुकूलभाषाप्रयोगें कारणमाह चोद्यमिति ।

चोद्यं वा परिहारो वा क्रियतां द्वैतभाषया ।
अद्वैतभाषया चोद्यं नास्ति नापि तदुत्तरम् ॥ ३९ ॥

 चोद्यं पूर्वपक्षः, तस्य परिहारो वा द्वैतभाषया द्वैतविषयिकवाङ्भयेनैव क्रियताम् । अद्वैतभाषया चोद्यं नास्ति तदुत्तरमपि नास्ति । "यत्र वाचो निवर्तन्ते अप्राप्य मनसा सह ।” (तै. २.४.)यत्र मौनव्याख्याप्रकटितं परब्रह्मतत्वं तत्र भाषाप्रसक्तेरत्यन्तमभावः । किन्तु जिज्ञासुप्ररोचनार्थं व्यावहारिकभांषयैव व्यवहरणम् । ज्ञातवस्तुमुखेनांज्ञातवस्तु बोथयत्यन्तेवासिनं सद्गुरुरिति भावः ॥ ३९ ॥

 वासिष्ठवाक्यपठनपूर्वकमद्वैतलक्षणं वर्णयति, तदेति ।

५०
[महाभूतविवेक
पञ्चदशी

तदा स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्तं सत्किञ्चिदवशिष्यते ॥४०॥

 तदाऽद्वैते वस्तुनि सति स्तिमितगम्भीरं स्तिभितं निश्चलं च गम्भोरं मनसापि विषयीकर्तुमशक्यं । न तेजो न तमः तेजस्तमोभ्यां भिन्नं ततं सर्वव्यापि अनाख्यमाख्यातुमशक्यं वर्णनातीतं । अनभिव्यक्तमिन्द्रयागोचरं सञ्चोद्येतरत् किंचिदनिर्वचनीयं वस्त्ववशिष्यते ।। ४० ॥

नैय्यायिकमतनिरासः ।

 एवं वैनाशिकपूर्वपक्षमपसार्थ नैयायिकपूर्वपक्षगुत्थापयति, नन्विति ।

ननु भूम्यादिकं माभूत्परमाण्वन्तनाशतः ।
कथं ते वियतोऽसत्त्वं बुद्धिमारोहतीति चेत् ॥ ४१ ॥

 नन्विति प्रश्ने । भूम्यादिकमादिशब्देनाप्तेजोवायवो गृह्यन्ते । परमाण्वन्तनाशतः परमाणव एवान्तश्चरमादयवः नित्यत्वेन कारणत्वेन च येषां भूम्यादिचतुष्टयकार्याणां ते परमाण्वन्ता:। तेषां दूयणुकादिमहापृथिव्याद्यन्तानां चतुर्विधभूतानामनित्यत्वान्नाशः तस्मात् मा भूत्, सत्यं न स्यात् । किन्तु वियतो नित्यस्याकाशस्यासत्त्वं अभावस्ते बुद्धिं कथमारोहतीति चेत् । आकाशस्य नित्यत्वमितरभूतानामनित्यत्वं च न्यायनयेऽङ्गीक्रियत इति बोध्यम् ॥ ४१ ॥

 सिद्धान्ती प्रतिबंद्या प्रतिवदति, अत्यन्तमिति ।

अत्यन्तं निर्जगदूव्योम यथा ते बुद्धिमाश्रितम् ।
तथैव सन्निराकाशं कुतो नाश्रयते मतिम् ॥ ४२ ॥

 यथा अत्यन्तं निर्जगंद्व्योम अपास्तभूम्यादिचतुष्टयात्मकं व्योम ते बुद्धिमाश्रितं, यथा भूम्यादिचतुष्टयमपास्य केवलाकाशमात्रमनुमानप्रमाणैकबलाच्चिन्तयसि तथैव निराकाशमत्काशविरहितं केवलसन्मात्रमेव कुतस्तत्र मतिं नाश्रयते ? यथा नैय्यायिकोऽनुमानमात्रावष्टम्भाद्भूम्यादिकं निराकरोति न तावन्मात्रावष्टम्भादेवा

प्रकरणम्।]
५१
कल्याणपीयूषव्याख्यासमेता

स्माभिराकाशनिरासः क्रियते । किन्तु “ तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः ”(तै. २.१.)इत्यादिश्रुत्याद्यवष्टम्भोऽपि प्रबलोऽस्तीति सिद्धान्तस्य गूढाशयः ॥४२॥

 प्रतिबंदिविमोचनं करोति, निर्जगदिति ।

निर्जगद्व्योम दृष्टं चेत्प्रकाशतमसी विना ।
क्क दृष्टं किञ्च ते पक्षे न प्रत्यक्षं वियत्खलु ॥ ४३ ॥

 प्रकाशतमसी विना निर्जगद्वव्योम जगद्विरहिताकाशः दृष्टं चेत् प्रति- बंदिनिराकरणमपि स्वमतव्याघातकप्रेवेत्याक्षिपति। क्वेति । क्व कुत्र दृष्टं वदेत्यध्याहारः । न दृष्टं । किञ्चान्यद्वक्तव्यमस्ति । ते पक्षे त्वन्मते, वियन्न प्रत्यक्षमिन्द्रियागोचरमित्यभ्युपगम्यते त्वयापि । यद्याकाशः प्रत्यक्षस्तव मतहानिस्स्यात् । यथा तव मते इन्द्रियाद्यतीतं वियदभ्युपगम्यते तथैवास्माकं सद्वस्त्वपीति भावः ॥ ४३ ॥

 वियत्सतोरिन्द्रियागोचरत्वे समानेपि सति विशेषमाह, सदिति।

सद्वस्तु शुद्धन्त्वस्माभिर्निक्ष्चित्तैरनुभूयते ।
तूष्णीं स्थितौ न शून्यत्वं शून्यबुद्धेश्च वर्जनात् ॥४४॥

 शुद्धं रागादिदोषादूषितं सच्चिदानन्दात्मकं सद्वस्तु निश्चित्तैर्निर्गतं ध्यातृ ध्यानाभ्यां विगळितं चित्तं येषां । तैरस्माभिर्निर्विकल्पकसमाधिनि ष्ठैरपरोक्षतयानुभूयते । कदानुभूयत इत्यत आह तूष्णीमिति । तूष्णीं स्थितौ मनसस्सर्ववृत्तिनिरोधे । ननु सर्ववृत्तिनिरोधे शून्यत्वमेव स्यादित्याकांक्षायामाह नेति । शून्यत्वं न तत्र कारणमाह । शून्येति । शून्यबुद्धेर्वर्जनात् शून्यमिति प्रतितेरभावात् समाधिं गतस्य निवातदीपवन्निश्चलैकाग्रबुद्धेः करतलामलकवदपरोक्षसाक्षात्कारोऽनुभूयते। तत्र शून्यत्वमपि नास्ति । शून्यमितिप्रतीतेरभावात् । यदि तदानीं प्रतीतस्य शून्यत्वं स्याच्छून्यमिति प्रतीयेत । तादृशप्रतीत्यभावात्तद्वस्तु न शून्यं, किन्तु सदिति भावः ॥ ४४ ॥

 ननु तदानीं बुद्धेरभावे शून्यबुद्धिवत् सद्विषयकबुद्धिरपि न स्यात् ।

तर्हि सद्वस्त्वपि न सिद्ध्येदित्याशंक्य समाधत्ते, सद्बुद्धिरिति।

५२
[महाभूतविवेक
पञ्चदशी

सदूबुद्धिरपि चेन्नास्ति मास्त्वस्य स्वप्रभत्वतः।
निर्मनस्कत्वसाक्षित्वात्सन्मात्रं सुगमं नृणाम् ॥ ४५ ॥

 सद्बुद्धिरपि नास्तीतिचेन्माऽस्तु । इष्टमेवैतदस्माकमिति भावः। कुतः ? सद्वस्तुनो बुद्ध्यगोचरत्वात् । तथा सति तस्य भानं कथमित्यत आह, अस्येति । अस्य सद्वस्तुनः स्वप्रभत्वतस्स्वयंप्रकाशत्वात् प्रकाशान्तरानपेक्षत्वात् निर्मनस्कत्व साक्षित्वात् सर्वसंकल्पशून्यमेतावत्कालं निर्विकल्प एवासमिति परामर्शानुमित- सर्वसंकल्पाभावविषयकसद्रूपभानान्नृणां निश्चितानां नामरूपरहितं सन्मात्रं वस्तु सुगमं सुखेन ज्ञेयं भवति । ४५ ॥

 एवं समाधावनुभवपूर्वकं सद्वस्तुसत्तां संस्थाप्य सृष्टेः प्रागपि तां साधयति । मन इति ।

मनोजृम्भणराहित्ये यथा साक्षी निराकुलाः।
मायाजृम्भणतः पूर्वं सत्तथैव निराकुलम् ॥ ४६ ॥

 मनोञृम्भणराहित्ये मनसो जृम्भणं प्रमातृत्वादिवृत्त्युन्मुखता तस्या राहित्यमभावः तस्मिन्निष्प्रपंचे मनसि यथा साक्षी प्रत्यगात्मा निराकुलः निर्गत सर्वचितविक्षेपनिमित्तः स्फुरति । तथैव मायाजृम्भणतो मायायाः सृष्टथात्मकव्यापारात्पूर्वं सत् परं ब्रह्म निराकुलं निश्चलं भाति ॥ ४३ ॥

मायास्वरूपानरूपणम् ।

 किं लक्षणेयं माया ? यया सर्वमिदं जगत्कल्पितमित्यत आह, निस्तत्वेति ।

निस्तत्वा कार्यगम्यास्य शक्तिर्मायाऽग्निशक्तिवत् ।
न हि शक्तिः क्वचित्कैश्चिदूबुध्यते कार्यतः पुरा ॥ ४७॥

 अस्य सतश्शक्तिर्मायेत्युच्यते, सा निस्तत्वा यधार्थस्वरूपविधुरा । ननु

यधार्थस्वरूपाभावे तस्या अभाव एव स्यादित्यत आह । सा विद्यत एव । तर्हि कथमवगम्यते? अग्निशक्तिवत् स्फोटादिकार्यलिंगेन यथाऽग्निशक्त्तिरनुमीयते, तथैव

प्रकरणम्।]
५३
कल्याणपीयूषव्याख्यासमेता

सा कार्यगम्या वियदादिकार्येण गम्याऽनुमेया । सद्वस्तु मायाशक्तिमत् वियदादिकार्यजनकत्वात् अग्निवदित्यर्थः । यदि विद्यते प्रत्यक्षेण किं न दृश्यते ? इत्यत आह। शक्तिः कचिद्यदा कदापि कैश्चिदपि कार्यतः पुरा प्राक्कार्योत्पत्तेः न बुदूध्यते न ज्ञायते । स्वतः सद्वस्तु न वियदादेः कारणम् । तस्य निष्क्रियत्वात् । “निष्कलं निष्क्रियं शान्तं निरवधं निरञ्जनम् " इत्यादिश्रुतेः। (श्वेत. ३. १९) अतो मायेति काचिच्छक्तिरवश्यमभ्युपगन्तव्या । सा च यथार्थस्वरूपविरहितेति भावः ।। ४७ ॥

 मायाया निस्तत्वस्वरूपविवक्षया तत्र पक्षद्वयमुत्थापयति, सार्थश्लोकेन,नेति

न सद्वस्तु सतः शक्तिर्नहि वह्ने: खशक्तिता ।
सद्विलक्षणतायां तु शक्तेः किं तत्त्वमुच्यताम् ॥
शून्यत्वमिति चेच्छून्यं मायाकार्यमितीरितम् ॥ ४८॥

 सतः शक्तिर्मायेति प्रतिज्ञातम् । तस्या मायात्वं विकल्प्य स्थापयति । तत्रायं विकल्प: । शक्तिः सतो भिन्ना अभिन्ना वा ? न द्वितीय इत्याह । नेति । सतः शक्तिः सद्वस्तु न । तत्रोपपत्तिमाह। न होति। वह्ने:स्वशक्तिता स्वस्यैव शक्तेराकारादेःस्वरूपता वह्निर्न भवति। तथाहि; मण्यादिसमवधाने वह्नेर्दाहानुदयात् । दाहानुकूला शक्तिः मण्यादिना नश्यतीति मीमांसका मन्यन्ते । यदि सा शक्तिर्वह्निरूपा शक्तिनाशो वह्निनाश इत्यायाति । न चेष्टापत्तिः। मणिसमवधानेपि रूपादिना वह्ने: प्रत्यक्षसिद्धत्वात् । अतो वह्निनिष्ठा दाहानुकूला शक्तिर्न वह्नि

रूपेत्यवश्यमभ्युपगन्तव्यम्।एवं सन्निष्ठा शक्तिरपि न सद्रूपेत्यभ्युपेया। एवं मायाशक्तिर्न सद्रूपा। ननु सदभिन्नत्वनिराकरणे मायाया अभ्युपगमेन तदतिरिक्तायाः शक्तेरङ्गीकर्तव्यतया सद्वितीयत्वप्रसक्त्त्याऽद्वितीयत्वभंगः प्रसज्येतेत्यत आद्यम् पक्षम् निराकरोति, सदिति । सद्विलक्षणतायां सतो बिभिन्नतायां तु शब्दः पक्षान्तरद्योतनार्थः शक्तेः किं तत्त्वं किं तस्याः स्वरूपं, सद्भिनं शून्यात्मकमुतान्यद्वस्तु उच्यताम् । सद्भिन्नं शून्यात्मकमिति कल्पेऽनुपपत्तिं दर्शयति । शून्यत्वमिति ।

५४
[महाभूतविवेक
पञ्चदशी

चेत् शून्यत्वं मायाशक्तेरयथार्थत्वादत्यन्तासत्वमित्युच्यते चेत् तस्मान्मायाकार्यं शून्यमितीरितम् भवति । न कस्यापि माध्यमिकातिरिक्तस्यास्य जगतः शून्यत्वमिष्टम् ॥ ४८ ॥

 एवं स्थिते सिद्धान्ती स्वमतं व्युत्पादयति, नेति ।

न शून्यं नापि सद्यादृक्तादृत्त्वमिहेष्यताम् ॥ ४९ ॥

 यादृक् न शून्यं नासत् नापि सत् तादृक् शक्तेस्तत्वमिष्यताम् । सत्त्वासत्त्वाभ्यामनिर्वचनीयमितिभावः । इंद्रजालिकसृष्टेर्मायाकार्यत्वेन व्यवहारदर्शनात् सतः शक्तेर्मायात्वमुक्तमिति तात्पर्यम् ॥ ४९ ॥

 अस्मिन्नर्थे ‘‘तम आसीत्तससा गूढ़मग्रे ’ (बृ.सम्. ८.७.) इति श्रुतिं प्रमाणयति, नेति ।

नासदासीन्नो सदासीत्तदानीं किं त्वभूत्तमः ।
सद्योगात्तमसः सत्त्वं न स्वतस्तन्निषेधनात् ॥ ५० ॥

 सा माया असत् शून्या नासीत् सत् नो आसीत् । किं तु तदानीं सृष्टेः प्राक् तमोऽभूत् । न स्वभावरूपं बस्त्वासोदिति कथं तस्य सत्वोक्तिरित्यत आह । सदिति । तमसो मायाया: सद्योगात् सद्वस्तुसंबंधात् सत्वं सत्ताधर्म उच्यते । मायायाः स्वतः सत्ताभावे कारणनाह । नेति । तन्निषेधनात् तस्य सत्ताधर्मस्य निषेधनात् स्वतो न विद्यते ॥ ५० ॥

 मायाया मिथ्यात्वविवक्षया सदभिन्नत्वमिव सद्भिन्नत्वमपि निराकरोति,अत इति ।

अत एव द्वितीयत्वं शून्यवन्न हि गण्यते ।
न लोके चैत्रतच्छत्त्योर्जीवितं लिख्यते पृथक् ॥ ५१ ॥

 अत एव मायया: मिथ्यात्वरूपत्वादेव शून्यवत् द्वितीयत्वं न हि गण्यतें नाङ्गीक्रियते । तत्र दृष्टान्तमाह । नेति । लोके चैत्रतच्छक्त्योः चैत्रस्य तस्य शक्त्तेश्च जीवितं स्थितिः पृथक् न लिख्यते ॥ ५१॥

प्रकरणम्।]
५५
कल्याणपीयूषव्याख्यासमेता

 द्वितीयं विकल्पं शक्तेः पार्धक्यरूपं वारयति, शक्तेरिति।

शक्याधिक्ये जीवितं चेद्वर्धते तत्र वृद्धिकृत् ।
न शक्तिः किं तु तत्कार्यं युद्धकृष्यादिकं तथा ॥५२॥

 शक्त्याधिक्ये सति जीवितं जीवनं वर्धते । अतश्चैत्रात्तच्छक्तिरतिरिक्तेति वदसि चेन्न । तत्र वृद्धिकृत् शक्तिर्न । न शक्तिः कार्यं वृद्धिरित्यर्थः। तर्हि किं तत्कार्यमित्यत आह । किं त्विति ! किं तु तत्कार्यं युद्धकृष्यादिकम् ॥ ५२ ॥

 एवं सतः शक्त्या सद्वितीयत्वं निराकृत्य तत्कार्याभावेन तेनापि सद्वितीयत्वं कैमुतिकन्यायेन निराकरोति, सर्वथेति ।

सर्वथा शक्तिमात्रस्य न पृथग्गणना क्वचित् ।
शक्तिकार्यं तु नैवास्ति द्वितीयं शम्क्यते कथम् ॥ ५३ ॥

 सर्वथा शक्तिमात्रस्य कचिदपि पृथग्गणना प्रत्येकव्यवहारो न विद्यते। शक्तिसद्वितीयत्वाभावेऽपि शक्तिकार्यसद्वितीयत्वं स्यादित्यत आह।शक्तीति । शक्तिकार्यं तु मायाया कार्यभूतं नामरूपादिकमैद्रजालिककार्यवन्नैवास्ति । एवेति निश्चयार्धे । एवं सति द्वितीयं वस्तु कथं शंक्यते अनुमीयते । वंध्यापुत्रायमाणेन शक्तिकार्येणापि सत सद्वितीयत्वमनुमातुं न शक्यत इति भावः ॥ ५३ ॥

मायायाःब्रह्मण एकदेशवृत्तित्वकथनम् ।

 ननु मायाशाक्तिः सद्वस्त्वधिष्ठाना स्याद्यदि । तर्हि तस्याः कृत्र्स्त्र ब्रह्मवृत्तित्वमाहोस्विदेकदेशभाक्त्वम् । आद्ये मुक्तप्राप्यं ब्रह्मा न स्यात् । द्वितीये सांशत्वापत्तिः। इत्याकारिकां मंदधियां शंकां निराकर्तुं तद्बुद्ध्यनुरूपामेव भाषामाश्रित्रैकदेशभाक्त्वमङ्गीकरोति, नेति ।

न कृत्स्नब्रह्मावृत्तिः सा शक्तिः क्रिंत्वेकदेशभाक् ।
घटशक्तिर्यथा भूमौ स्निग्धमृद्येव वर्तते ॥ ५४॥

५६
[महाभूतविवेक
पञ्चदशी

 सा मायाशक्तिः कृत्स्रब्रह्मवृत्तिः न कृत्स्ने अशेषे ब्रह्मणि न वर्तते । किं त्वेकदेशभाक् । किंचिद्देश एव वर्तते । तत्र दृष्टान्तमाह । घटेति । यथा घटशक्तिः घटोत्पादनशक्तिर्भूमौ सर्वत्र न विद्यते किं त्वेकदेशे स्निग्धमृद्येव वर्तते ॥ ५४ ॥

 परमात्मनि मायाया एकदेशवृत्तित्वं श्रुतिस्मृतिप्रसिद्धमित्याचक्षाणस्तत्र प्रधमं “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति”(छां.३.१२. ६.)श्रुतिमर्थतः पठति, पाद इति ।

पादोऽस्य सर्वा भूतानि त्रिपादस्ति स्वयंप्रभः ।
इत्येकदेशवृत्तित्वं मायाया वदति श्रुतिः ॥ ५५॥

 सर्वा भूतान्याकाशादीनि स्थावरजंगमादीनि कार्याणि सर्वा इति छांदसम् । अस्य परब्रह्मणः पाद: चतुर्धाशः । शिष्टः त्रिषात् पादत्रयात्मकः स्वयंप्रभः स्वयंप्रकाशः । इति मायाया एकदेशवृत्तित्वं मायाकार्यभूतभूतग्रामस्य चतुर्धोशत्वेन वर्णितत्वात्तत्कारणभूताया मायाया अप्येकदेशवृत्तित्वं निरुक्तश्रुत्युक्तप्रायमेवेति भावः । अपरिच्छिन्नाद्ब्रह्मण: परिच्छिन्नस्य जगतोऽत्यल्पतां बोधयितुं मायायाश्चतुर्धाशवृत्तित्वमुपदिष्टम् । नास्ति वसुतश्चतुर्धांशः । तस्य निरंशत्वात् । द्वित्वादिसंख्यायामेकत्वद्वयाद्यभावेऽप्येकत्वद्वयादिरूपम् द्वित्वादित्येकदेशिनो यया मन्यन्ते तद्वत् ॥ ५५ ॥

 अस्मिन्नर्थे स्मृतिं प्रमाणयति,(गी.१०.४२.)विष्टभ्येति।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।
इति कृष्णोऽर्जुनायाह जगतस्त्वेकदेशताम् ॥ ५६ ॥

 विष्टभ्य विशेषेण व्याप्य । स्पष्टभन्यत् ॥ ५५ ॥

परब्रह्मणो मायारहितस्वरूपे श्रुतिसूत्रे प्रमाणयति, स इति ।

स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशांगुलम् ।
विकारावर्ति चात्रास्ति श्रुतिसूत्रकृतोर्वचः॥ ५७ ॥

प्रकरणम्।]
५७
कल्याणपीयूषव्याख्यासमेता।

 स परमात्मा भूमिं जगद्विश्वतः समन्ततो वृत्वा दशाङ्गुलमत्यतिष्ठत् तदतिरिच्यातिष्ठत् । नात्र दशशब्द: केवलदशत्वसंख्यावाचकः । किं तु जगदपेक्षया तस्य भूयस्त्वबोघनपर एवेति श्वेताश्वरश्रुतिः (३.१४.) न परब्रह्म विकारावर्ति च विकाराः सूर्यमंडलादयः । तेष्ववर्ति न तावन्मात्रपरिच्छिन्नः। अत्र अस्मिन् विषये श्रुतिसूत्रकृतोर्वच ।श्रुतेर्वच: पूर्वार्धे उक्तम् । सूत्रकृतो वचस्तु “विकारावर्ति च तथा हि स्थितिमाहेति” (४.४.१९.) सूत्रे इति ॥ ५७ ॥

 मायायाः परब्रह्मैकदेशभाक्त्वकथनेन तस्य सावयवत्वप्राप्तिमाशंक्याह । निरंशइति ।

निरंशेऽप्यंशमारोप्य कृस्नेंशे वेति पृच्छतः।
तद्भाषयोत्तरं ब्रूते श्रुतिः श्रोतृहीतैषिणो ॥ ५८ ॥

 सुलभा पदयोजना। द्वैतभाषामाश्रित्य पृच्छतो मंदधियो विपयस्य सुगमतायै तयैव भाषयोत्तरमपि समाधीयत इति भावः ॥ ५८ ॥

 एवं समर्धिताया मायायाः प्रयोजनं सदृष्टान्तमाह, सदिति।

सत्तत्त्वमाश्रिता शक्तिः कल्पयेत्सति विक्रियाः।
वर्णा भित्तिगता भित्तौ चित्रं नानाविधं तथा ॥ ५९ ॥

 भित्तिगताः कुड्ये लिप्ता रक्तपीतादयो नानाविधमाकृतिविशेषम्। विक्रिया विविधतया क्रियन्त इयि विक्रियाः । स्थष्टमन्यत् ॥ ५९ ॥

आद्यविकारस्याकाशस्य विचारः ।

 मायाकल्पितेषु विकारेषु प्रथममाह, आद्य इति ।

आद्यो विकार आकाशः सोऽवकाशस्वरूपवान्।
आकाशोऽस्तीति स त्त्वमाकाशेऽप्यनुगच्छति ॥ ६० ॥

 मायया सद्वस्तुनि कल्पितानां विकाराणां मध्ये आद्यः प्रथमो विकार

आकाशः। " आत्मन आकाशः संभूत” (तै. २.१) इति श्रुतेः । नामरूपसहि

५८
[महाभूतविवेक
पञ्चदशी

तत्वमेव विकारत्वम् । सृष्टौ प्रथमकार्यस्याकाश इति नाम । सोऽवकाशस्वरूपवान् अवकाश एव तस्य स्वरूपम् । मूर्तद्रव्याणामवकाशदातृत्वात् । “ द्रव्यान्तरस्थितिप्रवेशयोग्यतासंपादको दैशिकः स चावकाशः”। आकाशस्य सत्कार्यत्वं सोपपत्तिकमाह । आकाशोऽस्तीति सत्त्वत्वं सत्तारूपो धर्म आकाशेऽप्यनुगच्छति । अध्यस्यत इति यावत् । सत आकाशेप्यनुस्यूतत्वात् ॥ ६० ॥

 आकाशे कार्यकारणधर्मौ विशदयति, एकेति ।

एकस्वभावं सत्तत्वमाकाशो द्विस्वभावकः ।
नावकाशः सति व्योम्नि स चैषोऽपि द्वयं स्थितम् ॥ ६१॥

 सत्तत्त्वं सद्भाव एकस्वभावं सत्तारूपैकधर्मकं । आकाशो द्विस्वभावकः । सति सद्वस्तुन्यवकाशो न विद्यते । व्योम्नि सन् सत्ता एषोप्यवकाशगुणश्च द्वयमपि स्थितम्। सत्कार्यत्वधर्मविशिष्टावकाशदातृत्वमाकाशस्य स्वरूपमित्युक्तं भवति । एवमाकाशवायुतेजोंबुभुवां पूर्वपूर्वस्योत्तरोत्तरकारणभूतत्वादुत्तरोत्तरस्मिन् पूर्वपूर्वकारणस्य गुणसंक्रमणमुत्तरग्रन्थे प्रदर्शितम् । प्रत्येकं तेषां स्वधर्माश्चापिहिताः।एवमेते क्रमशो द्वित्रिचतुःपंचषट्स्वभावका भवन्ति॥ ६१॥

 आकाशनिष्ठशब्दगुणमादायापि सदाकाशयोरेकद्विस्वभावत्वमेवेत्याह,यद्वेति।

यद्वा प्रतिध्वनिर्व्योम्नो गुणो नासौ सतीक्ष्यते।
व्योम्नि द्वौ सद्ध्वनी तेन सदेकं द्विगुणं वियत् ॥ ६२ ॥

 यद्वेति प्रकारान्तरेण वियतो द्वैगुण्यं दर्शयति । प्रतिध्वनिः शब्दो

व्योम्नो गुणः । असौ प्रतिध्वनिः सति नेक्ष्यते व्योम्नि सद्ध्वनी सत्ता च ध्वनिश्च द्वौ गुणौ । तेन कारणेन सदेकमेकस्वभावकम् । वियद्द्विगुणं द्विस्वभावकम्। सत्कार्यत्वे सत्यवकाशदातृत्वं यद्वा शब्दगुणकत्वमाकाशस्य स्वरूपमिति संपन्नम्। शब्दगुणकमाकाशमिति न्यायनयप्रसिद्धमाकाशलक्षणं तु तस्य द्रव्येतरविभाजकधर्मप्रतिपादकमात्रं न तु तत्स्वरूपप्रदर्शकमित्यवधेयम् ॥६२॥

प्रकरणम्।]
५९
कल्याणपीयूषव्याख्यासमेता

 नन्वाकाश आसीदित्यत्र सत्ताधर्मविशिष्ट आकाश इत्यर्थे सदाकाशयोर्धर्मधर्मिभावापत्तेरसंगतिरेव स्यात् । आकाशस्य सत्कार्यत्वे सति कथं कारणस्य कार्यधर्मत्वमित्याशंक्याह, येति ।

या शक्तिः कल्पयेद्व्योम सा सद्व्योम्नोरभिन्नताम् ।
आपाद्य धर्मधर्मित्वं व्युत्ययेनावकल्पयेत् ॥ ६३॥

 या मायाशक्तिर्व्योम कल्पयेत् सत्यारोपयति सैव शक्तिः सद्व्योम्नोंरभिन्नतां तादात्म्यमापाद्य प्रथमं संपाद्य तयोरेवानन्तरं वैपरीत्येन धर्मधर्मित्वं धर्मस्याकाशस्य धर्मिभावं चावकल्पयेत्। अत आकाशस्य सद्धर्मित्वमवगम्यये ॥६३॥

 निरुक्तव्यत्ययमेव प्रपञ्चयति, सत इति ।

सतो व्योमत्वमापन्नं व्योम्नः सत्तां तु लौकिकाः ।
तार्किकाश्चावगच्छन्ति मायाया उचितं हि तत् ॥६४॥

 मृदो घटरूपत्वमिव सतो व्योमत्वमापन्नम्। देशपरिच्छिन्नत्वशब्दगुण कत्वादिवियद्धर्मा विकाराः सद्वस्तुनि माययाऽरोप्यन्ते । तथापि लौकिकाः शास्त्रज्ञानशून्याः प्रतीतिमात्रशरणास्तार्किकाश्च व्योम्नः सत्तामवगच्छन्ति । तद्विपरीतकल्पना मायाया उचितैव हि । धर्मधर्मिणोर्व्यत्ययेन परिग्रहणं केवलमायाकृतव्यामोहफलमित्यलम् ॥ ६४ ॥

 विपरीतप्रतीतेर्लौकिकोपपत्तिमाह, यदिति ।

यद्यथा वर्तते तस्य तथात्वं भाति मानतः।
अन्यथात्वं भ्रमेणेति न्यायोऽयं सार्वलौकिकः ॥६५॥

 यद्वस्तु यथा वर्तते तस्य तथात्वं तथाप्रतीयमानत्वं मानतः प्रत्यक्षादिप्रमाणतो भाति सिध्यति । तस्मिन् तद्बुद्धिः प्रमा। अन्यथात्वं अन्यधर्मवत्वं भ्रमेणेत्ययं न्यायः अतस्मिन् तद्बुद्धिर्भ्रम इति न्यायः सार्वलौकिकः- सार्वजनीनः सर्वसम्मत इत्यर्थः ॥ ६५ ॥

६०
[महाभूतविवेक
पञ्चदशी

 धर्मवत्तो वियतः सद्वस्तुनि विवेचनारीतिमाह, एवमिति ।

एवं श्रुतिविचारात् प्राग्यथा यद्वस्तु भासते ।
विचारेण विपर्येति ततस्तच्चिन्त्यतां वियत् ॥ ६६ ॥

 एवमुक्तप्रकारेण यद्वस्तु श्रुतिविचारात् प्राक् श्रुत्यर्थविचारात्पूर्वं यथा भासते आकाश आसीदित्याकाशनिष्ठसत्त्वधर्मकतया ज्ञायो तद्वस्तु विचारेण श्रुतेरर्थविचारेण विपर्येति वैपरीत्वेन भासो। न चाकाशधर्मः सत्ता किंतु सदेव मायाकल्पितभ्रमेण वियन्नाम्ना प्रतीयत इति ज्ञायते ततस्तद्वियच्चिन्त्यतां वियतः कार्यत्वं विचार्यताम् । अत्र वियच्छव्देन वियदादि सर्वं सृष्टिजातं गृह्यते॥ । ६६ ।।

 निरुक्तां विवेचनारीतिं विवृणोति, भिन्न इति ।

भिन्ने वियत्सती शब्दभेदाद्बुद्धेश्च भेदतः ।
वाय्वादिष्वनुवृत्तं सन्नतु व्योमेति भेदधी: ॥ ६७ ॥

 वियत्सती वियच्च सच्च आकाशपद्वस्तुनी भिन्ने । कुतः ? शब्दभेदात् । सत् वियतो भिन्नम् । वियदवाचकशब्दप्रतिपाद्यत्वात् । एवं वियत्सतो भिन्नम् ।सच्छब्दाप्रतिपाद्यत्वात्। इत्यनुमानद्वयमस्मिन् वाक्ये सूचितम् । भिन्ने वियत्सती बुद्धेश्च भेदतः। सत् वियद्भिन्नम् । वियद्विषयकबुद्धिविलक्षणबुद्धिविषयत्वात् । एवं वियत्सतो भिन्नम् । सद्विषयकबुद्धिविलक्षणबुद्धिविषयत्वात् । इत्यनुमानद्वयमनेन सूचितम् । बुद्धिभेदं विशदयति वाय्विति । सत् वाय्वादिपु सन् वायुः सत्तेज इत्यनुवृत्तम् । व्योम तु न तथाऽनुवृत्तम् । इति इत्याकारकं ज्ञानं भेदधीः ॥ ६७ ॥

 आकाशसत्तेति प्रातीतिकं धर्मिधर्मभावं विहाय सतो धर्म आकाश इति पूवोंक्त सिद्धान्तं युक्त्या साधयति, सदिति ।

सद्वस्त्वधिकवृत्तित्वाद्धर्मि व्योम्नस्तु धर्मता ।
धिया सतः पृथक्कारे ब्रूहि व्योम क्रिमात्मृकं ! ६८ ॥

प्रकरणम्।]
६१
कल्याणपीयूषव्याख्यासमेता

 सद्वस्तु अधिकवृत्तित्वादधिकदेशवृत्तित्वात् धर्मि भवति । व्योम्नस्तु न्यूनदेशवृत्तित्वाद्धर्मता । धर्मस्य धर्मिवृत्तितया धर्मिणोऽधिकदेशवृत्तित्वं धर्मस्य । न्यूनदेशवृत्तित्वं च लोके सामान्यतो दृष्टम् । एवं प्रकृतेप्यधिकदेशवृत्तेस्सती धर्मित्वं न्यूनदेशवृत्तेराकाशस्य धर्मत्वं च निश्चेयम् । न तु तद्वैपरीत्येण। लोके वैपरीत्येण व्यवहारस्तु वस्तुतत्त्वानवबोघमूलक इति च बोध्यम् । एवं धर्मधर्मिभावे स्थिते धिया सतः पृथक्कारे सतो धर्मिभूतस्य विवेचने धर्मस्य धर्मिव्यतिरेकेणावर्तनाद् व्योम किमात्मकं ब्रूहि किं स्वरूपमवतिष्ठेतेति वद ।। ६८ ॥

 नन्वाकाशात्सद्बुद्धैः पृथक्करणानन्तरमप्यवकाशात्मकस्वरूपेणाकाशो विद्यत एवेति प्रतिवादिवादोऽसंगत इत्याह, अवकाशेति ।

अवकाशात्मकं तच्चेदसत्तदिति चिन्त्यताम्।
भिन्नं सतोऽसच्च नेति वक्षि चेद् व्याहृतिस्तव ॥ ६९ ॥

 आकाशस्य सतः पृथक्करणानन्तामवकाशात्मकं वियदस्तीति वदसि चेत्तदवकाशात्मकमसदिति सद्व्यतिरिक्तमिति चिन्त्यतां निश्चीवताम् । तर्हि किंमापतेत् । सतो भिन्नमसत्तयाप्यसन्नेति वक्षि चेत् तव वचसो व्याहतिः परस्परविरोधः । तव व्याहतिरित्युक्त्या सदसद्विलक्षणमिथ्याभूतवस्त्वङ्गीकर्तृणां नायंव्याघात इति सूच्यते ॥ ६९ ॥

 अवकाशात्मक आकाशोऽसन्नपि कथं भासत इत्याशंक्याह, भातीति ।

भातीति चेद्भातु नाम भूषणं मायिकस्य तत् ।
यदसद्भासमानं तन्मिथ्या स्वप्नगजादिवत् ॥ ७० ॥

 अवकाशात्मक आकाशः सतः पृथक्करणानन्तरमपि भातीति वक्ष्यसि

चेद्भातु नाम । किं तु तद्भानं मायिकस्य मायाकार्यस्य भूषणमलंकार एव।यदसद्वस्तु मरुमरीचिकेवाविद्यमानमपि विद्यमानमिव भासमानं तत् स्वप्रगजादिक्त् मिथ्यामात्रमेव ॥७० ॥

६२
[महाभूतविवेक
पञ्चदशी

 नियमेन सहोपलभ्यमानयोः कथं भेदसिद्धिरिति चोद्यं परकीयानुभव प्रदर्शनेंन परिहरति, जातीति ।

जातिव्यक्ती देहिदेहौ गुणद्रव्ये यथा पृथक् ।
वियत्सतोस्तथैवास्तु पार्थक्यं कोऽत्र विस्मयः ॥ ७१ ॥

 यथा जातिव्यक्ती जातिर्नित्यमेकमनेकानुगतं सामान्यमिति लक्षणलक्षिता। यथाऽनेकेषु गोषु विद्यमानो गोत्वधर्मः, व्यक्तिः धर्मी गौ, देहिदेहौ । देही जीवः, तस्याश्रयो देहः, गुणद्रव्ये गुणो नीलपीतादि:, द्रव्यं घटादिकं; यथा पृथक् भिन्नतया भासते । वियत्सतोराकाशस्य धर्मितया प्रतीयमानस्य सद्वस्तुनश्च तथैव पार्थक्यमस्तु । नित्यसंबद्धानामेवं पार्थक्ये को विस्मयः किमाश्चर्यम् ॥ ७१ ॥

 यद्यपि भेदो बुध्यते। तथाऽपि सा बुद्धिर्निश्चयात्मिकेति कथं सिध्यति इति शंकते, बुद्धोपीति ।

बुद्धोऽपि भेदो नो चित्ते निरूढिं याति चेत्तदा।
अनैकाग्र्यात्संशयाद्वा रूढ्यभावोऽस्य ते वद ॥ ७२ ॥

 आकाशस्रतोर्द्भेद उक्तरीत्या बुद्धोऽपि सहेतुकमवगतोऽपि चित्ते निरूढिं दार्ढय नो याति नाप्नोतीति चेत् तन्निश्चितत्वाभावे को हेतुरिति विकल्प्यते । अनैकाग्र्यादिति । अस्य रूढ्यभावः कथं भवेत् अनैकाग्र्यात् एकमग्रं विषयप्रवणता यस्य तदेकाग्रं तस्य भाव ऐकाग्र्यम् तन्नभवतीत्यनैकाग्र्यम् । तस्माच्चितविक्षेपादुत संशयाद्विश्वासाभावात् । वद ॥ ७२ ॥

 द्वयोरपि प्रतीकारमाह, अप्रमत्त इति ।

अप्रमत्तो भव ध्यानादाद्येऽन्यस्मिन् विवेचनम्।
कुरु प्रमाणयुक्तिभ्यां ततो रूढतमो भवेत् ॥ ७३ ॥

 आद्ये अनैकाग्र्यपक्षे ध्यानादप्रमत्तो भव चितैकाग्र्यम् संपादय ।

अन्यस्मिन् पक्षे संशयग्रस्तत्वे प्रमाणयुक्तिभ्यां प्रमाणं “ सदेव सोम्य इदमग्र

प्रकरणम्।]
६३
कल्याणपीयूषव्याख्यासमेता

आसी"(छां. ६.२.१.दित्यादिवाक्यजातम्। युक्तिरनुवृत्तिव्यावृत्तिस्वरूपा। ताभ्यां विवेचनं कोटथन्तरव्यावृत्तिं कुरु । ततो रूढथभावहेतुभूतयोरनैकाग्र्यसंशययोर्निवृत्त्यनन्तरं जातां बुद्धिं निश्चयात्मिकां निश्चित्य बुद्धेऽर्थे रूढतमोऽत्यन्तविश्वसयुक्तो भवेत्॥७३॥

 उक्तिध्यानविवेचनयोःसाक्षात्परंपराफलें आह,ध्यानेति ।

ध्यानान्मानाद्युक्तितोऽपि रूढे भेदे वियत्सतोः ।
न कदाचिद्वियत्सत्यं सद्वस्तु च्छिद्रवन्न च ॥ ७४ ॥

 एवं ध्यानाच्चित्तैकाग्र्यान्मानात्प्रमाणाद्युक्तितोऽपि वियत्सतोर्भेदे रूढे । दृढतमं निश्चिते सति । एतेन साक्षात्फलं भेदनिश्चय इति सूचितम् । वियत्कदाऽपि न सत्यं सर्वथा मिध्यैवेति भासते । सद्वस्तु च छिद्रवत् अवकाशवन्न भासते । एतेनाकाशस्य सत्यत्वेन भानाभावः फलमिति तदेव ध्यानयुक्त्योर्मुख्यं फलमिति च सूचितम् ॥ ३४ ॥

 तदर्थमेवान्वयव्यतिरेकाभ्यामाह, ज्ञेति ।

ज्ञस्य सदा भाति व्योम निस्तत्त्वोल्लेखपूर्ववत् ।
सद्वस्त्वपि विभात्यस्य निच्छिद्रत्वपुरस्सरम् ॥ ७५ ॥

 ज्ञस्य ज्ञानिनस्सदा व्योम निस्तत्त्वोल्लेखपूर्वकं निर्गतं तत्त्वात् याथार्थ्यात् निस्तत्वं तस्याल्लेखः ज्ञानाभिलापकः शब्दः तत्पूर्वकं मिथ्यात्वेनैव भाति प्रतीयते । अस्य ज्ञानिनः सद्वस्त्वपि निश्छिद्रत्वपुरस्सरं छिद्राभाववत्वेन विभाति स्फुरति ॥ ७५ ॥

 आकाशस्य मिथ्यात्वस्य सतः सत्यत्वस्य च चिन्तनाफलमाह, वासनायामिति ।

वासनायां प्रवृद्धायां वियत्सत्यत्ववादिनम् ।
सन्मात्राबोधयुक्तं च दृष्ट्वा विस्मयते बुधः ॥ ७६ ॥

६४
[महाभूतविवेक
पञ्चदशी

 वियत्सतोः स्वरूपज्ञानवासनायां प्रवृद्धायां बुवो ज्ञानी वियत्सत्यत्ववादिनं वियत्सत्यमिति वदन्तं पण्डितंमानिनं सन्मात्राबोधयुक्तं सस्यत्वेतरधर्मशून्यत्वे सति सत्यतया सद्वस्तुस्वरूपानभिज्ञं व दृष्ट्वा विस्मयते आश्चर्यमग्नो भवति।७६॥

वायोर्मिथ्यात्वविचारः ।

 एवं वियत्सतोर्विवेचनासरणिमनुसृत्यैव भूतान्तरविवेचनाऽपि कर्तव्येंत्याह, एवमिति ।

एवमाकाशमिथ्यात्वे सत्सत्यत्वे च वासिते ।
न्यायेनानेन वाय्वादेः सदूवस्तु प्रविविच्यताम् ॥ ७७॥

 सुगमा पदयोजना। कारणाकाशस्यासत्वे तत्कार्यभूतस्य वाय्वादेः सर्वस्यासत्यत्वं सर्वत्रानुस्यूतत्वात्सतः सत्यत्वं च सुगमं भवतीति भावः ॥ ७७ ॥

 यद्यपि वायुः सन् तेजः सदित्यादिप्रतीतिबलात् वाय्वादयो धर्मिणः सत्ता च तेषां धर्म इत्यायाति । तथा च धर्मिभूतानां वाय्वादीनां निराकरणे धर्मभूतस्य सतोऽपि निराकृतिः प्रसज्येत । किं च वाय्वादिषु सत्त्वमनुपपन्नम्। असद्भूताकाशकार्यत्वेनाकाश इव कारणवशात् सत्तासंक्रमस्य दुर्वचत्वात् । इत्याशंकां परिहर्तुमाह, सदिति ।

सद्वस्तुन्येकदेशस्या माया तत्त्रैकदेशगम् ।
वियत्तत्राप्येकदेशगतो वायुः प्रकल्पितः ॥ ७८॥

 सद्वस्तुनि माया एकदेशस्था । तत्र वियत् । मायायामेकदेशगम् ।

मायांशमात्र एवाकाशः । तस्य आद्यविकारस्वरूपत्वात् । तत्राकाशेऽप्येकदेशगतएकांशसंभूतो वायुः प्रकल्पितः । अत्र क्रमेण उत्तरोत्तरस्य पूर्वपूर्वैकदेशगतत्वोक्त्या यथा मायैकदेशगतं वियन्मायाद्वाराऽसत्कारणकं भवति तथा वियदेकदेशगतो वायुरपि तद्वारा तत्कारणको भवति । अत्र संबंधे साक्षात्वासाक्षात्वाभ्यां विवक्षिते। एवं च सत्कार्यत्वाविशेषात् वाय्वादीनामपि सत्वसंबम्घो निर्भाव एव । किं च लोके धर्मधर्मिभावस्य वैपरीत्येनाविद्वद्गोचरत्वेऽप्यधिकदेशवृतिः धर्मी, तदेकदेश

प्रकरणम्।]
६५
कल्याणपीयूषव्याख्यासमेता

वृत्तिः धर्म इति पूर्वोपपादितनियमानुसारेण सतो धर्मित्वं, वाय्वादीनामाकाशवत् सद्धर्मत्वं च सिद्धम् । अत्र धर्मिणः पृथक्करणे धर्माणामविद्यमानत्वमित्यादिकमाकाशवदित्यादि सर्वं क्रमेणैकदेशगतत्वकथनेन संगृहीतमिति बोध्यम् ॥ ७८ ॥

 तथैव सद्वायुविवेंचनप्रयोंजकीभूतां वायोस्त्रिस्वभावतामाह, शोष इति ।

शोषस्पर्शौ गतिर्वेगः वायुधर्मा इमे मताः।
त्रयः स्वभावाः सन्मायाव्योम्नां ये तेऽपि वायुगा: ॥ ७९ ॥

 शेषस्पर्शौ शोषो द्रवत्वहरणम्, शोषस्पर्शौ गतिर्वेगश्च, इमे गुणाः वायुधर्माः । वायोः स्वीया धर्मा इति मताः । तद्गतान् कारणधर्मानाह सदिति । सन्मायाव्योम्नां त्रयो ये विद्यन्ते स्वभावाः तेऽपि वायुगाः॥ ७९ ॥

 वायौ तद्धर्मसत्त्वं प्रतिपादयति, वायुरिति ।

वायुरस्तीति सद्भावः सतो वायौ पृथक्कृते ।
निस्तत्वरूपता मायास्वभावो व्योमगो ध्वनिः ॥ ८० ॥

 वायुरस्तीति सद्भावः सत्तारूपः सद्धर्मः। धर्मिणस्सतो वायौ पृथक्कृते सति सिद्धा निस्तत्त्वरूपता मिथ्यास्वरूपत्वं मायास्वभावः, धर्मिणमन्तरा धर्मस्याविद्यमानत्वात् । अयं मायास्वभावः । तृतीयो व्योमगो धर्मः ध्वनिः ॥ ८० ॥

 ननु वाय्वादिष्वनुवृत्तं सन्नतु व्योमेत्यादिना बाय्वादिषु व्योमानुवृत्तिः पुरा निराकृता।अधुना वायौ व्योमगुणानुवृत्तिकथनेन व्योम्नोंऽनुवृत्तिरुक्त प्राया । कथं न विरोध इत्याशंकते, सत इति ।

सतोऽनुवृत्तिः सर्वत्र व्योम्नो नेति पुरेरितम् ।
व्योमानुवृत्तिरधुना कथं न व्याहतं वचः ॥ ८१ ॥

 सर्वत्र सतोऽनुवृत्तिः “भिन्ने वियत्सती ” त्यत्र पुरेरितमुक्तम्; अधुना

व्योमानुवृत्तिः व्योम्नो गुणानुवृत्तिक्रथनमुखेन वायावीरिता ईरितप्राया; एवं च तव वचः कथं न व्याहतं परस्परविरुद्धं न भवति ॥ ८१ ॥

६६
[महाभूतविवेक
पञ्चदशी

 समाधत्ते, छिद्रेति

छिद्रानुवृत्तिर्नेतीति पूर्वोक्तिरधुना त्वियम् ।
शब्दानुवृत्तिरेवोक्ता वचसो व्याहतिः कुतः ॥ ८२॥

 छिद्रानुवृत्तिरवकाशलक्षणस्वरूपस्यानुवृत्तिर्वायौ न विद्यत इति पूर्वोक्तिः। अधुनात्वियमुक्तिः । शब्दानुवृत्तिरेवाकाशगुणस्योक्ता। शब्दानुवृत्तिरेवोक्ता न तु स्वरूपानुवृत्तिः । तथा सति वचसो व्याहृतिर्विरोधः कुतः? पुराऽकाशस्य वस्तुविभाजकधर्मोऽवकाशो वायौ न विद्यते । एवमाकाशाद्वायुर्व्यावर्त्यत इत्युक्तम्; तथाऽपि शब्दात्मको वियद्गुणों वायावपि विद्यत इत्यधुनोक्तम्; नातस्तयोर्विरोध इति भावः ॥ ८२ ॥

 ननु वाय्वादेः सद्वस्तुनि प्रविविच्यमाने वायोरपि यथाऽसत्वमुक्तं एवं मायावैलक्षण्येन मायायां पृथक्कृतायां वायोरमायामयत्वं प्राप्तमिति शंकते नन्विति ।

ननु सद्वस्तुपार्थक्यादसत्त्वं चेत्तदा कथम् ।
अव्यक्तमायावैषम्यादमायामयताऽपि नो ॥ ८३ ॥

 नन्विति प्रश्नार्थे । वायुः सद्वस्तुपार्थक्यात् सतो भिन्नत्वादसत्त्वं चत्तेद्वैलक्षण्यान्मिथ्येत्युच्यते चेत् । तथाऽव्यक्तमायावैषम्यादव्यक्ता इन्द्रियागोचरा या माया मिथ्याभूता तद्वैषम्यात् इन्द्रियगोचरत्वेन विलक्षणत्वात् अमायामयता मायास्वरूपाद्भिन्ना सत्यात्मिकेति यावत् कथं नो न स्यात् । इन्द्रियागोचरा माया। तद्भोचरो वायुरिति विलक्षणस्वभावात्तयोर्मेदे मिथ्याभूतमायाभिन्नममिथ्येव स्यादित्याक्षेपः ॥ ८३ ॥

 परिहरति, निस्तत्वेति ।

निस्तत्त्वरूपतैवात्र मायात्वस्य प्रयोजिका ।
सा शक्तिकार्ययोस्तुल्या व्यक्ताव्यक्तत्वभेदिनोः ॥ ८४ ॥

प्रकरणम्।]
कल्याणपीयूषव्याख्यासमेता

 अत्र वायोर्मिथ्यात्वनिरूपणे नेिस्तत्त्वंरूपतां तत्त्वेतरस्वरूपता,मायात्वस्य मिथ्यात्वस्य प्रयोजिका । सा निस्तत्त्वरूपता व्यक्ताव्यक्तत्वभेदिनो: विभिन्नयो: शक्तिकार्ययोरिन्द्रियागोचरायाः शक्तेस्तद्गोचरस्य कार्यस्य च तुल्यैव सम्मता।मायाया इन्द्रियगोचरत्वे न तत्कार्यस्येन्द्रियगोचरत्वेन च भेदे विद्यमानेऽप्युभयोर्निस्तत्त्वरूपता समानैव । मिथ्यात्वप्रयोजिकायाः निस्तत्वरूपंताया उभयोः सत्वेनोभयोरपि मिथ्यात्वमसत्यत्वमबाधितमेव ॥ ८४ ॥

 मायाकार्ययोरवान्तरछेदप्रसंगोऽत्राप्रस्तुत इत्याह, सदिति।

सदसत्वविवेकस्य प्रस्तुतत्वात्स चिन्त्यताम् ।
असतोऽवान्तरभेद आस्तां तच्चिन्तयात्र किम् ॥ ८५॥

 सदसत्वविवेकस्य सतोऽसतश्चं विवेचनस्य प्रस्तुतत्वात् संप्रति विचार विषयत्वात् स चिन्त्यताम् । असतः सद्भिन्नस्य मायातत्कार्यरूपस्यावान्तरभेदोऽन्तर्भेद आस्तां नाम । अत्र सदसद्विवेचनप्रकरणे भेदविवेचनस्याप्रस्तुततया तच्चिन्तया अवान्तरभेदस्य च्चिन्तया किं प्रजोजनं ? न किमपीत्यर्थः ॥ ८५ ॥

 एवं रूपविवेचनाफलमाह, सदिति ।

सद्वस्तु ब्रह्म शिष्टोंशो वायुर्मिथ्या यथा वियत् ।
वासयित्वा चिरं वायोर्मिथ्यात्वं मरुतं त्यजेत् ॥ ८६ ॥

 सन् वायुरित्यत्र सद्वस्तु ब्रह्म शिष्टोंशो वायुः मिथ्या। स्पष्टमन्यत्॥६॥

अग्नेर्मिथ्यात्वविचारः।

 वायुविवेचनानन्तरमाग्निविवेचनाप्रकारमाह, चिन्तयेदिति।

चिन्तयेद्वह्निमप्येवं मरुतो न्यूनवर्तिनम् ।
ब्रह्माण्डावरणेष्वेषां न्यूनाधिकविचारणा ॥ ८७ ॥

 मरुतो न्यूनवर्तिनमेकदेशवर्तिनं वह्निमप्येवं धर्मरूपतया चिन्तयेत् । एषा न्यूनाधिकविचारणा ब्रह्मण्डावरणेषु ब्रह्मणोत्पादितस्याण्डाकारस्य भुवनकोष्ठस्य वा आवरणेषु भूम्यादिष्वेवं कर्तव्येति शेषः ॥ ८७ ॥

६८
[महाभूतविवेक
पञ्चदशी

 पञ्चभूतानां न्यूनाधिकांशतां विवृणोति, वायोरिति ।

वायोर्दशांशतो न्यूनो वह्निर्वायौ प्रकल्पितः।
पुराणोक्तं तारतम्यं दशांशैर्भूतपञ्चके ॥ ८८ ॥

 स्पष्टः पूर्वार्धः। एवं भूतपञ्चके वियत्पवनतेजोंबुभूषु पूर्वापेक्षया परस्य दशांशैः न्यूनत्वरूपं तारतम्यं पुराणोक्तम् । भूतोत्पत्तावाकाशादिभ्यो वाय्वादयो यथाक्रमं दशांशतो न्यूनपरिमाणाः । पञ्जीकरणे यथापरिमाणं सामि विभज्य एकैकं भूतं भूतान्तराणामष्टमांशसंयोजनमिति संगच्छते ॥ ८८ ॥

 तेजोविवेचनार्थं तत्स्वरूपमाह, वंह्निरिति ।

वह्निरुष्णः प्रकाशात्मा पूर्वानुगतिरत्र च।
अस्ति वह्नि: स निस्तत्व: शब्दवान् स्पर्शवानपि ॥८९॥

 वह्निरुष्णः प्रकाशात्मा । अत्र च पूर्वानुगतिः पूर्वस्य कारणस्यानुगतिर्गृणानुसरणम् । यथा वायौ सन्मायाकाशधर्माः तथैवाग्रावपि । अस्ति वह्निरिति सद्धर्म स वह्निर्निस्तत्व इति मायाधर्मः । तथा शब्दवानित्याकाशधर्मः स्पर्शवानपि । स्पर्शो वायोर्धर्मः। एतेषां कारणगुणानां कार्ये वह्नावनुगतिरितिभावः॥८९॥

 कारणगुणानग्नौ प्रदर्श्य तत्र स्वीयमपि दर्शयति, सदिति ।

सन्मायाव्योमवाय्वंशैर्युक्तस्याग्नेर्निजो गुणः ।
रूपं तत्र सतः सर्वमन्यद्बुद्ध्या विविच्यताम् ॥ ९०॥

 सन्मायाव्योमवाय्वंशैर्युक्तस्याग्नेर्निजः स्वीयो गुणो रूपम् । तत्र तेषु

गुणेषु सतोऽन्यत्सर्वं सद्भिन्नं समस्तधर्मजातं मिथ्येति बुध्द्था विविच्यतां पृथक्क्रियताम् । सतः पृथक्कृतावन्यस्य सर्वस्य निस्तत्वेन मिथ्यात्वं सम्यग्विचिन्तितं भवतीति भावः ॥ ९० ॥

प्रकरणम्।]
६९
कल्याणपीयूषव्याख्यासमेता

अपां मिथ्यात्वविचारः ।

 अथापां तत्त्वं दर्शयति, सत इति ।

सतो विवेचिते वह्नौ मिथ्यात्वे सति वासिते।
आपो दशांशतो न्यूनाः कल्पिता इति चिन्तयेत् ॥ ९१ ॥

 स्पष्टोऽर्थः ॥ ९१ ॥

 अप्स्वपि कारणधर्मान्निजधर्ममपि दर्शयति,सन्तीति।

सन्त्यापोऽमूः शून्यतत्त्वा: सशब्दम्स्पर्शसंयुताः।
रूपवत्योऽन्यधर्मानुवृत्त्या स्वीयो रसो गुणः ॥ ९२ ॥

 अन्यधर्मानुवृत्त्या सदाकाशादीनामन्येषां सत्ता निस्तत्वादिधर्माणामनुवृत्या अमूरापः सन्तीति सद्धर्मः। शुन्यतत्त्वा निस्तत्त्वा इति मायाधर्मः । सशब्दस्पर्शसंयुताः शब्देनाकाशादनुवृत्तेन सह सामानाधिकरण्येन वर्तत इति सशब्दः ।स चासौ स्पर्शश्च तथाभूतः वायोरनुगतेन संयुता युक्ताः। एतेनाकाशवायुधर्मावुक्तौ । रूपवत्यः रूपं तेजोगुण आसामस्तीति रूपवत्यः । स्वीयो गुणो रसो । जिह्वाविषयो भवति ॥ ९२ ॥

 पृथिवीविवेचनारीतिमाह, सत इति ।

सतो विवेचितास्वप्सु तन्मिथ्यात्वेन वासिते ।
भूमिर्दशांशतो न्यूना कल्पिताप्स्विति चिन्तयेत् ॥ ९३॥

 स्पष्टोऽर्थः । कल्पिता अप्स्विति छेदः ॥ ९३ ॥

पृथिव्या मिथ्यात्वविचारः ।

 भूमेः कारणधर्मान्निजधर्म चाह, अस्तीति ।

अस्ति भूस्तत्त्वशून्याऽस्यां शब्दस्पर्शौं सरूपकौ।
रसश्च परतो गन्धो नैज; सत्ता विविच्यताम् ॥ ९४ ॥

७०
[महाभूतविवेक
पञ्चदशी

 अस्ति भूरिति सद्धर्मः । तत्त्वशून्या असत्येति मायाधर्मः। सरूपकौ । तेजोरूपसहितौ शब्दस्पर्शादाकाशवायुगुणौ रसो जलगुणश्च अस्यां पृथिव्यां सन्ति । एते गुणाः परतः कारणतो भवन्ति । नैजो गन्धो गुणः भूमेः । तेभ्यः सत्तामात्रं विविच्यताम् ॥ ९४ ॥

 एवं विवेचने फलमाह, पृथगिति ।

पृथक्कृतायां सत्तायां भूमिर्मिथ्याऽवशिष्यते ।

 स्पष्टोऽर्थः ।

ब्रह्माण्डादिमिथ्यात्वविचारः ।

 एवमन्यस्यापि जगतो मिथ्यात्वं दर्शयति सार्थद्वयेन भूमेरिति ।

भूमेर्दशांशतो न्यूनं ब्रह्माण्डं भूमिमध्यगम् ॥ ९५॥
ब्रह्माण्डमध्ये तिष्ठन्ति भुवनानि चतुर्दश ।
भुवनेषु वसन्त्येषु प्राणिदेहा यथायथम् ॥ ९६ ॥
ब्रह्मण्डलोकदेहेषु सद्वस्तुनि पृथक्कृते ।
असंतोऽण्डादयो भान्तु तद्भानेऽपीह का क्षतिः ॥ ९७॥

 स्पष्टोऽर्थः । अत्र भूमिशब्देन पञ्चमहाभूतेष्वन्यतमा पृथिवी ग्राह्या। नत्विदं भूमण्डलं यस्मिन् वयं वसामः । इदं तु चतुर्दशभुवनान्तर्गतमिति विशेषः ॥ ९५

 यथायथं अधममध्यमोत्तमभेदेन प्राणिदेहाः प्राणिनां शरीराणि ॥ ९६ ॥

 ब्रह्मण्डलोकदेहेषु ब्रह्मण्डान्तर्गतचतुर्दशलोकेषु यथायथं वसत्सु प्राणिदेहेषु

सर्वेषु सद्वस्तुनि पृथक्कृते सत्यण्डादयोऽसन्तो निस्तत्वा मरुमरीचिकेव भान्तुनाम:। तद्भानेऽपि तेषामसत्यतया का क्षतिः न कापीति भाव: ॥ ९७ ॥

प्रकरणम्।]
७१
कल्याणपीयूषव्याख्यासमेता

 क्षत्यभावं दर्शयति, भूतेति ।

भूतभौतिकमायानामसत्वेऽत्यन्तवासिते ।
सद्वस्त्वद्वैतमित्येषा धीर्विपर्येति न क्वचित् ॥ ९८॥

 भूतभौतिकमायानां भूतानि वियदादीनि भौतिकानि भूतकार्याणि ब्रह्माण्डादीनि माया च । तासामसत्त्वे मिथ्यात्वेऽत्यन्तवासिते बुद्धौ निरूढे सति सद्वस्त्वद्वैतमद्वितीयमित्येषा धीः कचिदपि न विपर्येति विकारं नाप्नोति । स्थिरीभवतीति भावः ॥ ९८ ॥

 ननु भौतिकानामसत्वे सर्वव्यवंहालोप इत्यत आह, सदिति ।

सदद्वैतात् पृथग्भूते द्वैते भूम्यादिरूपिणि ।
तत्तदर्थक्रिया लोके यथा दृष्टा तथैव सा ॥ ९९ ॥

 भूम्यादिरूपिणि भूम्यादिचतुर्दशलोकप्राणिदेहादिरूपेण प्रतीयमाने द्वैतें सदद्वैतात् निरस्तसमस्तद्वैतभावात् सतः पृथग्भूते विभक्ते सति मिथ्यात्वेन निश्चितेऽपि तत्तदर्थक्रिया ते च तेऽर्थाश्च तेषां क्रियाप्रयोजनं लोके यथा दृष्टा सा तथैव । व्यवहारिकप्रामाण्यस्याङ्गीकारात्सतः सकाशाद्द्वैतस्य पृथक्करणात्पूर्वं व्यवहारो लोके यथा दृष्टस्तथैव तदनन्तरमपि द्रष्टव्यः । व्यवहारलोपप्रसंगोनास्तीत्यर्थः ॥ ९९ ॥

 बुद्धिवैषम्यकृतहेतुवादप्रधानैः साङ्ख्यादिभिर्व्यवहारसत्यत्वमभ्युपगच्छतां नास्माकं विवाद इत्याह साङ्ख्येति ।

साङ्ख्यकाणादबौद्धाद्यैर्जगद्भेदो यथा यथा
उत्प्रेक्ष्यतेऽनेकयुक्त्या भवत्वेष तथा तथा ॥ १०० ॥

 साङ्ख्यकाणादबौद्धाद्यैर्विविधदर्शनकारिभिः । आदिशब्देन चार्वाकरौव-

वैष्णवादयः सूचिताः । तैर्यथा यथा जगद्भेदो जगद्वैचित्र्यमनेकयुक्या उत्प्रेक्ष्यते

७२
[महाभूतविवेक
पञ्चदशी

सहजबुद्धिवैषम्येन विभिन्नतया प्रतिपादितः । तथा तथैष जगद्बोधो व्यावहारिको भवतु नाम । नास्माकं तैस्सह विवाद इति भावः॥१००॥

 साङ्ख्यादिभिरङ्गीकृतं द्वैतमपि प्रामाणिकमित्यभ्युपगम्यते त्वया।एवं परमतमप्रतिषिद्धमनुमतं भवतीति तत्कृताद्वैतावज्ञाया अपि प्रामाण्यापत्तिरित्याशंक्याह, अवज्ञातमिति ।

अवज्ञातं सदद्वैतं निश्शंकैरन्यवादिभिः ।
एवं का क्षतिरस्माकं तद्द्बैतमवजानताम् ॥ १०१ ॥

 निश्शंकैरतिसाहसेन श्रुतिप्रामाण्यमवजानद्भिरन्यवादिभिरद्वैतं विगळिता शेषभेदं सदवज्ञातं तिरस्कृतमिति चेदुच्यते । तद्द्वैतम् तैर्यत्प्रतिपादितं जगत्सत्यत्वं तदवजानतां मिथ्यात्वेनानादरणं कुर्वतामस्माकं का क्षतिः। विद्यन्तां बहवः श्रुत्यर्थविमुखाः परस्परविरुद्धार्थाभिनिविष्टा विविधदर्शनप्रवर्तकाः । तैर्नास्माकं विवाद इति भावः ॥ १०१ ॥

द्वैतावज्ञाफलमद्वैतम्

 द्वैतावज्ञाप्रयोंजनमाह, द्वैतेति ।

द्वैतावज्ञा सुस्थिता चेदद्वैते धीः स्थिरा भवेत् ।
स्थैर्यै तस्याः पुमानेष जीवन्मुक्त इतीर्यते ॥ १०२ ॥

 द्वैतावज्ञा द्वैतस्य जगज्जीवेश्वरादिवैचित्र्यविशिष्टस्य जगतो मिथ्यात्वेन तिरस्कारः सुस्थिता चेत् सुप्रतिष्ठिता चेदद्वैते ब्रह्मणि धीः बुद्धिः स्थिरा भवेत् । तस्याः बुद्धेः स्थैर्यं सत्येषोऽर्द्वैते, स्थिरीभूतधी: पुमान् जीवन्मुक्त इतीर्यते ॥१०२॥

 जीवन्मुक्तेः फलं गीतावाक्येनोदाहरति, एषेति ।

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ १०३ ॥

प्रकरणम्।]
७३
कल्याणपीयूषव्याख्यासमेता

 एषा यस्यां सर्वान् कामान् विहाय निःस्पृहो निर्ममो निरहंकारः पुमांश्च रति सा स्थितिः ब्राह्मी स्थितिः ब्रह्मणि भवा ब्राह्मो। सा स्थितिः । सर्वकर्म सन्यासपूर्विका ब्रह्मभावप्राप्तिरित्यर्थः । हे पार्थ एनां स्थितिं प्राप्य न विमुह्यति । न पुनर्द्वैतकृतव्यामोहं गच्छति । स विद्वानन्तकालेऽपि शरीरपतनसमयेऽस्यास्थित्वा ब्रह्मनिर्वाणं ब्रह्मनिर्वृतैि ऋच्छति गच्छति । किमुत ब्रह्मचर्यादेव संन्यस्य ब्रह्मण्यवस्थितस्येत्यपेः स्वारस्यम् ॥ १०३ ॥

 अन्तशब्दार्थ विकल्प्य विवृणोति, सदिति ।

सदद्वैतेऽनृते द्वैते यदन्योन्यैक्यवीक्षणम् ।
तस्यान्तकालस्तद्भेदबुद्धिरेव न चेतरः ॥ १०४ ॥

 सदद्वैते अनृते मिथ्यारूपे द्वैते चान्योन्यैक्यवीक्षणमन्योन्यस्यैकभावेन वीक्षणं सत्यानृतयोर्मिथुनीकरणमिति यत् तस्यान्तकालोऽवसानकालो नाम । तद्भेदबुद्धिरेव तयोरद्वैतद्रेतयोर्भेदबुद्धिर्विवेचनमेवान्तकाल इत्युच्यते । इतरः शरीरपतनकालो नान्तकालः । जीवन्मुक्तस्य प्राणानामनुत्क्रमणात् । “न तस्य प्राणा उत्क्रामन्ते। अत्रैव समविलीयन्ते” इति श्रुतेः (उ. ता.५. ) ॥१०४॥

 द्वितीयमर्थं विवृणोति, यद्वेति ।

यद्वाऽन्तकालः प्राणस्य वियोगोऽस्तु प्रसिद्धितः।
तस्मिन् कालेऽपि न भ्रान्तेर्गतायाः पुनरागमः॥१०५॥

 यद्वेति पक्षान्तरे । लोके प्रसिद्धितः प्राणस्य वियोगः शरीरपतनसमयो ऽन्तकालोऽस्तु । तस्मिन् कालेऽपि गतायाः भ्रान्तेः द्वैतबुद्धेः न पुनरागमः ॥ १०५ ॥

 ननु जीवन्मुक्तस्य व्यवहारादेरुपलभ्यमानत्वाच्चित्तवत्वनिश्चये ‘‘यान्ते

मतिः सा गति"रित्युक्त्या प्राणवियोगकाले सति चित्तविकारे पुनभ्रान्तेरनुदयः कथं घटेत चित्तविकारावगमादित्यत आह, नीरोग इति ।

७४
[महांभूतविवेकं
पञ्चदशी

नीरोग उपविष्टो वा रुग्णो वा विलुठन् भुवि।
मूर्छितो वा त्यजत्वेष प्राणान् भ्रान्तिर्न सर्वथा ॥१०६॥

 नीरोगो निर्गतो रोगात्सः उपविष्टो वा रुग्णो रुजाविष्टः । भुवि विलुठन् परिभ्रमन् वा मूर्छितो वा एष ज्ञानी प्राणान् त्यजतु । सर्वथा तस्य भ्रान्तिर्न द्वैप्तविषयकभ्रान्तिनोंदेति । अयं भावः । अयं रुग्ण उपविष्ट इत्यादिकं सर्वमन्यदीयभ्रान्तिगोचरम्। जीवन्मुक्तस्याद्वैतज्ञानविध्वस्ताज्ञानतया, द्वैतज्ञानप्रयोजकज्ञानिकस्य मनसश्चित्तविकाराणां प्राणवियोगकालेऽसंभवात् । प्राणवियोगादिकं त्वविद्वद्दृष्ट्येव। विद्वद्दृष्ट्या न तस्य प्राणा उत्क्रामन्तीति श्रुत्युक्तं संगच्छत इति ॥१०६॥

 मूर्छादिना प्राणवियोगेन वा जातायाः लौकिकज्ञानस्येंवाद्वैतबुद्धेर्विस्मृतौ नाश एव स्यादिति लोकदृष्टया प्राप्तां शंकां ‘‘तुष्यतु दुर्जन” इति न्यायेंन तद्गीतिमनुसृत्यैव समाधत्ते, दिन इति ।

दिने दिने स्वप्नसुप्त्योरधीते विस्मृतेऽप्यम् ।
परेद्युर्नानधीतः स्यात्तद्वद्विद्या न नश्यति ॥ १०७ ॥

 दिने दिने प्रतिदिनमधीते वेदे स्वप्नसुप्त्योंर्विस्मृतेऽप्ययमध्येता परेद्युः परस्मिन् दिनेऽनधीतो न स्यात् । स्वप्नसुषुप्तिसमये यो विस्मृतो वेदः पुनरुत्थानानन्तरं पठयते। तद्वद् ध्यानान्मानाधुक्तितोऽपि दृढीकृता विद्या न नश्यतीत्यर्थः१०७॥

 सिद्धान्तमनुसृत्य समाधत्ते, प्रमाणेति ।

प्रमाणोत्पादिता विद्या प्रमाणं प्रबलं विना ।।
न नश्यति न वेदान्तात्प्रबलं मानमीक्ष्यते ॥ १०८॥

 प्रमाणोत्पादिता प्रमाकरणं प्रमाणम्; प्रत्यक्षानुमानशब्दा इति प्रमाण त्रयमभ्युपगम्यते साङ्ख्यादिभिः । न्यायनये तूपमानस्यापि प्रमाणत्वमङ्गीक्रियते । प्रत्यक्षानुमानशाब्दानां मध्ये प्रत्यक्षानुमानापेक्षया शब्दस्य प्राबल्यमङ्गीक्रियते, तस्य

श्रतिरूपस्य दोषासंस्पृष्टत्वात् । प्रत्यक्षप्रमाणस्यातीन्द्रियविषयाग्राहकत्वं प्रत्यक्षमेव ।

प्रकरणम्।]
७५
कल्याणपीयूषव्याख्यासमेता

तस्य दुष्टत्वे विपरीतार्थग्राहकत्वमप्यनुभवसिद्धम् । अनुमानस्य प्रत्यक्षमुखप्रेक्षितया प्रत्यक्षाद्दौर्बल्यम् । अतः सर्वापेक्षया प्रबलं प्रमाणं निर्दष्टः शब्द एव । तथाविथा श्रुतिः । तथा च श्रुतेः सर्वतः प्रबलतमं प्रामाण्यम् । वेदान्तशास्त्रतत्त्वस्य सदद्वैतस्य “अहं ब्रह्मास्मि"(बृ.१.४. १०.)“तत्वमसि" (छां.६.८.८) “प्रज्ञानं ब्रह्म” (ऐ. १.५.३) “अयमात्मा ब्रह्मे"(बृ.४.४.५)त्यादिमहावाक्येनोत्पादिता संपादिता विद्या न नश्यति । नाशसामग्र्यभावात् । न हि तस्या नाशकं किंचिदस्ति प्रबलं प्रमाणम् । इत्यभिसंधायाह प्रमाणमित्यादि । सा विद्या प्रबलं प्रमाणं विना न नश्यति । तन्नाशबोधकं प्रबलं प्रमाणं नास्तीति भावः तदाह नेति । वेदान्तात् प्रबलं मानं नेक्ष्यते॥१०८॥

 प्रक्रान्तं भूतविवेकं फलप्रदर्शनेनोपसंहरति,तस्मादिति।

तस्माद्वेदान्तसंसिद्धं सदद्वैतं न बाध्यते ।
अन्तकालेऽप्यतो भूतविवेकान्निर्वृतिः स्थिता ॥ १०९॥

 तस्मादनुमादीनां वेदान्ताद्दुर्बलप्रमाणत्वाद्वेदान्तसंसिद्धं वेदान्तैः प्रबल- प्रमाणभूतैः सिद्धान्ततया सम्यक् प्राप्तं सदद्वैतं भेदत्रयरहितं न बाध्यते। अतो भूतविवेकात् सतो भूतानां विवेचनान्निर्वृतिः सर्वद्वैतोन्मूलननिमितो योऽखंडानन्दः सोऽन्तकालेंऽपि स्थिता निरूढो भवति ॥ १०९ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशितं

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं महाभूत

विवेकस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति महाभूतविवेकप्रकरणम्।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


पञ्चकोशविवेकप्रकरणम् ।


पञ्चकोशस्वरूपनिरूपणम् ।

 परब्रह्मावबोधनाय पञ्चकोशविवेकस्यावम्श्यकर्तव्यतयाऽर्थात्तेषामादिका- रणभूतस्य वियदादिभूतपञ्चकस्य प्रसंगसंगत्या भौतिकदेहस्य च विवेचनाप्रकारो द्वितीये प्रकरणे विस्तृतः । तृतीये तु पञ्चकोशविवेचनाविचारमारभते गुहेति ।

गुहाहितं ब्रह्म यत्तत्पञ्चकोशविवेकतः।
बोद्धुं शक्यं ततः कोशपञ्चकं प्रविविच्यते ॥ १॥

 गुह्याहितं गुहायामन्नमयाद्यानन्दमयान्तानां पञ्चकोशानां समुदाये आहितं निविष्टं यत् ब्रह्म प्रत्यगात्माभिन्नं परं ब्रह्म विद्यते तत् पञ्चकोशविवेकतोऽन्वयव्यतिरेकाभ्यां पञ्चकोशानां विवेचनेन बोद्धुं शक्यम् । ततः कोशपञ्चकं प्रविविच्यते॥१॥

 स्वयमेव गुहाशब्दं विवृणोति, देहेति ।

देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः।
ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा ॥ २ ॥

 देहादन्नमयकोशादभ्यन्तरोऽन्तर्भवः प्राणः । स च प्राणमयकोशः क्रिया

शक्तिकारणभूतः पञ्चवृत्त्यात्मकः । प्राणादभ्यन्तरं मनः। मनोमयकोशः ।विमर्शात्मकः। ततो मनोमयकोशादभ्यन्तरः । कर्ता अहं करोमीति कर्तृत्वधर्मविशिष्टो विज्ञानमयकोशः । ततो विज्ञानमयादभ्यन्तरा भांक्ता प्रियमोदप्रमादादीनामनुभविताऽनन्दमयः। प्रियमोदादीनामानन्दच्छायात्वात् । आभ्यन्तरशब्दे

प्रकरणम्।]
७७
कल्याणपीयूषव्याख्यासमेता

नात्रान्तरत्वमभिधीयते । “अन्योऽन्तर आत्मा प्राणमयः"(तै.२.२.) इत्यादि श्रुतावप्यन्तरशब्द आन्तरपर इति भावः। एवमुक्ता सेयमन्नमयाद्यानान्दमयकोशान्ता कोशपरम्परा गुहेत्युच्यते । गुहाशब्दो निगूढबोधकः । गुहतेः संवरणार्थकत्वात्।।२।।

 अन्नमयकोशस्य स्वरूपमनात्मत्वं चाह, पित्रिति ।

पितृभुक्तान्नजाद्वीर्याज्जातोऽन्नेनैव वर्धते ।
देहः सोऽन्नमयो नात्मा प्राक् चोर्ध्वं तदभावतः ॥ ३ ॥

 पितृभुक्तान्नजात् वीर्याज्जातो यो देहः सोऽन्नेनैव वर्धते उपचीयते । यथा श्रुतिः"अन्नात्पुरुष: स वा एष पुरुषोऽन्नरसमयः" (तै.२.१)“अभ्रं भूत्वा मेघो भवती" त्यारभ्य “यो रेतः सिञ्चति । तद्भूय एव भवती"त्यन्तं छांदोग्ये (५.१०.६.)सोऽन्नमयोऽन्नस्य विकारो देह आत्मा भवितुं नार्हतीति शेषः । कुतः ? प्राग्देहोत्पत्तेः पूर्वमूर्घ्वे च तत्पतनानन्तरं च तदभावतः। देहो नात्मा तस्य प्रागुत्पत्तेः प्रध्वंसाभावानन्तरं चाविद्यमानत्वात् । “ अन्नाद्वै प्रजा: प्रजायन्ते” (तै.२.२.) इति मन्त्रवर्णेन सृष्टिस्थितिलयकारणत्वमुक्तमन्नस्य । सर्वसम्मतमात्मनश्चेतनत्वं तु । सति देहे चैतन्यं नासति । अतो देह एवाऽत्मेति मन्यन्ते लोकायतिकाः।यद्यपि सत्येव देहे चैतन्योपलब्धिः; तथापि देहश्चैतन्यं चेति नैकं तत्त्वं मृतदेहे व्यभिचारात् । ततो न देहश्चेतनः। ततो नात्मा ॥ ३ ॥

 एवं युक्त्या देहस्योनात्मत्वं प्रदर्श्य शास्त्रतोऽपि तत्साधयति, पूर्वेति ।

पूर्वजन्मन्यसन्नेतज्जन्म संपादयेत्कथम् ।
भाविजन्मन्यसन्कर्म न भुंजीतेह सञ्चितम् ॥ ४॥

 यदि देह एवात्माभवितुमर्हति तर्हि पूर्वजन्मन्यसन्न विद्यमानस्सन्नेतज्जन्म देहं कथं संपादयेत् । अतो देहीत्पत्तेः पूर्वं केनचित्कारणेन भवितव्यम् । एवमेतज्जन्मनि सञ्चितेन कर्मणा संपादितस्य फलस्य भोक्ता कश्चन कर्ता भाविजन्म न्यसन् इह सञ्चितं कर्म न भुम्जीत । अतः कश्चन कर्ता भाविजन्मन्यावश्यकः। यदि देह एवात्मा देहस्यैव कर्तृत्वात्तस्य भाविजन्मन्यभावात्को वा फलभोक्ता

७८
[ पञ्चकोशविवेक
पञ्चदशी

स्यात् । तथा च देहातिरिक्तस्यात्मनोऽभावे कृतहानाकृताभ्यागमप्रसंग हति भावः ॥४॥

 प्राणमयकोशस्य स्वरूपमनात्मत्वं चाह, पूर्ण इति।

पूर्णो देहे बलं यच्छन्नक्षाणां यः प्रवर्तकः ।
वायुः प्राणमयो नासावात्मा चैतन्यवर्जनात् ॥ ५॥

 यतो वायुर्बलं यच्छन् व्यानरूपेण पुष्टिं कल्पयन्नक्षाणामिन्द्रियाणां प्रवर्तकस्संचालको देहे पूर्ण आपादमस्तकं व्याप्तः स वायुः प्राणमयस्तन्नामकः कोशो भवति । ननु प्राणमय आत्मा । तस्यैव जन्मस्थितिलयहेतुत्वात् । प्राणवायुयोंषिद्गर्भं प्रविष्टं रेतो घनोभावमापाद्य पिण्डादि क्रमेण देहमुत्पादयति । श्वासकोशद्वारा प्राणवायुसंचलनमेवायुरित्युच्यते ।“प्राणो हि भूतानामायुः"(तै.२.३.)। तदुत्क्रान्तिरेव मरणमिति च लोकप्रसिद्धिः। तथैव भृगुर्व्यजानात् "प्राणाध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति; प्राणं प्रयन्यभिसंविशन्ती " (तै.३.३.)ति (तै. ३. ३.) चेन्नेत्याह, नेति । तथाप्यसौ प्राणो नात्मा भवति । कुतः? चैतन्यवर्जनात् अचेतनत्वात् ॥ ५ ॥

 मनोमयस्वरूपं तस्यानात्मत्वं चाचष्टे, अहमिति ।

अहन्तां ममतां देहे गेहादौ च करोति यः।
कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः ॥ ६ ॥

 आदौ तस्य स्वरूपं दर्शयति, अहमिति। यो देहे अहन्तां अहंभावं गेहादौ गृह्कळत्रपुत्रादिषु ममतां ममेदमित्यभिमानं च करोति स मनोमयकोशः । अहमिदं ममेदमित्यभिमानाविष्टो मनोमयकोशः। अद्य तस्यानात्मत्वं दर्शयति; कामेति । माऽस्तु चैतन्याभावादात्मा प्राणमयः, मनोमयः किं न स्यात् ? मनसः

सात्त्विकांशभूतज्ञानशक्तिकत्वाच्चेतनत्वस्य तस्य विद्यमानत्वात् । “ मनसो ह्येव खल्विमानि भूतानि जायन्ते” (तै. ३. ४.) इत्यादिना तस्य जन्मादिकारणत्वमप्युक्तम्। मरणकाले तृणजलकन्यायेन जीवात्मा मनसा देहान्तरं संभाव्य

प्रकरणम्।]
७९
कल्याणपीयूषव्याख्यासमेता

स्वमानन्दे देहान्तरं नयति।स्थितिहेतुं सर्वव्यवहारं मनसैव विदांकरोति । सर्वसंगपरित्यागोऽपि मनसैव कर्तव्यः । अतो मन आत्मा भवितुमर्हति, इति शंकां निराकरोति । कामाद्यवस्थया कामक्रोधादिविकारावस्थया भ्रान्तोऽहमिदं ममेदमित्ययथार्थवस्तुषु तादात्म्यभावमापन्नः । ततो नासावात्मा मनोमयकोशः । आत्मनो निर्विकारत्वस्य श्रुतिसिद्धतया तद्विरोधेन विकारवान् मनोमयकोशो नात्मेति भावः ॥ ६ ॥

 अथ विज्ञानमयस्वरूपाख्यानपूर्वकं तस्याप्यनात्मत्वं प्रदर्शयति, लीनेति ।

लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा ।
चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् ॥ ७॥

 या चिच्छायापतधीः चितश्छाया प्रतिबिंबस्तेनोपेता धीर्बृद्धिर्निश्चयात्मिका । सा बुद्धिः सुप्तौ लीना लयं गता। बोधे जाग्रदवस्थायामानखाग्रगा नखानामग्राणि चाभिव्याप्य-गच्छतीति तथाभूता वपुः शरीरं व्याप्नुयात् । सा धीर्विज्ञानमयशब्दभाक् भवति।स आत्मा न भवति । "विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि चे"(तै. २.५.) त्याद्युक्तरीत्या कर्तृत्वाभिमानी विज्ञानमयः कर्माण्याचरति । तत्फलानुभवार्थं देहान्तरमाप्नोति च। विज्ञानमयस्य जन्मकारणत्वं “पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने (बृ.४.४.५) ति श्रुत्याऽवगम्यते । व्यापारादौ कृतनिश्चयता मनसः स्थितिहेतुत्वम् । युद्धादौ मरणकारणत्वं च दृष्टम् । अतो विज्ञानमयस्यात्मत्वं xxx । तथापि तस्य लयस्वभावान्नात्मत्वम् । तदेतत्सूचितं, लीना सुप्ताविति विशेषणेनेति बोध्यम् ॥ ७ ॥

 मनोमयविज्ञानमयकोशयोस्स्वरूपभेदमाह, कर्त्रिति ।

कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् ।
विज्ञानमनसी अन्तर्बहिश्चैते परस्परम् ॥ ८॥

 अन्तरिन्द्रियमन्तःकरणं कर्तुत्वकरणत्वाभ्यां ; असाधारणकरणं करणं,

तस्य भावःकरणत्वम्; ताभ्यां विक्रियेत विपर्येति । किमिदं पथ्यमपथ्यं वेति प्रथमे

८०
[पञ्चकोशविवेक
पञ्चदशी

मनो विमृशति; गुणदोषविमर्शानन्तरं न ममेदं पथ्यमाचरणीयं । यज्ञमहं तनोमीत्यादि स्वकर्तव्याकर्तव्यतां निश्चित्याचरति कर्ता विज्ञानमयः । एवं विमर्शनिश्चयात्मकवृत्तिभ्यां कर्तृत्वं करणत्वं चायन्नमन्तःकरणं विपर्येति । एवं कर्तुः कर्तव्यार्थ निश्चये गुणदोषविमर्शने साधनभूतस्य मनसः पूर्ववृत्तित्वातस्य करणत्वम्। एते कर्तृकरणे विज्ञानमनसी इत्युच्येते । एते परस्परमन्तर्बहिर्भावेन वर्तेते उभयोरतो भिन्नकोशत्वमिति भावः ॥ ८ ॥  संप्रत्यानन्दमयकोशस्यानात्मत्वविवक्षया तस्य स्वरूपमाह, काचिदिति ।

काचिदन्तर्मुखा वृत्तिरानन्दप्रतिबिम्बभाक् ।
पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते ॥ ९ ॥

 अन्तर्मुखा बाह्यविषयविमुखा काचिद्वृत्तिः धियो वृत्ति: पुण्यभोगे पुण्यकर्मणः फलानुभवसमये आनन्दप्रतिबिम्बभाक् आनंदो निरतिशयानन्दस्वरूपं परंब्रह्म तस्य प्रतिबिम्बं तस्यानुभविता भवति । बाह्यविषये संबन्धेऽन्तःकरणं तदाकारमेति । तद्वैमुख्येऽन्तःकरणस्यान्तर्मुखत्वे प्रियमोदप्रमोदाकारा वृत्तिर्जायते । विषयदर्शनजं सुखं प्रिय:; तल्लाभे मोदः ; तदनुभवे प्रमोदः; एवं प्रियमोदादीनामनुभवित्री अन्तःकरणवृत्तिरानन्दमय इत्युच्यते । इयमानन्दाकारा वृत्तिर्विषयाकाराकारितवृत्तित्वानवच्छिन्ना । सुखादिवृत्तयस्तु विषयाकाराकारितवृत्तित्वावच्छिन्ना इति बाह्यसुखादितोऽस्यानन्दस्य भेदः। प्रियमोदादयो येऽन्ये विषयजानन्दास्ते निरतिशयानन्दस्य कलामात्रा एव। "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" । (बृ.४.३.३३)। तच्छायामात्रा एवेति प्रतिबिम्बशब्दस्वरसता । भोगशान्तौ विरामे उपभोगानन्तरं निद्रारूपेण लीयते । सैवान्तर्मुखवृत्तिर्विलयं याति । ननु सुखवद् दुःखमप्यनुभूयते भोक्त्रा । सत्यं; किन्तु दुःखानुभवो मनोधर्मः, सुखानुभवस्त्वानन्दमयधर्मः । कोऽसावानन्दः ? दुखनिवृत्तिरूप आहोस्विदनुभवविशेषः ? दुःखाभाव एवानन्द इति मन्यन्ते नैय्यायिकाः । आनन्दमतिरिक्तं मन्यन्ते वेदान्तिनः । “आनन्दो दुःखाभावो न भवति,तदनिरूप्यत्वात् । यद्दुःखेन न निरूप्यते तदुःखाभावो न भवति, सातिशयत्वाच्चे "ति

विद्यारण्यचरणाः । स्वभावस्य प्रतियोगिनिरूप्यत्वनियमात् ॥ ९ ॥

प्रकरणम्।]
८१
कल्याणपीयूषव्याख्यासमेता

 आनन्दमयस्याप्यनात्मतामाचष्टे, कादाचित्केति ।

कादाचित्कत्वतोऽनात्मा स्यादानन्दमयोऽप्ययम् ।
बिम्बभूतो य आनन्द आत्माऽसौ सर्वदा स्थितेः ॥ १०॥

 अयमानन्दमयो भोक्ताऽत्मा न स्यात् । कुतः? कादाचित्कत्वतः नैरन्तर्याभावात् । प्रियमोदादिविकाराश्रयत्वादित्यर्थः । अन्नमयादिकोशपञ्चकस्यानात्मत्वे आत्मविषयकनैराश्यमेव पतेदित्यत आह, बिम्बेति । विम्बभूतो यस्यानन्दस्य प्रतिबिम्बभूतान् मनुप्यानन्दमारभ्य ब्रह्मानन्दपर्यन्तानन्यानानन्दानास्वादयन्नकामहतः श्रोत्रियाग्रणी " र्हा वु हाव्वि"ति साम गायन्नास्ते असौ बिम्बभूतोऽधिष्ठानभूतोऽद्वितीयोऽसावानन्द आत्मा भवति । तत्र कारणप्राह । । सर्वदा स्थितेः। कालत्रयेऽपि विकारमनापद्य सत्त्वात् । सततं गच्छतीत्यात्मा यद्वा, आग्नोतीत्यात्मा । यद्वा अतीत्यात्मा । अद्यत इतिवाऽत्मा ॥ १० ॥

 नन्वन्नमयादीनामात्मत्वं युक्त्या माभूत्।अन्यस्यात्मनोऽननुभूयमानत्वे नात्मविषयिकनैराश्यं पुनस्तदवस्थमेवेति पूर्वपक्षमवतारयति,नन्विति ।

ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु ।
मा भूदात्मत्वमन्यस्तु न कश्चिदनुभूयते ॥ ११ ॥

 ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु निद्रायां य आनन्दः स एवान्तो येषां तेष्वन्नमयकोशमारभ्य सौषुप्तिकसुखान्तमनुभूयमानेषु वस्तुष्षात्मत्वं मा भूत्। तेषामनात्मत्वं युक्तया सुसाधं भवतु नाम; अन्यस्तु कश्चित्तेभ्यो भिन्न आत्मा नानुभूयते; अत आत्मवस्तु नास्येवेति पूर्वपक्षः ॥ ११ ॥

 श्लोकदशकेन पूर्वपक्षं परिहरति। आदौ तत्र देहादिनिद्रान्तानामनुभवित्रा केनाचिदन्येन भवितव्यमित्याह, बाढमिति ।

बाढं निद्रादयः । सर्वेऽनुभूयन्ते न चेतरः ।
तथाप्येतेऽनुभूयन्ते येन तं को निवारयेत् ॥ १२ ॥

 निद्रादयोऽनुभूयन्ते इतर आत्मा नानुभूयत इति यत्ते मुग्धवचः तद्बाढं

सत्यमित्यर्धाङ्गीकारे । तथाऽपि येनैते निद्रादयोऽनुभूयन्ते । तं ज्ञातारं को

८२
[पञ्चकोशविवेक
पञ्चदशी

निवारयेत् ? आत्मन्यनुभूयमानेऽपि निद्रानन्दादिसर्वव्यवहाराणामनुभविता कश्चिद्विद्यत इत्यवश्यमभ्युपगन्तव्य इत्यर्थः ॥ १२ ॥

स्वयंप्रकाशस्वरूपस्यात्मनो वेद्यत्वनिरासः ।

 अनुपलब्धेरात्मनोऽसत्वमिति शंकामपनुदति, स्वयमिति ।

स्वयमेवानुभूतित्वाद्विद्यते नानुभाव्यता ।
ज्ञातृज्ञानान्तराभावादज्ञेयो न त्वसत्तया ॥ १३ ॥

 आत्मनः स्वयमेवानुभूतित्वात् साक्षितयानुभवरूपत्वात्तस्मिन्ननुभाव्यता अन्यानुभवगोचरत्वं न विद्यते । अस्मिन्नेव सर्वे व्यवहारा विषयाः । विषयता च विषयिणमपेक्षते । स्वस्मिन् स्वं विषयो भवितुं नार्हति। अतस्तस्यानुभवरूपस्यानुभवविषयत्वं नास्तीति भावः । अत्रोपपत्तिं दर्शयति, ज्ञात्रिति, ज्ञातृज्ञानान्तराभावात् तद्वस्त्वतिरिक्तयोर्ज्ञातृज्ञानयोरभावादज्ञेयः, न त्वसत्तया न तु तस्याभावात् । ज्ञेयातिरिक्तयोर्ज्ञातृज्ञानयोः सत्वे ज्ञेयत्वव्यवहारो दृष्टः । प्रकृते तदभावादज्ञेय इत्युच्यते ॥ १३ ॥

 अनुभवस्यानुभवितृसापेक्षत्वनियमात्, ज्ञात्रभावादिति हेतुरसिद्ध इति शंकां दृष्टान्तपूर्वकं तन्नियमाभावप्रदर्शनेन परिहरति, माधुर्येति ।

माधुर्यादिस्वभावानामन्यत्र खगुणार्पिणाम् ।
स्वस्मिन् तदर्पणापेक्षा नो न चास्त्यन्यदर्पकम् ॥ १४॥

 अन्यत्रापूपाद्यन्यवस्तुषु स्वगुणार्पिणां स्वस्यमाधुर्यादिगुणानामर्पणं कुर्वतां माधुर्यादिस्वभावानां माधुर्यादिधर्माणां स्वस्मिन्नेव तदर्पणापेक्षा माधुर्यादिसंपादनापेक्षा नो नैव विद्यते । अन्यदर्पकं वस्त्वपि नास्ति । अमधुराणां माधुर्यसंपादने मधुरवस्तुसंपर्कोऽभिलषितः। स्वतो मधुरे न तत्संपर्कापेक्षा, तत्र माधुर्यस्य स्वत एव सिद्धत्वात् ॥ १४ ॥

 दृष्टान्तं दार्ष्टान्तिके योजयति, अर्पकेति ।

प्रकरणम्।]
८३
कल्याणपीयूषव्याख्यासमेता

अर्पकान्तरराहित्येप्यस्त्येषां तत्स्वभावता ।
मा भूत्तदानुभाव्यत्वं बोधात्मा तु न हीयते ॥ १५॥

 एषां माधुर्यादीनामर्पकान्तरराहित्येऽप्यर्पणं रसप्रधानं करोतीत्यर्पकः । तस्यान्यस्य राहित्येऽप्यभावेऽपि तस्मिन्नन्येन माधुर्यरससमर्पणाभावेऽपि तत्स्वभावता मधुरिमा अस्त्येव । तथैवमात्मनोऽनुभाव्यत्वं ज्ञानविषयत्वं मा भूत् माऽस्तु । तन्मात्रेण बोधात्मा तु ज्ञानस्वरूप आत्मा तु न हीयते न त्यज्यते । अन्यप्रकाश्यत्वाभावेऽपि प्रकाशस्योपलब्धेरित्यर्थः ।। १५ ॥

 आत्मनः स्वयंप्रकाशत्वं श्रौतयुक्त्या श्रुत्या च प्रमाणयन् युक्तिबोधिकां श्रुतिमर्थतः पठति ।

स्वयंज्योतिर्भवत्येष पुरोऽस्माद्भासतेऽखिलात् ।
तमेव भान्तमन्वेति तद्भासा भास्यते जगत् ॥ १६ ॥

 एष ज्ञानस्वरूप आत्मा स्वयंज्योतिः प्रकाशकान्तरमनपेक्ष्य स्वप्रकाशको भवति । यतोऽयमस्माद्भासमानादखिलात्सर्वस्माज्जगतः पुरः सृष्टेः प्राक् भासते । अतः स्वयं प्रकाशः। एवं श्रुतिप्रतिपादितां युक्तिं प्रदर्श्य प्रमाणभूतां “तमेवभान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती” (मुं. २.२.१०) ति श्रुतिमर्थतः पठति, तमिति । भान्तं प्रकाशमानं तमात्मानं सर्वं जगदन्वेति अनुसृत्य भासते । तद्भासा जगत् भासते । यदभावे जगदान्थ्यप्रसङ्ग इति भावः ॥ १६ ॥ ।

 उक्तार्थे ‘‘येनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे ! केन विजानीयादि’ (बृ. २. ४. १४) ति श्रुत्यन्तरमर्थतः पठति, येनेति ।

येनेदं जानते सर्वं तत्केनान्येन जानताम् ।
विज्ञातारं केन विंद्याच्छक्तं वेद्ये तु साधनम् ॥ १७ ॥

 येन साक्षिणेदं जगत्सर्वं प्राणिनो जानते तच्चैतन्यरूपमात्मवस्त्वन्येन केन साक्षिभूतेन जानताम् ? अन्यस्य विद्यमानेऽनवस्थादोषापत्तेः । विज्ञातारं साक्षिणमन्येन केन साधनेन विंद्याद्विजानीयात् । ननु मनसा ज्ञेय एवेत्यत आह ।

८४
[पञ्चकोशविवेक
पञ्चदशी

वेद्ये तु ज्ञेयवस्तुनि विषये साधनमन्तःकरणं शक्तं समर्थम्; न त्वविषये वेत्तरि । “यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे"(तै-२.४.) ति श्रुतेः । मनसो न साक्षी विषयः । यतस्तस्य भासा मनोऽपि स्वविषयम् वेत्तीति भावः ॥ १७॥

 "स वेत्ति वेद्यं न तस्यास्ति वेत्ता” (श्वेत. ३.१९.) “अन्यदेव तद्विदितादथो अविदितादधी ” (केन १.३.) त्यादि श्रुत्युक्तमर्थं विशदयति, स इति।

स वेत्ति वेद्यं तत्सर्वं नान्यस्तस्यास्ति वेदिता।
विदिताविदिताभ्यां तत्पृथग्बोधस्वरूपकम् ॥ १८ ॥

 स साक्षी यद्यद्वेद्यं ज्ञेयमस्ति तत्सर्वं वेत्ति । तस्य साक्षिणोऽन्यो वेदिता। ज्ञाता नास्ति । बोधस्वरूपकं ज्ञानात्मकं परं ब्रह्म । विदिताविदिताभ्यां विदितं ज्ञानविषयं जगदादिकं। अविदितमज्ञानेन शबलितम् । ताभ्यां पृथक् विलक्षणम्। स बोधो विषयाद्भिन्नः ॥१८॥

 उक्तरीत्या विविधेष्वपि व्यवहारेषु घटपटादयो येन व्यवहर्त्राऽनुभूयन्ते तद्वयवहर्तुस्तद्बोधस्वरूपात्मत्वे सिद्धेऽपि स्वात्मानमपि बोधस्वरूपं यो न वेत्ति तमुपालभते श्लोकद्वयेन ।

बोधेऽप्यनुभवो यस्य न कथंचन जायते ।।
तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥ १९ ॥

 बोधेऽपि साक्षित्वेन विषयिण्यात्मन्यपरोक्षेण विद्यमानेऽपि यस्यानुभवः साक्षात्कारः कथंचन कथमपि न जायते नोदेति तं नरसमाकृतिं नरेण समा बाह्याकृतिर्यस्य तं नरत्वेन व्यवह्रियमाणमपि लोष्टं तद्वज्जडम् कुंठितबुद्धेि शास्त्रं कथं बोधयेत् न बोधयत्येव ॥ १९ ॥

 बोधो न बुध्यत इत्युक्तिरेव व्याहतेत्याह, जिह्वेति ।

जिह्वा मेऽस्ति न वेत्युक्तिर्लज्जायै केवलं यथा ।
न बुध्यते मया बोध; बोद्धव्य इति तादृशी ॥ २०॥

प्रकरणम्।]
८५
कल्याणपीयूषव्याख्यासमेता

 यथा मे जिह्वाऽस्ति न वेति कंठत उक्तिसंभाषणं वक्तुः केवलं लज्जायै कल्पते । जिह्वां विना तदुक्तेरसंभवात् । तथैव मया बोधो ज्ञानस्वरूप आत्मा न बुध्यते न ज्ञायते, किंत्वित: परं बोद्धव्य एवेति वचनं तादृशी तथा लज्जाकरी । "न मया बुध्यत” इत्यबोधानुभवस्यापलपितुमशक्यत्वात् ॥ २० ॥

 एवंबोधनिरूपणस्य प्रकृतोपयोगमाह,यस्मिन्निति।

यस्मिन्यस्मिन्नस्ति लोके बोधस्तत्तदुपेक्षणे ।
यद्वोधमात्रं तद्ब्रह्मेत्येवं धीर्ब्रह्मनिश्चयः ॥ २१ ॥

 लोके यस्मिन्यस्मिन् घटपटादिज्ञेयवस्तुनि बोधः तद्विषयिकं ज्ञानमस्ति तत्तदुपेक्षणे तस्य तस्य घटपटादेर्ज्ञेयस्य सर्वस्य नेति नेतीति निरसने कृते अवशिष्टं यद्वोधमात्रं ज्ञानमात्रं विद्यते तदेव परं ब्रह्म इत्येवं धीः इत्याकारकं ज्ञानं ब्रह्मनिश्चयः ब्रह्मज्ञानम् । ज्ञानं तद्विषयश्चेति सर्वत्र व्यवहारः सुप्रसिद्धः। तत्र ज्ञानमात्रं परमार्थ वस्तु; अस्मत्प्रत्ययगोचरम् । ज्ञानविषयं सर्वमिदं युष्मत्प्रत्ययगोचरम् । तस्माद्विषयिणो ज्ञानाद्भिन्नम् विषयभूतमिदं सर्वम् ॥ २१ ॥

आत्मनः सत्यत्वज्ञानत्वविचारः ।

 एवं विषयविषयिविभागेनैव ब्रह्मस्वरूपनिश्चये पञ्चकोशविवेकस्य नैरर्थ क्यमित्याशंक्य ब्रह्मणः प्रत्यग्रूपत्वज्ञानमन्तरा संसारानिवृत्तेस्तथात्वज्ञानोपयोग्ययं पञ्चकोशविवेक इत्याह, पञ्चति।

पञ्चकोशपरित्यागे साक्षिबोधावशेषतः।
स्वस्वरूपं स एव स्याच्छून्यत्वं तस्य दुर्घटम् ॥ २२ ॥

 पञ्चकोशपरित्यागे अनात्मत्वधिया तेषां निराकरणे सति साक्षिबोधाव

शेषतः साक्षिरूपस्य अवशेषतः स एव स्वस्वरूपं ब्रह्मणः स्वीयं रूपं स्यात् । पञ्चकोशादीनां परिशिष्टं शून्यमेवासीदिति बौद्धमतमाशंक्याह, शून्यत्वमिति । तस्य साक्षिबोधस्य शून्यत्वमत्यन्ताभावो दुर्घटम् । शून्यसत्ताया अपि ज्ञानसापेक्षत्वात्, सर्वत्र ज्ञानस्यैव साक्षिरूपत्वात् । कुत्राप्यसाक्षिकस्य ज्ञेयस्यानिरूप्यत्वादित्यभिप्रायः ॥ २२ ॥

८६
[पञ्चकोशविवेक
पञ्चदशी

 शून्यत्वस्य दुर्घटत्वं विवृणोति, अस्तीति ।

अस्ति तावत्स्वयं नाम विवादाविषयत्वतः ।
स्वस्मिन्नपि विवादश्चेत् प्रतिवाद्यत्र को भवेत् ॥ २३॥

 स्वयंशून्यवादी भवान् । अस्ति तावन्नाम। भवत्सत्ताविषये विवादाविषयत्वत: विवादाभावात् अस्तीति शून्यत्वनिरासेन सत्तायाः दृढत्वं प्रतीयते । तावत् नामेति पदद्वयेन तस्याः प्रसिद्धिश्च । एवं सति स्वस्मिन्नपि भवत्सत्ताविषयेऽपि विवादश्चेत् विप्रतिपत्तिश्चेत् नास्तीति कोटिर्यदि स्वीक्रियत इत्यर्थःअत्र अस्मिन् विवादे प्रतिवादी नास्तीति कोट्या: स्वीकर्ता को भवेत् इति योजना । भवतोऽसत्त्वान्न कोऽपीत्यर्थः । यदि सत्त्वमंगीकरोषि तदास्मत्पक्षसिद्धिः । यदि नांगीकरोषि तदाऽस्यां विप्रतिपत्तौ प्रतिवादिनोऽभावादस्मत्पक्षो निस्सपत्रसिद्ध इति भावः ॥ २३॥

 अस्मिन्नर्थेऽनुभूतिमाह, स्वेति ।

स्वासत्त्वं तु न कस्मैचिद्रोचते विभ्रमं विना ।
अत एव श्रुतिर्बाधं ब्रूते । चासत्ववादिनः ॥ २४ ॥

 विभ्रमं विना भ्रांतिं विहायेतरावस्थायां यस्मै कस्मैचिन्मनुष्यमात्राय स्वासत्त्वं स्वस्याभावस्तु न रोचते । असत्त्वस्यानिष्टतां द्रढयति, अत एवेति । अत एव स्वासत्त्वस्यानिष्टत्वादेव असत्त्ववादिनो बाधं अनुपपत्तिं श्रुतिर्ब्रूते ॥२४॥

 अनुपपत्तिबोधिकां "असन्नेव स भवति । असद्ब्रह्मेति वेद चेदि" (तै.२.६.) ति श्रुतिमर्थतः पठति असदिति ।

  असद्ब्रह्मेति चेद्वेद स्वयमेव भवेदसत् ॥२४=॥

 यो ब्रह्म असदिति शून्यमिति वेद जानाति चेत् सः स्वयमेवासत्

शून्यमेव भवेत् । इति शून्यवादिनोऽसत्त्वमेवापाद्यते । आपद्यमानं च प्रतिवादिनस्सर्वधानिष्टमेवेति प्रसिद्धम् । एवं च शून्यवादिनः स्वस्यासत्त्वमनिष्टमिति फलितम् । यदिस्वस्य सत्त्वमंगीकरोति स्वस्वैव ब्रह्मरूपत्वात् ब्रह्म अनिच्छयाप्यंगीकृतमेवेति बोध्यम् ॥२४=॥

प्रकरणम्।]
८७
कल्याणपीयूषव्याख्यासमेता

 फलितमाह, अत इति ।

अतोऽस्य माभूद्वेद्यत्वं स्वसत्त्वं त्वभ्युपेयताम् । २५ ॥

 अतोऽस्य असत्त्वस्य वेद्यतत्वं ज्ञानविषयत्वं मा भूत् । आत्मनोऽनिष्टशून्यत्वापत्तिवारणाय स्वसत्वं स्वस्य आत्मनः सत्त्वमभ्युपेयतामंगीक्रियताम् । यदि तव सत्त्वमभिलषसि ? तर्हि विविक्तं वस्तु सदित्यभ्युपगच्छेति सुहृद्भूत्वा श्रुतिरुपदिशति “अस्तीत्येवोलब्धव्य” इतिति (काठः २.६ १३) भावः ॥२५॥

 आत्मनः सत्त्वे कीदृशं तस्य स्वरूपमित्याशंक्य परिहरति ।

कीदृक्तर्हीति चेत्पृच्छेदीदृक्ता नास्ति तत्र हि ।
यदनीदृगतादृक् च तत्स्वरूपं विनिश्चिनु ॥ २६ ॥

 तर्ह्यात्मनस्सत्त्वमङ्गीक्रियते चेत्तदा तस्य स्वरूपं कीदृकू किंधर्मविशिष्टमिति पृच्छेच्चेत् तत्र हि तत्स्वरूपे ईदृक्ता एवंगुणविशिष्टता नास्ति । “ अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च ” (कठ.१.३.१५) “अस्थूलमनण्वह्र्स्वमदीर्घमि’ (बृ.३.८.८) त्यादिश्रुतिभिर्यत्स्वरूपमनीदृक् अतादृक् ईदृक्तादृगिति वर्णनातीतं भवति तत्स्वरूपं तदेवात्मनः स्वरूपमिति विनिश्चिनु॥२६॥

 आत्मस्वरूपस्य वर्णनातीतत्वे उपपत्तिमाह, अक्षेति ।

अक्षाणां विषयस्त्वीदृक् परोक्षस्तादृगुच्यते ।
विषयी नाक्षविषयः स्वत्वान्नास्य परोक्षता ॥ २७ ॥

 अक्षाणामिन्द्रियाणां विषयो गोचर ईदृक् ईदृक्छब्दवाच्यः । परोक्षः इन्द्रियागोचरो मानान्तरमेयस्तादृक्छब्देनोच्यते । विषयी सर्वव्यवहाराणां ज्ञाता साक्षी नाक्षविषयः। नेन्द्रियैर्मनसा वा ज्ञेयः । अत ईदृगिति वक्तुं न शक्यते । स्वत्वात् प्रकाशत्वेन मानान्तरानपेक्षणादस्य साक्षिणः परोक्षता मानान्तरमेयतापि नो तेन तादृगिति वक्तुं न शक्यते ॥ २७ ॥

 सर्वप्रमाणाविषयत्वे ब्रह्मणः साक्षात्कारः कथमित्याशंकापरिहारव्याजेन

तस्य स्वरूपलक्षणमाह , अवेद्य इति ।

८८
[पञ्चकोशविवेक
पञ्चदशी

अवेद्योऽप्यपरोक्षोऽतः स्वप्रकाशो भवत्ययम् ।
सत्यं ज्ञानमनन्तं चेत्यस्तीह ब्रह्मलक्षणम् ॥ २८ ॥

 अयमात्मा इन्द्रियाणामवेद्योऽपीन्द्रियजन्यज्ञानाविषयोऽप्यपरोक्षः साक्षा त्कारविषयः । अत एव स्वप्रकाशः। आत्मा स्वप्रकाशः, इन्द्रियजन्यज्ञानाविषयत्वे सत्यपरोक्षत्वात् । यथा संवित् । स्वप्रकाशत्वं नाम स्वयमेव स्वं जानातीति वक्तव्यम् । एवं चेत् स्वस्मिन्नेव कर्मकर्तृव्यपदेशबाधः। संविदोऽपि न ज्ञानविषयत्वम् । अन्यथाऽनवस्थाप्रसंगात् । ननु प्रत्यगात्मनः स्वप्रकाशत्वेऽपि न तस्य ब्रह्मत्वसिद्धिरित्याशंक्य ब्रह्मणः श्रौतं लक्षणं तत्र योजयति, सत्यमिति। इहात्मनि सत्यं ज्ञानमनन्तमिति तैत्तिरोयं ब्रह्मलक्षणमस्त्येव । सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेत्यस्य मन्त्रस्य योजना । सत्यं बाधरहितं ज्ञानं ज्ञप्तिरवबोधः स्वप्रकाशस्वरूपः। अनन्तं देशकालवस्तुपरिच्छेदरहितम् । इमानि लक्षणानि स्वरूपस्फोरणमात्रफलकानि । न तु धर्मधर्मिभावद्योतकानि । ननु यदनीदृगतादृक् तद्ब्रह्मस्वरूपमिति पुरोक्तम् । सत्यं ज्ञानमनन्तभित्यनेनेदृक्त्वं तादृक्त्वं वोक्तप्रायमिति कथमेतल्लक्षणमुपपधत ? इति चेन्न। सत्यादिशब्दानां सत्यत्वादिधर्मबाधकत्वेऽपि निर्धर्मिके ब्रह्मणि धर्मान्तराभावात्तत्र भासमानानां धर्माणामवास्तवत्वेनाभ्युपेयतया तद्धर्मवैशिष्टयेनाभानात् धर्भवैशिष्टथरूपेदृक्तादृत्तवयोर्ब्रह्मण्यभावेन तथोक्तिरित्यविरोधः ॥ २८ ॥

 पूर्वाचार्यवाक्यमनुसृत्य सत्यत्वनिरूपणेन ब्रह्मणः सत्यत्वमुपपादयति, सत्यत्वमिति ।

सत्यत्वं बाधराहित्यं जगद्बाधैकसाक्षिणः ।।
बाधः किंसाक्षिको ? ब्रूहि न त्वसाक्षिक इष्यते ॥ २९॥

 सत्यत्वं नाम बाधराहित्यम् । त्रैकालिकप्रतिरोधविरहितत्वं बाधराहित्यम् । यस्य लक्षणं येन दूष्यते स तस्य बाधः । विकारराहित्यं सत्यत्वम् । "सत्यमबाध्यं बाध्यं मिथ्येति तद्विवेक” इति पूर्वाचार्याः । जगद्बाधैकसाक्षिणः जगतः

स्थूलसूक्ष्मादिशरीरलक्षणस्य बाधोऽसत्यत्वं सुषुप्तिसमाथ्योरविद्यमानत्वात् । तस्यैकोऽद्वितीयः साक्षी द्रष्टाऽत्मा तस्य बाधो नाशः किंसाक्षिकः ? ब्रूहि । न कोऽपि

प्रकरणम्।]
८९
कल्याणपीयूषव्याख्यासमेता

साक्षी विद्यत इति भावः । साक्षिणोऽविद्यमानत्वेऽप्यात्मनो बाधः किं न स्यादित्याशंकायामाह । नेति । असांक्षिकः साक्षिरहितो बाधो नेष्यते नाङ्गीक्रियते । जगतो विकारात्मकत्वं साक्षिणाऽनुभूयते । न तथाऽत्मनो विकारस्य द्रष्टाऽन्योस्ति।आत्माऽतः सत्य इति भावः॥२९॥
 बाधराहित्यमुदाहरति, अपनीतेष्वति ।

अपनीतेषु मूर्तेषु ह्यमूर्त शिष्यते वियत् ।
शक्येषु बाधितेष्वन्ते शिष्यते यत्तदेव तत् ॥ ३० ॥

 यथा गृहादिभ्यो मूर्तेषु मूर्तद्रव्याणि परिच्छिन्नपरिमाणवस्तूनि पृथिव्यप्तेजोवायवः । तेष्वपनीतेषु बुद्ध्याः निस्सारितेषु सत्सु वियदेव शिष्यते । तथैव प्रतीयमानेषु शक्येष्वपसरणसाध्येषु वस्तुषु बाधितेषु नेति नेतीति श्रुतिपर्यालोचनेनापनीतेष्वन्ते यत्किञ्चित् सन्मात्रं शिष्यते तत्साक्षिरूपं वस्तु। तदात्म्यैव । “स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते ” (बृ. ३.९.२६; ४.२.४) इति श्रुतेः ॥ ३० ॥

 प्रतीयमानेषु सर्ववस्तुष्वपनीतेषु न किञ्चिदप्यवशिष्यत इत्यत आह, सर्वबाध इति ।

सर्वबाधे न किञ्चिच्चेद्यन्न किञ्चित्तदेव तत्।
भाषा एवात्र भिद्यन्ते निर्बाधं तावदस्ति हि ॥ ३१ ॥

 सर्वबाधे जगति प्रतीयमानानां सर्ववस्तूनामपसारणेन मिथ्यात्वे निश्चिते सति किञ्चिदपि नावशिष्यत इत्युच्यते चेत् किञ्चिदपि न विद्यत इति यत् सर्वाभावावभासकं तदेव ज्ञानात्मकं तत् ब्रह्म । अत्र आत्मविषये भाषा आत्मबोधकशब्दा एव भिद्यन्ते । तत् ज्ञानं तु निर्बाधं बाधाविवुरं तावदस्ति नित्यत्वेन प्रकाशते हि ॥ ३१ ॥

 आत्मनो निर्बाधत्वं श्रुत्यारूढं करोति, अत इंति ।

९०
[पञ्चकोशविवेक
पञ्चदशी

अत एव श्रुतिर्बाध्यं बाधित्वा शेषयत्यदः ।
स एष नेति नेत्यात्मेत्यतद्व्यावृत्तिरूपतः ॥ ३२॥

 यतो निर्बाधस्तावदस्त्यात्माऽत एव स एष उक्तरीत्याऽबाध्यतया विद्य मानोऽयमात्मेत्येतद्व्यावृत्तिरूपतोऽनात्मवस्तुनो व्यावृत्तिर्निराकरणं तदेव रूपं द्वारं तस्माद्वाध्यं यद्यन्निराकरणयोग्यं परिदृश्यमानं वस्तुजातं तत्तत्समस्तं बाधित्वा आत्मनोऽपसार्य अदोऽनिवार्यमात्मवस्तु श्रुतिः “नेति नेतीति” शेषयत्यवशेष यति “स एष नेति नेती”ति(बृ.३.९.२३) न ह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्ति न पुनः स्वयमेव नास्तीत्यनात्मतया सर्वप्रपञ्चे निवारिते सत्यनिवार्यत्वेनात्मैवावशि- ष्यत इति भावः ॥ ३२ ॥

 बाध्याबाध्ये वस्तुनी प्रदर्शयति, इदमिति ।

इदं रूपन्तु यद्यावत्तत्त्यक्तुं शक्यतेऽखिलम् ।
अशक्योऽह्यनिदंरूपः स आत्मा बाधवर्जितः ॥ ३३ ॥

 इदं रूपमिदमिति प्रत्यक्षेण सन्निहितं देहादि यद्यावद्विद्यते वस्तुजातं तत्तदखिलं नेति नेतीति हस्तविक्षेपेणेव बुद्ध्या त्यक्तुं शक्यते । योऽनिदंरूपः प्रत्यत्त्वेनेदन्तयाऽनवगम्यः प्रत्यक्स्वरूपः स अशक्योऽनिवार्यो बाधवर्जितः त्रैकालिकबाधविधुरः स साक्षी आत्मा भवति । इदन्तयाऽनिवार्यं सर्वं बाध्यन् । तद्भिन्नमबाध्यमनिवार्यतया परिशिष्टं यद्वस्तु विद्यते तदात्मा भवतीति भावः ॥३३॥

 एवमात्मनो बाधराहित्यात्मकसत्यत्वं सुसंपादितंम् । संप्रति तस्य ज्ञान त्वमुपपादितं स्मारयति, सिद्धमिति ।

सिद्धं ब्रह्मणि सत्यत्वं ज्ञानत्वं तु पुरेरितम् ।
स्वयमेवानुभूतित्वादित्यादिवचनैः स्फुटम् ॥ ३४ ॥

 स्पष्टोऽर्थः। पुरा ३.१३ श्लोके स्फुटम्। आदिशब्देन "इयमात्मा

परानन्द” (१. ८) इत्यादीनि गृह्यन्ते ॥ ३४ ॥

प्रकरणम्।]
९१
कल्याणपीयूषव्याख्यासमेता

आत्मनोऽनन्तत्वविचारः।

 अनन्तरमनन्तत्वं समर्धयति, नेति ।

न व्यापित्वाद्देशतोऽन्तो नित्यत्वान्नापि कालतः।
न वस्तुतोऽपि सार्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा ।।३५।

 ब्रह्मणि त्रिविधमानन्त्यं विद्यते । सहेतुकं तद्विवृणोति, नेति । देशतों ऽन्तो न; कुतः ? व्यापित्वात् । सर्वदेशव्यापित्वात् ।कालतोऽन्तो न; नित्यत्वात्। सत्यत्वेन त्रिकालाबाध्यत्वात् । वस्तुतोऽप्यन्तो न; सार्वात्म्यात् । सर्वमात्मा स्वरूपं यस्य तस्य भावात् । “इदं सर्वं पुरा सृष्टेरेकमेवाद्वितीय ” (२.१९.) मित्यादिवचनैः स्पष्टमुक्तम् । बृहि धातोर्देशकालवस्त्वपरिच्छिन्नतया सर्वव्यापित्वार्थत्वादानन्त्यमवश्यं सिध्यति । ‘ब्रह्मैवेदं विश्वं” (मुंड-२.२.११) “ब्रह्मेदं सर्वं" (बृ.२.५.६) इत्यादिश्रुतिभिर्ब्रह्मणस्त्रिविधमानन्त्यं सुसंपन्नमिति भावः।अस्मिन् श्लोके परमतमनुसृत्य देशकालादीनां वस्तुत्वमभ्युपगम्य तत्तत्कृतपरिच्छेदभावोऽत्र निरस्यत इति ज्ञेयम् ॥३५॥

 वस्तुतो देशकालादीनामवस्तुत्वात्तत्कृतपरिच्छेदोऽप्यविद्यमान एवेत्याह, देशेति ।

देशकालान्यवस्तूनां कल्पितत्वाच्च मायया ।
न देशादिकृतोऽन्तोऽस्ति ब्रह्मानन्त्यं स्फुटं ततः ॥३६॥

 मायया “ सत्तत्वमाश्रिता शक्तिः कल्पयेत्सति विक्रिया” (२.५९.) इत्युक्तरीत्या । स्पष्टमन्यत् ॥ ३६ ॥

ब्रह्मणो जीवेश्वरत्वमुपाधिकल्पितम् ।

 ननु देशादिकृतपरिच्छेदो ब्रह्मणो माऽस्तु; जीवेश्वरकृतः किं न स्यादि- त्यत आह, सत्यमिति ।

सत्यं ज्ञानमनन्तं यद्ब्रह्म तद्वस्तु तस्य तत् ।
ईश्वरत्वं च जीवत्वमुपाधिद्वयकल्पितम् ॥ ३७ ॥

९२
[पञ्चकोशविवेक
पञ्चदशी

 सत्यं ज्ञानमनन्तमिति लक्षणेन प्रतिपादितं यद्ब्रह्म तद्वस्तु तदेव परमार्थम् । तस्य तदीश्वरत्वं जीवत्वमिति पदयोजना । स्पष्टमन्यत् । जीवत्वेश्वरत्वयोरपि निस्तत्त्वोपाधिकल्पितत्त्वात्तदाश्रययोजीवेश्वरयोरपि निस्तत्वमेवेति न तत्कृतपरिच्छेद संभव इति भावः ॥ ३७ ॥

 तत्रेश्वरोपाधिभूतां शक्तिं प्रतिपादयति, शक्तिरिति ।

शक्तिरस्तैश्वरी काचित्सर्ववस्तुनियामिका ।
आनन्दमयमारभ्य गूढ़ा सर्वेषु वस्तुषु ॥ ३८ ॥

 स्पष्टा पदयोजना । सर्ववस्तुनियमनेन साऽनुमेयेति भावः । शुद्धसत्त्वप्रधानाया मायाया ईश्वरोपाधित्वं १-१६ श्लोके, तस्याः स्वरूपं ४७-५९ श्लोकेषु च विवृतम् ॥ ३८ ॥

 शक्त्यनुमापकसर्ववस्तुनियमनमासिद्धमित्याशंक्याह, वस्त्विति ।

वस्तुधर्मा नियम्येरन् शक्तया नैव यदा तदा ।
अन्योन्यधर्मसांकर्याद्विप्लवेत जगत् खलु ॥ ३९ ॥

 यदा कयाचिच्छक्त्या वस्तुधर्मा पृथिव्यादीनां काठिन्यादिधर्मा न निय म्येरन् न व्यवस्थाप्येरन् तदा अन्योन्यधर्मसांकर्यात् काठिन्याद्यन्योन्यधर्माणामन्यत्राप्यव्यवस्थया जगद्विप्लवते अनियतत्वं प्राप्नुयात् । अमेयकल्पनाविचित्रस्यास्य जगतो नियमाभावे जले गन्धः तेजसि रसो वायौ रूपमित्येवंरूपो विप्लवः प्रसज्येत । तदा घटादीनामन्यवस्तुप्रकाशकत्वं दीपस्य वस्त्वन्तराप्रकाशकत्वं च

प्रसज्येत ।अतस्ततत्पदार्थेषु तत्तधर्मनियामिका काचन शक्तिरभ्युपेया । एवं च धर्मनियमनरूपो हेतुर्नासिद्धः। सिद्धायां शक्तौ सर्वज्ञस्यैव सर्वनियमनशक्तिमत्वसंभवात् ।सा सर्वज्ञस्यैव भवितुमर्हति नान्यस्य । तथा चाह श्रुतिः "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय" (बृ.४.४. २२) “अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय (छां. ३•४.१) ॥ ३९ ॥

प्रकरणम्।]
९३
कल्याणपीयूषव्याख्यासमेता

 जडत्वभावायाः शक्तेर्जगन्नियमने कारणमाह चिदिति ॥

चिच्छायावेशतः शक्तिश्चेतनेव विभाति सा ।
तच्छक्त्त्युपाधिसंयोगाद्ब्रह्मैवेश्वरतां व्रजेत् ॥ ४० ॥

 सा शक्तिः चिच्छायावेशतः चित्प्रतिबिम्बप्रवेशतः “चिदानन्दमयब्रह्मप्रति बिम्बसमन्वित"त्वादित्यर्थः । चेतनेव चेतनत्वमापन्नेव विभाति । तच्छक्त्युपाधिसंयोगात् चित्प्रतिबिम्बयुक्ता शक्तिरेवोपाधिः। तेन संयोगात् व्रह्मैवेश्वरतां स्रष्टृत्वादिधर्मवत्तां व्रजेत् ॥ ४० ॥

 जीवोपाधिं दर्शयति, कोशेति ॥

कोशोपाधिविवक्षायां याति ब्रह्मैव जीवताम् ।
पिता पितामहश्चैकः पुत्रपौत्रौ यथा प्रति ॥ ४१ ॥

 कोशोपाधिविवक्षायां अन्नमयादिकोशानां विचारणावसरे ब्रझैव जीवतां याति। कथमेकस्य विरुद्धधर्माक्रान्तत्वमित्यत आह, पितेति । यथा पुत्रपौत्रौ प्रतितदपेक्षया एकः एका व्यक्तिः पिता पितामहश्च भवति । तथैव ब्रह्मैव शक्तयुपाधिनेश्वरो भवति । कोशोपाधिना जीवो भवति पुत्रपौत्राभावे न पिता न पितामहः। तथैव शक्तयुपाध्यभावे नेश्वरः कोशोपाध्यभावे न जीव इति भावः ॥४१॥

 ब्रह्मणि जीवेश्वरत्वयोस्सापेक्षत्वं विशदयति, पुत्रेति ।

पुत्रादेरविवक्षायां न पिता न पितामहः।
तद्धन्नेशो नापि जीवः शक्तिकोशाविवक्षणे॥ ४२ ॥

 स्पष्टोऽर्थः । एवं जीवेश्वरव्यवहारभेदः। न वस्तुतो ब्रह्मणो जीवत्वमीश्वरत्वं वाऽस्तीति भावः ॥ ४२ ॥

 एवं कोशपञ्चकविवेचनाफल प्रस्तौति य इति ॥

य एवं ब्रह्म वेदैष ब्रह्मैव भवति स्वयम् ।
ब्रह्मणो नास्नि जन्मातः पुनरेष न जायते ॥ ४३॥

९४
[पञ्चकोशविवेक
पञ्चदशी

 यो ज्ञान्येवं पञ्चकोशविवेचनेन ब्रह्म वेद साक्षात्करोति एषः स्वयं ब्रह्मैव भवति “ ब्रह्म भवति य एवं वेद" (बृ. ४. ४.२५) “ ब्रह्म वेद ब्रह्मैव भवति ” (मु. ३.२.९) इत्यादिश्रुतिभ्यः । ब्रह्मणो जन्म नास्ति । अतो ब्रह्मभावं गत एष पुनर्न जायते । “ न जायते म्रियते वा विपश्चिदि" (कठ. १,२.१८.)ति श्रुतेः॥४३॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं पञ्चकोश

विवेकस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति पञ्चकोशविवेकप्रकरणम् ।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

द्वैतविवेकप्रकरणम् ।


 प्रथमे प्रकरणे निरूपितं तत्त्वं यद्विवेकात् ज्ञायते तन्निरूपणं प्रकरणद्वयेन कृतम्। विषयस्यैक्यादेकेनैव प्रकरणेन निरूपणोये प्रकरणद्वयेन निरूपणं किंफलकमित्याशंक्य निरूप्यमाणाभ्यां द्वाभ्यां प्रत्येकं विवेकस्य भिन्नफलकत्वाद्भिन्नफलानुरोधेन प्रत्येकं निरूपणमावश्यकमिति पृथक् प्रकरणाभ्यं निरूपितम् । प्रत्येकनिरूपणस्य फलभेदनिरूपणाय प्रकरणद्वयनिरूपितयोद्वेददर्शनपूर्वकमेतत्प्रकरणप्रतिपाद्यं प्रतिजानीते, ईश्वरेणापीति ।

ईश्वरसृष्टद्वैतवर्णना ।

  ईश्वरेणापि जीवेन सृष्टं द्वैतम् विविच्यते ।

 यो मायाबिम्बो वशीकृतमायस्तेनेश्वरेणाऽविद्यावशगेन जीवेन च यत् सृष्टमुत्पादितं द्वैतं जगत् तदस्मिन् प्रकरणे विविच्यते । अनेन द्वितीयप्रकरणोक्तमीक्षणादिप्रवेशान्तसृष्टिरूपं द्वैतमीश्वरसृष्टम्, तृतीयोक्तं जाग्रदादिविमोक्षान्तं जीवसृष्टमिति च विभागज्ञापनाय प्रकरणद्वयेन प्रतिपादनमिति सूचितम् । यद्यपि जीवेश्वरयोरुभयोरपि जगत्स्रष्टत्वे प्रतिपिपादयिषितेऽपिशब्दो जीवनेत्यनन्तरं पठितुंयुक्तः । समुच्चयद्योतकस्य समुच्येयार्थबोधकपदोत्तरं पाठनियमात् । तथाऽपि बहूनां जीवस्य जगत्सष्टृत्वे विप्रतिपत्त्यभावादीश्वरस्रष्टृत्वमात्रविप्रतिपत्तेः परिहारसूचनायेश्वरस्यापि स्रष्टृत्वं स्फोरयितुमीश्वरपदोत्तरमपिशब्दप्रयोग इति बोध्यम् ।

 विवेचनप्रयोजनमाह, विवेकइति ।

  विवेके सति जीवेन हेयो बंधः स्फुटीभवेत् ॥ १॥

९६
[द्वैतविवेक
पञ्चदशी

 विवेके कृते सति जीवेन हेयः परित्याज्यो बंधग्तत्कारणं द्वैतं स्फुटीभवेत् ॥१॥ ननु जीव एव स्वादृष्टसहकारेण जगत्सृजति । न तत्रेश्वरापेक्षा । तथा सतीश्वरेणाऽपि सृष्टं जगदिति कथमुच्यत इत्याशंकां परिहर्तुमीश्वरस्य जगत्स्रष्टृत्वं प्रमितमित्याशयेन प्रमाणभूतां श्रुतिमुदाहरति, मायेति ।

मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरम् ।
स मायी सृजतीत्याहु: श्वेताश्वतरशाखिन: ॥२॥

 मायां तु प्रकृतिं विन्द्यात् जानीयात् । महेश्वरं तदुपाधिकममेय-जगद्रचनाकुशलं महान्तमीश्वरं मायिनं विन्द्यादित्यनुयर्थते । स मायी जगत्सृजतीति श्वेताश्वतरशाखिन आहुः । “मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरे। तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्" । श्वेत- (४- १०.) इति श्रुतिः ॥ २ ॥

 एतदर्थिकामैतरेयश्रुतिमर्थतः पठति, आत्मेति ।

आत्मा वा इदमग्रेऽभूत्स ईक्षत सृजा इति ।
संकल्पेनासृजल्लोकान् स एतानिति बह्वृवृचाः ॥ ३ ॥

 अग्रे प्राक् सृष्टेरिदं जगदात्माऽभूत् । स आत्मा सर्वज्ञो लोकान् सृजै उत्पादयानीतीक्षत संकल्पयामास । सर्वज्ञत्वादकरणोऽपीक्षत यथोपकरणमन्तरेण मायावी स्वमायया नगरादिकल्पनां विजृंभयति । “अपाणिपादो जवनो गृहीता” इति (श्वेत ३. १९.)। एवं संकल्पेन स आत्मा एतान् लोकानसृजत् यथा गृहनिर्माणकर्ता सर्वं निर्माणविधानं मनस्यादौ निश्चित्य पश्चात् कार्योन्मुखो भवति तथेति बहूवृचाः ऋक्शाखिनः “ आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किंचन मिषत् । स ईक्षत लोकान्नु सृजा इति स इमान्लोकानसृजत” (ऐत. १-१) इत्यूचुरितिशेषः ॥ ३ ॥

 उक्तार्थे तैत्तिरीयश्रुतिं प्रमाणयति, स्वमिति ।

खं वाय्वग्निजलोर्व्योषध्यन्नदेहाः क्रमादमी ।
संभूता ब्रह्मणस्तस्मादेतस्मादात्मनोऽखिलाः ॥ ४ ॥

प्रकरणम्।]
९७
कल्याणपीयूषव्याख्यासमेता

 अमी समस्ताः खमाकाशं वाय्वग्निजलोंर्व्योषध्वन्नदेहाः जलं उर्वी ओषधयश्चेति छेदः। क्रमात्तस्मात्तच्छब्देन परामृष्टात् सत्यं ज्ञानमनन्तमिति लक्षणलक्षितात् ब्रह्मणः संभूताः । उत्पन्ना: । ननु शुदूस्य ब्रह्मणः कथं जगत्कारणत्वमुच्यत इत्याशंकापरिहारायैतस्मादात्मन इति समानाधिकरणं विशेषणमुक्तम् । एतस्मादितीश्वरतापन्नं ब्रह्म उच्यते । तत्सामानाधिकरण्येनाध्यासेन तत्तादात्म्यापन्नमिहकारणमिति विवक्षितोऽर्थः। आत्मन इत्युक्तिस्तु सर्वैरात्मत्वेनानुभूयमानो जीवोऽपि तदनतिरिक्त इति सूचितः॥४॥

 ननु बहूवृचाः संकल्पमात्रेण जगत्स्रष्टृवं प्रतिपादयन्ति । अत्र तु कार्य कारणक्रमेण सृष्टिरुक्ता । तेनेयं सृष्टिस्तद्विरुद्धेति भातीत्याशंकां तैत्तिरीयश्रुतावृत्तरवाक्यार्थविवरणेन परिहरति, बह्विति ।


बहु स्यामेवातः प्रजायेयेति कामतः ।
तपस्तप्त्वाऽसृजत्सर्वं जगदित्याह तित्तिरिः ॥ ५॥

 अहमेवाद्वितीयः सहायान्तरमनपेक्ष्य वह्ननेकधा स्याम् अतो बहुभवनार्थं प्रजायेय प्रकर्षेण पूर्वस्थितेराधिक्येनोत्पद्येय इत्येवं रूपतः कामतः तपस्तप्त्वा सम्यगालोच्य “यस्य ज्ञानमयं तप:” इति (मुं.१.१.९) श्रुतेः प्राणिकर्मनिमितानुरूपमिदं सर्वं जगदसृजन्नामरूपाभ्यां व्याकरोत्। वस्त्वन्तरसह।यमन्तरेणैव मायावोव स्वयमेव बहुधा भासत इति स्यामित्युत्तमपुरुषार्थः । अव्याकृततया स्थितस्य स्वस्य नामरूपाभ्यां व्याकरणमेत्र सृष्टिरित्यभिधीयते । “नामरूपे व्याकरवाणी"ति(छां.६.३.२.) श्रुतेः । इति तित्तिरिः तन्नामको मंत्रद्रष्टा ऋषिराह । अनेनास्यामपि श्रुतौ संकल्पपूर्विकैव सृष्टिरुक्तेति न पूर्वोक्तबह्वृचश्रुतिविरोधः। संकल्पानन्तरं जायमाना सृष्टिराकाशादिक्रमेणेति पूर्ववाक्यतात्पर्यमिति श्रुत्योर्विरोधो नाशंकनीय इति तात्पर्यम् ॥ ५ ॥

 ननु श्वेताश्वतरे मायिनः स्रष्टृत्वमुपक्रान्तम्; बह्वृचे आत्मशब्दोपादा

नात्तत्प्रतिपाद्यस्य माय्यभिन्नतया तस्यैव स्रष्टृत्वं प्रतीयते; तैत्तिरीये एतस्मादात्मन इत्युक्त्या तस्यैव स्रष्टृत्वं स्फुटं प्रतीयते; तत्र तस्मादिति सामानाधिकरण्येन ब्रह्माध्यासस्यावश्यकत्वेऽपि शुद्धे तद्ध्यासो न प्रसज्यते; तथा च शुद्धस्य

९८
[द्वैतविवेक
पञ्चदशी

कारणत्वं नोदितं स्यात् । तस्य कारणत्वं तत्रेश्वराध्यासं विना न सिध्यति; अतस्तैत्तिरीयश्रुतिस्तत्रेश्वराध्यासतात्पर्येणापि प्रवृत्तेति बोधयितुं शुद्धस्य कारणत्वबोधिकां छांदोग्यश्रुतिमुदाहरति इदमिति ।

इदमग्रे सदेवाऽसीत् बहुत्वाय तदैक्षत ।
तेजोऽबन्नांडजादीनि ससर्जेति च सामगाः ॥ ६ ॥

 इदं परिदृश्यमानं सर्वं जगदग्रे सृष्टेः प्राक् सदेवाद्वितीयं शुद्धं सद्वस्तुमात्र मेवाऽसीत् । तत्सद्वस्तु बहुत्वायानेकधा नामरूपेण भवनायैक्षत आलोचयामास । आलोचनानन्तरं तेजोऽबन्नांडजादीनि, आदिशब्देन जरायुजस्वेदजानि गृह्यन्ते । ससर्ज सृष्टवान्, इति सामगा आहुः"सदेव सोम्येदमग्र आसीदिति(छां- ६.२.१) श्रुताविति शेषः । एवं चैतदेकवाक्यत्वाय सत्यं ज्ञानमित्युपक्रान्तस्यापि शुद्धस्य तस्मादिति पंचभ्या श्रुतहेतुत्वोपपादनायोक्तेश्वराध्यासोऽप्यवश्यं स्वीकार्य इति तैतिरीयश्रुतेः परस्पराध्यासे तात्पर्यमिति स्पष्टं प्रतीयते । स चेश्वराध्यास उपक्रान्तस्य सत उत्तरत्र वक्ष्यमाणेक्षणादेरुपपादनायेत्यत्राप्यङ्गीकृत इति बोद्धव्यम्।एतेन “यतो वा इमानि भूतानी" (तै.३.१) त्यादिनोक्तं लक्षणमीश्वरस्यैवोपद्यते न तु शुद्धस्येति शंकापि परिहृता भवति ॥ ६ ॥

 ननु प्रागुक्तदिशा शुद्धेश्वरयोस्तादात्म्याध्यासो बहुश्रुतिसम्मत इति प्रती- यते । तैत्तिरीये "एतस्मादात्मन" (तै.२.१.) इत्यनेनात्मत्वेन प्रतीय मानस्य जीवस्यैतच्छब्दोपात्तेश्वरस्य चोपवर्णितजीवेश्वरपरस्पराध्यासो न श्रुत्यंतरे प्रतीयत इत्याशंकां परिहर्तुं तद्ध्यासस्फोरकां श्रुतिमुदाहरति, विस्फुलिंगेति ।


विस्फुलिंगा यथा वह्नेर्जायन्तेऽक्षरतस्तथा।
विविधाश्चिज्जडा भावा इत्याथर्वणिकी श्रुतिः ॥ ७ ॥

 यथा वह्ने: विस्फुलिंगा वह्निसमानधर्मा जायन्तेंऽनेकशः प्रभवन्ति तथैवाक्षरतो विनाशरहितात् कूटस्थाद्ब्रह्मणः “ कूटस्थोऽक्षर उच्यते” इतिस्मृतेः विविधा नानादेहोपाधिभेदभिन्नाश्चिज्जडाश्चिदचिदात्मका भावाः पदार्था जायन्ते । "तदेतत्सत्यं यथा सुदीप्तात् पावकाद्विस्फुलिंगाः सहस्रशः प्रभवन्ते सरूपाः।

तथाऽक्षराद्विविधाः सौम्यभावाः प्रजायन्ते तत्र चैवापियन्ति(मुं.२.१)।

प्रकरणम्।]
९९
कल्याणपीयूषव्याख्यासमेता

इत्याथर्वणिकी मुंडकश्रुतिराह। एतेनेश्वरे श्रुतजगत्कारणत्वस्यात्राक्षरे कूटस्थे वर्णनाज्जीवेश्वराध्यासो जीवब्रह्मणोरध्यास इति चास्यां प्रतीयत इति तात्पर्यम् ॥७॥

 एवमुक्तप्रकारेण मायोपाधिकस्येश्वरस्य जगत्कारणत्वमुक्तम्। तस्य तत्वोपपादनाय मायास्वरूपं विवृणोति, जगदिति ।

जगदव्याकृतं पूर्वमासीद्याक्रियताधुना ।
दृश्याभ्यां नामरूपाभ्यां विराडादिषु ते स्फुटे ॥ ८ ॥
विराण्मनुर्नरा गाव: खराक्ष्वाजादयस्तथा ।
पिपीलिकावधि द्वंद्वमिति वाजसनेयिनः ॥ ९॥

 पूर्वं सृष्टेः प्रागिदं जगदव्याकृतमव्यक्तनामरूपात्मकमासीत् । अधुना सृष्ट्यनन्तरं दृश्याभ्यां व्यक्ताभ्यां नामरूपाभ्यां व्याक्रियत स्पष्टीकृतम् । “ततो वै सदजायत ” “ तद्धेदं तर्ह्यव्याकृतमासीन्नामरूपाभ्यामेव व्याक्रियत (बृ.१.४.७.)इति श्रुतेः । ते नामरूपे विराडादिषु स्फुटे । ब्रह्मांडकात्मकस्थूलदेहाभिमानवान् विराट् । विराडादीन्विवृणोति । विराडिति । द्वंद्वं स्त्रीपुरुषयोः । स्पष्टमन्यत् ॥८-९॥

 ननु जीवस्यापि ब्रह्मेश्वराभ्यां परस्पराध्याससाधनाय मुंडके श्रूयमाणा क्षरशब्दस्य कूटस्थोऽर्थ इति वर्णितम् । तत्राक्षरशब्देन ब्रह्मेश्वरो वा गृह्यताम् । किंच भवदभीष्टाध्याससाधनाय कूटस्थपरत उच्यत इत्याशंक्याह, कृत्वेति ।

कृत्वा रूपान्तरं जैवं देहे प्राविशदीश्वरः।
इति ताः श्रुतयः प्राहुर्जीवत्वं प्राणधारणात् ॥ १० ॥

 बहुभवनार्थमीक्षितेश्वरः सर्वसमर्यो रूपान्तरं स्वस्यैवाऽन्यद्रूपं विकारभूतं जैवं जीवसंबंधि कृत्वा देहे प्राविशत् प्राविशदिव भाति । इति ताः पूर्वोदाहृताः “तत्सृष्ट्वा तदेवानुप्राविशन्” (तै- २.६) ” अनेनैव जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ (छां ६.३.२) इत्यादयः श्रुतयः प्राहुः । प्राणधारणात् प्राणानां स्वामित्वात् । प्रेरकत्वाज्जीवत्वमिति प्राहुः । जीवधातोः प्राणधारणमर्थ ।

इत्यन्यत्र स्पष्टम् । रूपान्तरशब्देन जीवेश्वरयोरभेदोऽभिधीयते । एवं च शुद्धत्वं

१००
[द्वैतविवेक
पञ्चदशी

स्रष्टृत्वं प्रवेशनकर्तृत्वं चैकस्यैव मिलित्वा सर्वाः श्रुतयो बोधयन्तीति परस्पराध्यासमन्तरा श्रुतिव्यवहारोऽनुपपन्न एव स्यादिति समुदितं तात्पर्यम् ॥ १० ॥

 एवं सिद्धं ब्रह्मेश्वरविलक्षणं जीवस्वरूपं दर्शयति, चैतन्यमिति ।

चैतन्यं यदधिष्ठानं लिंगदेहश्च यः पुनः।
चिच्छाया लिंगदेहस्था तत्संघो जीव उच्यते ॥ ११ ॥

 लिंगदेहकल्पनायां यदधिष्ठानमाधारभूतं चैतन्यं तत्र कल्पितो यो लिंग देहः बुद्धिकर्मेद्रियप्राणपंचकैर्मनसा घिया संयुतः । लिंगदेहस्था चिच्छाया चिदाभासः तत्संघः तेषां त्रयाणां समूह्नो जीव इत्युच्यते । अनेन शुद्धचिच्चिदाभासलिंगदेहसमुदायो जीव इति फलितम् ॥ ११ ॥

 नन्वेवमनुप्रवेशोक्त्या जीवेस्येंश्वररूपत्वे तस्येश्वराज्ञावृत्तित्वदुःखित्वादि कथमुपपद्यत इत्याशंक्याह, माहेश्वरीति ।

माहेश्वरीतु माया या तस्या निर्माणशक्तिवत् ।
विद्यते मोहशक्तिश्च तं जीवं मोहयत्यसौ ॥ १२ ॥

 माहेश्वरी महेश्वरसंबंधिनी त्रिगुणात्मिका चिच्छायोपेता या माया विद्यते तस्या निर्माणशक्तिवदानन्दमयादारभ्य समस्तजगतो निर्माणसमर्थनशक्तिरिव मोहशक्तिश्च चिदानन्दस्वरूपविषयका ज्ञानशक्तिश्च विद्यते । असौ मोहशक्तिर्जीवं मोहयति स्वस्वरूपज्ञानविरहितं करोति। “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः” इति स्मृतेः ॥ १२ ॥

 तत्फलमाह, मोहादिति ।

मोहादनीशतां प्राप्य मग्नो वपुषि शोचति।
ईशसृष्टमिदं द्वैतं सर्वमुक्तं समासतः ॥ १३ ॥

 एवं मोहमापन्नो जीवः मोहादनीशतामोशभिन्नतां उपलक्षणमिदं असंग

चिद्भिन्नतां च प्राप्य स्वस्येश्वरत्वमसंगचिद्रूपत्वं चाज्ञात्वेति यावत् वपुषि शरीरस्पंजरे

प्रकरणम्।]
१०१
कल्याणपीयूषव्याख्यासमेता

मग्नोऽहमिदं ममेदमिति तादात्म्याद्यभिमानाविष्टः शोचति दुःखपरंपरामनुभवति । सष्टमन्यत् ॥ १४ ॥

जीवसृष्टद्वैतकथनम् ।

 एवमीश्वरसृष्टिं संक्षेपतो निरूप्य प्रमाणपुरस्सरं जीवसृष्टिं विवृणोति, सप्तेति ।

सप्तान्नब्राह्मणे द्वैतं जीवसृष्टं प्रपंचितम् ।
अन्नानि सप्त ज्ञानेन कर्मणाऽजनयत्पिता ॥ १४ ॥

 "यत्सप्तान्नानि मेधया तपसा जनयत्पिते"त्यारब्धे (बृ.१.५.२.) वृहदारण्यकान्तर्गतसप्तान्नब्राह्मणे जीवसृष्टं “जाया मे स्यादि"त्यादिकामसाधनभूताभ्यां ज्ञानकर्मभ्यां प्रयुक्तेन जीवेनेश्वरस्पृष्टभोगाजातस्य सप्तधा परिकल्पितं द्वैत "महमुपासकोऽन्य उपास्यो देवोऽन्य" इत्यादिभेदबुद्धिविशिष्टं प्रकरणं प्रपंचितम् । एतेन तत्सृष्टेर्जीवस्य तत्स्रष्टृत्वस्य च प्रमितत्वमुक्तम् । प्रपंचनप्रकारमाह,अन्नानीति । पिता पाळको जीवो ज्ञानेन स्वबुद्धिकौशलेन कर्मणा अदृष्टद्वारा सप्तान्नान्यजनयत् । जीवस्य सम्यक् पर्यालोचनेन सर्वलोकभोगानुकूलजगदुत्पादनेन सर्वलोकपालकत्वात्तस्यैव पितृत्वे निर्देश इति तात्पर्यम् ॥ १४ ॥

 सप्तान्नोत्पादकत्वस्य ज्ञानपूर्वकत्वं प्रतिनियतविभागप्रदर्शनपूर्वकं विशद- यति, मर्त्येति ।

मर्त्यान्नमेकं देवान्ने द्वे पश्वन्नं चतुर्धकम् ।
अन्यत्त्रितयमात्मार्थमन्नानां विनियोजनम् ॥ १५ ॥

 तेष्वेकं मर्त्यान्नं तदधीनमन्नं सर्वमर्त्यसाधारणमन्नं। देवान्ने द्वे । चतुर्घकं पश्वन्नं पश्वधीनम् । सर्वमविशेषेण पश्यताति पशुः। अन्यदवशिष्टं त्रितयमात्मार्थे आत्मभोगाय कल्पितम् । एवमन्नानां सप्तानां विनियोजनं विनियोग आत्मार्थं सप्तन्नब्राह्मणेनोक्तः । अत्र बृहदारण्यक (१.५.२.) सप्तान्नब्राह्मणमवलोक्यताम्। इयं श्रुतिर्व्यवहारसिद्धं जीवभेदमादाय प्रवृत्ता । पश्वादितः पृथक्कृत्यात्मनोंशविभ-

जनप्रतिपादनात् ॥ १५ ॥

१०२
[द्वैतविवेक
पञ्चदशी

 एवं विनियोजितानि सप्तान्नानि नामतो निर्दिशति, व्रीहीति ।

व्रीव्ह्यादिकं दर्शपूर्णमासौ क्षीरं तथा मनः ।
वाक् प्राणश्चेति सप्तत्वमन्नानामवगम्यताम् ॥ १६ ॥

 व्रीह्यादिकं मर्त्येभ्यो विनियोजितमन्नम् । तथा दर्शपूर्णमासौ देवेभ्यो विनियोजिते, क्षीरं पशुभ्यो विनियोजितम्, मनो वाक् प्राणश्चेति त्रितयमात्मने विनियोजितम् । एवमन्नानां सप्तत्वमवगम्यताम् ॥ १६ ॥

 ननु सप्तान्नानि जगदन्तःपातित्वादीश्वरनिर्मितानि भवन्ति । एवं सति तेषां जीवसृष्टत्वाभिमानमयुक्तमित्याशंक्य तेषां स्वरूपमीश्वरसृष्टं भोग्यत्वाका रस्तु जीवसृष्टः । तन्मात्रेण तत्सृष्टत्वव्यवहार इत्याह, ईशेनेति ।

ईशेन यद्यप्येतानि निर्मितानि स्वरूपतः।
तथापि ज्ञानकर्मभ्यां जोवोऽकार्षीत्तदन्नताम् ॥ १७ ॥

 स्पष्टोऽर्थः ॥ १७ ॥

   मनसों जीवस्य बन्धकारणत्वोक्तिः ।

 फलितमीह, ईशेति ।

ईशकार्यं जीवभोग्यं जगद्द्वाभ्यां समन्वितम् ।
पितृजन्या भर्तृभोग्या यथा योषित्तथेष्यताम् ॥ १८ ॥

 जगत्स्वरूपत ईशकार्ये ईश्वरकारणजन्यम् । जीवभोग्यं जीवेनानुभवयोग्यं कृतम् । एवं द्वाभ्यामीश्वरकार्यत्वजीवभोग्यत्वाभ्यां समन्वितम् । तत्र दृष्टान्तमाह पित्रिति । स्पष्टमन्यत् ॥ १८ ॥

 ईश्वरजीवयोर्जगत्सर्जने किं साधनमित्यत आह, मायेति ।

मायावृत्यात्मको हीशसंकल्पः साधनं जनौ ।
मनोवृत्त्यात्मको जीवसंकल्पो भोगसाधनम् ॥ १९॥

प्रकरणम् ।]
१०३
कल्याणपीयूषव्याख्यासमेत।

 जनौ जगदुत्पत्तौ मायावृत्यात्मको मायावृत्तिविशेषस्वरूप ईशसंकल्पः साधनं करणम् । मायाप्रतिबिंबितेश्वरस्य संकल्पेन जगत्सृष्टमितिभावः । मनोवृत्त्यात्मको मनसो वृतिः “जाया मे स्यात्", "वित्तं मे स्यादि"त्यादिकामरूपा तदात्मकः तत्स्वरूपो जीवसंकल्पो भोगसाधनं । कामनिबद्धेयं जीवस्य प्रवृत्तिर्भोग कारणं भवति ॥ १९ ॥

 कथमेकस्मिन्नेव वस्तुनि भिन्नभोगोपपत्तिरित्यत आह, ईशेति ।

ईशनिर्मितमण्यादौ वस्तुन्येकविधे स्थिते ।
भोक्तृधीवृत्तिनानात्त्वात्तद्भोगो बहुधेष्यते ॥ २० ॥

 भोक्तृधीवृत्तिनानात्वात् अनुभवितुर्जीवस्य मनोवृत्तोनामनेकत्वात् । स्पष्टमन्यत् ॥ २० ॥

 सहकारिकारणभेदात्कार्यभेद इति युक्तिसिद्धं भोगभेदं दृष्टान्तमुखेनानु भावयति, हृष्यतीति ।

हृष्यत्येको मणिं लब्ध्वा क्रुद्ध्यत्यन्योऽह्यलाभतः ।
पश्यत्येव विरक्तोऽत्र न हृष्यति न कुप्यति ॥ २१॥

 एको मण्यर्थी मणिं लब्ध्वा हृष्यति । अन्यस्तदर्थी तदलाभतः क्रुध्यति । विरक्तो मणिविषयेऽनुरागहीनो मणिं पश्यत्येव । अत्र मणिं दृष्ट्वा न हृष्यति न कुप्यति । एक एव मणिर्मनोवृत्तिभेदेन हर्षक्रोघौदासीन्यान्यतमस्य कारणं भवति । तथैवामूल्योऽपि गृहिणोमणिर्भर्तुर्मानसिकवृत्त्यनुरूपं कदाचिदानन्दाय कदाचित्कोपाय कदाचिदौदासोन्याय कल्पते ॥ २१ ॥

 पूर्वोक्ताभ्यां द्वाभ्यां कार्यकारणाभ्यां भोगाकारभेदाः प्रदर्शिताः। अधुना स्वरूपभेदं प्रदर्शयति, प्रिय इति ।

प्रियोऽप्रिय उपेक्ष्यश्चेत्याकारा मणिगास्त्रयः।
सृष्टा जीवैरीशसृष्टं रूपं साधारणं त्रिषु ॥ २२॥

१०४
[द्वैतविवेक
पञ्चदशी

 एवं मण्यर्थिनः प्रियः प्रीतिविषय अप्रियो द्वेषविषय उपेक्ष्यः उपेक्षा विषयश्चेति मणिगाः एकमेव मणि गता आकारास्त्रयः। प्रीतिविषयत्वं, द्वेषविषयत्वं, उपेक्षाविषयत्वम्, चेति भिन्नविषयतारूपा दृश्यन्ते । एते आकारा जीवैः सृष्टाः। प्राप्ताप्राप्तविवेकन्यायेन तत्तद्विषयतासृष्टिर्जीवस्येति तद्वैशिष्ट्येन मणिस्रष्टृत्वं जीवस्योक्तम् । जीवैरिति बहुवचनं तु विभिन्नविषयतानां यौगपद्येन सत्वोपपाद- नाय। ईशसृष्टं रूपं त्रिषु समानमित्याह, ईशेति । त्रिष्वाकारेषु ईशसृष्टं रूपं मणिरूपं साधारणं समानम् । एवं च तत्तद्विषयताविशिष्टमणिदृष्टौ जीवस्य- स्रष्टृत्वं विशेषेणांशे, ईशस्य तु विशेष्यांशे इति विवेकः ॥ २२ ॥

 पूर्वोदाहरणेन भोगाकाराणां त्रैविध्यमिव गम्यते, नत्वनन्तप्रकारत्व मित्याशयेन तत्र निर्दिष्टस्य प्रत्येकं बहुविधत्वमिति स्फोरणायैकस्य प्रीतिविषय त्वस्य बहुविधत्वं दर्शयति, भार्येति ।

भार्या स्नुषा ननान्दा च याता मातेत्यनेकधा।
प्रतियोगिधिया योषिद्भिद्यते न स्वरूपतः ॥ २३ ॥

 एका योषित् स्वस्य भार्या, स्वपितुः स्नुषा, स्वभार्यायाः ननान्दा भर्तृभगिनी, स्वसोदरभार्यायाः याता देवरपत्नी स्वपुत्रस्य मातेति संबंधभेदेनानेकधा व्यवह्रियमाणतया प्रतियोगिधिया प्रतियोगिभर्त्रादीनां विशिष्टबुद्ध्या भासमानया धिया निरूपिता सती तदनुरूपं भिद्यते न तु स्वरूपतः। विलक्षणप्रीतिविषय ताश्रयत्वेन संबंधभेदेन भिन्नतया ततन्निष्ठप्रीतीनां विलक्षणतया तत्तद्विषयतानां मेदेन तदाश्रयभेदः सिध्यति ॥ २३ ॥

 ननु तत्र ज्ञानभेद एव नाकारभेद इति जीवनिर्मितस्य कस्यापि विशेषस्यादर्शनादिति शंकते नन्विति ।

ननु ज्ञानानि भिद्यन्तामाकारस्तु न भिद्यते ।
योषिद्वपुष्यतिशयो न दृष्टो जीवनिर्मितः ॥ २४ ॥

 नन्विति प्रश्ने । ईश्वरसृष्टं वस्तुजातं जीवेन भोगार्धं बहुधेष्यत इत्युपरि-

ष्टाद्भोग्याकस्स्य नानात्वमुक्तम् । योषिद्दृष्टान्ते तु प्रतियोगिधिया भार्या

प्रकरणम् ।]
१०५
कल्याणपीयूषव्याख्यासमेता

स्नुषेयादिज्ञानानि भिद्यन्ताम् ; योषित आकारस्तु न भिद्यते । तत्र कारणमाह, योषिदिति । योषिद्वपुषि जीवनिर्मितोऽतिशयो भोग्याकारभेदो न दृष्टः । एवं चाकारभेदो न दृष्टान्ते सिध्यति ॥ २४ ॥

 सिद्धान्ती परिहरति, मैवमिति ।

मैवं मांसमयी योषित्काचिदन्या मनोमयी ।
मांसमय्या अभेदेऽपि भिद्यते हि मनोमयी ॥ २५॥

 मैवं योषिद्विषय आकारभेदो नास्तीत्येवं माऽक्षिपतु । मांसमयी मांस- विकारा स्थूलदेहविशिष्टा योपित्काचित् ; मनोमयी मनोविकारा योषित्ततोऽन्या भिन्ना । मांसमय्याः योषितोऽभेदेऽपि मनोमयी योषिद्भिद्यत एव । हि निश्च- यार्थे। ज्ञानगोचरा योषिन्मांसमय्या भिद्यते । तत्र प्रतियोगिनां ज्ञानान्ययन्त विलक्षणानि । अवैलक्षण्ये यस्य भार्यात्वेन ज्ञानं तस्यैव स्नुषात्वेन ज्ञानं प्रसज्येत । नैतदस्ति । अतस्तत्तप्रतियोगिज्ञानानि सर्वदाऽत्यन्तविलक्षणानीत्यभ्युपेयम्। ज्ञान वैलक्षण्यं तु ज्ञेयवैलक्षण्यमन्तरा न सिध्यति । अतस्तत्तत्ज्ञेया योषिदत्यन्तविलक्ष- णेत्यभ्युपेयम् । न च ज्ञेयमांसमययोषिदभिन्नैवेति भ्रमितव्यम् । तस्याः स्त्ररूपेणा ज्ञेयत्वात् । ज्ञेया तु तदाकाराकारिता चित्तवृत्तिरेव । तस्या एवाऽन्तराया आन्तरे चैतन्ये प्रतिफलनसंभवात् । चैतन्यतत्प्रतिफलनमेव ज्ञानमिति सिध्यति । एवं च तदाकाराकारिता मनोमयी चितवृतिरूपैव योषिज्जीवोपभोग्या । चित्तवृत्तीनां नानात्वात् भोग्ययोषिन्नानात्वं सिध्यतीति भावः ॥ २५ ॥

 ननु भ्रान्तिस्थले बाह्यवस्तुनोऽभावान्मनोमयसृष्टिरभ्युपेयताम् जाग्रति बाह्यवस्तुसद्भावान्मनोमयसृष्टिः किमित्यभ्युपेयत, इति शंकते,भ्रान्तीति ।

भ्रान्तिस्वप्नमनोराज्यस्मृतिष्वस्तु मनोमयम् ।
जाग्रन्मानेन मेयस्य न मनोमयतेति चेत् ॥ २६ ॥

 भ्रान्तिस्वप्नमनोराज्यस्मृतिषु मनोंमयं मनःकल्पितं योषिदाकारादि वस्त्वस्तु नाम । तत्र बाह्यवस्तुनोऽभावाद्विषयमन्तरा ज्ञानासंभवात् विषयसंपत्तये मनोमयं

वस्तु किंचिदङ्गीक्रियतां नाम । किंतु जाग्रन्मानने जाग्रति जाग्रदवस्थायां मानेन

१०६
[द्वैतविवेक
पञ्चदशी

प्रत्यक्षादिप्रमाणेन मेयस्य विषयसंबंधानुरोधेन बहिः सत्वस्याभ्युपेयतया न मनो मयता मनोमयवस्तुकल्पना नावश्यकी । विषयस्य बाह्यत्वेनैव सिद्धत्वादिति चेदि त्यस्योत्तरेणान्वयः ॥ २६ ॥

 शंकामंशतोंऽगीकृत्य परिहरति, बाढमिति ।

बाढं माने तु मेयेन योगात्स्याद्विषयाकृतिः।
भाष्यवार्तिककाराभ्यामयमर्थ उदीरितः ॥ २७ ॥

 बाढं सत्यमेव तव वचः । माने अन्तःकरणवृत्तौ मेयेन प्रमेयविषयेर्णेम्द्रियद्वाराऽन्तःकरणस्य योगात्संबंधाद्विषयाकृतिः विषयाणां प्रमेयणामकृतिराकारः स्यात् । अयमेवार्थो भाष्यवार्तिककाराभ्यां भाष्यं "सूत्रार्थो वर्ण्यते यत्र पदै: सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो जना” इति लक्षणोपेतं शारीरकमीमांसाभाष्यं । वार्तिकं वृत्तिरूपेण कृतो ग्रन्थः । तत्कर्तारौ शंकरभगवत्पादसुरेश्वराचार्यौ। ताभ्यामुदीरित उक्तः । एवं चेंद्रिये विषयाकारजननं पूर्वाचार्य सम्मतं न तु स्वकपोलकल्पितमिति सूचितम् ॥ २७ ॥

 तत्र भाष्यकारसम्मतिं प्रदर्शयितुं तदीयमुपदेशसहस्रीस्थश्लोकद्वयमुदा- हरति, मूषेति ।

मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
रूपादीन् व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् ॥ २८ ॥

 यथा मूषासिक्तमग्निसंपर्के द्रवीभूतं ताम्रं मूषासिक्तं सत् तन्निभं तत्सदृ- शाकारं जायते मूषाकारमाप्नोति, तथैव बाह्यान् रूपादीन् व्याप्नुवच्चित्तमिंद्रिय द्वारा विषयान् व्याप्नुवत् संबंधमाप्नुवत् यच्चित्तं तन्निभं व्याप्तवस्तुसदृशं ध्रुवं निश्चयं दृश्यते प्रतीयते, तदिव भातीयर्थः ॥ २८ ॥

 नन्वत्यन्तानिलसंयोगेन दृतस्य ताम्रस्य यत्संयोगात् काठिन्यमुपजायते । तदाकाराकारितत्वं दृश्यते । मनोवृत्तेर्न तथा दृश्यदृतत्वं न वा विपयसंबंधे सति काठिन्यम् । तथा सति तदाकाराकारितत्वं दृष्टान्तेन कथं सिध्यतीत्या शंकां मनसि निधायातथाविधमुदाहरणमितरदाह, व्यंजक इति ।

प्रकरणम्।]
१०७
कल्याणपीयूषव्याख्यासमेता

व्यंजको वा यथाऽलोको व्यंग्यस्याकारतामियात् ।
सर्वार्थव्यंजकत्वाद्धीरर्थाकारा प्रदृश्यते ॥ २९॥

 यथा व्यंजकोऽभिव्यक्तिजनक आलोकः कान्तिः सूर्यस्य दीपादेर्वा व्यंग्यस्याभिव्यक्तस्य घटादेराकारतामियादाप्नुयात् ; तथैव धीः सर्वार्थव्यंजकत्वादर्थाकारा प्रदृश्यते ॥ २९ ॥

 एवं भाष्यकारसम्मतिं प्रदर्श्य वार्तिकाकारसम्मतिमपि दर्शयति,मातुरिति ।

मातुर्मानाभिनिष्पत्ति: निष्पन्नं मेयमेति तत् ।
मेयाभिसंगतं तच्च मेयाभत्वं प्रपद्यते ॥ ३० ॥

 मातुः साधिष्ठानबुद्धिगतचिदाभासान्मानाभिनिष्पत्तिर्मानस्यान्तःकरण- रूपस्योत्पत्तिर्भवति । निष्पन्नमुत्पन्नं तद्वृत्यात्मकमन्तःकरणं चक्षुरादिगोळक- द्वारा मेयं बाह्यं प्रमेयं वस्त्वेति प्राप्नोति । तेन सह संबद्धो भवति । मेयाभिसंगतं मेयेन ज्ञेयवस्तुना सहाभिसंगतं तदन्तःकरणं मेयाभत्वं ज्ञेयवस्त्वाकारतां प्रपद्यते प्राप्नोति । तदाकाराकारितं भवति । चिदाभासोज्ज्वलितान्तःकरणवृत्तिश्चक्षुरादि- गोळकद्धारा वस्तुसंबंधमेत्य तदाकारमाप्नोतीति भावः । ३० ॥

 एवं रूपविमर्शफलमाह, सतीति ।

सत्येवं विषयौ द्वौ स्तो घटौ मृण्मयधीमयौ।
मृण्मयो मानमेयः स्यात्साक्षिभास्यस्तु धीमवः ॥ ३१ ॥

 एवं सति प्रमेयौ विषयौ द्वौ स्तः। कौ तौ? मृण्मयधीमयौ घटौ । मृदात्मको घट एकः,मनोमयोऽन्यः । तयोर्मृण्मयो घटो मानमेयोऽन्तःकरणेन ज्ञेयः ग्राह्य: स्यात् । अन्यो धीमयो घटः साक्षिभास्यः ॥ ३१॥

 एवं प्रदर्शितं सृष्टिद्वयं । तत्र हेयत्वाज्जीवकृतधीमयसृष्टेः बंधकृत्त्व- मन्वयव्यतिरेकाभ्यां दर्शयति, अन्वयेति ।

१०८
[द्वैतविवेक
पञ्चदशी

अन्वयव्यतिरेकाभ्यां धीमयो जीवबंधकृत् ।
सत्यस्मिन् सुखदुःखेस्त स्तस्मिन्नसति न द्वयम् ॥३२॥

 धीमयो मनोमय एव । “ असति बाधे सर्वं वाक्यं सावधारणमिति " न्यायाज्जीवबंधकृत् जीवस्य बंधहेतुत्वमन्वयव्यतिरेकाभ्यां ज्ञायते। तावेव विवृणोति, सतीति । अस्मिन् धीमये सति सुखदुःखे स्तः; तस्मिन्नसति द्वयं सुख दुःखे न स्तः ॥ ३२ ॥

 ननु मनोमय एवेति कोऽसौ निर्बम्धः? बाह्येऽप्यन्वयव्यतिरेकदर्शनात् । बाह्यानुरोधेनैव मनोंमयस्य सृष्टेरित्याशंक्य बाह्येऽन्वयव्यतिरेकौ विघटति, असतीति ।

असत्यपि च बाह्यार्थे स्वप्नादौ बध्यते नरः ।
समाधिसुप्तिमूर्छासु सत्यप्यस्मिन्न बध्यते ॥ ३३ ॥

 स्वप्नादौ बाह्यार्थेऽसत्यपि मरुमरीचिकादिष्विव नरो बध्यते । तत्र सुख दुःखे अनुभवति । एतेन व्यतिरेकस्य विघटनं प्रदर्शितं समाधिसुप्तिमूर्छासु समाधिः वशीकृतान्तःकरणत्वान्निवातदीपवन्निश्चला स्थिति ; सुप्तिः सुषुप्तिः, सवेंद्रियाणा- मन्तःकरणस्य च लयावस्था; मूर्छा चित्तस्य जडीभूतावस्था; तास्वस्मिन् बाह्यार्थे सत्यपि न बध्यते । एतेनान्वयस्य विघटनमुक्तम् । एवं च बंघस्य बाह्येनान्वय- व्यतिरेकयोरसंभवान्न बाह्यस्य बंधकत्वमिति तात्पर्यम् ॥ ३३ ॥

 मनोमयप्रपंचस्य बंधकारणत्वमुक्त्वाऽन्वयव्यतिरेकावुदहरणपूर्वकं सार्धश्लोकेन स्पष्टयति, दूरेति ।

दूरदेशं गते पुत्रे जीवत्येवात्र तत्पिता ।
विप्रलंभकवाक्येन मृतं मत्वा प्ररोदिति ॥ ३४॥
मृतेऽपि तस्मिन् वार्तायामश्रुतायां न रोदिति ॥ ३४=॥

 विप्रलंभकवाक्येन तव पुत्रो मृत इतेि वंचकस्य मिथ्यावाक्येन ।

स्पष्टमन्यत् । पुत्रस्य मृतत्वतदभावौ रोदनतदभावयोर्न कारणे, किंतु मृतत्वतद

प्रकरणम् ।]
१०९
कल्याणपीयूषव्याख्यासमेता

भावाकाराकारितवृत्ती। एवं च मानसिकसत्ताविष्टयोरेवकारणत्वमिति स्फुटमवगम्यते ॥३४॥

 एतावता फलितमाह, अत इति ।

अतः सर्वस्य जीवस्य बंधकृन्मानसं जगत् ॥ ३५॥

 मानसं मनःकल्पितमेव । स्पष्टमन्यत् । अत एवोक्तं “मन एव मनुष्याणां कारणं बंधमोक्षयो" रिति ॥ ३५ ॥

विज्ञानवादनिरासः ।

 एवं मानसस्येव बंधहेतुत्वे निर्णीयमाने बौद्धमतप्रवेशः स्यादित्याशंक्याह, विज्ञानेति ।

विज्ञानवादो बाह्यार्थवैयर्थ्यास्यादिहेति चेत् ।
न हृद्याकारमाधातुं बाह्यस्यापेक्षितत्वतः ॥ ३६ ॥

 इह “सर्वस्य जीवस्य बंधकृन्मानसं जगदि"ति सिद्धान्ते बाह्यार्थवैयर्थ्यात् बाह्यविषयस्य बंधेऽनपेक्षणात् त्वदुदितं सर्वं विज्ञानवाद एव स्यात् इति चेन्न । कारणमाह । नेति । हृदि अन्तःकरणे बाह्यबस्तुन आकारमाधातुं निक्षेप्तुमंतःकरणस्य बाह्यविषयाकाराकारितत्वाय बाह्यस्य विषयस्यापेक्षितत्त्वतः । तेन तस्य विद्यमानताऽवश्यकीति भावः । बाह्याकारमन्तराऽन्तःकरणस्य तदाकाराकारितत्त्वासंभवान्न केवलविज्ञानवादिनो वयमिति पूर्वपक्षपरिहारः ।

 विज्ञानवादस्त्वित्थम् । बौद्धानां मते बुद्ध एक एवाचार्यः । तस्योपदेशस्तु। "सर्वं क्षणिकं क्षणिकं, दुःखं दुःखं, स्वलक्षणं स्वलक्षणं, शून्यं शून्य" मिति । बौद्धपरिभाषायां सर्वे पदार्थाः क्षणिकाः। उत्पन्नस्य क्षणिकत्वेन द्वितीयक्षणे स्थित्यभावात् । अत एव ते क्षणा इत्युच्यन्ते सर्वो हि संसारो दुःखात्मक इति तद्धेयत्वमिच्छन्ति सर्वे द्रशनप्रदर्शकाः। मुमुक्षूणां तन्निवृत्युपाये प्रवृत्तेरुपपत्तेः । सर्वे पदार्थाः स्वीयेनासाधारणरूपेण लक्ष्यन्ते । न तेषां साधारणं लक्षणम् । तेषां सदृशं । वस्त्वन्यदस्तीत्यस्यानिर्वचनीयत्वात् । एवं सति शून्यरूपा इति

भावनीयाः ॥

११०
[द्वैतविवेक
पञ्चदशी

 एकस्याप्युपदेशस्योपदेश्यानां बुद्धिभेदादर्थभेदकल्पनाभेदकृतेन भावनाभेदेन ते चतुर्विधाः। माध्यमिकयोगाचारसौत्रान्तिकवैभाषिका इति। ते यथाक्रमं सर्वशून्यत्वबाह्यशून्यत्वबाह्यार्थानुंमेयत्वबाह्यार्थप्रत्यक्षत्ववादानवलंबन्ते । तत्र बाह्य- शून्यत्ववादिनो योगाचारा विज्ञानैकस्कन्धवादिनः । स्कन्धशब्दस्तु पदार्थपरः ॥

 तेषां मते वेदानाऽङ्गीक्रियते । अन्यथा जगदान्ध्यप्रसक्तेः । वेदनं चात्मा। बाह्यं वस्त्ववास्तवम् । नान्योऽनुभवादनुभाव्योऽनुभविताऽनुभवनं वा । विज्ञाना- दन्यत्सर्वमवास्तवमेव । बुद्धिकल्पितेन रूपेणान्तःस्थमेव नीलाद्याकारत्वेन प्रमेयं; प्रमेयप्रकाशात्मत्वेन प्रमाणफलम् ; प्रमेयप्रकाशनशक्तयात्मतया प्रमाणम्; शक्त्या- श्रयत्वाकारेण प्रमातेति; प्रमाणप्रमेयादिभेदकल्पनेन सर्वो हि व्यवहारः । बाह्यार्थस्य बुद्ध्यारोपामन्तरा प्रमाणादिव्यवहारायोगाद्बुद्धिस्थाकार एव मेयं न तु बाह्यं वस्तु ॥

 विज्ञानातिरिक्तो बाह्यार्थो नास्ति । यदि विद्यते, उत्पन्नोऽनुत्पन्नोऽतीतो वा? नाद्यः; उत्पन्नस्य क्षणिकत्वेन । तदुत्तरक्षणेऽविद्यमानत्वात् ; उत्पत्तिक्षणे ज्ञानाविषयत्वात्; कारणस्य कार्यनियतपूर्ववृत्तित्वनियमात् । न द्वितीयः; अविद्य- मानस्यार्थस्य ज्ञानजनकत्वासहत्वात् ; नापि चरमः; अतीतस्यापि पदार्थस्याविद्य- मानस्य ज्ञानजनकत्वसंबधंत्वादिति चेदिन्द्रियाणामपि ज्ञानसाधनत्वेन ज्ञानजनक त्वात् ॥

 यदि बाह्यार्थो ज्ञानविषयो भवति, किमवयविभूतो घटादिः उतैकदेशभूतः परमाणुः ? न द्वितीयः ; एकदेशभूतपरमाणुदर्शने घटोऽयं दृष्ट इति न कोऽपि जानाति । नाद्यः; कृत्स्नस्य घटादेरिन्द्रियसंबंधाभावात्; भिन्नत्वाभिन्नत्व- विवक्षाशक्यत्वाच्च । घटादिः परमाणुभ्यो भिन्नोऽभिन्नो वा ? यदि भिन्नोऽत्यन्त- वैलक्षण्यम् ; यद्यभिन्नो घटादे: परमाणुमात्रतया घटादिस्थूलरूपेणावभासनासंभवः अन्याभासोऽन्यगोचरो न भवति । एवं सान्तरेषु वृक्षेषु वनैकप्रत्ययवदेष स्थूलघट- प्रत्ययो भ्रान्त एव : परमाणोरिन्द्रियागोचरत्वात् । यदि तस्येन्द्रियगोचरत्वं तस्य निरंशत्वव्याघातः । निरंशस्य परमाणोर्दिशां षट्केन सह युगपत्संबंधो दुस्साधः ।

यदि भवति तस्य निरंशत्वव्याकोपः ।

प्रकरणम् ]
१११
कल्याणपीयूषव्याख्यासमेता

 एवं जात्यादीनामपि बोध्यम् । जातिः कथं व्यक्तिषु विद्यते? कार्त्स्नेनोतैकदेशेन। नाद्यः; यदि जातिः कृत्स्नतयैकस्मिन् घटे विद्यते तदा घटान्तरे तस्या अनुपलब्धिः । न द्वितीयः ; जातेर्निरवयत्वात् ॥

 ननु जायमानस्य ज्ञानस्य साधारणात्मत्वात् ब्राह्मविषयसारूप्यरूपविशेष संबंधमन्तरा घटपटादिविविधवस्तुज्ञानस्यासंभवात् ज्ञानस्य विषयसारूप्यमवश्य मङ्गीकर्तव्यमिति चेन्न । ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिः; मानाभावात् । कल्पनागौरवाच्च । विज्ञानविषययोरेवमभेदोऽनिवार्य एव ।

 विज्ञानविषययोर्भेदे सति, तयोर्नियतसंबद्धयोर्लोकेऽनुभूयमानो नियतसंबंधो भेदपक्षे नोपपद्यते । एककालावच्छेदेन भासमानयोर्नीलतद्धियोर्विषयविजानयोर्नियमेन सहोपलब्धिर्लक्ष्यते लोके । तयोरन्यतरानुपलंभे कस्याप्युपलब्धेरभावात् । ययोर्नियतसहोपलब्धिस्तयोस्तादात्म्यसिद्धिः। यथा मृद्घटयोः। तथा विषयविज्ञानयोरपि। तयोर्भासमानो भेदा भ्रान्तिकल्पितः । एकस्सिश्चंद्रे द्वितीयचंद्रस्य दर्शनमिव । ‘अतैमिरिकचक्षुषा यन्न दृश्यते तद्धि द्वितीयचंद्रस्यासत्वम् ”। तस्माद्वाह्यार्थमवास्तवमिति सिद्धम् ॥

 जाग्रति ये बुद्धिगोचरा घटपटादिप्रत्यया विनैव बाह्यार्थेन ज्ञेयज्ञातृस्वरूपा भवन्ति; यथा स्वप्ने । अविद्यमानानां मरोच्युदकगंधर्वनगरादीनां स्वप्ने बुद्धि गोचरा: प्रत्ययाः। प्रतिदिनमनुभूयन्त एव ।

 वस्तुनो ज्ञानस्वरूपमाकारविधुरम् । न ज्ञानाकारम् । न ज्ञेयाकारम् । भ्रान्तिकृतविपर्यासवशात् ज्ञानं ज्ञातृज्ञानज्ञेयरूपेण त्रिविधमिव प्रतीयते । बाह्यार्थ- स्याभावेऽपि विविधाकारवैचित्र्ये वासनावैचित्र्यमेव कारणम् । अनादौ संसारे मिथ्याभूतवासनानामन्योन्यकार्यकारणभेदेन ज्ञातृज्ञानाकारभेदः संपद्यते । यथा बीजवासनया पुष्पादेनीलरक्तिमादिभेदः। अनादिसन्तानान्तर्गतपूर्वज्ञानमेव वासना ॥

 एवमक्षोदक्षमो बाह्यार्थः सर्वः शून्य एव । अनादिवासनावशादनेकाकारेण बुद्धिरेवावभासते । एवं बौद्धदेशिकोपदेशबलादखिलज्ञातृज्ञेयवासनानामुच्छेदे विग

लितविषयाकारविशुद्धविज्ञानोदय उत्पद्यत इत्ययमेव महोदयः इति ।

११२
[द्वैतविवेक
पञ्चदशी

 प्रौढया वैयर्थ्यमंगीकृत्यापि बाह्यसत्त्वं समर्थयति ।

वैयर्थमस्तु वा बाह्यं न वारयितुमीश्महे ।
प्रयोजनमपेक्षन्ते न मानानीति हि स्थितिः ॥ ३७ ॥

 बाह्यस्य वैयर्थ्यमस्तु वा। तथाऽपि बाह्यं वारयितुं नेश्महे । बाह्यस्य वारयितुमशक्यत्वात्तदभ्युपगच्छामः । न तु भवानिवापलपामः । कुतस्तद्वारण- मशक्यमित्यत आह, प्रयोजनमिति । मानानि प्रमाणानि प्रयोजनं फलं नापेक्षन्ते, इति स्थितिर्हि । चक्षुरादीन्द्रियाणि स्वप्रयोजनवद्वस्तुज्ञानं यथा जनयन्ति तथा स्वप्रयोजनशून्यवस्तुज्ञानमपि जनयन्तीति लोकानुभवः। एवं च निष्प्रयोजनस्यापि मानसिद्धत्वेन प्रमितत्वात् प्रमितपदार्थफलस्यापकर्तुं भवतामिव नास्माकं साहसमिति भावः ॥ ३७ ॥

ईशसृष्टिर्न ज्ञानबाधकं किन्तु साधकम् ।

 मानसप्रपंचस्यैव बंधहेतुत्वे सिद्धान्तिते, योगी प्रत्यवतिष्ठते, बंध इति ।

बंधश्चेन्मानसद्वैतं तन्निरोधेन शाम्यति ।
अभ्यसेद्योगमेवातो ब्रह्मज्ञानेन किं वद ॥ ३८॥

 मानसद्वैतं मनःकल्पितं कामनिमित्तं द्वैतं जीवस्य बंधः बंधहेतुरित्यभ्युपगम्यते चेत् तन्निरोधेन तस्य मनसो निरोधेन नियमनेन शाम्यति नश्यति । निरुद्धस्य तस्य मनोमयप्रपंचोत्पादकत्वाभावात्तदभावे बंध एव न भवति । अतस्त- न्निरोधोपायमाश्रयेदित्याह, अभ्यसेदिति । योगमेव चित्तवृत्तिनिरोधमेवाभ्यसेत् । “योगश्चित्तवृत्तिनिरोध” इति पातंजलसूत्रम् । “यथा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् । तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ। (कठ. २. ६. १०, ११) इति श्रुतिः । एवं श्रुतिसूत्रोपदिष्टयोगाभ्यासेन बंधविमोकरूपस्य मोक्षस्य सिद्ध्या ब्रह्मज्ञानेन किं वद ? तत्प्रयोजनस्यान्यथा सिद्धत्वान्न किमपि

प्रयोजनमिति | भावः ॥ ३८ ॥

प्रकरणम् ।]
कल्याणपीयूषत्र्याख्यासमेता

 योगेन चित्तवृत्तिनिरोधेन कालिकबंधस्यैव निवृत्तिः नात्यन्तकी तन्निवृत्तिः; सा तु ब्रह्मज्ञानेनैव साध्या ; आत्यन्तिकवंधविमोक एव मोक्ष इत्य- स्माकमभिमतम्; ततो योगेन ब्रह्मज्ञानं नान्यथा सिद्धमित्याह, तात्कालिकेति ।

तात्कालिकद्वैतशांतावप्यागामिजनिक्षयः।
ब्रह्मज्ञानं विना न स्यादिति वेदान्तडिंडिमः ॥ ३९ ॥

 तात्कालिकद्वैतशांतौ यावत्कालं चित्तवृत्तिनिरोधस्तावत्कालं द्वैतनिवृत्तिरूपा मनःशान्तिरित्यर्थः, आगामिजनिक्षयः । आगामि योगविरामोत्तरकाले उत्पद्यमानो द्वैतरूपो यो बंधः तस्य क्षयो नाशः “ज्ञानादेव तु कैवल्यं “ “नान्यः पंथा विद्यतेऽयनाये” ( श्वेः ३.८.)त्यादिश्रुतयोऽन्वयव्यतिरेकाभ्यामत्यन्ताबाधितनिःश्रे- यसप्राप्तिहेतुत्वेन ब्रह्मज्ञानमेव मुक्तकंठमुपदिशन्तीति भावः ॥ ३९ ॥

 कूटस्थचैतन्यविवेकेन मानसिकप्रपंचस्य निवृत्तिः सिध्यतु; तथाप्यद्वितीयब्रह्मज्ञानं कथं सिध्यति ? भवदुक्तप्रणाळिकयेशस्पृष्टस्य बाह्यप्रपंचस्यानिवारणात् । तेन ब्रह्मणः सद्वयत्वाव्याघातात् । बाह्यद्वैतनिवारणमन्तरा मोक्षहेतु भूताद्वितीयब्रह्मज्ञानं नोदेतीति बाह्यं न वारयितुमीश्महे" (४.३७) इति साहसेन प्रतिज्ञायत इत्याशंकां परिहरति, अनिवृत्तइति ।

अनिवृत्तेऽपीशसृष्टे दैते तस्य मृषात्मताम् ।
बुद्ध्वा ब्रह्माद्वयं बोद्धुं शक्यं वस्त्वैक्यवादिनः ॥ ४०॥

 ईशसृष्टे मायाप्रतिबिंबितेश्वरकल्पिते नामरूपात्मके द्वैने प्रपंचेऽनिवृत्तेऽपि तस्य जगतो मृषात्मतां मिथ्यास्वरूयतां बुद्ध्वा ज्ञात्वा वस्त्वैक्यवादिनः सत्पदार्थ- स्यैकत्वमंगीकुर्वतोऽद्वयं ब्रह्म बोद्धुं शक्यं भवति ॥ ४० ॥

 ननु द्वैतमृषात्मज्ञानं नाद्वैतज्ञानप्रयोजकं, अपि तु तन्निवारणमेवेत्यभिनिविष्टं प्रत्याह, प्रलय इति ।

प्रलये तन्निवृत्तौ तु गुरुशास्त्राद्यभावतः।
विरोधिद्वैतभावेपि न शक्यं बोद्धुमद्वयम् ॥ ४१ ॥

११४
[द्वैतविवेक
पञ्चदशी

 प्रलये कल्पान्ते यत्र सर्वा द्वैतः प्रपंचो ब्रह्मणि विलीयते तन्निवृत्तौ तस्य द्वैतस्य विलये सति तदानीं विरोधिद्वैताभावेऽपि गुरुशास्त्राद्यभावतोऽद्वयं बोद्धुं न शक्यम् । श्रवणाद्यवकाशाभावात् "सर्वं खल्विदं ब्रह्मेतेि” ज्ञानोत्पत्तेरनवकाशः अतः प्रपंचो नाद्वयज्ञानप्रतिबंधकः, अपि तु तत्सत्यत्वज्ञानं । तस्मिन् प्रतिबंधके मृषात्वज्ञानेनापनोदिते प्रतिबंधकाभावात् प्रपंचस्य सत्वेऽप्यद्वितीयब्रह्मज्ञानं सुसाधमिति भावः ॥ ११ ॥

 ऐश्वरं द्वैतं न निवारयाम इति कोऽसौ निर्बंधः ? अस्माकमिव भवतोऽपि द्वेष आदासीन्यं वास्त्वित्याशंकां समाधत्ते, अबाधकमिति ।

अबाधकं साधकं च द्वैतमीश्वरनिर्मितम् ।
अपनेतुमशक्यं चेत्यास्तां तद्द्विष्यते कुतः ॥ ४२ ॥

 ईश्वरनिर्मितं द्वैतमद्वैतज्ञानं प्रत्यबाधकं न प्रतिबंधकं । अतो न द्वेषः कार्यः।तर्ह्यौदासीन्यमस्त्वित्यत आह, साधकमिति । ईश्वरसृष्टद्वैताभावे गुरुशास्त्रा- देरभावप्रसंगेन तदुपदेशासंभवात् ब्रह्मज्ञानं नोदीयादेव । अतो ब्रह्मज्ञानोपाय- भूतगुरुशास्त्रादिसंपादकत्वेन साधकं च । नातस्तत्रौदासीन्यमपि । किं च तदपनयनप्रयत्नो निष्प्रयोजन एवेत्याशयेनाह, अपनेतुमिति । अपि चापनेतुमश- क्यमनिवार्यम् । भवता धाष्टर्येन द्वेषे क्रियमाणेऽपि न तेन किमपि साध्यम् ।। अतो निष्प्रयोजनो द्वेषो न कार्य इति सुहृद्भूत्वा वक्ति । आस्तां प्रपंचोऽस्तु नाम । कुतः तत् द्विष्यते ? अनिवार्ये वस्तुनि निष्प्रयोजनो द्वेषो भवता किमिति क्रियत इति भावः ॥ ४२ ॥

जीवद्वैतस्य द्विप्रकारकत्वविचारः ।

 यद्यपि जीवसृष्टिर्भावसत्वेन मनोनिरोधेन सद्य एव वारयितुं शक्या तथाऽपि ब्रह्मज्ञानसाधकतयांऽशत उपादेयेत्याशयेन तद्विभागपूर्वकमुपादेयांशं दुर्शयति, जीवेति ।

जीवद्वैतं तु शास्त्रीयमशास्त्रीयमिति द्विधा ।
उपाददीत शास्त्रीयमातत्त्वस्यावबोधनात् ॥ ४३ ॥

प्रकरणम् ।]
११५
कल्याणपीयूषव्याख्यासमेता

 जविद्वैतं जीवसृष्टं मानसिकं द्वैतं शास्त्रीयं ब्रह्मज्ञानोपकारकत्वेन शास्त्रबोधितम्। अशास्त्रीयं तद्भिन्नम् । तच्च निषिद्धम् । इति द्विधा । उपादानकालाबधिमाह, आतत्वस्येति । शास्त्रीयं द्वैतं तत्त्वस्य परब्रह्मणः आ अवबोधनात् अव- गतिपर्यन्तमुपाददीत स्वीक्रियेत ॥ ४३ ॥

 ब्रह्मवबोधनसाधकं शास्त्रीयं द्वैतं विवृणोति, आत्मेति ।

आत्मब्रह्मविचाराख्यं शास्त्रीयं मानसं जगत् ।
बुद्धे तत्त्वे तच्च हेयमिति श्रुत्यनुशासनम् ॥ ४४ ॥

 आत्मब्रह्मविचाराख्यं प्रत्यगात्मपरब्रह्मणोः स्वरूपविचारः श्रवणादिरूपं तदाख्यं शास्त्रीयं शास्त्रसम्मतं मानसं जगत् । उपादानकालावधि प्रमाणयति । बुद्धे इति । तत्त्वे प्रत्यग्ब्रह्मैक्ये बुद्धे ज्ञाते सति, तच्च शास्त्रीयं द्वैतमपि हेयमिति श्रुत्यनुशासनम् श्रुतीनां राज्ञामिवानुल्लंघनीयाज्ञात्वात् । “ नन्वासुप्तेरामृतेः कालं नयेद्वेदान्तचिन्त"येति वाक्येन मानसिकं द्वैतमामरणमहेयमिति चेन्न । अस्य वाक्य- स्यानुत्वन्नज्ञानविषयत्वात् । अत एवोक्तं बुद्धे तत्वे इति । तावत्पर्यन्तं तस्योपादेयतां श्रुतिरप्यङ्गीकरोतीति भावः ॥ ४४ ॥

 तत्वावबोधोत्तरं माननस्य हेयत्वप्रतिपादिकां क्रमशो अमृतनाद ब्रह्मबिन्दु-१८ । बृ. ४. ४. २१. मुंडक २. २. ५.श्रुतीरुदाहरति शास्त्राणीति।

शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः।
परमं ब्रह्म विज्ञाय उल्कावत्तान्यधोत्सृजेत् ॥ ४५ ॥
ग्रन्थमभ्यस्य मेधाबी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थीं त्यजेत् ग्रन्थमशेषतः ॥ ४६ ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायेदूहून् शब्दान् वाचो विग्लापनं हि तत् ॥ ४७॥

११६
[द्वैतविवेक
पञ्चदशी

तमेवैकं विजानीथ ह्यन्या वाचो विमुंचथ
यच्छेद्वाङ्मनसी प्राज्ञः इत्याधाः श्रुतयः स्फुटाः ॥ ४८॥

 मेधावी बुद्धिमान् शास्त्राणि वेदान्तशास्त्राणि अभ्यस्य गुरुसन्निधौ संप्रदायसिद्धं श्रवणं कृत्वा पुनः पुनः दृढज्ञानोत्पादनपर्यन्तमभ्यस्य मननं कृत्वा परमं ब्रह्म विज्ञाय निधिध्यासनेन साक्षात्कृत्य अध तदनन्तरं तानि शास्त्राण्यन्न- पचनान्तरमुल्कावदर्धदर्ग्धेधनमिवोत्सृजेत् विसर्जयेत् ।। ४५ ।।

 यथा धान्यार्थी तत्संग्रहानन्तरं पळालमिव तुषमिव ज्ञानविज्ञानतत्परः ज्ञानं शास्त्रजन्यं ज्ञानं विज्ञानमनुभवजन्यं ज्ञानं तत्परं ग्रन्थं वेदान्तशास्त्रमभ्यस्य तदनन्तरं ग्रंथमशेषतस्त्यजेत् ॥ ४६ ॥

 ब्राह्मणः ब्रह्मणोऽयं ब्रह्मणि निरतो मुमुक्षुस्तं प्रत्यगात्मानं विज्ञाय विस्तरेण ज्ञात्वा प्रज्ञां चित्तैकाग्र्यम् कुर्वीत संपादयेत् । बहून् शब्दानन्यानप्युपनिषद्भागान् महावाक्योपपादकान् नानुध्यायेत्। तद्ध्यानं वाचो वागिंद्रियस्य विग्लापनं श्रमहेतुः । हि निश्चयार्थे ॥ ४७ ॥

 एकमद्वितीयं तमौपनिषदं पुरुषं विजानीथ अवेत । अन्या अतद्विषयिका वाचो महावाक्योपपादकानन्यानप्युपनिषद्भागान् विमुंचथ । “ तमेवैकं जानथ आत्मानमन्या वाचो विमुंचथ" (मुं.२.२.५.) इति श्रुतेः । एवंजातीयकाः श्रुतयो बह्वयः संतीत्याह । यच्छेदिति । इत्याद्या एवं प्रकारकाः श्रुतयः स्फुटाः "स्पष्टं वर्तन्ते । श्रुत्यर्थस्तु । प्राज्ञो वाक् तदुपलक्षितानींद्रियाणि मनसि यच्छेत्।। छांदसोऽत्र दीर्घ:। तन्मनो ज्ञान आत्मनि ज्ञानरूपे यच्छेत् विलापयेत् । वाङ्मनसि दर्शनाच्छब्दादिभ्य इत्यप्यत्र विवक्षितम् ॥ ४८ ॥

 अत्रेदं बोध्यम् । एतैः श्लोकैर्नैष्कर्म्यसिद्धिहेतुभूतः सर्वकर्मसंन्यासोऽभिहितो भवति । ननु सर्वकर्मसन्यासः शास्त्रानभिमत एव । कर्मणोऽपि शास्त्रचोदितत्वात् । "अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतत्वमश्नुते” (ईश.११) इति विद्याऽविधयोर्मोक्षोपकारकत्वस्य श्रुतवान् । “कुर्वन्नेवेह कर्माणि जिजेविषेच्छतंगसमाः” "यावज्जीवमग्निहोत्रं जुहोति” “तं यज्ञपात्रैर्दहन्ति" इत्याद्यनेकैर्मन्त्र

प्रकरणम् ।]
११७
कल्याणपीयूषव्याख्यासमेता

वर्णैरादेहपातं नियतकर्तव्यतया कर्म विधीयत इति चेन्न । तस्याविद्याविषयत्वात् । गृहस्थाश्रमप्राप्तं सर्वं पांक्तादिलक्षणं कर्म । “जाया मे स्यादथ प्रजायेय.... एतवान् वै कामः” (बृ- १. ४. १७) इति जायापुत्रवित्तादिंसाध्यसाधननिबद्धो रामप्राप्तो गृहस्थाश्रमः । एवं सर्वं पांक्तं कर्म काम्यमेव । तथा च श्रुतिः । “उभे ह्यैते एषणे एव ” (बृ. ४. ४. २२)। एषणा च रागतः प्राप्ता। रागस्त्व- ज्ञानमूलकः । आप्तकामस्य ज्ञानिनोऽविद्याया अनुपपत्तेः । अन्यथा शास्त्रस्य विरुद्धार्थबोधकत्वापत्तिः स्यात् । विद्याविद्ययोर्युगपदेकस्यैव पुरुषस्याविषयत्वाच्च । “दूरमेते विपरीते विषूचो अविद्या या च विधे” (कठ.१.२.४.) त्यादिश्रुति- भिर्विद्याविद्ययोर्युगपदेकत्रानवस्थानमेवाभिधीयते । "तपसा ब्रह्म विजिज्ञासस्वे " (तै. ३.२) ति ब्रह्मज्ञानावाप्तये श्रवणाद्यात्मकं तपः साधनं कर्मेतरं मार्गमुपदिष्टं च । एवं कर्मणो ज्ञानस्य प्रतिबंधकत्वं च सूच्यते । तर्हि चोदनाशास्त्रम् सर्वं निरर्थकमेव स्यादिति चेन्न । न हि कमपि नियुङ्क्ते शास्त्रं प्रवृत्तिं प्रति । कि तु सहजरागप्राप्तां तामनुसरतोऽविदुषः प्रयोजनाय विधिनिषेधवाक्यैर्व्यवस्थां कल्पयति निरर्थकमेव भवतु नाम विदुषः सर्वं चोदनाशास्त्रम् । न तथा भवत्याध्यात्मिकमौपनिषदं शास्त्रम् । बाढम् तदपि त्याज्यमेवः अवगततत्वार्थस्य तस्य वैयर्थ्यात् । निस्संशयज्ञानोत्पादनावधानि गुरुशास्त्रादीनि । किं तैस्साक्षात्कृतात्मतत्त्वस्य ? अतिक्रान्ततमस्कस्य किं दीपेनेति ॥ ४८ ॥

 ननु शास्त्रीयद्वैतस्य तत्वबोधपर्यन्तमुपादेयत्वोक्त्याऽन्यस्य ततः पूर्वमेव हेयतोक्तप्राया। किंमित्येवंव्यवस्थया ? तस्यापि तावत्पर्यन्तमुपादानमवोस्तु बाधकाभावात्, इत्याशंकां मनसि निधाय पूर्वमेव हेयत्वावश्यकतां दर्शयितुं प्रथममशास्त्रीयं विभजति ।

अशास्त्रीयमपि द्वैतं तीव्रं मंदमिति द्विथा ।
कामक्रोधादिकं तीव्रं मनोराज्यं तथेतरत् ॥ ४९॥

 स्पष्टोऽर्थ : ॥ ४९ ॥

 तयोः प्राग्घेयत्वावश्यकतां दर्शयति, उभयमिति ।

११८
[द्वैतविवेक
पञ्चदशी

उभयं तत्त्वबोधात् प्राङ्निवार्यं बोधसिद्धये ।
शमः समाहितत्वं च साधनेषु श्रुतं यतः ॥ ५० ॥

 स्पष्टः पूर्वार्धः। तत्र कारणमाह । यतः शमः बाह्येन्द्रियनिग्रहः समाहितत्वं च चित्तैकाग्र्यम् च तत्त्वज्ञानस्य साधनेषु श्रुतम् । “शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽत्मन्येवात्मानं पश्येदि" (बृ.४. ४.२३.) ति श्रुतेः । साधनचतुष्टयसंपत्यनन्तरमेव ब्रह्मजिज्ञासा कर्तव्या । “अथाऽतो ब्रह्मजिज्ञासे “ (सु. १.१.१) ति सूत्रबलात् । नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमादिसंपत्तिः, मुमुक्षुतेति साधनचतुष्टयम् । एवं ब्रह्मजिज्ञासायाः प्रागेवावश्यकं संपादयितव्ये शमादिषट्के, एकदेशभूतयोः शमसमाध्योर्विरोधिभूतमशास्त्रीयं द्वैतं शमादितः पूर्वं हेयम् । तत्सत्वे शमादेरनुदयात्। एवं च ब्रह्मबोधपर्यन्तमशास्त्रीयद्वैतस्यीपादानं न संभवतीति प्रागेव हेयत्वमुक्तम् ॥ ५० ॥

 साधनचतुष्टयसंपत्तयेऽशास्त्रीयद्वैतस्य बोधात् पूर्वं हेयत्वप्रतिपादनेऽपि बोधोत्तरं हेयत्वं न प्रतिपादितं स्यात् । अतस्तदानीं तदुपादेयतायां भ्रमः स्यादिति । तन्निवारणाय तदाऽपि हेयत्वं प्रतिपादयति, बोधेति ।

बोधादूर्ध्वं च तद्धेयं जीवन्मुक्तिप्रसिद्धये ।
कामादिक्लेशबंधेन युक्तस्य न हि मुक्तता ॥ ५१ ॥

 बोधादूर्ध्वं तत्त्वज्ञानोत्पत्त्यनन्तरमपि जीवन्मुक्तिप्रसिद्धये जीवन्मुक्तेः प्रकर्षेण सिद्धये तदशास्त्रोयं द्वैतं हेयमेव । तत्रोपपत्तिमाह, कामेति । कामादि क्लेशबंधेन कामादय एव क्लेशाः तद्रूपो यो बंधः तेन युक्तस्य मुक्तता न संभवति ॥ ५१ ॥

 ननु जीवन्मुक्तिः किमित्यभ्युपेया ? यत्प्रसिद्धये बोधादूर्ध्वमशास्त्रीयद्वैतस्य हेयत्वं प्रतिपाद्यते । पुरुषस्य जन्मराहित्येन कृतार्थतासंभवाद्विदेहमुक्त्यै-

बालमित्याशंक्य प्रतिबम्द्या समाधत्ते, जीवन्मुक्तिरिति ।

प्रकरणम् ।]
११९
कल्याणपीयूषव्याख्यासमेता

जीवन्मुक्तिरियं माभूज्जन्माभावे त्वहं कृती।
तर्हि जन्माऽपि तेऽस्त्वेव स्वर्गमात्रात्कृती भवान् ॥ ५२ ॥

 इयं सर्वकामोन्मूलननिमित्ता जीवन्मुक्तिरस्माकं माभूत् । अहं तु जन्माभावे कृती कृतकृत्यः । विदेहमुक्त्यैवालमिति वदन्तमैहिकभोगभंगभिया विदेहकैवल्यावाप्तिव्याजेन जीवन्मुक्तिमपलपन्तं पूर्वपक्षिणं प्रतिबंद्या समाधत्ते । यद्वैहिकत्यागभयाज्जीवन्मुक्तिं त्यजसि तर्हि ते जन्माऽप्यस्तु पुनर्जन्मापि त्वयाङ्गीकार्यं स्यात् । तदभावे ह्यामुष्मिकभोगत्यागभयस्यापरिहार्यतया स्वर्गादिमात्राद्भवान् कृतीति मत्वा विदेहमुक्तिमपि त्यजत्वित्याह, स्वर्गेति । भवान् स्वर्गमात्रात् स्वर्गसुखानुभवमात्रेण कृती भवतु । कामोपस्थापितकर्माचरणफलभूतं स्वर्गमवाप्य यावत्कालमुषित्वा फलभोगानन्तरं पुनः कर्मशेषफलभोगाय जन्मस्वीकरोतीति तावन्मात्रत्वेन कृतकृत्यो भवति । रागस्यानिवृत्तत्वान्न तस्य निःश्रेयसावाप्तिरिति भावः । "ब्रह्मलोकाभिवाञ्छायां सम्यक्सत्यां निरुध्यताम् । विचारयेद्य आत्मानं न तु साक्षात्करोत्यय ” (९.५१.) मित्यन्यत्रोक्तम् ॥ ५२ ॥

 तव प्रतिबंदी न युक्तेति पूर्वपक्षी शंकते, क्षयेति ।

क्षयातिशयदोषेण स्वर्गो हेयो यदा तदा ।
स्वयं दोषतमात्माऽयं कामादिः किं न हीयते ॥५३ ॥

 अभ्युदयानन्दहेतुः स्वर्गोऽपि क्षयातिशयदोषेण नाशस्य तारतम्यदोषेण हेयः त्याज्यः ; अतः स्वर्गमात्रात् कृतार्थता न । सिद्धान्तो तां शंकामपि प्रतिबन्द्यैवोत्तरयति, यदेति स्वर्गस्य हेयतया न तेन कृतित्वमिति यदाभ्युपेयते तदा दोषतमात्मा सकलपुरुषार्थविध्वंसकत्वेनात्यन्तदोषस्वरूपः कामादिः किं न हीयते ? अत्यन्तहेयमेवेतिभावः। कामकर्मफलभूतस्य स्वर्गसुखस्य क्षयित्वेन हेयत्वेनाङ्गीकारे तत्कारणभूतस्य कामादेरपि क्षयित्वात्स्वयं सकलपुरुषार्थविघातुक त्वेनातिदुष्टस्वरूपत्वादयं कामादिः किं न हीयते ? उभयोरपि क्षयित्वाविशेषेण स्वर्गवत्कामादिरपि हेयः । सकलषुरुषार्थविघातुकत्वरूपदोषान्तरसद्भावत्सुतरां

त्याज्य इति तात्पर्यम् ॥ ५३ ॥

१२०
[द्वैतविवेक
पञ्चदशी

 ननु निष्कामकर्माचरणेन शुद्धचित्तस्यैव जिज्ञासोदयात् परंपरया निःश्रे- यससाधनचित्तशुद्धिसंपादनार्थमामुष्मिकफलकामना सर्वथा त्याज्या । एवं च तत्र वैराग्यमेव परंपरया निःश्रेयससाधनतया तस्यैव हेयत्वमंगीकार्यम् । ऐहिकफलकामनायाः परंपरानिःश्रेयससाधनामुष्मिकवैराग्याविरोधित्वात्तत्कामना किमिति त्याज्या ? साधनचतुष्टयान्तर्गतं वैराग्यममुत्र फलभोगविराग एव । नैहिकफलभोगविरागः, तस्योक्तकारणपरंपरानन्तःपातित्वात् । इत्याशं- क्यैहिकफलभोगविरागस्यापि साधनचतुष्टयान्तःपातित्वं प्रतिबन्धकाभावविध येत्याशयेंनाह, तत्त्वमिति ।

तत्त्वं बुद्ध्वापि कामादीन्निःशेषं न जहासि चेत् ।
यथेष्टाचरणं ते स्यात् कर्मशास्त्रातिलंधिनः ॥ ५४ ॥

 तत्त्वं बुद्ध्वापि कामादीन् निश्शेषं न जहासि चेत् ऐहिकफलकामनां निःशेषं न त्यजसि चेत्, कर्मशास्त्रातिलंघिनः कर्म अधिकृत्य कृतं यच्छास्त्रं तस्य मर्यादामतिक्रम्योत्यत इति हेतुगर्भविशेषणं, ते यथेष्टाचरणमैहिकभोगप्रयोजक निषिद्धकर्माचरणमपि स्यात् प्रसज्येत । एवं च तस्फलभृतपापेन साक्षात्कारः प्रतिबद्ध एव स्यात् । अत एव वक्ष्यति वैराग्यस्य परिपाकाभावो बोधे सत्यपि तस्य पूर्णतां न संपादयतीति । पूर्णबोधस्यैव मोक्षहेतुत्वमिति । वैराग्यतारतम्य- मस्तीति च । तत्र कर्मशास्त्रातिलांघेन इत्युक्तया तत्त्वं बुद्ध्वापीत्यत्रोपात्तो बोधो वस्तुतो न बोधः । किं तु बुद्धत्वाभिमान एव। यथेष्टाचरणापादनमपि कामा- द्यधीनाचरणापादनपरमेव ; न तु निष्कामाचरणपरं । अत एव ब्रह्मसाक्षात्कारवत: कर्मशास्त्रानपेक्षमुक्तम् । अन्यत्र “निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेध" इति सूचितम् । अनेन तस्य विधिनिषेघापेक्षत्वमुक्तं ; न तु तदुल्लंघनम् । एवं सति तत्त्वबोधानन्तरं गृहस्थाश्रमः समग्रतस्त्याज्य एव भवतिं ; ज्ञानकर्मणोरत्यन्तविरोधात्। शरीरधारणार्थं भिक्षाटनादेर्नियमेन तुरीयाश्रमिणोऽपि विहितत्वात्तस्यापि नियमाभावाभाव एव। भिक्षाटनादेः कायक्लेशपरिभवाद्यनिष्टहेतोरेषणात्रय- परित्यागानन्तरमपि वरं स्वगृह एव निवासः इति चेन्न; तस्य काम- प्रयुक्तत्वात् । शरीरधारणमात्रभिच्छतोऽपि स्वगृहनिवासः कामप्रयुक्त एव ।

स्वगृहाभिमानदूषितश्च । स्त्रीविशेषविशिष्टमेव गृहमित्येषणात्रयपरिस्याग: स्वगृह

प्रकरणम् ।]
१२१
कल्याणपीयूषव्याख्यासमेता

निवासश्चेति परस्परं विरुद्ध्येत । अशनाच्छादनेच्छामात्रस्यापि कामप्रयुक्तत्वात् सभ्यक् ज्ञानप्रतिबंधकमेव स भवति ॥ ५४ ॥

 ननु तत्वविदो यथेष्टाचरणं यद्यनुमन्यते तथैवैहिकफलकामनाप्यनुमता स्यादिति नैषाऽपादनयोग्या । भवतोऽप्यभिमतत्वादित्याशंक्य तत्र सुरेश्वराचा- र्यवचनमाचष्टे, बुद्धेति ।

बुद्धाद्वैतस्वतत्त्वस्य यथेष्टाचरणं यदि ।
शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ ५५ ॥

 बुद्धाद्वैतस्वतत्त्वस्य बुद्धमद्वैतस्य स्वतत्त्वं निजस्वरूपं येन तस्य यथेष्टाचरणं स्वेच्छावृत्तिर्यद्यङ्गीक्रियते तदा शुनां कुक्कुराणां तत्त्वदृशां ज्ञानिनां चाशुचिभक्षणे को भेदः न कोऽपि । “आचारहीनं न पुनन्ति वेदा" इति भावः ॥ ५५ ॥

 विशेषाभावे इष्टापत्तिरिति वदन्तं प्रति सोपहासमुत्तरमाह, बोधादिति ।

बोधात्पुरा मनोदोषमात्रात्क्लिश्यस्यथाधुना।
अशेषलोकनिंदा चेत्यहो ते बोधवैभवम् ॥ ५६ ॥

 बोधात्पुरा तवाभिमतज्ञानोत्पत्तेः पूर्वं मनोदोषमात्रात् मनसः कामक्रोधादयो ये दोषास्त मात्रेणैव हेतुना क्लिश्यसि । अधुना तादृशज्ञानोत्पत्यनन्तर मशेषलोकनिंदा यथेष्टाचरणप्रयुक्ता सर्वलोकैः क्रियमाणा निंदा तत्प्रयुक्तः क्लेश इति यावत् । एवं क्लेशद्वैगुण्यं तवापततीत्यहो ते बोधवैभवं तव विलक्षणज्ञानशोभा। अहो इत्यनेनाश्चर्यकरमिति द्योतनादुपहासः प्रतीयते । यदि तत्वतस्तत्त्वज्ञानी स्यात् कामादिभ्यो यथा न क्लिश्नाति तथा लोकनिंदाया अपि न क्लिश्नाति तत्त्वज्ञानाभिमानी तु लोकनिंदाया इव कामादिभ्यः क्लिश्नाति । ।

अयमेव विशेषः तत्वज्ञानैहिककामनावतोर्यथेष्टाचरणे ॥ ५६ ॥

१२२
[द्वैतविवेक
पञ्चदशी

 एवं कृत्वोपहासं सुहृद्भूत्वोपदिशति, विदिति ।

विड्वराहादितुल्यत्वं मा कांक्षीस्तत्त्वविद्भवान् ।
सर्वधीदोषसंत्यागाल्लोकैः पूज्यश्च देववत् ॥ । ५७ ॥ ।

 भवान् तत्ववित् । तत्वतो यदि ज्ञानी स्यात् विड्वराहादितुल्यत्वं ग्रामसूकरादिजन्तुसमतां मा कांक्षीः सर्वधीदोषसंत्यागात् कामक्रोधाद्यशेषबुद्धि- दोषपरित्यागाल्लोकैर्देववत् पूज्यश्च भव । लोकपूज्यतामाप्नुहि । कामादिधीदोषपरिस्त्यागेनैव तत्त्वविदो लोके पूज्यता। तदत्यागे तु वस्तुतस्तत्त्वज्ञानित्वाभावेन विड्वराहादिभिस्समं लोकगर्ह्यत्वमेव स्यात् । अतो ह्यैहिककामादीनामपि हेयतावश्यमभ्युपेया। अन्यथा लोकनिंदास्पदतैव भवतीति तात्पर्यम् । एतेनैहिककामादीनामपि हेयत्वमावश्यकमिति सुप्रतिपादितम् ॥ ५७ ॥

 ऐहिककामा अपि त्याज्या इत्युक्तम् । तत्त्यागोऽशक्य इत्याशंकामुपाय प्रदर्शनेन परिहरति, काम्यादीति ।

काम्यादिदोषदृष्टयाद्या: कामादित्यागहेतवः।
प्रसिद्धा मोक्षशास्त्रेषु तानन्विष्य सुखी भव ॥ ५८ ॥

 काम्यादिदोषदृष्ट्याद्याः काम्यानि कामनाविषयानीष्टानि स्रक्चंदनादीनि; आदिशब्देन द्वेष्यान्यनिष्टानि शत्र्वादीनि गृह्यन्ते । इष्टान्यनिष्टानि चेत्यर्थः; तेषु मनःक्लेशकारितया क्षयित्वादिजीवबंधहेतुत्वरूपो यो दोषो विद्यते तस्य दृष्टिः परिज्ञानम् । आदिशब्देन दोषदर्शनान्तरं तत्परिहाराय कर्तव्ययत्नवैविध्यादिकं सूचितम् । ते कामादित्यागहेतवः कामादीनां त्यागे कारणानि; इत्ययमंशो न स्वकपोलकल्पित इत्याशयेने श्रुतिसम्मतं तेषां त्यागहेतुत्वमित्याह, प्रसिद्धा इति । उपनिषदादिषु मोक्षशास्त्रेषु प्रसिद्धाः । अतस्तान् दोषान् प्रयत्नादन्विष्य सविमर्शं परीक्ष्य सुखी भव। तद्वारा तत्यागेन सुखी भव मोक्षानन्दमाप्नुहि ॥ ५८ ॥

 ननु बाह्यविषयिकाः कामादयः परिह्रियन्ताम् । मनोभावरूपाणामपि तेषां त्यागाभावे का क्षतिरित्याशंक्याह, त्यज्यतामिति ।

त्यज्यतामेष कामादिर्मनोराज्ये तु का क्षतिः।
अशेषदोषबीजत्वात् क्षतिर्भगवतेरिता ॥ ५९॥

प्रकरणम् ।]
१२३
कल्याणपीयूषव्याख्यासमेता

 मनोराज्ये यथेष्टं मनसि विषयध्यानेन क्षतिः हानिः अशेषदोपबीजत्वात् सर्वेषां कामादिदोषाणामुत्पत्ते:कारणम् । स्पष्टमन्यत् ॥ ५९ ॥

मनोराज्यपरित्यागप्रशंसा

 उक्तप्रकारं भगवद्वाक्यप्रदर्शनेन विशदयति, ध्यायत इति ।

ध्यायतो विषयान् पुंसः संगस्तेषूपजायते ।
संगात्संजायते कामः कामात्क्रोधोऽभिजायते ॥ ६० ॥

 (गी-२-६२.) विषयान् स्रगादीन् ध्यायतो मनसि भावयतः पुंसः तेषु संग आसक्तिरुपजायते। संगात् कामस्तृष्णा संजायते । विफलीकृतात् कामात् क्रोधः कोपोऽभिजायते संपद्यते । दिक्प्रदर्शनमात्रमेतत् । तत्रोक्ता प्रणाळी सर्वाप्यत्रानु संधेया ॥ ६० ॥

 कामादिपरित्यागः काम्यादिदोषदृष्टथादिहेतुद्वारा सुशकः। मनोराज्य परिहारस्तु दुःशक एवेत्याशंक्य तस्यापि हेतुप्रदर्शनेन सुशकत्वं प्रतिपादयति शक्यमिति ।

शक्यं जेतुं मनोराज्यं निर्विकल्पसमाधितः।
सुसंपादः क्रमात्सोपि सविकल्पसमाधिना ॥ ६१ ॥

 निर्विकल्पसमाधितो निर्विकल्पे विषयिणि परे ब्रह्मणि चित्तैकाग्रथम् । तदाकारा चित्तवृत्तिः। ततो दोषबोजकारणं मनोराज्यं जेतुं शक्यं । तस्य । दुःशकत्वमाशंक्य तदुपायप्रदर्शनेन सुशकत्वं प्रदर्शयति, सुसंपादेति । सोऽपि निर्विकल्पसमाधिः सविकल्पसमाधिना सगुणध्यानेनाभ्यासक्रमात् सुसंपादः सुसाधः ॥ ६१ ॥

 ननु योगयुक्तस्य भवदुक्तप्रणाळ्युपयुज्यते । योगविरहितस्य का गतिरि त्याशंक्य तस्यापि मनोराज्यत्यागदिशमुपदिशति, बुद्धेति ।

बुद्धतत्त्वेन धीदोषशून्येनैकान्तवासिना । ।
दीर्घं प्रणवमुच्चार्य मनोराज्यं विजीयते ॥ ६२ ॥

१२४
[द्वैतविवेक
पञ्चदशी

 बुद्धतत्त्वेनावगतब्रह्मात्मैक्यभावेन धीदोषशून्येन कामक्रोधादिधीदोषशून्येन निर्मलमनस्केन एकान्तवासिना एक एव अन्तः सीमा यस्य तस्मिन् वसतीति तथाभूतः तेन विजनप्रदेशनिवासशीलेन दीर्घ कालं प्रणवं प्रकर्षेण नूयते परं ब्रह्मानेनेति प्रणवः ओंकारः तमुच्चार्य जप्त्वा मनोराज्यं विजीयते ॥ ६२ ॥

 एवं मनोराज्यविजयफलमाह, जित इति ।

जिते तस्मिन् वृत्तिशून्यं मनस्तिष्ठति मूकवत् ।
एतत्पदं वसिष्ठेन रामाय बहुधेरितम् ॥ ६३ ॥

 मूकवद् वृत्तिशून्यं सर्वव्यापारविरहितं मनः तिष्ठति । तदानीं विषयाभावात् तदाकाराकारिता वृत्तयो नोत्पद्यन्ते । वसिष्ठः मुनीनां वरिष्ठ, स्पष्टमन्यत् ॥ ६३ ॥

 तदुपदेशप्रकारमाह, दृश्यमिति ।

दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः॥ ६४ ॥

 दृश्यं परिदृश्यमानमिदं जगन्नास्ति सत्यस्वेन न विद्यते मिथ्येति बोधेन ज्ञानेन, यथा गृहात् सर्वस्योच्छिष्टस्य सम्मार्जन्याऽपाकरणं तथैव मनसो दृश्य मार्जनं दृश्यस्यापाकरणं संपन्नं चेत्, तत् तदा परा उत्कृष्टा निर्वाणनिर्वृतिः निर्वाणं मोक्षः स एव निर्वृतिरानन्द उत्पन्ना निष्पन्ना भवति । “ नेह नानास्ति किचनेति ” (कठ. २. ४. ११.) श्रुत्या जगतो निष्कासनेऽवशिष्ट: परब्रह्मानन्द एवानुभूयत इति भावः ॥ ६४ ॥

 निरतिशयानन्दस्योत्तमपदत्वेन मानसिकमौनं प्रस्तौति , विचारितमिति।

विचारितमलं शाखं चिरमुग्राहितं मिथः।
संत्यक्तवासनान्मौनादृते नास्त्युत्तमं परम् ॥ ६५ ॥

 विचारितं अलमिति च्छेदः। सर्वमाध्यात्मिकं शास्त्रं अलं साकल्येन

विचारितम् । विचारितार्थं गुरुशिष्ययोर्मिथः चिरं कालं संवादद्धरोद्ग्राहितं ।

प्रकरणम् ।]
१२५
कल्याणपीयूषव्याख्यासमेता

मननपूर्वकं बुद्धौ सम्यगवधारितम् । तस्येदं पर्यवसितम् । संत्यक्तवासनात् सम्यक् परित्यक्तकामादिसंस्कारान्मौनादृतें मनसस्तूष्णींभावाद्विनोत्तममधिकं पुरुषार्थसाधनं पदं स्थानमन्यन्नास्तोति ॥ ६५ ॥

 एवं संपादितस्य मौनस्यारब्धकर्मणा विक्षेपे सति प्रतीकारमाह, विक्षिप्यत इति ।

विक्षिप्यते कदाचिद्धी: कर्मणा भोगदायिना ।
पुनः समाहिता सा स्यात्तथैवाभ्यासपाटवात् ॥ ६६ ॥

 भोगदायिना भोगस्यावश्यंजनयित्रा प्रारब्धेन कर्मणा । अभ्यासपाटवादनुक्षणमेव सविकल्पसमाधेरभ्यासदाढर्यात् स्पष्टमन्यत् ॥ ६६ ॥

 सर्वधा विक्षेपरहितः केवलब्रह्मैव भवतीत्याह, विक्षेप इति ।

विक्षेपो यस्य नास्त्यस्य ब्रह्मवित्त्वं न मन्यते ।
ब्रह्मैवायमिति प्राहुर्मुनयः पारदर्शिनः ॥ ६७ ॥

 यस्य चित्तस्य विक्षोपो नास्ति अस्य ज्ञानिनो ब्रह्मवित्त्वं न मन्यते वास्तविकं ब्रह्मज्ञानित्वं नाभ्युपेयते । किं त्वौपचारिकमेव। किं नानुमन्यत इत्याशंम्क्याह, ब्रह्मेति ? अयं ज्ञानी ब्रह्मैव ब्रहैवाहमस्मीति महावाक्यस्य लक्ष्य एव भवतीति पारदर्शिनः वेदान्तकोविदो मुनयो मननशीला: प्राहुः। तस्य ब्रह्म- भावादद्वैतस्वरूपत्वेन ब्रह्मविदिति भेदावगाहिव्यवहाराविषयत्वाद्ब्रह्मवित्वं तत्रौप- चारिकमित्यर्थः॥६७॥

 अत्र वासिष्टमुदाहरति, दर्शनेति ।

दर्शनादर्शने हित्वा खयं केवलरूपतः ।
यस्तिष्ठति स तु ब्रह्मन् ! ब्रह्म न ब्रह्मवित्स्वयम् ॥ ६८ ॥

 हे ब्रह्मन् दर्शनादर्शने दर्शनं ज्ञानं अदर्शनमज्ञानं च द्वे हित्वाऽपनुद्य

ब्रह्माहं जानामि नाहं जानामित्याकारकव्यवहारद्वयं हित्वा । स्वयं केवलरूपतः

१२६
[द्वैतविवेक
पञ्चदशी

अद्वितीयज्ञानरूपेण यस्तिष्ठति स ब्रह्मैव । न तु ब्रह्मवित्। जानामीति व्यव- हारस्य ज्ञातृज्ञानज्ञेयभावसापेक्षत्वेन तद्व्यवहारत्यागस्य ज्ञातृज्ञेयभावपरित्यागपूर्वकतया तदानीं ज्ञातृज्ञेयभावयोर्नष्टत्वेन तत्सापेक्षो ब्रह्मविदिति व्यवहारो न स्वारसिक उपपद्यते । तथा चाह श्रुतिः “परमं ब्रह्म वेद ब्रह्मैव भवती"ति (मुं. ३.२.९) ॥६८॥

 ईश्वरद्वैताज्जीवद्वैतविवेचनम्य फलं प्रदर्शयन् प्रकरणमुपसंहरति, जीवन्निति ।

जीवन्मुक्तेः पराकाष्ठा जीवद्वैतविवर्जनात् ।
लभ्यतेऽसावतोऽत्रेदमीशद्वैताद्विवेचितम् ॥ ६९ ॥

 असावेवंरूपा जीवन्मुक्तेः पराकाष्ठा परा उत्कृष्टा च सा काष्ठा सीमा जीवद्वैतविवर्जनाल्लभ्यते । अतोऽत्रास्मिन् प्रकरणे इदं जीवद्वैतमीशद्वैताद्विवेचि- तंम्। जीवद्वैतविवेचनेन तत्परित्याग एव जीवन्मुक्तिः पराकाष्ठाप्राप्तिरिति सैव तत्फलमिति स्फुटमभिहितम् ॥ ६९ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनाऽत्रि

गोत्रसमुद्भूतेन लिङ्गनसोमयाजिना विरचितेयं द्वैत

विवेकप्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति द्वैतविवेकप्रकरणम्।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


महावाक्यप्रकरणम् ।


 जिज्ञासोर्वैराग्योत्पादनधिया विस्तरेण प्रपञ्चितमीश्वरसृष्टस्य जगतो मिथ्यात्वं, क्रियाकारकफलाभिसन्धिप्रयुक्तस्य कर्मकलापस्यानित्यफलहेतुत्वेन हेयत्वं च । जीवात्मब्रह्माभेदश्च संक्षेपतो ज्ञापितः । विशेषतः पदार्थशोधनमन्तरा वैराग्यमात्रेण सम्यक्तत्त्वबोधो नोदेतीति सत्पदार्थस्वरूपनिरूपकाणि सकलवेदार्थसारसंग्रहरूपकाणि महावाक्यान्यवश्यं व्याख्येयानि । विद्यते च प्रसक्तिः स्वरूपशोधनाय । “ एकमेवाऽद्वितीयं ब्रह्म” (छां . ६.२.१.) “आत्मा वा इदमेक एवाग्र आसीदि" (ऐ. १.१.१.) त्यादिश्रुतिभिः प्रतिपादितस्य सजातीयविजातीयस्वगत भेदरहितस्य निरुपाधिकस्य कस्यचिदव्यक्तवस्तुनः सद्भावः प्रतिपादितः । तथैव “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत" (ऐत. १. ३. १२) इति श्रुतौ श्रूयते सोपाधिकोऽन्य इवात्मा यो वामदेवादिभिरनुदिनमुपास्यत आत्मेति । तैरुपास्यः कोऽयमात्मा ? आत्मा कः ? किंस्वरूपः ? सोपाधिक उत निरुपाधिकः ? ,इत्यात्मनो विशेषम्वरूपमवश्यं विचारणीयम् । अन्यच्च, आत्मनोऽस्मत्प्रत्ययगोचरत्वाद्विविधकोटिमारोहति तद्विचारणारीतिः। चैतन्यात्मकोऽहंप्रत्ययोऽनेकधा अभिव्यज्यते। स्थूलोऽहं, अहं पश्यामि, अहं स्मरामीत्यादिप्रतीतिबलात् । अतः प्रसक्तिर्विद्यते, “कोऽयमात्मेति वयमुपास्महे” (ऐ. ५.१.), इति विचारणाय । एवं विचारणीये विषये संशयकोटिमास्थिते पदार्थशोधनमन्तरा न निश्चयज्ञानमिति चतुर्षु वेदेषुपलभ्यमानैर्महावाक्यैर्यन्निश्चितमात्मस्वरूपं तद्याचिकीर्षया प्रारभ्यते पंचमं महावाक्यप्रकरणम् । विशिष्टार्थबोधकतया यदुच्यते तद्वाक्यम् । महच्च

तद्वाक्यं च महावाक्यम् । "अन्महदित्या"त्वम् । सर्वेषां ब्रह्मविद्याप्रतिपादकानां

१२८
[महावाक्य
पञ्चदशी

वाक्यानां मध्ये सुव्यक्तं सुसूक्ष्मं सर्ववेदान्तार्थसारभूतब्रह्मात्म्यैक्यरूपार्थबोधकत्वादे- तेषां महत्त्वम् । यद्वा, आत्यन्तिकनिःश्रेयसप्राप्तिप्रदर्शनात्, यद्वा अन्यैर्दु:खेनापि लब्धुमशक्यार्थस्य मुमुक्षोरनुग्रहार्थं वेदान्तार्थस्य सुखेनाविष्करणात् । यद्वा यन्नि- श्चयज्ञानमलभमाना आसृष्टेर्नचिकेतःप्रभृतयो जिज्ञासवः संदिहन्ति स्म, तन्निश्चय संपादकत्वात् , यद्वा, अन्यासां ब्रह्मात्म्मैक्यस्वरूपप्रकटनपराणामपि भिन्नार्थतया भासमाननामुपनिषदामेकवाक्यतासंपादकत्वात् , यद्वा क्रिय कारकफलभेदसंकुलं सकंटकं कर्मारण्यमुत्सृज्यात्मज्ञानारामविहारोपकारकसन्यासपूर्वकब्रह्मनिष्ठाप्रवेश- नायानुज्ञापत्रायितत्वात् । वस्तुतो निर्दिष्टहेतुसमुदायरूपधर्मपूगमेव निदानमेतेषां महत्त्वे इति प्रतिभाति ।

प्रज्ञानं ब्रह्मेति वाक्यार्थविचारः।

 तेषां मध्ये प्रथमत ऐतरेयान्तर्गतस्य, "प्रज्ञानं ब्रह्मेति", महावाक्य- स्यार्थं प्रतिपिपादयिषुर्वाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वात्तघटकप्रज्ञानपदार्थो निश्चेय इत्यैतरेयश्रुतिमर्थतः, पठति, येनेति ।

येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च ।
स्वाद्वस्वादू विजानाति तत्प्रज्ञानमुदीरितम् ॥ १॥

 ब्रह्मवादिनो मुमुक्षुवः परिषदि तत्त्वं विचारं कुर्वन्त आत्मनः स्वरूपं प्रति मिथोऽपृच्छन् “ कोऽयमात्मेति वयमुपास्महे ? कतरः स आत्मेति ?” (ऐ.५.१) विद्यते हि तत्र प्रश्नावकाशः । तथाहि, नित्यशुद्वधबुद्धमुक्तस्वभावो निरुपाधिक आत्मेति निगमान्तवाक्यैर्बोध्यते । प्रतिदिनमनुभूयतेऽस्मत्प्रत्ययगोचरश्चक्षुरादीन्द्रि- योपाधिः कार्यकरणसंकीर्णः कश्चिच्चेतनात्मक आत्माभिधानः । तयोरभेदो भेदो वा ? अन्ये कोऽत्रास्माभिरुपास्य इति परिषदि विचारे प्रसक्तिः । एवं स्थिते, निश्चितमात्मस्वरूपमेव प्रज्ञानशब्दाभिधेयमित्याह, येनेति । येन चक्षुर्मार्गनिर्गता- न्तःकरणवृत्युपहितेन चैतन्येनेदं चक्षुर्विषयं रूपमीक्षते पश्यति पुरुष इति शेषः येन श्रोत्रेन्द्रियमार्गनिर्गतान्तःकरणवृत्तिप्रतिबिंबितेन चैतन्येन तद्विषयं शब्दं

शृणोति; येन घ्राणेन्द्रियसंपृक्तान्तकरणवृत्तिप्रतिबिंबितचैतन्येन तद्विषयं गंधं

प्रकरणम् ।]
१२९
कल्याणपीयूषव्याख्यासमेता

जिघ्रति; तथैव येन वागिन्द्रियव्यापृतान्तःकरणवृत्तिप्रतिफलितेन तेनैव व्याकरोति संभाषणादिकं निर्वर्तयति, येन जिह्वेन्द्रियव्यापृतान्तःकरणवृत्तिप्रतिबिंबितेन तेनैव स्वाद्वस्वादू विजानाति । अत्रानुक्तसमुच्चायकेन चशब्देन त्वक्पादादिबहिरिन्द्रिय वृत्तीनामान्तरमनोबुद्धिवृत्तीनां च संग्रहेण तदुपहितचैतन्येन तत्तद्विषयाभिव्यंजन- मुक्तं भवति । सन्ति बह्व्यो वृत्तयो मनोबुद्धिभेदभिन्नान्त:करणस्य । संज्ञानेन सम्यग्वस्तुस्वरूपं जानाति । आज्ञानेनाज्ञापयति भृत्यादीन्, विज्ञानेनाशेषकळा- कौशलमातनोति, प्रज्ञानेन शास्त्रार्थावगमेन नवनवोन्मेषमाकश्यति, तदर्थानत्रगतान् मेधया धारयति, आपदि धृत्येन्द्रियाण्युतंभयति, मत्या सूक्ष्मान् राजनीतिविषया नालोचयति, तत्र मनीषया प्रदर्शयति स्वातन्त्र्यम् , भीत्या प्राप्तावसरेषु कार्येषू द्विग्नतामाप्नोति, स्मृत्याऽनुभूतपूर्व वस्तु स्मृतिपथमानयति, कर्तव्येषु संकल्पेन साधनसामग्रीमं सम्यक् परिकल्प्य तदवश्यकर्तव्यतायां व्यवसायी भवति, प्राण- वायोस्संचलनेन प्राणिति, कामेनाकांक्षते, याति काम्यविषयवश्यतान् । एवं सात्विकराजसतामसान्मनोविकारानन्यांश्च बाह्यविषयान् यच्चैतन्यमभिव्यंजयति तच्चैतन्यमात्मरूपं । “संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेया दृष्टिर्वृतिर्मतिर्मनीपाजूतिः स्मृतिः संकल्पः क्रतुरसु: कामो वश इति सर्वाण्येतानि प्रज्ञानस्य नामधेयानि भवन्ती"ति (ऐत.३.२.) श्रुतिः । प्रकृष्टज्ञानरूपत्वात्प्रज्ञानमित्युदीरितमुक्तं भवति । अत्रैतरेयान्तर्गतः “कोऽयमात्मेति वयमुपास्महे" (३.१.) इत्यादिमन्त्र वर्णः समीक्षितव्यः ॥ १ ॥

 अथ ब्रह्मशब्दार्थं विवृणोति चतुर्मुखेति ।

चतुर्मुखेंद्रदेवेषु मनुष्याश्वगवादिषु ।
चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ २ ॥

 चतुर्मुखेन्द्रदेवेषु चतुर्मुखः “हिरण्यगर्भःसमवर्तताग्रे” (ऋ सं. १०.१२१.१) इत्यादिशास्त्रप्रसिद्धः सृष्टिकर्ता प्रथमशरीरी । इन्द्रः सुकृतफलपरिपाकेन देवराजपदमावेशितोऽकामहतः श्रोत्रियाग्रणीः, देवाश्च, तेषूत्तमजन्मषु । मनुष्याश्व गवादिषु, मनुष्या मध्यमजन्मानः । अश्वगवादयोऽधमजन्मानः। आदिशब्देनांड

जादिक्षुद्रमिश्राण्युदीरितानि । तेषु, यत्प्रतीयते चैतन्यं तदेकमेव । चतुर्मुखादिसर्वो.

१३०
[महावाक्य
पञ्चदशी

पाधीनां व्यावृत्ततया परस्परं भिन्नत्वेऽपि सर्वत्र चैतन्यस्यानुवृत्ततयोपाधिकं चैतन्यमुपाधिपरिहाणे एकमेवावतिष्ठते । एवं च सर्वव्यापकत्वाद्व्यापकरूपार्थबोधकब्रह्मशब्दस्याभिधेयं तद्भवितुमर्हति । परस्परविलक्षणानां चतुर्मुखामरनराश्वादिव्यक्तीनां तत्रारोपादनेकधा प्रतीयते । यथा रज्जौ सर्पाध्यासात्तद्रूपेण प्रतीतिः । सहजस्थितिमास्थिताऽपि रज्जुर्भ्रान्त्या सर्प इव विशेषाकारेणावभासते । यदा दीपेन नायं सर्पः रज्जुरेवेति यथार्थज्ञानमुत्पद्यते तदा स्वयं निर्विकारा रज्जुरवतिष्ठते। सैव तत्राध्यस्थस्य सर्पस्य कारणं भवति । तदभावे भ्रान्तेरेवाभावात् । एवमविद्यया निर्विकारे परे ब्रह्मणि सर्वं जगदध्यस्यते, येन तत्तद्विशेषाकारेण वर्तमानमिव प्रतीयते । एवं च तज्जगतः कारणं भवति। नन्वनिर्ज्ञातपूर्वसर्पस्वरूपस्य कस्यापि कदाचिद्रज़ा न सर्पभ्रान्तिरुदेति । तथैव देवादीनामज्ञातपूर्वतया ब्रह्मणि न तद्भ्रान्तेरवकाश इति चेन्न, अध्यस्तत्वमात्रोपदेशस्यैव दृष्टान्तेन विवक्षितत्वात् । दृष्टान्तधर्माम्सर्वे सर्वधा दार्ष्टान्तिके समन्वेया इत्यसमंजसोऽयं नियमः । "न हि दृष्टान्तदार्ष्टान्तिकयोः कचित्कंचिद्विवक्षितांशं मुक्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं युक्तम्”। तथा सति सहृदयाह्लादनायोपात्ता चंद्रवन्मुखमित्युपमा तद्गतकाल- कळ्ंकत्वादिस्फोरणेन प्रत्युतोद्वेजिकाऽपि स्यात् । नैवास्ति तथानुभवः। अतो दृष्टान्तापेक्षितधर्मस्य स्फोरणायैवेष्यते तद्गतस्य नान्यस्य धर्मस्य । नामरूपात्मकस्य जगतो मिध्यात्वभावे नामादिविविधरूपप्रतीतिः प्रमा स्यात् । “वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्य" (छाम्. ६ १.४) मिति श्रुत्या विकाराणामन्सत्यत्वं निर्विकारस्य परब्रह्मणः सत्यत्वं च प्रतिपाद्यते । तदनुरोधेन तत्वतीतेर्भ्रान्तित्वसिद्धये तेषामध्यासवशेन मिथ्यात्वमेव दृष्टान्तेन बोध्यते । न तु दृष्टान्ते विद्यमानास्सर्वे

घर्मा अत्र विवक्षिताः । अन्यथा रज्जुसर्पस्य प्रातिभासिकसत्यत्वं जगतो व्यावहारिकसत्यत्वमिति व्यवस्थितो व्यवहारो न घटेत । किं चाध्यासे पूर्वानुभवोऽपेक्षित इति सत्यम् । स च प्रमात्मक एवेति न निर्बंधः। भ्रमात्मकेनाऽप्यनुभवेनोत्तरोत्तराध्यासस्सिध्यति । अद्वैतनयेऽविद्याया अनादित्वाङ्गीकारेण पूर्वपूर्वाविद्ययोत्तरोत्तरभ्रमस्सिध्यति । प्राक्तनसृष्टिवासनात्मिकाविद्याद्यतनसृष्टौ चतुर्मुखाद्यध्यासं कल्पयतीत्युक्तौ न कापि क्षतिः। अत एव भाष्ये अध्यासलक्षणं “परत्र पूर्वदृष्टावभास ” इत्युक्तम् । तत्र दर्शनं भ्रमः प्रमा वा भवतु । प्रमा

प्रकरणम् ।]
१३१
कल्याणपीयूषव्याख्यासमेता

मात्रमेव यदि विवक्षितं स्यात् , "पूर्वत्र प्रमितावभास” इत्येव वदेदित्यलम् । अतः परेवस्तुन्यद्वैते नानात्वदर्शनं भ्रम एवेति तत्त्वज्ञास्संतुष्यन्त्येव ।

 अतो मयि यत्प्रज्ञानं दृश्यते तदपि ब्रह्मैव । यच्च “यतो वा इमानि भूतानि जायन्ते (तै. ३.१.) इत्यादिनोक्तं ब्रह्म सृष्टिस्थितिलयकारणत्वेनोक्तम् । तथैव “प्रज्ञाने प्रतिष्ठितम् प्रज्ञानेत्रो लोकः प्रज्ञाने प्रतिष्ठेति” (ऐ. २.५.३.) चोक्तं, प्रज्ञानस्य जगत्प्रभवाप्ययत्वादिकारणत्वम् । अतः प्रज्ञानं ब्रह्मेति सामानाधि- करण्येन प्रज्ञानब्रह्मणोरैक्यमेव सिध्यति । एवं देवतिर्यङ्नारादिषु वैलक्षण्येणाप्यनु- भूयमान आत्मा ह्येक एव न तु भिन्नः। अनुभूयमानवैलक्षण्यस्योपाधिप्रयुक्तत्वेनोपधेये स्वतो भेदस्य संपादयितुमसमर्थत्वत् । अतः “कतरस्स आत्मेति"प्रश्नो नोदेतीत्येवेति भावः ॥ २ ॥

"अहं ब्रह्मास्मीति” वाक्यार्थविचारः ।

 ऐतरेयमहावाक्यविचारणानन्तरं, बृहदारण्यकान्तर्गतं "अहं ब्रह्मास्मीति (१.४.१०.) महावाक्यार्थमुत्तरश्लोकद्वयेंनाह । साध्यसाधनोर्मिमालाकुलं धर्माधर्मग्राहगृहीतं संसारसागरं सद्गुरुसमासादितज्ञानोडुपेन तितीर्षवो ब्रह्मवादिनः परब्रह्मस्वभावं प्रति विचारयांचक्रुः“यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते । किमु तद्ब्रह्मावेत् यस्मात्तत्सर्वमभवदिति” । बृ. १.४.९.) यद्ब्रह्मविद्यया सर्वं निरवशेषं भविष्यन्तो भविष्याम इति मनुष्या ब्रह्मविद्याधिकृता मन्यन्ते तद्ब्रह्म किमावेत् ज्ञातवान् यस्मात् ज्ञानात् तद्ब्रह्म सर्वमभवदिति मन्त्रार्थः । यत्किंचित् ज्ञात्वा ब्रह्म सर्वमभवत् । उताज्ञात्वैव ? आद्ये ब्रह्मणस्सर्वभवनस्य ज्ञानजन्यत्वादनित्यमेव तस्य सर्वभवनम् । द्वितीये यथा ब्रह्मणस्तथान्येषामप्यज्ञानेनैव सर्वभवनसमर्थता स्यात् । किं ब्रह्मविद्यागौरवेण ? किमु विज्ञायैव सर्वमभवदिति च वक्ष्यति श्रुतिः । तर्हि किमु तत् यदावेत् यद्ब्रह्म सर्वमभवदिति ब्रह्मवादिनां प्रश्नविषयः । प्रतिवचनं श्रुत्यैवोच्यते, ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत्" "अहं ब्रह्मास्मीति”-अहं ब्रह्मास्मीति ब्रह्मावेत् येन तत्सर्वमभवदित्यर्थः । अत्राहंशब्दार्थं विशदयति परिपूर्ण इति ।

परिपूर्णः परात्माऽस्मिन् देहे विद्याधिकारिणि ।
बुद्धेः साक्षितया स्थित्वा स्फुरन्नह्यमितीर्यते ॥ ३॥

१३२
[महावाक्य
पञ्चदशी

 परिपूर्णः देशकालवस्तुभेदैरपरिच्छिन्नः सर्वसमृद्धः परात्मा “अह"मितीर्यने कथ्यते ’किं कुर्वन् तथेर्यते? अस्मिन् जगति विद्याधिकारिणि विद्यायाः ब्रह्मविद्यायाः शमादिसाधनसंपत्त्याधिकृते देहे मनुष्यशरारे, मनुष्याणामेवात्यन्तं सगुणनिर्गुणोपासनायोग्यत्वात् सर्वसंकल्पविकल्पनिश्चयात्मिकाया बुद्धेरन्तःकरणस्य साक्षितया स्थित्वा स्वयं किमप्यकुर्वन् सर्वव्यवहारद्रष्टा भूत्वा स्फुरन् स्वयमविकारी सन्नेव स्वसान्निध्यमात्राद्बुध्याद्यवभासक इति व्यवहृतस्सन् लक्षणया अहमितीर्यते तत्पदाभिधेयो भवतीति भावः ॥ ३ ॥

 अथ ब्रह्मशब्दार्थमाह, स्वत इति ।

स्वतः पूर्णः परात्माऽत्र ब्रह्मशब्देन वर्णितः ॥ ३॥

 अत्रास्सिन् महावाक्ये स्वत इतरसहायमनपेक्ष्य पूर्णः देशकालवस्त्वनव-

च्छिन्नः परात्मा ब्रह्मशब्देन वर्णितः। बृहि वृद्धाविति ब्रह्मशब्देन नित्यशुद्धत्वादयोऽर्थाः पूर्णतया प्रतीयन्ते । तेन च नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्मेति विज्ञायते। अत्र केचित्प्रत्यवतिष्ठन्ते । अत्र ब्रह्मशब्देनापरब्रह्मैव भवितुं युक्तम् । वेदनाकर्तुरेव सर्वभवनोक्तिर्वेदना कर्तुरपरत्वेनानुभूयमानत्वात् । भविष्यत्काले मनुष्याणामपि तत्पदलंघनाधिकारस्य श्रूयमाणत्वात् । “अहं ब्रह्मास्मीति” ज्ञानस्य साधनभेदेनोपदिष्ट्योः कर्मोपासनयोरनुरूपो मार्गो गम्यस्थानं फलं च विशेषत उपदिश्यते । दक्षिणोत्तराविति मार्गभेदः, ब्रह्मलोकस्वर्गलोकादिगम्यस्थानभेदः, तत्र निवासस्यचप्रलयं कर्मक्षयावधिरूपफलभेदश्च, श्रूयते । तस्माद्युक्तं प्रस्तुतं ब्रह्मापरब्रह्मेत्युच्यते, इति चेन्न । प्रकरणविरोधात् । ज्ञानकर्मणोर्विभूतिवर्णनाव्याजेन तयोरुत्कर्षः पूर्वार्धे प्रकर्षेण स्तूयते । ब्रह्मविद्याया मोक्षहेतुत्वं चोत्तरार्धे प्रदर्श्यते । तदर्थमेव प्राणादीनां परब्रह्मणः कर्मनाम्नामेकैकोपासकस्याकृत्स्नतामभिधाय “आंत्मैवोपासीतात्र ह्येते सर्वे एकं भवन्ति तदेतत्पदनीयस्य सर्वस्य यदयमात्मानेनह्येतत्सर्वं वेदे" (बृ. १.४.७.)त्यात्मैक्यज्ञानस्य फलमात्मनः पदनीयसर्वात्मभवनमिति चाभिहितम्। पुत्रवित्ताद्यन्यस्मात्सर्वस्मात् प्रियतममित्यादिनात्मोपलब्धिरेव तत्पदनीयं पदमिति वर्णितम् । तत्ज्ञानाभिलाषया ब्रह्मवादिनः परस्परमपृच्छन् ,"यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदि”ति ।

प्रकरणम् ।]
१३३
कल्याणपीयूषव्याख्यासमेता

यत्किंचिदन्यज्ञानफलभूतं सर्वात्मभवनमेवात्र यद्यभिहितं भवति, तर्हि यत् ज्ञात्वा ब्रह्माभवत् तत्सर्वात्मभवनमनित्यमेवस्यात् न तु निश्रेयसावाप्तिस्तत् । ततज्ञानेनैव वामदेवादयो निःश्रेयसं प्रपेदिरे, इति । अतो निःश्रेयसप्राप्तिकथनप्रकरणेऽन्यज्ञान- कथनमप्रस्तुतमेव ।

 किंच यद्यनात्मज्ञानेनैव सर्वभवनसिद्धिस्तदा ब्रह्मविद्याया वैयर्थ्यात् ब्रह्म विचारस्यानर्धक्यमेवापतेत् । सर्वोपनिषदुपबृंहितं श्रूयते सर्वशास्त्रनिश्चितार्थतया सैंघवधनवदेकरसं ब्रह्मविज्ञानमेवामृतत्वनिमित्तमिति ।

 किंच सर्वात्मभवनस्य ज्ञानजन्यत्वेऽनित्यत्वप्रसक्तेः । यदन्यकारणजन्यं भावान्तरं न तन्नित्यं भवितुमर्हति ।

 परब्रंह्मणोऽन्यस्य वेदनासंभवाच्च। यद्ब्रह्म प्राक् सृष्टेरासीत्तस्यैव ब्रह्मणः "तदात्मानमावे"दित्यात्मवेतृत्वमुक्तं भवति । वेदनसमयेऽपरब्रह्मैव नास्ति । "ब्रह्म वा इदमग्र आसीत् । तदात्मानमावे"दित्युक्तत्वात् । यद्ब्रह्म प्राक्सृष्टैरासी- त्तद्ब्रह्मैवावेदित्यनिवार्यं भवति ।

 अपि च। अन्यस्यान्यभावानुपपत्तेः । ननु "ब्रह्मविद्यया सर्वं भविष्याम इति मन्यन्ते मनुष्याः, इत्यनेन ब्रह्मविद्ययाऽन्यभावः श्रुतिसिद्ध इति चेन्न । अन्यभावस्य शास्त्रेणाऽवबोधनात् । ज्ञापकमेव शास्त्रं न तु कारकम् । न हि ब्रह्मविद्याऽब्रह्माणं ब्रह्माणं करोति ।किंत्वविद्यावरोधेनात्मानमन्यं मन्यमानं ‘‘त्वं ब्रह्मेतिज्ञापयित्वाऽविद्यापनोदनमार्गमुपदिशति । अविद्यावरणोच्छेदे स्वभावसिद्धं परमार्थं वस्तु स्वयं प्रकाशमानं ग्रीवाबद्धकटकमिवावाप्यते । अयमेवाशयस्संदिश्यते सर्वात्मभवनशब्देन । श्रुत्वा गुरुशास्त्राभ्या"महं ब्रह्मस्मी"त्यादिमहावाक्यार्थं तन्मननेन दृढीकृत्वान्यथाभावनिमित्तामविद्यामपहाय ब्रह्मवित्स्वयमभवदित्यलम् ।

एवं पदार्थं निरूप्य वाक्यार्थं फलकथनपूर्वकं दर्शयति, अस्मीति ।

अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ।। ४॥

१३४
[महावाक्य
पञ्चदशी

 अहंब्रह्मपदयोस्सामानाधिकरण्यस्य अस्मीत्यनेनैक्यपरामर्शः। तेनैवं वाक्यार्थभूतब्रह्मत्म्यैक्यज्ञानेनाहं ब्रह्म भवामि। ब्रह्मभावमापन्नो जीवब्रह्मैक्यज्ञानस्य ब्रह्मभावप्राप्तिः फलमिति भावः।।४॥

"तत्वमसीति" महावाक्यार्थविचारः।

 तातादेशेनाध्ययनायानुरूपगुरुकुलवासमाचर्य श्वेतकेतुर्महामना अनूचानमानी पितृसदनमेयाय। ज्ञात्वा निजपुत्रं विद्यावलिप्तं सन्मार्गनिनीषया पिता तमपृच्छत्, "उत तमादेशमाप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति" (छां. ६.१.२.)। विह्वलमनाः श्वेतकेंतुरपगतविद्योद्धतिः सर्वानपि वेदानधीत्याप्यकृतार्थमात्मानं मन्वानस्तत्त्वोपदेशाय पितरं प्रार्धयामास। आरुंणिः पुत्रवत्सलोऽपगतविद्यागर्वमेनं सौम्यं सौम्यवचनैः, सदेव सोम्येदमग्र आसीदि" (छ. ६.२.१.) त्यादिनाखंडमषट्केन सर्वं सृष्टिक्रमं प्रत्यज्ञापयत्। अन्ते सर्वोपदेशशिरोभूषणं परमरहस्यमुपदिदेश, "स य एषोऽणिमैतदात्म्यमिदग्ं सर्वं तत्सत्यग्ं स आत्मा तत्त्वमसि श्वेतकेतो।"इति (छां. ६.८.८)। दुर्ग्राह्यविषयत्वात् "भूय एव मा भगवन् विज्ञापयत्विति" पुनः पुनः प्रार्थयन्तं पुत्रं "तथा सोम्ये"ति गंभीरतमार्थस्य सम्यक्प्रत्यायनाय सादरं सोदाहरणं नवकृत्व उपदिदेश भगवानारुणिः। तदुपदिष्टं समनन्तरप्रसक्तं छांदोग्यघटकमशेषरहस्यानां मकुटालंकारभूतं "तत्वमसीति" महावाक्यं व्याचिकीर्षुस्तदूघटकत्तत्पदार्थनिरूपणाय "सदेव सोम्येति" छांदोग्यमन्त्रमर्थतः पठति।

एकमेवाद्वितीयं सन्नामरूपविवर्जितम् ।
सृष्टेः पुराऽधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥५॥

 जगतः सृष्टेः पुरा प्रागुत्पत्तेरेकमेव स्वकार्यपतितान्यवस्तुविरहितं स्वगतभेदरहितं च अद्वितीयं स्वव्यतिरिक्तान्यवस्तुविरहितं नामरूपविवर्जितं सदस्तितामात्रं वस्त्वासीदिति शेषः। अस्य सद्वस्तुनोऽधुनापि सृष्टयनन्तरमपि तादृक्त्वं तथाविधत्वम्। तादृग्वस्तु तच्छब्देनेर्यते कथ्यते। यदि सृष्टेः पूर्वोत्तरयोरेकस्मिन्नेव वस्तुनि विद्यमाने कोऽपि विशेषो विद्यते वा? अयं विशेषः। सृष्टेः प्राङ्नामरूपविवर्जितम् भासते; सृष्ट्युत्तरकाले नामरूपसहितमिव भासते। नामरूपव्याकरण

प्रकरणम् ।]
१३५
कल्याणपीयूषव्याख्यासमेता

स्यैव सृष्टिशब्दाभिधेयत्वात् । नामरूपयोर्मिथ्यात्वात्तयोरपहोयमानयोः, सदेवाव- शिष्यते । एतदर्धमेव “सदेव सोम्येदमग्र आसीदि"ति छांदोग्यमंत्रप्रकरणे (६.२.१.) सम्यक्प्रदर्शितम् । तदर्थविचारणा च, द्वितीयप्रकरणे २५-३९ श्लोकव्याख्यानावसरे सम्यक्कृतेति नाऽत्राभ्यस्यते ॥ ५ ॥

 अनन्तरं त्वंपदार्थ उच्यते, श्रोतुरिति ।

श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् ।।
एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ६ ॥

 श्रोतुः “श्वेतकेतो” इति श्रोतारं प्रति संबोधनं क्रियते तस्य श्वेतकेतोरिव मुमुक्षोर्देहोन्द्रियातीतं शरीरत्रयाद्भिन्नं साक्षितया भासमानं वस्त्वत्र महावाक्ये त्वंपदेरितं त्वंशब्देन बोधितम् । असीति शब्देनैकता तत्वं शब्दार्थयोरेकता ग्राह्यते । तत् एवं वाक्यार्थभूतं तत्त्वंपदार्थयोः प्रत्यग्ब्रह्मणोस्स्वत: प्रसिद्धमैक्यं । मनननिदिध्यासपूर्वकमनुभूयताम् । साक्षात्क्रियताम्। नेदं परमरहस्यं केवल- शास्त्रचर्चया गोचरीकर्तव्यः, किं तु जीवन्मुक्तैस्साक्षात्कार्य इत्यनुभूयतामिति। शब्दस्वारस्यम् ॥ ६ ॥

‘अयमात्मा ब्रह्मेति” महावाक्यार्थविचारः ।

 अनन्तरमाथर्वणिक "मयमात्मा ब्रह्मे" तिक्रमप्राप्तं तुरीयं महावाक्यं विवृणोति । आत्मोपलब्धिसाधनत्वेन निर्णेयस्यौंकारस्य श्रैष्ठ्यकथनाय प्रवृत्तायां मांडूक्यश्रुत्यां द्वितीयमन्त्रे श्रूयत इदं वाक्यम् । तत्रादावयंशब्दार्थमाचष्टे, स्वेति ।

स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् ॥ ६॥

 अयमितिविवक्षितार्थप्रतिपत्तये ज्ञानिनां हृत्पुंडरीक एवोपलब्धत्वादंगुळ्याः हृदयदेशानयनपूर्वकाभिनयेन उक्तितः दर्शनपूर्वकं कथनेन स्वप्रकाशापरोक्षत्वं स्वप्रकाशेनापरोक्षत्वं प्रत्यगात्मनो मतमभिमतम् । एतेनात्माऽपरोक्षोऽक्षाणामगोचर श्चेति सूचितः । स्वप्रकाशोऽत एव ; हृत्पुंडरीके भानादपरोक्षः । स्वयमनुभूतित्वा-

द्घटादिवदिन्द्रियजन्यज्ञानाविषयोऽत एवाऽगोचरः ॥ ६ ॥

१३६
[महावाक्य
पञ्चदशी

 अनन्तरमात्मशब्दार्थमाह, अहमिति ।

अहंकारादिदेहान्तात्प्रत्यगात्मेति गीयते ॥ ७ ॥

 अहंकारादिदेहान्तादहंकारः कर्तृत्वाऽभिमानः । तदादिदेहान्तः देहेन्द्रिय मनोबुद्धिसंघातः । तस्मात् प्रत्यगान्तरोऽहंकाराद्यधिष्ठानतया साक्षितया च स्थितः स आत्मेति गीयते आत्मशब्देन प्रतिपाद्यते । स्थूलसूक्ष्मकारणशरीराधिष्ठानत्वेन यस्साक्षी हृदि प्रकाशते स आत्मेति भावः ॥ ७ ॥

 अथ ब्रह्मशब्दार्थमाह, दृश्येति ।

दृश्यमानस्य सर्वस्य जगतस्तत्वमीर्यते ।
ब्रह्मशब्देन तद्रह्म स्वप्रकाशात्मरूपकम् ॥ ८ ॥

 रज्जुसर्पादिवद्दृश्यमानस्य मायाकल्पितस्यात एव मिथ्यारूपस्याकाशादेः सर्वस्य जगतस्तत्त्वं यथार्थस्वरूपमधिष्ठानं महावाक्यगतब्रह्मशब्देनेर्यते कथ्यते । एवं पदार्थमुक्त्वा वाक्यार्थं दर्शयति । तदिति । अत्र तच्छब्देनात्मा परामृश्यते । नपुंसकनिर्देशस्तु ब्रह्मशब्दसामानाधिकरण्यात् । सामानाधिकरण्येनाऽन्वयबला द्ब्रह्मत्मनोरैक्यमवगम्यते । एवं च ब्रह्मात्मैक्यम् वाक्यार्थ इति फलितम् । ऐक्यनिश्चये हेतुं विशेषणमुखेन विशदयति, स्वप्रकाशात्मरूपकमिति । पदद्वयप्रतिपाद्यार्थस्य स्वप्रकाशात्मरूपकत्वाविशेषादैक्यं सुस्थम् । । एवं सति, तत् आत्मा ब्रह्म तच्च स्वप्रकाशात्मरूपकमिति योजना ॥ ८ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनात्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं महावाक्य-

प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति महावाक्यप्रकरणम् ।

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

चित्रदीपप्रकरणम् ॥ ६ ॥


 एवं सृष्टिद्वैविध्यं तद्धेतुभूतजीवेश्वरस्वरूपभेदं च निरूप्य स्वरूपभेदस्योपाधिकृततया उपाध्योश्च मायातदवान्तरस्वरूपतया चावस्तुत्वं निरूप्य तन्निरूपणेन लब्धं ब्रह्मात्मैक्यं श्रौतमिति बोधयितुं महावाक्यार्थनिरूपणं कृत्वा तद्विवेकेन श्रुतं ब्रह्मात्मैक्यं दृष्टान्तमुखेन सम्यग्बोधयितुमिदं प्रकरणमारभते, यथेति ।

चित्रदीपदृष्टान्तेन परमात्मन्यवस्थाचतुष्टयकथनम् ।

यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम्।
परमात्मनि विज्ञेयं तथाऽवस्याचतुष्टयम् ॥ १ ॥

 यथा चित्रपटे चित्रलेखनेन सम्यक्नित्रिने पटे अवस्थानां वक्ष्यमाणानां चतुष्टयं दृष्टं, तथा परमात्मनि अवस्थाचतुष्टयमस्तीति विज्ञेयम् ॥ १ ॥

 दृष्टान्तदार्ष्टान्तिकयोरवस्थाचतुष्टयमाह, यथेति ।

यथा धौतो घट्टितश्च लांछितो रंजितः पटः ।
चिदन्तर्यामी सूत्रात्मा विराडात्मा तथेर्यते ॥ २॥

 यथा पटः धौतो घट्टितो लांछितो रंजित इत्यवस्थाचतुष्टयविशिष्टो ज्ञायते, तथा परमात्माऽपि चित् अन्तर्यामी सूत्रात्मा विराडात्मेत्यवस्थाचतुष्टय वानितीर्यते ॥ २ ॥

 पटगतावस्थाचतुष्टयं विवृणोंति, स्वत इति ।

स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्नविलेपनात् ।
मष्याकारैर्लाञ्छितः स्याद्रञ्जितो वर्णपूरणात् ॥ ३ ॥

१३८
[चित्रदीप
पञ्चदशी

 पटः स्वतः स्वभावतः शुभ्रः स्वच्छ:, चित्रविलेखनार्थं धौतः अन्नविलेप नाद्धट्टितो भवतेि । मसृणीक्रियत इत्यर्थः, तृतीयात्स्यायां मष्याकारैः मषीमयैर्लेखनी याकारैर्लाम्छितत्स्संपद्यते । मवीति लेखनसाधनीभूतं द्रवद्रव्यम् । घट्टितपटे मष्याचित्रस्य बाह्नाकारमात्रं विलिख्यते । तुरीयावस्थायां यथायोग्यं वर्णपूरणात् । रक्तपीतादिवर्णानां पूरणात् चित्रितत्वादित्यर्थः रंजितः स्यात् ॥ ३ ॥

 दाष्टोन्तिकस्यावस्थाचतुष्टयं विवृणोति, स्वत इति ।

स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः।
सूत्रात्मा स्थूलसृष्टयैव विराडित्युच्यते परः ॥ ४॥

 परः परमात्मा स्वत: स्वभावतः। चित् माययाऽनालिंगितचैतन्यरूपः मायावी मायया युक्तः अन्तर्यामी अन्तः मध्येऽनुप्रविश्य यमयति पृथिव्यादीनि स्वस्वकर्मस्विति तथाविधः। जीवं वा दास्यन्त्रमिव व्याप्तारयति । “य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति ” (बृ. ३.७.१.) “यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरोऽयं सर्वाणि भूतानि न विदुः “ सर्वाणि भूतान्यन्तरो यमयति’ (बृ. ३. ७. १६), अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् (ब्र्.सू. १.२.१९.), इस्यादिभ्यः । सूक्ष्मसृष्टितः सूक्ष्मस्य लिंगशरीरस्य सृष्टेः सूत्रात्मा सूवमिव सर्वानुस्यूत आत्मा यस्य सः समष्ट्युपहित चैतन्यो हिरण्यगर्भः। स्थूलसृष्टयैव स्थूलस्य पंचोकृतभूतोत्थस्य द्वैतस्य सृष्टया विराडित्युच्यते ॥ ४ ॥

 चित्रस्य पट इव समस्तजगतो ब्रह्माधिष्ठानमित्याह, ब्रह्मेति ।

ब्रह्माद्यास्तंबपर्यन्ताः प्राणिनोऽत्र जडा अपि ।
उत्तमाधमभावेन वर्तन्ते पटचित्रवत् ॥ ५॥

 अत्र परे ब्रह्मणि ब्रह्माद्या हिरण्यगर्भादयः स्तंबपर्यन्ताः स्तंबेवाल्पतृणेन परिगतोऽन्तो येषां ते तथाभूताश्च ये प्राणिनो जीवकोटयो जडा अपि अप्राणि तया दृष्टाः पर्वतादयश्च ते सर्वे उत्तमाधमभावेन प्रारब्धानुसारेणोच्चनीचचस्थिति

मासाध पटचित्रवत् पटे चित्रवत् वर्तन्ते ॥५॥

प्रकरणम् ॥६॥ ]
१३९
कल्याणपीयूषव्याख्यासमेता

 चिदाभासस्य चित्रगतवस्त्राभासानुरूपतां श्लोकदूयेनाह, चित्रेति ।

चित्रार्पितमनुष्याणां वस्त्राभासाः पृथक् पृथक् ।
चित्राधारेण वस्त्रेण सदृशा इव कल्पिताः ॥ ६ ॥

पृथक् पृथक् चिदाभासाश्चैतन्याध्यस्तदेहिनाम् ।
कल्प्यन्ते जीवनामानो बहुधा संसरन्त्यमी ॥ ७ ॥

 चित्रार्पितमनुष्याणां चित्रे लिखितानां मनुष्याणां चित्राधारेण चित्रस्य य आधारः पटः तेन वस्त्रेण सदृशा वस्त्राभासाः वस्त्रवदूद्दृश्यमाना न तु तत्कार्य- कारिण इति भावः, ते पृथक् पृथक् कल्पिताः चित्रिताः । चित्रगतानि बहुधा वीक्ष्यमाणानि वस्त्राणि वस्त्रच्छायामात्राण्येव न तु तत्त्वतस्तानीति भाव:।

 तथैव चैतन्याध्यस्तदेहिनां चैतन्ये परे ब्रह्मण्यध्यस्ता आरोपिता ये देहिनो देवमनुष्यादयस्तेषां जीवनामानो जीव इति नाम येषां तथाभूताश्चिदा भासाश्चित्प्रतिबिबा: पृथक् पृथक् कल्प्यन्ते । मायया चैतन्यस्याविद्ययाऽन्यधा परिग्रहणमेवात्राध्यासः, यथा रज्जोस्सर्पत्वेन ग्रहणम्। अमो जीवाः वहुधा संसरन्ति संसारमापद्यन्ते ॥ ६-७॥

 ननु लोके आत्मनस्संसारित्वं कल्प्यत इत्याशंक्याह, वस्त्रेति ।

वस्त्राभासस्थितान् वर्णान् यद्ददाधारवस्त्रगान् ।
वदन्त्यज्ञास्तथा जीवसंसारं चिद्गतं विदुः ॥ ८ ॥

 वत्राभासस्थितान् वस्त्रस्याभासेन छायायां स्थितान् प्रतीयमानान् वर्णान रक्तपीतादीन् अज्ञा यद्वद्वदन्ति तथा जीवसंसारं चिद्गतं चितं गतं विदुर्मन्यन्ते । चित्रे प्रकाशमानस्य वस्त्रवर्णस्याधारो मष्याधिकृताकारो न तु चित्रपटः, तथैव जीवभावस्याधारश्चिदाभासो न तु चिदितिभावः ॥ ८॥

गिरिनद्यादीनां चिदाभासाभावे कारणमाह, चित्रेति ।

१४०
[चित्रदीप
पञ्चदशी

चित्रस्थपर्वतादीनां वस्त्राभासो न लिख्यते ।
सृष्टिस्थमृत्तिकादीनां चिदाभासस्तथा न हि ॥ ९॥

 चित्रस्थपर्वतादीनां चिते विद्यमानानां पर्वतादीनां वस्त्राभासो यथा न लिख्यते तथैव सृष्टिस्थमृतिकादीनां जडानां चिदाभासो न हि कल्प्यते ॥९॥

  अविद्यायाः संसारकारणत्वं, विद्यायास्तन्निवारकत्वम् ।

 आत्मनः संसारित्वं मिथ्यामात्रमेवेत्याह, संसार इति ।

संसारः परमार्थोऽयं संलग्नः स्वात्मवस्तुनि ।
इति भ्रान्तिरविद्या स्याद्विद्ययैषा निवर्तते ॥ १० ॥

 अयं संसारः परमार्थः सत्यभूतः स्वात्मवस्तुनि स्वस्वरूपभूते परमात्मनि संलग्न इति भ्रान्तिरविद्या स्यात् । एषाऽविद्या विद्यया "संसारो मिथ्यारूप ” इत्येवं निश्चयरूपया निवर्तते ॥ १०॥

 संसारभ्रान्तिनिवतर्कविद्यास्वरूपमाह, आत्मेति ।

आत्माभासस्य जीवस्य संसारो नात्मवस्तुनः।
इति बोधो भवेद्विद्यया लभ्यतेऽसौ विचारणात् ॥ ११॥

 संसार आत्माभासस्य जीवस्यैव न त्वसंगस्यात्मवस्तुन इति बोधो ज्ञानं विद्या भवेत् । असौ विद्या वेदान्तवाक्यानां विचारणात् लभ्यते ॥ ११ ॥

 विद्यावाप्तये विचारणाविषयमाह, सदेति ।

सदा विचारयेत्तस्माज्जगज्जीवपरात्मनः ।
जीवभावजगद्भावबाधे स्वात्मैव शिष्यते ॥ १२ ॥

 तस्मात् जगज्जीवपरात्मनः सदा विचारयेत् मुमुक्षुभिर्यथा परमात्म स्वरूपविचारोऽवश्यं कर्तव्यस्तथा तदवशेषणाय जगज्जीवस्वरूपविचारोऽपि कर्तव्य इति भावः । जीवभावजगद्भावबाधे जीवस्वरूपस्य जगत्स्वरूपस्य च प्रतिरोधे सति

स्वात्मैव सत्यतया शिष्यते ॥ १२ ॥

प्रकरणम् ॥६॥ ]
१४१
कल्याणपीयूषव्याख्यासमेता

 बाधस्वरूपं विवृणोति, नेति ।

नाप्रतीतिस्तयोर्बाधः किं तु मिथ्यास्वनिश्चयः।
नो चेत्सुषुप्तिमूर्छादौ मुच्येतायत्नतो जनः ॥ १३ ॥ !

 जगज्जीवयोरप्रतीतिर्युद्धावभानं बाधो न भवति । किं तु तयोंर्जीवसंसा- रित्वजगत्सत्यत्वयोर्मिथ्यात्वनिश्चयः। असत्यत्वेन निश्चयज्ञानं बाधः। ईशसृष्टे र्व्यवहारकालेऽनिवृत्तत्वात्तयोर्मृषात्मकत्ववज्ञानमवश्यकमिति भावः । नो चेत् सुषुप्ति मूर्छादौ तयोर्भानं नास्तीत्ययत्नतो गुरुशास्त्राभ्यासमंतरेणैव जनो मुच्येत मुक्तो भवेत् । गुरुशास्त्राभ्यामासादितं तन्मिथ्यात्वज्ञानमेव मोक्षकारणं न तु सुषुप्यादा वनुभूयमानं जगदादेरभानमित्यर्थः ॥ १३ ॥

 परमात्माऽवशिष्यत इत्यनेन विवक्षितमर्थमाह, परमात्मेति ।

परमात्मावशेषोऽपि तत्सत्यत्वविनिश्चयः ।
न जगद्विस्मृतिर्नो चेज्जीवन्मुक्तिर्न संभवेत् ॥ १४॥

 जगज्जीवयोर्मिथ्यात्वज्ञानसिद्धौ परमात्मावशषः परमात्मनः परिशिष्टता नाम तत्सत्यत्वविनिश्चयः परमात्मैव सत्यमिति दृढज्ञ|नमेव । ननु नेति नेतीति सर्ववस्तूनामपहाने यदवशिष्यते तदेव परमात्मेत्युक्तत्वाकि तत्स्वरूपनिश्चयप्रयल गौरवेण ? जगतो मिथ्यात्वज्ञानेनैव तद्विस्मृत्या बंधकप्रपंचनिवृत्तेः। अतः परमात्माऽवशिष्यत इत्यनेन जगद्विस्मृतिरूपावशेष एव विचक्षणीय इत्याशंक्याह । नेति । जगद्विस्मृतिः जगतोऽभानं नावशेषः । नो चेत् जगद्विस्मृतिरेवावशेष इत्युच्यते चेत् , जीवन्मुक्तिः जीवत एव प्राक्छरोरपातान्मुक्तिः ब्रह्मभावापत्तिर्न संभ वेत् । जगतो मिथ्यात्वेऽपि तद्भानस्य शरोरपातात्प्रागपरिहार्यतया जगद्विस्मृतेस्तदा नीमसत्वाज्जीवतस्सतो ब्रह्मभावापत्तेरसंभवादिति भावः ॥ १४ ॥

परोक्षापरोक्षविद्यास्वरूपविचारः।

सदा विचारयेदित्यत्र विवक्षितकालावधिमाह, परोक्षेति ।

१४२
[चित्रदीप
पञ्चदशी

परोक्षा चापरोक्षेति विद्या द्वेधा विचारजा।
तत्रापरोक्षविद्याप्तौ विचारोऽयं समाप्यते ॥ १५॥

 विचारजा गुरुशास्त्रविचाराज्जाता विद्या परोक्षाऽपरोक्षेति द्वेधा भवति । तत्रापरोक्षविद्याप्तौ अपरोक्षज्ञानलाभे अयं विचारः सत्यत्वासत्यत्वविषयिकः समाप्यते अवरोक्षसाक्षात्कारोत्पत्तिक्षण एव विचारकालचरमावधिरितिभावः ॥१५॥

 परोक्षापरोक्षयोः स्वरूपं दर्शयति, अस्तीति ।

अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् ।
अहं ब्रह्मेति चेद्वेद साक्षात्कारस्स उच्यते ॥ १६ ॥

  स्पष्टोऽर्थः । साक्षात्कारमेवापरोक्षज्ञानमितिभावः ॥ १६॥

 साक्षात्कारसाधनं प्रतिजानीते, तदिति ।

तत्साक्षात्कारसिद्धर्थमात्मतत्त्वं विविच्यते ।
येनायं सर्वसंसारात्सद्य एव विमुच्यते ॥ १७ ॥

 स्पष्टोऽर्थः । जगतो विभजनमेवात्मतत्त्वसाक्षात्कारसाधनम् । तदुत्तरक्षणमेव मुक्तिश्चेति भावः ॥ १७ ॥

चिच्चातुर्विध्यविचारः।

 तत्साधनविवक्षयाऽदौ परमात्मनः प्रतीयमानं चिच्चातुर्विध्यमाह, कूटस्थ इति ।

कूटस्थो ब्रह्म जीवेशावित्येवं चिच्चतुर्विधा।
घटाकाशमहाकाशौ जलाकाशाभ्रखे यथा ॥ १८ ॥

 स्पष्टः पूर्वार्धः । तत्र दृष्टान्तमाह । घटेति । यथा घटाकाशो महाकाशो जलाकाशाभ्रखे अभ्रे प्रतिबिंबिताकाशोऽभ्रखं इत्याकाशश्चतुर्विधो दृश्यते तथैवे- त्यर्थः । ननु चिच्चातुर्विध्यमस्मिन् प्रकरणेऽपूर्वतया प्रदर्शितं न घटते । अन्यत्र

जीव ईशो विशुद्धा चिदिति, चित्रैविध्यस्योवोक्तेरिति चेन्न। अन्यत्र विशुद्धस्यैव

प्रकरणम् ॥६॥ ]
१४३
कल्याणपीयूषव्याख्यासमेता

चितः कूटस्थ इति बृह्मेति च भेदेन व्यवहारदर्शनात् । तद्व्यवहारस्य कल्पितभेद मूलकत्वेऽपि ब्रह्मात्मैक्यज्ञानोपायतया सर्वैराश्रितत्वाच्च कल्पितं कूटस्थब्रह्मणोर्भेद- माश्रित्यात्र चातुर्विध्योक्तेः । इयं च कल्पना जिज्ञासूनां सुखबोधायाश्रितेति न कापि विप्रतिपत्तिः ॥ १० ॥

 घटाकाशमहाकाशौ सुविज्ञाताविति जलाकाशं विवृणोति, घटेत्यादिना ।

घटावच्छिन्नखे नीरं यत्तत्र प्रतिबिंबितः ।
साभ्रनक्षत्र आकाशो जलाकाश उदीरितः। १९ ॥

 अपरिच्छिन्नस्याव्यापकत्वेन घटान्तर्वर्तिनो महाकाशस्य घटोपाधिवशाद्धटाकाश इति नामान्तरं व्यवहारगोचरं भवति । येनावच्छिद्यते सोऽवच्छेदकं इति, योऽवच्छिद्यते सोऽवच्छिन्न इति चोच्यते । घटावच्छिन्नखे घटेन परिमित इव भासमाने घटावच्छिन्नाकाशे यन्नीरं विद्यते तत्र तादृशे जले प्रतिबिंबितः साभ्र- नक्षत्रः आकाशो जलाकाश इत्युदीरित उक्तः ॥ १९ ॥

 मेघाकाशस्वरूपं विव्रियते, महाकाशस्येति ।

महाकाशस्य मध्ये यन्मेघमंडलमीक्ष्यते ।
प्रतिबिंबतया तत्र मेघाकाशो जले स्थितः ॥ २० ॥

 स्पष्टोऽर्थः । मेघमंडले विद्यमाने जले प्रतिबिंबित आकाशो मेघाकाश इत्यर्थः ।। २० ।।

 अनुमानप्रमाणेन मेघाकाशं साधयति, मेघेति ।

मेघांशरूपमुदकं तुषाराकारसंस्थितम् ।
तत्र खप्रतिबिंबोऽयं नीरत्वादनुमीयते ॥ २१ ॥

 मेघांशरूपं मेघे सूक्ष्मावयवरूपमुदकं तुषाराकारसंस्थितं सूक्ष्मावयवरूपेण स्थितं । तत्र तुषारे नीरत्वादयं खप्रतिबिंबो घटगतजलमिवानुमीयते । प्रत्यक्षेणा-

दृश्यमानत्वादूह्यत इति भावः ॥ २१ ॥

१४४
[चित्रदीप
पञ्चदशी

कूटस्थजीवयोरन्योन्याध्यासः

 दार्ष्टान्तिके कूटस्थं विवृणोति, अधिष्ठानतयेति

अधिष्ठानतया देहद्वयावच्छिन्नचेतनः ।
कूटवन्निर्विकारेण स्थितः कूटस्थ उच्यते ॥ २२ ॥

 देहद्वयावच्छिन्नचेतनः स्थूलसूक्ष्मरूपदेहद्वयेनावच्छिन्नो यक्ष्चेतनः सो ऽधिष्ठानतया देहद्वयस्याधारत्वेन तद्यतिरिक्तः कूटवत् कूटः कर्मागारे स्थापितो- यस्मिंल्लोहमयानि वस्तूनि निक्षिप्यायोघनेन हन्यंते स उद्धनः। तद्वन्निर्विकारेण स्थित इत्यतः कूटस्थ इत्युच्यते ॥२२॥

 जीवं विवृणोति, कूटस्थ इति ।

कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिबिंबकः ।
प्राणानां धारणाज्जीवस्संसारेण स युज्यते ॥ २३॥

 कूटस्थे मायया बुद्धिः कल्पिता । तत्र बुद्धौ घटगतजले प्रतिबिंबिताकाश इव चित्प्रतिबिंबकः चितः प्रतिबिंबश्चिताभासः प्राणानां धारणात्प्राणधारणरूप- जीवशब्दप्रवृत्तिनिमित्तभूतक्रियासंबंधाज्जीवो जीवसंज्ञिको भवति । एतत्प्राणधारणं कूटस्थस्यैव किं न स्यादित्यत आह, संसारेणेति । स जीवः संसारेण युज्यते संसारी भवति । कूटस्थस्य निष्क्रियत्वेन प्राणधारकत्वासंभवादसंगत्वेन संसार- संबंधासंभवाच्च तदतिरिक्तस्तत्प्रतिबिंबरूपजोव एव संसारो भवतीति भावः ॥२३॥

 कूटस्थस्य सत्वेऽपि तस्याभाने कारणमाह, जलेति ।

जलव्योम्ना घटाकाशो यथा सर्वस्तिरोहितः।
तथा जीवेन कूटस्थः सोऽन्योन्याध्यास उच्यते ॥ २४॥

 सुगमा पदयोजना । अत्र जीवेन कूटस्थस्य तिरोधानं न व्यवहारेऽनुभूयमानतिरोधानसदृशम् । किं त्क्न्यादृशमेवेत्याह, स इति । स तच्च तिरोधानं अन्योन्याध्यास इत्युच्यते भाष्यादिष्विति शेषः । अन्योन्याध्यास; अन्योन्यता

प्रकरणम् ॥६॥ ]
कल्याणपीयूषव्याख्यासमेता

दात्म्याध्यासः अन्योन्यं तत्तद्धर्माध्यासश्च विवक्षितः। अस्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चारोपणं प्रकृतेऽध्यास इति तात्यर्यम् ॥ २४ ॥

आवरणविक्षेपविचारः ।

 अन्योन्याध्यासबीजं मूलविद्येत्याह,अयमिति ।

अयं जीवो न कुटस्थं विविनक्ति कदाचन ।।
अनादिरविवेकोऽयं मूलाविद्येति गम्यताम् ॥ २५ ॥

 अयमेवमन्योन्याध्यासेन मिथ्याज्ञानसहितो जीवः कदाचन यदा कदाऽपि कूटस्थं न विविनक्ति स्वस्माद्विविक्ततया न जानाति । अयमनादिरविवेको मूला- विद्येति गम्यतां ज्ञायताम् ॥ २५ ॥

 तस्याः विक्षेपावृतिरूपं द्वैविध्यं प्रदर्श्य तत्वावृत्तिस्वरूपं निरूपयति, विक्षेप इति ।

विक्षेपावृतिरूपाभ्यां द्विधाऽविद्या व्यवस्थिता ।
न भाति नास्ति कूटस्थ इत्यापादनमावृतिः ॥ २६ ॥

 विक्षेपावृतिरूपाभ्यां विक्षेपो विक्षेपशक्तिः ययाऽवरणशक्तिमताऽज्ञानेन वस्तुनि तिरोहिते आकाशदयः कल्प्यन्ते सा । आवृतिरावरणशक्तिर्यया विद्य- मानस्य वस्तुनः स्वरूपेण भानं प्रतिबध्यते सा । ताभ्यामविद्या द्विधा व्यवस्थिता। तत्रावृतिं निरूपयति, नेति । कूटस्थो न भाति नास्तीत्यापादनं व्यवहारकारण- मावृतिरित्युच्यते । विक्षेपावृती ग्रंथकृतैव तृप्तिदापे ३६,३७ श्लोकाभ्यां विव- रिष्येते ॥ २६ ॥

 अज्ञानावरणयोर्लोकानुभवसिद्धतां प्रदर्शयति, अज्ञानीति ।

अज्ञानी विदुषा पृष्टः कूटस्थं न प्रबुध्यते ।
न भाति नास्ति कूटस्थ इति बुध्वा वदत्यपि ॥ २७॥

 विदुषा ज्ञानिना “कूटस्थं जानासि किमिति?" पृष्टोऽज्ञानी “न मया

प्रबुध्यते” इति प्रतिवदति । एवं च बाषयप्रयोगस्य वाक्यार्थज्ञानपूर्वकत्वेन

१४६
[चित्रदीप
पञ्चदशी

प्रकृते वाक्यार्थस्याज्ञानरूपत्वेन तादृशाज्ञानानुभवो वक्तरि सिद्ध इति भावः । अज्ञानिनस्तत्कृतावरणानुभवं दर्शयति, नेति । स्वस्मिन्नेव साक्षितयाऽज्ञानानुभव- रूपेण भासमानं कूटस्थं बुध्वापि कूटस्थो न भाति नास्तीति वदति । इदं प्रतिवचनं तदावरणमंतरा न घटत इत्यावरणानुभवोऽपि दर्शितः ।। २७ ॥

 तमःप्रकाशवद्विरुद्धस्वभावयोः स्वप्रकाशाज्ञानयोः कूटस्थे सह वर्तनं कथं घटत इत्याशंक्याह, स्वप्रकाश इति ।

स्वप्रकाशे कुतोऽविद्या तां विना कथमावृतिः ।
इत्यादितर्कजालानेि स्वानुभूतिर्ग्रसत्यसौ ॥ २८ ॥

 स्वप्रकाशे कूटस्थेऽविद्याऽज्ञानं कुतस्संभवति? न संभवतीति भावः । तां विना अविद्याभावे आवृतिः कथं संभवति ? इत्यादितर्कजालानि आवरणा- भावे तन्निमित्तस्य विक्षेपस्याभावस्तदभावे ज्ञानवैयय्र्थं, ततस्तत्प्रतिपादकशास्त्रस्या- प्रामाण्यमित्येवंविधां हेतुवादपरंपरां स्वानुभूतिः पूर्वश्लोकोक्तानुभवो ग्रसति बाधत इत्यर्थः । तथाचाह भगवान् भाष्यकारः "अहमिदं ममेदमिति नैसर्गिकोऽयं लोक- व्यवहार” इति ॥ २८ ॥

 अनुभवबाधितस्य केवलहेतुवादस्य निष्प्रयोजनतामाह, स्वेति ।

स्वानुभूतावविश्वासे तर्कस्याप्यनवस्थितेः ।
कथं वा तार्किकंमन्यस्तत्त्वनिश्चयमाप्नुयात् ॥ २९॥

 स्वानुभूतौ स्वानुभवे अविश्वासे प्रामाण्यसंशये सति, स्वानुभवमपहाय

केवलहेतुवादावष्टंभने सतीत्यर्थः, तर्कस्याप्यनवस्थितेः अनुकूलतर्काभावे केवलानुमानस्थाप्यनिश्चायकत्वस्य तार्किकैरेवांगीकृततया, तार्किकंमन्यः तार्किकमात्मानं यो मन्यते स न तु तत्त्वतस्तार्किकः स्वानुभवमपरिज्ञाय केवलस्वप्रतिभापरिकल्पितहेतुवादावलंबीत्यर्थः । सः तत्वनिश्चयं कथमाप्नुयात् ? स्वानुभवबाधकस्तर्कस्ताज्य एवेति भावः ॥२९॥

प्रकरणम् ॥६॥ ]
१४७
कल्याणपीयूषव्याख्यासमेता

 नन्वनुभवस्य तत्त्वनिश्चायकत्वेऽप्यनुभूतस्य तत्त्वस्य संभावितत्वज्ञानार्थं तर्कोऽवश्यमाश्रयणीय एवेत्याशंक्य तर्ह्यनुभवाविरोध्येव तर्को ग्राह्यो न तु ताद्वराधात्याह,

बुद्ध्यारोहाय तर्कश्चेदपेक्षेत तथा सति ।
स्वानुभूत्यनुसारेण तर्क्यतां मा कुतर्क्यताम् ॥ ३० ॥

 अनुभूतस्य विषयस्य बुद्ध्यारोहाय सम्यग्बुद्धौ स्थिरीकरणाय तर्कोऽपेक्षे तेति चेत्तथा सति स्वानुभूत्यनुसारेण तर्क्यतां । मा कुतर्क्यतां कुत्सितवादो मा क्रियताम् । ‘श्रुतिमतस्तर्कोऽनुसंधीयत"मिति श्रुत्यनुकूलतर्कस्यानुसंधीयमान- तायाः प्रतिपादितत्वात् ॥ ३१॥

 अनुभवानुसारिणं तर्क द्वाभ्यां प्रदर्शयति, स्वेति ।

स्वानुभूतिरविद्यायामावृतौ च प्रदर्शिता ।
अतः कूटस्थचैतन्यमविरोधीति तर्क्यताम् ॥ ३१॥

 अविद्यायामावृतौ च स्वानुभूतिः “न भाति नास्ति कूटस्थ"इत्यज्ञानिनो ऽनुभवः प्राक् २७ श्लोके प्रदर्शिता । अतः कूटस्थचैतन्यस्याज्ञानावरणयोश्च यौगपद्येन भानात् स्वप्रकाशं । कूटस्थचैतन्यमविद्यावरणयोरविरोधीति तर्क्यताम्। ३१ ॥

 स्वानुभवानुसारिणं तर्क प्रदर्शयति, तदिति ।

तच्चेद्विरोधि केनेयमावृतिर्ह्यनुभूयताम् ।
विवेकस्तु विरोध्यस्यास्तत्त्वज्ञानिनि दृश्यताम् ॥ ३२ ॥

 तत् कूटस्थचैतन्यमविद्याया विरोधीतिचेत्, तर्हि तयोरेकत्रावस्थानासंभवे इयमज्ञानिनः स्वानुभूत्या प्रदर्शिता आवृतिः केनानुभूयताम्? यद्यावृतेः स्वप्रकाशस्य चैतन्यस्य चाविरोधस्तदा तत्त्वज्ञानादावरणनाश इति कथमुपपद्यते? इत्यतो मुख्यतया तद्विरोधिनं नाशकं प्रदर्शयति, विवेक इति । आवृतेर्विवेको

विचारजन्यं ज्ञानं अस्या आवृतेर्विरोथी नाशकः । स च तत्त्वज्ञानिनि

१४८
[चित्रदीप
पञ्चदशी

दृश्यताम् । अतो विवेकस्यैवाविद्यानाशाकत्वम् । न तु केवलतत्त्वज्ञानस्य। तस्य ज्ञानस्य तत्वानतिरेकात् । तत्त्स्वस्य सर्वद: सत्वेन सर्वदा तन्नाशप्रसंग इति भाव: ॥३२॥

 आवरणशक्तिस्वरूपं तत्सत्तां च प्रदर्श्य तदतिरिक्तविक्षेपशक्तिस्वरूपं प्रदर्शयति, अविद्येति ।

अविद्यावृतकूटस्थे देहद्वययुता चितिः । ।
शुक्तौ रूप्यवदध्यस्ता विक्षेपाध्यास एव हि ॥ ३३ ॥

 शुक्तौ रूप्यवदारोपितं अध्यस्तं रूप्यमिव अविद्यावृतकूटस्थे अविद्यया आवृतो यः कूटस्थस्तस्मिन्नध्यस्था देहद्भययुता स्थूलसूक्ष्मदेहयुता चितिश्चिदाभासो विक्षेपाध्यास एव हि । अन्यस्यान्यथाप्रतीयमानत्वादध्यास इति भावः । येन निर्विकारे कूटस्थेऽन्योन्यधर्मा अन्योन्यस्मिन्नध्यस्यन्ते स एव विक्षेपः ॥ ३३॥

शुक्तिरजतदृष्टान्तेनाध्यासविवरणम् ।

 विषयसौलभ्यायाध्याससाम्यमुभयत्र विवृणोति इदमिति ।

इदमंशस्य सत्यत्वं शुक्तिगं रूप्य ईक्ष्यते ।
स्वयंत्वं वस्तुताचैवं विक्षेपे वीक्ष्यतेऽन्यगम् ॥ ३४ ॥

 आदौ पूर्वार्धेनोक्तः शुक्तौ रजताध्यासो विक्त्रियते । शुक्तिं दृष्ट्वा “ इदं रजतमि"ति व्यवहारे शुक्तिगं शुक्तिगतमिदमंशस्येदन्तारूपस्य पुरोवर्तित्वादेर्व्याव- हारिकं यत्सत्यत्वं व्यवहाराबाध्यत्वं तत् रूप्ये आरोपितमीक्ष्यते । पश्चादुत्तरार्धेन कूटस्थे देहद्वयाध्यासो विक्रियते । तथैव कूटस्थगतं स्वयंत्वं वस्तुता विक्षेपे अन्यगं स्थूलसूक्ष्मदेहसहितचिदाभासगतं वोक्ष्यते, तद्गतत्वेनेति भावः ।। ३४ ॥

 दृष्टान्तदार्ष्टान्तिकयोरंशविशेषाप्रतीत्याऽपि साम्यं दर्शयति, नीलेति ।

नीलपृष्टत्रिकोणत्वं यथा शुक्तौ तिरोहितम् ।
असंगानन्दताद्येवं कूटस्थेऽपि तिरोहितम् ॥ ३५॥

प्रकरणम् ॥६॥ ]
१४९
कल्याणपीयूषव्याख्यासमेता

 यथा शुक्तौ रजताध्यासे नीलपृष्ठत्रिकोणत्वं । शुक्तिगतं तिरोहितं न प्रतीयते । यथा शुक्तौ रजतस्य तद्धर्माणां चाध्यासेन शुक्तिगतनीलपृष्ठत्वादयो न भासन्ते एवं कूटस्थे स्थूलसूक्ष्मदेहादेस्तद्धर्मसंगित्वादेरध्यासेन तद्विरोध्यसंग त्वादयो न भासन्त इति भावः ।

 इदमत्र बोध्यम् । कूटस्थोऽसंगानन्दरूपः । चिदाभासोऽतथाविधः । यथा पुरोवर्तिशुक्तिकायां भ्रांत्येदं रजतमिति रजतत्वारोपे इदंपदार्थे वस्तुतो विद्यमानं नीलपुष्ठत्रिकोणत्वादि तिरे दधाति, एवं कूटस्थे चिदाभासस्याहंशब्दवाच्यस्यारोपे कूटस्थनिष्ठासंगानन्दादि तिरोभवति । शुक्तिकायां विद्यमानं पुरोदेशसंबंधित्व मारोपितरजते यथा भासमानं तथा कूटस्थनिष्ठं स्वयंत्वम् चिदाभासे भासमानं भवति। इदं रजतमित्यादाविवेंद्रियसन्निकर्षादेरभावेऽप्यारोप्याधिष्ठानस्यात्मन इंद्रियगोचरत्वेऽपि स्वप्रकाशत्वेनाध्यासः संगच्छते । यद्यपि स्वयमात्मकूटस्थशब्दा एकार्थकाः । तथापि तत्र कूटस्थे आत्मनि चिदाभासाध्यासे स्वयमहंशब्दयोरेकार्थकत्वमपि नापतति । स्वयंशब्दार्थस्य “अहं स्वयं शक्नोमि” ‘त्वं वीक्षस्व स्वय” मित्यादावनुगतत्वेन व्यापकतया अहंत्वादेर्व्याप्यतया इदंत्वरजतत्वादेरिव सामान्य विशेषभावे न तयोर्भेदस्य निश्चितत्वात् । स्वयंत्वं चान्यत्दं निवारयत्कूटस्थतामेव निश्चाययति । स्वयंत्वात्मत्वयोरेकत्वेऽपि घटादिष्वचेतनेषु स्वयंशब्दप्रयोगो न विरुध्यते । तत्रात्मत्वस्य व्यापकस्य अव्यभिचारात्। धटादिषु स्वयंशब्दप्रयोगेऽपि तत्र बुद्धिप्रतिफलितचैतन्याभावाच्चेतनाचेतनविभागः समंजसः संपद्यत इति तेष्षचेतनव्यवहारस्य नानुपपत्तिः । आत्मन एकत्वेन चिदाभासकल्पनाधिष्ठानत्वस्येव अचेतनघटादिकल्पनाधिष्ठानस्यावश्यमभ्युपगमात् । स्वत्वात्मत्वयोरेकत्वेऽहमादि ष्वनुगतस्य स्वत्वादेरात्मत्वमिवेदमात्मत्वं तदात्मत्वमित्यादावनुगतमिदंत्वतत्वाद्यात्मत्वमेवेति न शंकनीयम् । सम्यगात्मत्वमित्यादौ सम्यक्त्वमात्मत्वानुगतमप्यन्यत्राप्ति सम्यक्त्वव्यवहारात् पृथग्भूतमिव तदात्मत्वमिदमात्मत्वमिति तत्तेदन्तयोरात्मानुगतत्वेऽपि स घट अयं घटः इत्यत्रापि तत्तेदन्तयोर्दर्शनेनात्मत्वव्यभिचारात् । एते

विरुद्धधर्माः । तत्त्वप्रतियोगीदन्त्वम् । स्वत्वप्रतियोग्यन्यत्वम् । त्वन्ताप्रतियोग्यहन्ता। अन्यत्र प्रतियोगिनि स्वयंशब्दार्थे कूटस्थे त्वन्ताप्रतियोग्यहंशब्दार्थः

१५०
[चित्रदीप
पञ्चदशी

परिकल्पितः। एवं जीवकूटस्थयोर्भेदः स्फुटमवगम्यमानोऽप्यविद्यावशंवदाः कूटस्थस्य बुद्ध्यगोचरत्वात्तयोरेकतामवगच्छन्ति । अविद्यपरिकल्पित एवैष जीवकूटस्थयो- र्भ्रमोऽविद्यानिवर्तकं ज्ञानं विना न निवर्तत इति द्विपंचाश्छलोकपर्यन्तं वक्ष्यमाण ग्रन्थस्य संगृहीतोऽर्थ इति ॥३५॥

 उभयत्रान्यारोपेण केषांचिदंशानामप्रतीत्या नामान्तरप्राप्त्यापि साम्यमित्याह । आरोपितस्येति ।

आरोपितस्य दृष्टान्ते रूप्यं नाम यथा तथा।
कूटस्थाध्यस्तविक्षेपनामाऽहमिति निश्चयः ॥ ३६ ॥

 यथा दृष्टान्ते शुक्तिस्थले आरोपितस्य वस्तुनो रूप्यमिति नाम भवति तथा कूटस्थाध्यस्तविक्षेपनाम कूटस्थेऽध्यस्थो यो विक्षेपश्चिदाभासस्वरूपस्तस्य नाम अहमिति निश्चयः ॥ ३६॥

 विपरीतनामानुभवं दर्शयति इदमिति ।

इदमंशं स्वतः पश्यन् रूप्यमित्यभिमन्यते ।
तथा स्वं च स्वतः पश्यन्नहमित्यभिमन्यते । ३७॥

 यथा शुक्तिस्थले इदमंशमिदन्तां स्वतः पश्यन् पुरोवर्तिनीं शुक्तिं वस्तु- मात्रेण निर्दिशन् तत् रूप्यमित्यभिमन्यते रजताभिमानी भवति, तथा स्वतः परमार्थतः स्वयंप्रकाशं स्वमात्मानमेव पश्यन्नहमित्यभिमन्यते तत्राहंकाराभिमानी भवति ॥३७ ॥

 इदन्त्वरूप्यत्वांशयोर्विशेषणीभूतयोर्भिन्नत्वेऽपि विशेष्यभूतो व्यक्त्यंशो यथा दृष्टान्तेऽभिन्नस्तथा दार्ष्टान्तिके स्वयन्ताऽहन्तयोर्विशेषणीभूतयोर्धर्मयो भिन्नत्वेऽपि धर्मीणोऽभेद एवेत्युभयोरप्युभयत्र समाना प्रतीतिरित्याह इदमिति ।

इदन्त्वरूप्यते भिन्ने स्वत्वाहन्ते तथेष्यताम् ।
सामान्यं च विशेषश्च ह्युभयत्रापि गम्यते ॥ ३८ ॥

प्रकरणम् ॥६॥ ]
१५१
कल्याणपीयूषव्याख्यासमेता

 शुक्तिरजतस्थले इदन्त्वरूप्यते शुक्तिवस्तुनि निर्दिश्यमानमिदन्त्वं, तदारोपिता रूप्यता च मिन्ने यथा, तथा कूटस्थे विद्यमानं स्वत्वं, तस्मिन्नरोपिताऽहंन्ता च भिन्ने, इतीष्यताम् । उभयत्राऽपि दृष्टान्तदार्ष्टान्तिकयोस्सामान्यमुभयानुगतो घर्मो विशेषः प्रत्येकमसाधारणो धर्मश्च गम्यते प्रतीतिगोचरो भवति ॥३८॥

 स्वयंशब्दस्य सामान्यार्धेवाचकत्वं लौकिकप्रयोगेन द्रढयति, देवदत्त इति ।

देवदत्तः स्वयं गच्छेत्त्वं वीक्षस्व स्वयं तथा ।
अहं स्वयं न शक्नोमीत्येवं लोके प्रयुज्यते ॥ ३९ ॥

 देवदत्तः स्वयं गच्छेत्, त्वं स्वयं वीक्षस्य, अहं स्वयं न शक्नोमीत्येवरूपः प्रयोगो लोके प्रयुज्यते । तस्मात् स्वयन्त्वं सर्वानुगो धर्मोऽहन्ताचाभि- मानमात्रगत इत्यनयोस्सामान्यविशेषभावो बोध्यः ॥३९॥

 दृष्टान्ते इदंशब्दस्य दार्ष्टान्तिके स्वयंशब्दस्य च सर्वत्रानुगतधर्मार्थकत्व- प्रदर्शनेन सामान्यार्थकतां स्पष्टयति, इदमिति ।

इदं रूप्यमिदं वस्त्रमिति यद्वदिदं तथा ।
असौ त्वमहमित्येषु स्वयमित्यभिमन्यते ॥ ४० ॥

 इदं रूप्यमिदं वस्त्रमिति रूप्यवस्त्रयोः साधारण्येनेदं शब्दो यद्वत् प्रयुज्यते तथाऽसौ त्वमहमित्येषु स्वयमिति सामान्यतोऽभिमन्यते । तेषु स्वयं शब्दस्य प्रयोगदर्शनात्तदर्थस्य सामान्यरूपत्वमित्यर्थः । त्वमहमसावित्यादिसर्व- व्यवहारेषु स्वयंतायाः प्रतीत्यनुगमेन तस्याः सामान्यत्वं, तदननुगतानां युष्मत्वादीनां विशेषत्वमित्यनेन सूचितम् ॥४०॥

कूटस्थात्मस्वयंशब्दानां समानार्थकत्वनिरूपणम् ।

 ननु स्वत्वाहन्तयोर्भेदे तदाश्रययोः कूटस्थजीवयोर्मेदस्सिध्यतीति तव

सिद्धान्तहानिरित्याशंक्य समाधत्ते, अहंत्वादिति ।

१५२
[चित्रदीप
पञ्चदशी

अहन्त्वाद्भिद्यतां स्वत्वं कूटस्थे तेन किं तव ।
स्वयंशब्दार्थ एवैष कूटस्थ इति मे भवेत् ॥ ४१ ॥

 यद्यपि कूटस्थे स्वत्वमहन्त्वाज्जीवे वर्तमानाद्भिद्यतां नाम । तेन तव पूर्व- पक्षिणः किं को लाभः? तेन भेदमात्रेण विशेष्ये भेदालाभात् । तदेतदाह, स्वयमिति । स्वयंशब्दार्थः स्वयंशब्दजन्यबोधविशेष्य एष कूटस्थ एवेति मे भवेत् ॥ ४१ ॥

 स्वयंशब्दार्थः कूटस्थं बोधयतीति कथमुच्यते? स्वत्वस्य तद्विशेषणीभूतस्य धर्मान्तरनिवारकत्वात् कूटस्थत्वस्य तत्त्वादित्याशंकां समाधत्ते अन्यत्त्वेति ।

अन्यत्ववारकं स्वत्वमिति चेदन्यवारणम् ।
कूटस्थस्यात्मतां वक्तुरिष्टमेव हि तद्भवेत् ।। ४२ ॥

 त्वत्वं स्वयंशब्दार्थविशेषणोभूतो धर्मोऽन्यत्ववारकमन्यत्वरूपस्य धर्मस्य निवारकमिति वदसि चेत्तदन्यवारणं स्वयंशब्दार्थस्य कूटस्थस्यात्मतां वक्तुर्मे इष्टमेव भवेत् । अन्यत्वनिवारकेण स्वयंत्वेन बोधितो यः कूटस्थः स एवात्मेति सिध्यति । एवं च नेति नेतीति वाक्येन कूटस्थेतरनिवारणेनैव ब्रह्मणस्सिद्धिरित्यतः स्वयंशब्दस्येतरार्थनिवारकताऽस्माकमभीष्टार्थसाधिकैवेति भावः ॥४२॥

 स्वयंशब्दार्थः कूटस्थोऽस्तु । तस्यात्मता कुतः सिध्यति ? स्वयंशब्दार्थ विशेषणीभूतस्वत्वस्यान्यनिवारकत्वाभ्युपगमेनात्मत्वस्यापि निवारणप्रसंगादि त्याशंक्य स्वत्वमांत्मत्वं चैकमेव, न भिन्नौ धर्मौ, अतः स्वत्वमात्मत्वं न वार यतीत्युपपादयति, स्वयमिति ।

स्वयमात्मेति पर्यायौ तेन लोके तयोस्सह ।।
प्रयोगो नास्त्यतः स्वत्वमात्मत्वं चान्यवारकम् ॥ ७३॥

 स्वयमात्मेति द्वौ शब्दौ पर्यायौ समानप्रवृत्तिनिमित्तकौ। ययोः शब्दयोः प्रयोगे एक एवार्थो बुध्यते तौ शब्दौ पर्यायावित्युच्येते । तेन कारणेन लोके तयो

स्स्वयमात्मशब्दयोः सहग्रयोगः स्वयमात्मेति युगपत्प्रयोगो नास्ति; तत्प्रवृत्तिनिमि

प्रकरणम् ॥६॥ ]
१५३
कल्याणपीयूषव्याख्यासमेता

तयोरेकत्वात् । सहप्रयोगे च धर्मभेदो नियामकः । तथा च सहप्रयोगाभावेन स्वत्वात्मत्वयोर्मिन्न्धर्मत्वं नास्तीत्यवगन्तुं शक्यने । एवं सहप्रयोगाभावेन स्वत्वात्मत्वयोर्भेदं निराकृत्य तयोर्व्यापारैक्येनापि भेदाभावं साधयति,अत इति।अतः स्वत्वमात्मत्वं चान्यवारकमिति स्वत्वात्मत्वयोरन्यवारणमेव व्यापारो नान्यः । एवं च व्यापारैक्यात् तदैक्यं च ज्ञातुं शक्यमिति भावः ॥ ४३॥

 एतावता प्रबन्धने स्वत्वं कूटस्थात्मधर्म इति साधितम् । आत्मा च चेतनः । एवं च चेतनधर्मस्य स्वत्वस्याचेतने कथं स्थितिः? तदभावे "घटः स्वयं न जानाती"त्यादिव्यवहारः कथमुपपद्यते? अचेतने घटे स्वयन्ताया बाधादित्याशंक्य समाधत्ते, घट इत्यादि ।

घटः स्वयं न जानातीत्येवं स्वत्वं घटादिषु ।
अचेतनेषु दृष्टं चेद्दृश्यतामात्मसत्वतः ॥ ४४ ॥

 ननु "घटः स्वयं न जानाती ”त्येवं रूपे प्रयोगेऽचेतनेषु घटादिषु स्वत्वं स्वत्वरूपो धर्मो दृष्टः । तत्र स्वयन्ताभावे एतत्प्रयोगानुपपत्तेरितिचेदात्मसत्त्वतस्ते- ष्वप्यात्मसत्वतः स्फुरणरूपेण आत्मनो विद्यमानत्वात्स्वयं शब्दप्रयोगो दृश्यताम् । आत्मनिष्ठस्वत्वस्य घटेऽध्यासादयं व्यवहार औपचारिक:, वस्तुनो घटे स्वत्वं नास्त्येवेति भावः ॥४४ ॥

 यदि घटाद्यचेतनेष्वात्मत्वस्वयंत्वव्यवहारस्तर्हि चेतनाचेतनविभाग एव न स्यादित्याशंक्याह, चेतनेति ।

चेतनाचेतनभिदा कूटस्थात्मकृता न हि ।
किं तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥ ४५ ॥

 चेतनाचेतनाभिदा अयं चेतनोऽयमचेतन इति भेदः कूटस्थात्मकृता कूटस्थरूपो य आत्मा तेन कृता न हि, तद्भेद आत्मनो भावाभावकल्पितो नेत्यर्थः, उभयत्राप्यात्मनः सत्वस्य समानत्वात् । तर्हि कुतोऽयं भेद इत्यत आह,

किंत्विति । बुद्धिकृताभासकृता बुद्ध्या कृतो बुद्धौ प्रतिबिंबितो य आभासश्चिदा

१५४
[चित्रदीप
पञ्चदशी

भासस्तेन कृता तन्निमित्तेत्यवगम्यताम् । चिदाभासविशिष्टबुद्धिसत्वे चेतन इति, तदभावेऽचेतन इति च व्यवहार इति भावः ॥ ४५ ॥

 कूटस्थाभ्युपगमं विना चिदाभाससत्वासत्वाभ्यां चेतनाचेतनविभागस्य सद्धीत्वेऽपि यथा चिदाभासः कूटस्थे भ्रांतिकल्पित इत्यभ्युपगतं, तथा घटा- दिरचेतनोऽपि कूटस्थे भ्रांतिकल्पित इत्यभ्युपगन्तव्यः , अन्यथा सिद्धान्तभंगा पत्तेरित्याह, यथेति ।

यथा चेतन आभासः कूटस्थे भ्रान्तिकल्पितः ।
अचेतनो घटादिश्च तथा तत्त्रैव कल्पितः ॥ ४६ ॥

 चेतन आभासः चेतनतया व्यवह्रियमाणश्चिदाभासस्तत्प्रतिबिंबितत्वात् , यथा कूटस्थे प्रत्यगात्मनि भ्रान्तिकल्पित आरोपित एव तथा अचेतनो घटादिश्च तत्त्रैव कूटस्थे कल्पित आरोपितः ॥४६ ॥

 स्वत्वस्य सर्वत्रानुगमादात्मत्वमिति निश्चित्य सम्यगात्मत्वमित्यादौ सम्यक्त्वस्य स्वत्वमात्मत्वमप्येकमेव तत्त्वमिति निश्चितम् । तेन यत्सर्वानुगतं तदात्मत्वमिति लब्धम् । एवं च तत्तेदन्तयोरप्यात्मता स्यादिति शंकते, तत्त इति।

तत्तेदन्ते अपि स्वत्वमिव त्वमहमादिषु ।
सर्वत्रानुगते तेन, तयोरप्यात्मतेति चेत् ॥ ४७ ॥

 त्वमहमादिषु स्वत्वमिव त्वं स्वयं वीक्षस्व अहं स्वयं न शक्रोमीति यथा स्वत्वं सर्वत्रानुगच्छति, तथैव तत्तेदन्ते तदिदंशब्दबोद्ध्यौ धर्मौ व्यवहारे सर्व वस्तुसाधारणतया स्वयंत्ववत्सर्वत्रानुगते । तेन स्वयंत्वस्य यथाऽऽत्मतारूपत्वं तथा तयोरप्यात्मताऽऽत्मत्वरूपत्वं स्यादिति भावः ॥ ४७ ॥

 समाधत्ते, त इति ।

ते आत्मत्वेऽप्यनुगते तत्तेदन्ते ततस्तयोः ।
आत्मत्वम् नैव संभाव्यं सम्यक्तवादेर्यथा तथा ॥ ४८ ॥

प्रकरणम् ॥६॥ ]
१५५
कल्याणपीयूषव्याख्यासमेता

 ते तत्तेदन्ते आत्मत्वं तदात्मत्वमिदमात्मत्वमिति प्रयोगदर्शनादात्मत्वे ऽप्यनुगते । ततः तन्मात्रेणैव तयोस्तत्तेदन्तयोरात्मात्वमात्मतारूपत्वं नैव संभाव्यं । तत्र दृष्टान्तमाह, सम्यगिति । यथा सम्यक्त्वादेः सम्यगात्मत्वं अप्तम्यगात्मत्व- मित्यादौ सम्यतवासम्यक्तवयोरात्मन्वानुगतत्वेऽपि, सम्यगुक्तं त्वयेत्यादावपि सम्य क्त्वादेर्दर्शनादधिकदेशवृत्तित्वेन यथा तयोरात्मत्वाभावस्तथा स घटः अयं घट इत्यादौ घटत्वाद्यनुगतत्वेनापि तत्तेदन्तयोर्दर्शनादात्मापेक्षया अधिकदेशवृत्तित्वेन । न तयोरात्मत्वमिति भावः ॥४८॥

 तत्तेदन्तयोरपि, स्वयंत्वस्येवात्मत्वमभ्युपेयम् । तन्निवारणे कोऽसौ तव नेिर्बंध, इत्याशंकां, यदि तत्तेदन्तेऽप्यात्मत्वरूपे स्यातां प्रतिद्वंद्विभावेन लोक सिद्धस्तयोव्र्यवहारो भज्येतेत्याशयेन परिहरति, तत्तेति ।

तत्तेदन्ते स्वताऽन्यत्वे त्वन्ताहन्ते परस्परम् ।
प्रतिद्वंद्वितया लोके प्रसिद्धे नास्ति संशयः ॥ ४९ ॥

 तन्तेदन्ते, स्वतान्यत्वे, त्वन्ताहन्ते, परस्परं प्रतिद्वंद्वितया लोके प्रसिद्धे । प्रतिद्वंद्विभूतौ विरुद्धावित्यनुभवः । एवं च निरुद्धद्वयात्मकत्वमात्मवस्य न् युज्यत इति भावः । तत्र संशयो नास्ति ॥४९॥

 कूटस्थं प्रति प्रतिद्वंद्विफलितमाह, अन्यताया इति ।

अन्यतायाः प्रतिद्वंद्वी स्वयं कूटस्थ इष्यताम् ।
त्वन्तायाः प्रतियोग्येषोऽहमित्यात्मनि कल्पितः ॥ ५० ॥

 स्वयं स्वयंशब्दार्थः कूटस्थोऽन्यताया अन्यशब्दबोध्यधर्मस्य प्रतिद्वंद्वी विरोधी, त्वन्तायाः त्वंशब्दबोध्यधर्मस्य प्रतियोगी विरोधिभूताहन्ताश्रयोऽहंशब्द- बोध्यधर्माश्रय, एषोऽहंकर्तृत्वाभिमानोऽहंशब्दबोधित एष चिदाभासश्चात्मनि कल्पित इतीष्यताम् ॥ ५०॥

 नन्वहं स्वयं जानामीति प्रतीतिबलात्स्वयन्ताहन्तयोस्सामानाधिकरण्य-

प्रतीतेरहन्तायाः कथं कल्पितत्वमुच्यत इत्याशंकां परिहरति, अहन्तेति ।

१५६
[चित्रदीप
पञ्चदशी

अहन्तास्वत्वयोर्भेदे रूप्यतेदन्तयोरिव ।
स्पष्टेऽपि मोहमापन्ना एकत्वं प्रतिपेदिरे ॥ ५१ ॥

 रूप्यतेदन्तयोरिव यथेदमिति निर्दिश्यमाने वस्तुनि शुक्तौ भ्रान्त्या तद्भिन्नस्य रूप्यत्वस्यारोपितत्वात् भेदे स्पष्टेऽपि तमजानंतो मोहमापन्ना एकत्वं प्रतिपेद्रिरे “इदं रजतमित्यभेदेन व्यवहरन्ति, तथाऽहन्तास्वत्वयोरहंस्वयंशब्द- बोध्ययोर्धर्मयोर्भेदे पूर्वोक्तदिशा स्पष्टेऽपि जीवकूटस्थयोर्भेदे सुविदितेऽपीत्यर्थः । मोहमापन्ना जना अन्यधर्मानन्यस्मिन्नारोप्यैकत्वं प्रतिपेदिरे ॥ ५१ ॥

 तव भ्रान्तेः कारणमाह,तादात्म्येति ।

तादात्म्याध्यास एवात्र पूर्वोक्ताविद्यया कृतः।
अविद्यायां निवृत्तायां तत्कार्यं विनिवर्तते ॥ ५२ ॥

 अत्र भिन्नयोरहन्तास्वत्वयोरेकत्वापादने तादात्म्याध्यासा जीवकूटस्थयो- रैक्यकल्पना पूर्वोक्ताविद्यया पूर्वस्मिन् पंचविंशतितमश्लोके उक्ता या अविद्या जीवकूटस्थविवेचनासामर्थ्यरूपानादिरविवेकात्मकमूलविद्या तया कृतः कल्पितः। अविद्यायां निवृत्तायां तत्कार्यं तस्या अविद्यायाः कार्यमध्यासरूपं विनिवर्तते स्वयमेव नश्यति । उपादानकारणनाशे कार्यनाशस्य लोके दृष्टत्वादितिभाबः ॥५२॥

अविद्यानिवृत्तौ तत्कार्यनाशः ।

 नन्वविद्यांनिवृत्तौ तत्कार्यं विनिवर्तत इत्यनुपपन्नम्, अविद्यानाशकब्रह्मा- त्मैकत्वविद्यायां जातायामप्यविद्याकार्यस्य देहादेज्ञानदशायामप्युपलंभादित्या- शंक्याह, अविद्येति ।

अविद्यावृतितादात्म्ये विद्ययैव विनश्यतः।
विशेपस्य स्वरूपस्तु प्रारब्धक्षयमीक्षते ॥ ५३ ॥

 विद्यया चिदाभासकूटस्थैक्यज्ञानेन अविद्यावृतितादात्म्ये अविद्यमात्रकृते आवृतिर्न भाति नास्ति कूटस्थ इत्याकारिका तदात्म्यमविद्यावृतकूटस्थस्य देहद्वय

विशिष्टचिदाभासस्य चैक्याध्यासरूपविक्षेपश्च विनश्यतः। किं तु प्रारब्धकर्म

प्रकरणम् ॥६॥ ]
१५७
कल्याणपीयूषव्याख्यासमेता

सहिताविद्याजन्यविक्षेपरूपं स्थूलसूक्ष्मशरीरात्भकं देहद्वयं प्रारब्धक्षयमीक्षत । प्रारब्धातिरिक्तं कर्म ज्ञानेन विनश्यति । प्रारब्धस्तु प्रारब्धाधीनयावच्छरीरपाता वधिकमितिभावः । अयमतसंग्रहः । ‘न भाति नास्ति कूटस्य" इत्याकाराऽऽवृतिः कूटस्थे चिदाभासाध्यासरूपदेहद्वयसंयुता । तद्देहद्वयं च प्रारब्धप्राप्तम् । तंत्र चिदाभासस्यारोपिततत्वज्ञानोदयेनाऽविद्याविनाशे सत्यावृतिविक्षेपो विनश्यतः ।

ष्टं शवकल्पं । चिदाभासस्य शरीरद्वयं तु तत्पातेनैव विनश्यतोति ॥ ५३ ॥

 नन्वविद्याया नाशे तदाश्रया विज्ञेपशक्तिः किमाश्रया तिष्ठतीत्याशंक्य, निराश्रयस्य किंचित्कालं स्थितिर्नैयायिकैरप्यभ्युपेयत एवेति समाधत्ते, उपादान इति ।

उपादाने विनष्टेऽपि क्षणं कार्यं प्रतीक्षते ।
इत्याहुस्तार्किकास्तद्वदस्माकं किं न संभवेत् ॥ ५४ ॥

 उपादाने कारणे विनष्टेऽपि तस्य कार्यं क्षणं नाशक्षणकालं प्रतीक्षते स्वनाशार्थं निरीक्षते, इति तार्किका आहुः । तद्वदस्माकं मतेऽप्यविद्याया नाशेऽपि तच्छक्तिभूतो विक्षेपः किंचित्कालं किं न संभवेत् ? कालतारतम्यपरोक्षाया अत्राप्रयोजकत्वादिति भावः ॥ ५३ ॥

 ननु कारणनाशस्य कार्यनाशजनकत्वात्कार्यनाशं प्रति प्रतियोगिनोऽपि कारणत्वात्कारणनाशक्षणे प्रतियोगिभूतकार्यस्यापि निराश्रया स्थितिरभ्युपेयते, क्षणमात्रं तत्थित्यङ्गीकारेणैवोपपत्तौ दीर्घकालस्थितिः कथमभ्युपेयत इत्यत आह, तंतूनामिति ।

तंतूनां दिनसंख्यानां तैस्तादृक् क्षण ईरितः ।।
भ्रमस्यासंख्यकल्पस्य योग्यः क्षण इहेष्यताम् ॥ ५५ ॥

 दिनसंख्यानां क्षणसमुदायात्मकदिनगतसंख्यापरिच्छिन्नानां वस्त्रस्योपादान कारणभूतानां तंतूनां विषये तैस्तार्किकैस्तदवयवसूक्ष्मकालरूपः क्षणः कार्यस्थित्य

नुकूल ईरितः । असंख्यकल्पस्य असंख्याः कल्पा यस्य तस्य संख्यावदवयवशून्य

१५८
[चित्रदीप
पञ्चदशी

कल्पस्याखंडकल्पस्यानादिकालमनुवृत्तस्वेत्यर्थः। भ्रमस्य तत्कृतसंसारस्य योग्यः क्षण इह विक्षेपविषये इष्यताम् ॥ ५५ ॥

मतानामनेकत्वे सम्यग्विचाराभाव एव कारणम् ।

 वस्तुतो युक्तिमात्रं प्रमाणीकृत्य वदतां रीतिमनुसृत्य समाधानमिदमुक्तम्। श्रुतिप्रमाणकानां वेदान्तिनां श्रुतिसिद्धार्थे न केवलयुक्त्यपेक्षेति मुख्यं समाधानमाह, विनेति ।

विना क्षोदक्षमं मानं तैर्वृथा परिकल्प्यते ।
श्रुतियुक्त्यनुभूतिभ्यो वदतां किं नु दुश्शकम् ? ॥ ५६॥

 क्षोदक्षमं विचारसहं मानं प्रमाणं विना तैस्तार्किकैर्वृथा शास्त्रप्रमाण- मन्तरेण निरर्थकं केवलयुक्त्या कल्प्यते । श्रुतियुक्त्यनुभूतिभ्यः श्रुतिः “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथसंपत्स्य’ (छां.६.१४.२.) इत्यादिः,युक्तिर्मुक्ते षुवदित्यादिः, अनुभूतिः ज्ञानिनां,ताभ्यः तदालंबनेनेत्यर्थः । वदतां वेदान्तिनामस्माकं किं नु दुश्शकं ? न किमपि ॥ ५६॥

 अतिफल्गुतया तार्किकवादमुपेक्ष्य वक्तव्यमाह, आस्तामिति ।

आस्तां दुस्तार्किकैस्साकं विवादं प्रकृतं ब्रुवे ।
स्वाहमोस्सिद्धमेकत्वं कूटस्थपरिणामिनोः ॥ ५७ ॥

 दुस्तार्किकैः प्रमाणमपहाय केवलयुक्यवष्टंभतया दुष्टा ये तार्किकास्तैस्साकं विवाद आस्ताम्, तद्विषये नास्माभिरतीव प्रयत्यते, प्रकृतमुपदेश्यं ब्रुवे । किं तदित्यत आह, स्वेति । स्वाहमोः स्वयन्ताहन्ताविशिष्टयोः कूटस्थपरिणामिनोः कूटस्थस्योपाधिकल्पितपरिणामवच्चिदाभासस्य च एकत्वं तादात्म्यं सिद्धं भ्रान्ति- सिद्धं । भ्रान्तिपरिहाणेऽहंकारास्पदचिदाभासादतिरिक्त एव कूटस्थो न त्वहंकारा- स्पद इति प्रतीयते ॥ ५७ ॥

 तद्वादस्य फल्गुतयोपेक्ष्यत्वे कारणमाह, भ्राम्यन्त इति ।

प्रकरणम् ॥६॥ ]
१५९
कल्याणपीयूषव्याख्यासमेता

भ्राम्यन्ते पंडितंमन्याः सर्वे लौकिकतैर्थिकाः ।
अनादृत्य श्रुतिं मौर्ख्यात्केवलं युक्तिमाश्रिताः ॥ ५८ ॥

 सर्वे लैकिकतैर्थिकाः युक्तिमात्रानुसारेण तत्त्वं निश्चितुं प्रवृत्ता दर्शनप्रवर्तकाः पंडितंमन्याः पंडितानात्मनो मन्यमानाः श्रुतिमनादृत्य मौर्ख्यात् केवलं युक्तिमाश्रिता भ्राम्यन्ते भ्रान्तिं गत्वाऽपमार्गेषु प्रवर्तन्त इत्यर्थः ॥ ५८॥

 ननु नास्तिकदर्शनप्रवर्तकानां श्रुत्यनादरणसत्वेऽप्यास्तिकदर्शनप्रवर्तक साधारण्येन तदनादरणोक्तिरनुचितेत्याशंक्य तेषामप्यन्यादृशमनादरणमस्ती त्याह, पूर्वेति ।

पूर्वापरपरामर्शविकलास्तत्र केचन ।
वाक्याभासान् स्वस्वपक्षे योजयन्त्यप्यलज्जया ॥ ५९ ॥

 तत्र तैर्थिकानां मध्ये केचन कणादकपिलभट्टादय आस्तिकदर्शनप्रवर्तकाः पूर्वापरपरामर्शविकलाः प्रमाणवाक्यानां पूर्वापसंदर्भविचारेणैकवाक्यताकल्पने विकला भग्ना अशक्ताः स्वस्वपक्षेऽलज्जया वाक्याभासान् योजयन्ति कल्प यन्ति ॥५९॥

 तत्र सर्वथा श्रुतिमनादृत्य श्रुतिरप्रमाणमेवेति वदतां मध्ये आदौ लोका यतिकानां मौर्ख्यं विशदयति, कूटस्थेति ।

कूटस्थादिशरीरान्तसंघातस्यात्मतां जगुः।
लोकायताः पामराश्च प्रत्यक्षाभासमाश्रिताः ॥ ६० ॥

 लोकायताः लोके आयतो विस्तृतोऽनायाससाध्यत्वादिति लोकायतश्चार्वाकमतसिद्धान्तः, तदालंबिनोऽपि लोकायताश्चार्वाकाः केवलप्रयक्षप्रमाणवादिनः। पामरास्सामान्यतश्शास्त्रज्ञानविकलाश्च प्रत्यक्षाभासं प्रमाणवदाभासमानप्रत्यक्षमात्रं प्रमाणत्वेनाश्रिताः, कूटस्थादिशरीरान्तसंघातस्य यस्य कूटस्थ आदिश्शरीरनन्तः

तस्य संघातस्य स्थूलदेहस्य “स्थूलोऽहं कृशोऽहमित्यादिप्रात्यक्षिकप्रतीतिबलादात्मतां जगुः । प्रत्यक्षेणानुभूयमानत्वात् स्थूलशरीरमेवात्मेति मन्यमानास्ते

१६०
[चित्रदीप
पञ्चदशी

नास्तिकाः प्रत्यक्षमपि न सम्यग्विचारयन्ति । मरणानन्तरं स्थूलशरीरस्य सत्त्वेऽपि चैतन्यस्याभावाधवहृतेरदर्शनादिति भावः ॥६०॥

आत्मस्वरूपविषये विविधमतविचारः ।

 प्रत्यक्षाभासाश्रयेण प्रवर्तिते स्वमते "श्रुतिसिद्धमेव प्रमितं नान्यदिति" वादिनामङ्गीकारसंपादनायं श्रुत्यैकदेशं स्वार्थेऽविश्रान्तं किंचि च्छुत्रतिवाक्यं तेनास्तिका उदाजह्रुरित्याह, श्रौतीकर्तुमिमि ।

श्रौतीकर्तुं स्वपक्षं ते कोशमन्नमयं तथा ।
विरोचनस्य सिद्धान्तं प्रमाणं प्रतिजज्ञिरे ॥ ६१ ॥

 ते लोकायतिकाः स्वपक्षं श्रौतीकर्तुं परप्रत्ययनाय श्रुतिसिद्धमिति प्रदर्शयितुमन्नमयं कोशं "स वा एष पुरुषोऽन्नरसमय" (तै.२.१) इति विरोचनस्यासुरराजस्य सिद्धान्त "मात्मैव देहमय'इत्येतद्रूपं प्रमाणं प्रतिजज्ञिरे । प्रमाणत्वेनाङ्गी- चक्रुरित्यर्थः ॥ ६१॥

 अस्मिन्मते दोषदर्शनवतामन्येषां मतमाह, जीवेति ।

जीवात्मनिर्गमे देहमरणस्यात्र दर्शनात् ।
देहातिरिक्त एवात्मेत्याहुर्लोकायताः परे ॥ ६२॥

 परे लोकायताः स्थूलदेहाज्जीवात्मनिर्गमे जीवात्मत्वेनाभिमतस्य जीवस्य निर्गमेऽत्र अन्नमयकोशरूपस्थूलदेहनाशरूपस्य देहमरणस्य दर्शनादात्मा देहाति- रिक्तः स्थूलदेहाद्भिन्न एवेत्याहुः ॥ ६२॥

 तेषां मते कीदृशोऽयमात्मेत्यत आह,प्रत्यक्षेति ।

प्रत्यक्षत्वेनाभिमताऽहंधीर्देहातिरेकिणम् ।
गमयेदिन्द्रियात्मानं वच्मीत्यादिप्रयोगतः ॥ ६३ ॥

 अहं वच्मीत्यादिप्रयोगतः प्रत्यक्षेणाभिमता अंगीकृताऽहंधीर्देहातिरेकिणं

स्थूलदेहाद्भिन्नमिन्द्रियात्मानमिन्द्रियाण्येवात्मा तं गमयेत् ज्ञापयेत् ॥ ६३ ॥

प्रकरणम् ॥६॥ ]
१६१
कल्याणपीयूषव्याख्यासमेता

 वागादिषुचैतन्यस्याभावात्कथमात्मत्वमित्याशंक्य चैतन्यप्रदर्शनेन परि- हरति, वागादीनामिति ।

वागादीनामिंद्रियाणां कलहः श्रुतिषु श्रुतः।
तेन चैतन्यमेतेषामात्मत्वं तत एव हि ॥ ६४ ॥

 श्रुतिषु छांदोग्यबृहदारण्यकादिधूपनिषत्सु (छां, ५. १. वृ. ६. ७. वागादीनामिन्द्रयाणां कलहः चेतनसहजघर्मः श्रुतः तेन तेषां चैतन्यमस्तीति तत एव चैतन्यसत्वाद्देहात्मत्वं च सिध्यति : हीति निश्चयार्ये ॥ ६४ ॥

 इन्द्रियाणामनात्मत्ववादिनां हैरण्यगर्भानां मतमाह, हैरण्येति ।

हैरण्यगर्भाः प्राणात्मवादिनस्त्वेवमूचिरे ।
चक्षुराद्यक्षलोपेऽपि प्राणसत्वे तु जीवति ॥ ६५ ॥

 स्पष्टोऽर्थः । अक्षार्णीद्रियाणि । प्राणस्य सत्वे ॥ ६५॥

 प्राणस्यात्मत्वे श्रुतिः प्रमाणमित्याह, प्राण इति ।

प्राणो जागर्ति सुप्तेऽपि प्राणक्षैष्ठ्यादिकं श्रुतम् ।
कोश: प्राणमयस्सम्यग्विस्तरेण प्रपंचितः ॥ ६६ ॥

 सुप्तेऽपींद्रियाणीतराणि लयं गतानि प्राणस्तु जागर्ति । “प्राणादय एवै तस्मिन् पुरे जागर्ति ” (प्रक्ष्न. ४३. ) इति श्रुते । तत्प्राणे प्रपन्न उदतिष्ठत् तदुक्थमभवतदेतदुक्थम् प्राणो वा व ज्येष्ठश्च श्रेष्ठश्च’ (छां. ५.१.१.) “यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठः” (छ. ५. १. ७.) इत्यादिभ्यः प्राणक्षैष्टयादिकं श्रुतम् । "अन्योऽन्तर आत्मा प्राणमयः (तै. २. २) इत्यादिना प्राणमयः कोशः सम्यविस्तरेण बहुधा प्रपञ्चितः । एवं प्राणस्यात्मत्वं निक्ष्चोयते ॥ ६६ ॥

 अन्ये प्राणस्यात्मत्वे दाशना मनस आत्मत्वभावदयन्तात्याह, नम इति

१६२
[चित्रदीप
पञ्चदशी

मन आत्मेति मन्यन्ते उपासनपरा जनाः ।
प्राणस्याभोक्तृता स्पष्ट भोक्तृत्वं मनसस्ततः ॥ ६७ ॥

 प्राणो नात्मा, किंतु मन आत्मेत्युपासनपरा जना मन्यन्ते । तत्र कारणमाह प्राणस्येति । प्राणस्याभोक्तृताऽहं भुंजे इत्यादिष्वहन्ता सामानाधिकरण्येनानुभूयमानस्य भोक्तृत्वस्याभावः प्राणे स्पष्टा। नातः प्राण आत्मा । ततो मनसो भोक्तृत्वं स्पष्टमित्युत्तरेणान्वयः।।६७॥

 मनस आत्मत्वे युक्तिबोधकं प्रमाणमाह, मन एवेति ।

मन एव मनुष्याणां कारणं बंधमोक्षयोः ।
श्रुतो मनोमयः कोशस्तेनात्मेतीरितं मनः ॥ ६८ ॥

 मन एव मनुष्याणां बंधमोक्षयोः कारणमिति श्रुतम् । किं च "तस्माद्वा एतस्मात्प्राणमयादन्योऽन्तर आत्मा मनोमयः" (तै.२.३.) इति मनोमयः कोशोऽपि श्रुतः । तेन मन आत्मेतीरितं प्रतिपादितम् ॥ ६८ ॥

 अनन्तरं विज्ञानवादिनां बौद्धानां मतमाह, विज्ञानमिति ।

विज्ञानमात्मेति पर आहुः क्षणिकवादिनः ।
यतो विज्ञानमूलत्वं मनसो गम्यते स्फुटम् ॥ ६९ ॥

 सुगमा पदयोजना । मनोविज्ञानयोः कार्यकारणभावस्य सत्त्वादित्यर्थः । क्षणिकवादिनो बौद्धैकदेशिनः ॥ ६९ ॥  मनसो विज्ञानमूलत्वं द्वाभ्यां विशदयितुकामः आदौ मनोविज्ञानयोः स्वरूपमाह,

अहंवृतिरिदंवृत्तिरित्यन्तःंकरणं द्विधा ।
विज्ञानं स्यादहंवृत्तिरिदंवृत्तिर्मनो भवेत् ॥ ७० ॥

 अहंवृत्तिरहमित्याकारकं ज्ञानं, इदंवृतिरिदमित्याकारकं ज्ञानमित्यन्तःकरणं,द्विधा द्विप्रकारकम् ।

तत्राहंवृत्तिर्विज्ञानं स्यात् । इदंवृत्तिश्च मने

प्रकरणम्॥६॥]
१६३
कल्याणपीयूषव्याख्यासमेता

भवेत् । अहंवृतिः ज्ञातारं स्वमेव विषयीकरोति । इदंवृत्तिस्तु विज्ञातुरन्यद्वाह्यं वस्तु विषयीकरोतीति भावः ॥ ७० ॥

 एवं स्वरूपमुक्त्वा, मनसो विंज्ञानमूलत्वमनुमानेन दर्शयति,अहमिति ।

अहंप्रत्ययबीजत्वमिदंवृत्तेरिति स्फुटम् ।
अविदित्वा स्वमात्मानं बाह्यं वेत्ति न तु क्वचित् ॥ ७१ ॥

 इदंवृत्तेरिदमित्याकारकस्य ज्ञानस्य अहंप्रत्ययबीजत्वमहंज्ञानकारणत्वमिति स्फुटम् । अनेनेदंवृतिरहंवृतिमूलिकेति प्रतिज्ञा प्रदर्शिता। तत्र व्यतिरेकमुखेन हेतुमाह, अविदित्वेति । स्वमात्मानमविदित्वा बाह्यं ज्ञातुर्भिन्नं वस्तु कचिदपि न वेत्ति । अनेनाहंवृत्तिरूपस्य ज्ञानपूर्वकत्वादिति हेतुः प्रदर्शितः ॥ ७१ ॥

 एवं विज्ञानं संसाध्य तस्य क्षणिकत्वं साधयति, क्षणमिति ।

क्षणे क्षणे जन्मनाशवहंवृत्तेर्भितौ यतः।
विज्ञानं क्षणिकं तेन स्वप्रकाशं स्वतो मितेः ॥ ७२ ॥

 यतोऽहंवृत्तेः क्षणे क्षणे जन्मनाशौ मितौ ज्ञानविषयौ भवतस्तेन विज्ञानं क्षणिकं क्षणमात्रस्थायि भवेत् । स्वतों मितेर्विज्ञानस्य स्त्रयमेत्र भानात् स्वप्रकाशं च ॥ ७२॥

 विज्ञानस्यात्मत्वे प्रमाणमाह, विज्ञानेति ।

विज्ञानमयकोशोऽयं जीव इत्यागमा जगुः।
सर्वससार एतस्य जन्मन।शसुखादिकः ॥ ७३ ॥

 पूर्वार्धः स्पष्टः । आगमाः ‘तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः” (तै. २. ४.) इत्यादयः । जन्मनाशसुखादिकः सुकृतदुष्कृतफल भोगात्मकः सर्वसंसार एतस्य जीवस्यैव ॥ ७३ ॥

 बौद्धैकदेशिनां माध्यमिकानां मतमाह, विज्ञानमिति ।

१६४
[चित्रदीप
पञ्चदशी

विज्ञानं क्षणिकं नात्मा विद्युदभ्रनिमेषवत् ।
अन्यस्यानुपलब्धत्वाच्छून्यं माध्यमिका जगुः ॥ ७४ ॥

 विद्युदभ्रनिमेषवत् क्षणिकं क्षणस्थायि विज्ञानमात्मा न भवति । अन्यस्यात्मनोऽनुपलब्धत्वादप्राप्तस्यादात्मा शून्यमिति माध्यमिका जगुः ॥ ७४ ॥

 शून्यत्वे प्रमाणमाह, असदिति ।

असदेवेदमित्यादाविदमेव श्रुतं ततः ।
ज्ञानज्ञेयात्मकं सर्वं जगद्भ्रान्तिप्रकल्पितम् ॥ ७५॥

 असदेवेदमित्यादौ (छां.६.२.१.)वाक्यं इदं शून्यमेव श्रुतम् । तर्हि प्रतीयमानस्य जगतः का गतिरित्याशंकायामाह, तत इति । ततो ज्ञानज्ञेयात्मकं सर्वं जगत् भ्रान्तिप्रकल्पितम् । अत्र ४-३५ श्लोकव्याख्या समोक्षितव्या ॥ ७५॥

 सिद्धान्ती तन्मतं खंडयति, निरधिष्टानेति ।

निरधिष्ठानविभ्रान्तेरभावादात्मनोऽस्तिता ।
शून्यस्यापि ससाक्षित्वादन्यधा नोक्तिरस्य ते ॥ ७६ ॥

 निरधिष्ठानविभ्रान्तेः अधिष्ठानरहिताया विभ्रान्तेरभावात् रज्ज्वभावे सर्षप्रान्तेरिव लोकेऽनुपलम्भादधिष्ठानभूतस्यात्मनोऽस्तिता सिद्ध्यतीति शेषः । आत्मास्तित्वे कारणान्तरमाह, शून्यस्येति । शुनस्यापि ससाक्षित्वात् शून्यविषयकज्ञानस्य शून्यवादिनाप्यधश्यमभ्युपगम्यत्वादित्यर्थः। तदेव च ज्ञानं साक्षिचैतन्यमात्मरूपमित्यात्मास्तित्वं सिद्धमिति भावः । अन्यथा ज्ञानाभावेऽस्य शून्यस्योक्तिः शून्यमासीदिति व्यवहारस्ते शून्यवादिनो न सिद्ध्यति, शाब्दव्यवहारस्य ज्ञानपूर्वकत्वात् ॥ ७६ ॥

 एवं बौद्धादिनास्तिकमतनिरसनानन्तरमास्तिकमतविवक्षयाऽऽत्मस्वरूप माह, अन्य इति ।

अन्यो विज्ञानमयत आनंदमय आन्तरः।
अस्तीत्येवोपलब्धव्य इति वैदिकदर्शनम् ॥ ७७ ॥

प्रकरणम्॥६॥]
१६५
कल्याणपीयूषव्याख्यासमेता

 विज्ञानमयतोऽन्यस्तस्मादान्तर सूक्ष्मतर आनंदमय आत्माऽस्तीत्येवोप लब्धव्यः। ब्रह्मणो व्यवहाराततीकल्पितां नास्तित्वबुद्धिमपहायास्तित्वमात्रबुद्ध्या साक्षात्कार्य इति वैदिकदर्शनम् वेदार्थतत्वप्रदर्शकं शास्त्रमित्यर्थः । "तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्माऽऽनन्दमयः" (तै. २. ५) “अस्ति ब्रह्मेति चेद्वेद संतमेनं ततो विदु" (तै. २.६.) रित्यादिश्रुतिभ्यः ॥ ७७॥

आत्मपरिमाणविषये विविधमतविचारः।

 एवमात्मनोऽस्तित्वं प्रदर्श्य तस्य परिमाणविषये वादिविप्रतिपत्तीर्दर्शयति, अणुरिति ।

अणुर्महान् मध्यमो वेत्येवं तत्रापि वादिनः।
बहुधा विवदन्ते हि श्रुतियुक्तिसमाश्रयात् ॥ ७८ ॥

 तत्राप्यामपरिमाणविषयेऽपि अणुरिति केचिन्महतनित्यन्ये मध्यमः मध्यमपरिमाण इत्यपरे वादिनो । दर्शनप्रदर्शकाः श्रुतियुक्तिसमाश्रयात् स्ववादो- पोद्बलकत्वेन श्रुतियुक्तोरालंब्येत्यर्थः, बहुधा विवदन्ते । “विभाषाविप्रलापे ”इत्यात्मनेपदम्॥ ७८ ॥

 तत्राणुत्ववादिनां मतमाह, अणुमिति ।

अणुं वदन्त्यान्तराळास्सूक्ष्मनाडीप्रचारतः ।
रोम्णः सहस्रभागेन तुल्यासु प्रचरत्ययम् ।। ७९ ॥

 अन्तराळाः सूक्ष्मनाडीप्रचारतः सूक्ष्मनाडीषु संचारादात्मानमणुमणुपरिमाणं वदन्ति। अयमात्मा रोम्णः सहस्रभागेन तुल्यासु सूक्ष्मतमास्विंत्यर्थः । नाडीषु प्रचरतीत्यतोऽणुपरिमाण इति भावः ॥७९॥

 अणुपरिमाणे श्रुतिं (श्वे. ३.२०.) प्रमाणयति, अणोरिति ।

अणोरणीयानेषोऽणुः सूक्ष्मात्सूक्ष्मतरं त्विति।
अणुत्वमाहुः श्रुतयः शतशोऽध सहस्रशः ।। ८० ॥

१६६
[चित्रदीप
पञ्चदशी

 एषोऽणुरणुपरिमाण आत्माऽणोरप्यणीयान् सूक्ष्मात् सूक्ष्मतरं त्विति चाणुत्वं शतशः सहस्त्रशः बह्वय: श्रुतयन् आहुः ।‘अणोरणीया” (श्वेत.३.२०.) “एषोऽणुरात्मा चेतसा वेदितव्यः” (मुं. ३.१.७) "अणीयान् व्रीहेर्यवाद्वा" (छां.३.१४.३.) ‘आराग्रमात्रो ह्यवरोपि दृष्टः” (श्वे. ५,८.) इत्याद्याः श्रुतयः ॥ ८०॥

 तत्र श्वेताश्वतरश्रुतिमुदाहरति, वालाग्रेति ।

वालग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवस्य विज्ञेय इति । चाहापरा श्रुतिः ।। ८१ ।।

 शतधाकल्पितस्य वालाग्रशतभागस्य वालस्य रोम्णो यदग्रं तच्छतभागस्य योऽन्यतमो भागस्तद्वदतिसूक्ष्मो जीव इति विज्ञेय इत्यपराहुतिराह ॥ ८१॥

 मध्यमपरिमाणवादिनां श्रुतियुक्तिपूर्वकं वादमुत्थापयति, दिगंबरा इति ।

दिगंबरा मध्यमत्वमाहुरापादमस्तकम् ।
चैतन्यव्याप्तिसंदृष्टेरानखाग्रश्रुतेरपि ॥ ८२ ॥

 दिगंबरा आत्मनो मध्यमत्वं मध्यमपरिमाणतामाहुः । तत्रोपपत्तिमाह, आपादेति । आपादमस्तकं पादादिशिरःपर्यन्तं सर्वत्र चैतन्यव्याप्तिसदृष्टेः चैतन्यस्य व्यातेः संदशनात् । तत्र श्रुतिप्रामाण्यमाह, आनखेति । “स एष इह प्रविष्ट आनखाग्रेभ्य" (बृ. १.४.७) इति श्रुतेः ॥८२॥

 नन्वात्मनो मध्यमपरिमाणत्वे कथं सुप्रसिद्धसूक्ष्मनाडीप्रचारः संपद्यत इत्यत आह, सूक्ष्मेति ।

सूक्ष्मनाडीप्रचारस्तु सूक्ष्मादवयवैर्भवेत् ।
स्थूलदेहस्य हस्ताभ्यां कंचुकप्रतिमोकवत् ॥ ८३ ॥

 स्पष्टः पूर्वाधः । तत्र दृष्टान्तमाह, स्थूलेति । अवयवभूताभ्यां हस्ताभ्यां

तद्द्वारेत्यर्थः स्थूलदेहस्य कंचुकप्रतिमोकवत् कंचुकप्रवेश इव, अवयवभूतयोर्हस्तयोः

प्रकरणम् ॥६॥ ]
१६७
कल्याणपीयूषव्याख्यासमेता

कंचुकप्रवेशेन देहस्य यथा कंचुकप्रवेशस्तथा, सूक्ष्माणामात्मावयवानां सूक्ष्मनाडीप्रवेशेनात्मनोऽपि नाडीप्रवेश उपपद्यत इति भावः ॥ ८३ ॥

 तस्य चात्मनः संकोचविकोचशालित्वेन न किंचिन्नियतं परिमाणम् । किं त्वणुत्वमहत्वव्यावृत्तमनियतं परिमाणमस्तीति दर्शयति, न्यूनेति ।

न्यूनाधिकशरीरेषु प्रवेशोऽपि गमागमैः ।
आत्मांशानां भवेत्तेन मध्यमत्वं विनिश्चितम् ।। ८४ ।।

 न्यूनाधिकशरीरेषु हस्तिमशकाद्यल्पशरीरेष्वात्मांशानां गमागमरूपचयाप- चयाभ्यां गमनागमनैः प्रेवेशा भवेत् । तेन मध्यमत्वमात्मनो विनिश्चितम् ॥८४॥

 आत्मन उपचयापचयौ सावयवत्वमन्तरा न सिध्यतः । नाशस्यावयव व्यापकत्वात्तस्य नाशोऽवश्यंभावीत्यनित्यत्वं प्रसज्येतेत्याह, सांशस्येति ।

सांशस्य घटवन्नाशो भवत्येव तथा सति ।
कृतनाशाकृताभ्यागमयोः को वारको भवेत् ॥ ८५ ॥

 सांशस्य सावयवस्यात्मनो घटवन्नाशो भवति । एवेति निश्चयार्थे । तत्रेष्टापत्तिः कर्तुमशक्येत्याह, तथेति । तथा सति, देहेन सहात्मनोऽपि नाशे, कृतनाशाकृताभ्यागमयोः कृतस्य पुण्यपापरूपस्य कर्मणः फलस्य भोगमन्तरेण नाशः,अकृताभ्यागमोऽकृतस्य पुण्यपापादिभिरकृतस्याकस्मिकस्यागमश्चेत्येतयोर्दोषयो र्वारको निवारकः को भवेत् । एतजन्मन्याचरितयोः पुण्यपापफलयोः फलानुभव निमित्तमन्यज्जन्म न स्यात्, तदात्मनो भिन्नत्वात्, एतज्जन्मन्यनुभूयमानस्य फलस्याकस्मिकत्वं च प्रसज्ज्येत । न चैतत्फलस्य कारणं पूर्वजन्मकृतं भवति । तदात्मनोऽपि भिन्नत्वात् । नह्यन्येन कृतमन्येनानुभूयते ॥ ८५ ॥

 पारिशेष्यान्महत्वं स्थापयति, तस्मादिति ।

तस्मादात्मा महानेव नैवाणुर्नापि मध्यमः ।
आकाशवत्सर्वगतो निरंशः श्रुतिसम्मतः ॥ ८६ ॥

१६८
[चित्रदीप
पञ्चदशी

 तस्मात् अणुत्वे आनखाग्रश्रुतिविरोधात् , मध्यमपरिमाणत्वेऽनित्यत्वप्रसंगाच्च, आत्मा महानेव अणुर्न मध्यमोऽपि न, किं त्वाकाशवत्सर्वगतः सर्वव्यापी निरंश इति श्रुतिसम्मतः । "स वा एष महानत आत्मा योऽयं विज्ञानमयः’ (बृ. ४.४.२२) “आकशवत्सर्वगतश्च नित्यः" इत्यादिश्रुत्यभिमत इति भावः ॥ ८६ ॥

आत्मनः स्वरूपविचारः ।

 एवं सर्वगतत्वनिरंशत्वे संस्थाप्यात्मनस्स्वरूपविचारमारभते, इतीति ।

इत्युक्त्वा तद्विशेषे तु बहुधा कलहं ययुः ।
अचिद्रूपोऽथ चिद्रूपश्चिदचिद्रूप इत्यपि ॥ ८७ ॥

 पूर्वार्धः स्पष्टः । कलहकारणान्यात्मनः स्वरूपविशेषे । भिन्नमतान्याह । आत्माऽचिद्रूप इति केचित्, चिद्रूप इत्यन्ये, चिदचिद्रूप इति विशिष्टस्वरूपत्वमपरे आहुः ॥८७॥

 अचिद्रूपवादिनां मतमाह, प्राभाकरा इति ।।

प्रभाकरास्तार्किकाश्च प्राहुरस्याचिदात्मताम् ।
आकाशवद्द्रव्यमात्मा शब्दवत्तद्गुणाश्चितिः ॥ ८८ ॥ ।

 प्राभाकराः पूर्वमीमांसकानामन्यनमास्तार्किकाश्च केचिदस्यात्मनोऽचिदातात्मतां आत्मा द्रव्यं सर्वव्यापकत्वात् आकाशवत् इत्यनुमानेन प्राहुः । नन्वात्मनो द्रव्यत्वे कथं तस्य चेतनत्वमित्यत आह, शब्दवदिति । आकाशस्य शब्दवत् तद्गुणः तस्यार्यात्मनोगुणः चितिः । एवं चात्मा न चिद्रूप:, अपि तु चिदाश्रय इति भावः । ज्ञानाधिकरणमात्मेति मन्यन्ते तार्किकाः ॥ ८८॥

 अचिदात्मके आत्मन्यन्येऽपि गुणास्सन्तीत्याह, इच्छेति ।

इच्छाद्वेषप्रयत्नाश्च धर्माधर्मौ सुखासुखे ।
तत्संस्काराश्च तस्यैते गुणाश्चितिवदीरिता: ।। ८९ ॥

प्रकरणम् ॥६॥ ]
१६९
कल्याणपीयूषव्याख्यासमेता

 स्पष्टः पूर्वार्धः। तत्संस्कारा अनुभूतार्थविषयकसंस्कारा भावनाख्याः८९॥

 एतेषां गुणानामुत्पत्तिविनाशयोः कारणमाह, आत्मन इति ।

आत्मनो मनसा योगे स्वादृष्टवशतो गुणाः ।
जायन्तेऽथ प्रलीयन्ते सुषुप्तेऽदृष्टसंक्षयात् ॥९०॥

 स्वादृष्टवशतः पूर्वजन्मकृतकर्मजन्यधर्माधर्मवशात् आत्मनो मनसा सह योगे जाने सति, गुणा जायन्ते । अथ सुषुप्तेऽदृष्टसंक्षयात् अदृष्टस्य कालविशेषेण फलजनननियमात् तत्कालस्य सुषुप्तावभावत्, ते प्रलीयन्ते लयं यान्ति ॥ ९० ॥

 नन्वात्मनोऽप्याकाशवज्जडात्मकता स्यादित्याशंक्याह, चितीति ।

चितिमत्त्वाच्चेतनोऽयमिच्छाद्वेषप्रयत्नवान् ।
स्याद्धर्माधर्मयोः कर्ता भोक्ता दुःखादिमत्त्वतः ॥ ९१ ॥

 अयमात्मा चेतनश्चितिमत्त्वात् । तत्र हेत्वसिद्धेिं तत्कार्यप्रदर्शनेन परिहरति, इच्छेति । अयमात्मा इच्छाद्वेषप्रयत्नवान्। ततो धर्माधर्मयोः कर्ता स्यात्। दुःखादिमत्वतः धर्माधर्मजन्यसुखदुःखादिमान् भवति । तद्भावातेषां भोक्ता च भवति । एतेनेच्छाद्वेषप्रयत्नधर्माधर्मसुखदुःखानां सामानाधिकरण्यलाभा- त्तेषां सर्वेषामप्येक आश्रय इयुक्तं भवति || ९१ ॥

 आत्मनो नित्यत्वे सर्वगतत्वे च धर्माधर्मयोस्सत्वे सर्वदा सर्वत्र सुखाद्यनुभवः स्यादित्याशंक्याह, यथेति ।

यथाऽत्र कर्मवशतः कादाचित्कं सुखादिकम् ।
तथा लोकान्तरे देहे कर्मणेच्छादि जन्यते ॥ ९२ ॥

 कर्मवशतः कर्मबलाज्जायमानं सुखदुःखादिकमत्रास्मिन् देहे देहावच्छेदेन कादाचित्कं कालविशेषस्थं तत्तत्कालावच्छेदेन यथाऽनुभूयते न सर्वत्र न सर्वदा, तथा लोकान्तरे देहे तत्स्थदेहे तद्देहावच्छेदेन ततत्कालावच्छेदेन चेच्छादि

कर्मणा जन्यते । आदिशब्देन फलपर्यन्तं द्वेषादयो गृह्यन्ते । अयं भावः । कर्मणः

१४०
[चित्रदीप
पञ्चदशी

फलजननक्षमत्वेऽपि देशकालादिसर्वकार्यनिमित्तकारणसद्भावसापेक्षत्वात्, कस्मिश्चित् काले कस्मिश्चिद्देशे किचिद्देहावच्छेदेनैव फलजनकत्वनियमोऽस्माकमनुभवसिद्ध इति, सर्वत्र कर्मणां तत्तद्देशकालदेहाद्यवच्छेदेनैव फलोत्पादकवादात्मनो नित्यत्व विभुत्वयोरपि न भोगसांक्यप्रसंगो, न वा सार्वकालिकत्वप्रसंग इति ॥९२॥

 तत्र प्रमाणमाह, एवमिति ।

एवं सर्वगतस्यापि सम्भवेताम् गमागमौ ।
कर्मकांडस्समग्रोऽत्र प्रमाणमिति ते ब्रुवन् ॥ ९३ ॥

 स्पष्टोऽर्थः । एवं फलस्य देशकालभेदेन भोगोपपत्तावित्यर्थः। ते प्राभाक- रादयः । अन्यत्र च तत्र तत्र समग्र इत्यनेनोपनिषत्स्वपि विद्यमानः । "स यदा- ऽस्माच्छरीरादुत्क्रामति सहेवेतैः सर्वैरुत्क्रामति, (कौषो३.३) "ये वैके चास्माल्लोकात्प्रयन्ति चंद्रमसमेव ते सर्वे गच्छन्ति (कौषी, १.२), ‘तस्माल्लोकात् पुनरेत्यास्मै लोकाय कर्मणे",(बृ. ४. ४. ६) इत्यादिः कर्मप्रतिपादको भागः संग्राह्य इति सूचितम् । अत्रायं विवेकः।जीवस्य व्यापकत्वेन गमनागमने अत्र सर्वत्र कर्मानुगुणफलोपभोगानुकूलशरीरन्तरस्य देशान्तरे समुद्भवात्तद्देशावच्छेदेन फलोपभोग इत्यौपचारिके गमनागमने । सर्वगस्याप्यात्मनः कर्मवशादिच्छादिवशात् प्रकृतदेहेऽवस्थितिरिति बोध्यम् ॥ १३॥

 नन्विच्छादयो गुणाः कर्तृत्वभोक्तृत्वे च विज्ञानमय एव संभवन्ति । विज्ञानमयादन्य आन्तर आनंदमय इति श्रूयते । अन्यस्यान्तरस्यानन्दमयस्य कथं विज्ञानमयधर्मभूतेच्छादिकं कर्तृत्वादिकं च घटत ? इत्याशंकाम्, समाधत्ते, आनन्देति ।

आनंदमयकोशो यः सुषुप्तौ परिशिष्यते ।
अस्पष्टचित्स आत्मैषां पूर्वकोशोऽस्य ते गुणाः ॥ ९४॥

 सुषुप्तावस्पष्टचित् अस्पष्टचैतन्यवान् य आनन्दमयकोशः सर्वेन्द्रियाणा

मुपरतत्वात्परिशिष्यते स पूर्वकोशः एषां प्राभाकराणामात्मा भवति। अस्यात्मनस्ते

प्रकरणम् ॥६॥ ]
१७१
कल्याणपीयूषव्याख्यासमेता

पूर्वोक्ताज्ञानद्वेषादयः कर्तृत्वादिकं च गुणा भवन्ति । अत्रायं भावः । विज्ञानमय आनन्दमयश्चेत्येकमेव तत्त्वम् । तस्य यदा मनसा योगस्तदेच्छादिगुणा: प्रतीयन्ते । तद्गुणसंबंधे सत्येव विज्ञानमयत्वेष व्यवहारः। यदा मनसा योगा नास्ति, तदा सुषुप्त्यवस्थायां गुणानां प्रलये सति, यो गुणविनिर्मुक्त इवात एवास्पष्टचिदवशिष्यते स एवानन्दमयकोशः ।मनोयोगायोगाभ्यां विज्ञानानन्दमययोर्बाह्यान्तरे इच्छादि गुणसद्भावो न विरुध्यते । आनन्दमये गुणानां सत्त्वेप्यस्पष्टचित्कतया ते गुणा न प्रतीयन्ते । तदानीमप्रतीतिरेव तेषां लयः । एवं चानन्दमयस्य यदुक्तमिच्छादिगुण- कत्वं तन्नामपपन्नमिति ॥ ९४ ॥

 केवलजडात्मवादविमुखानां भाट्टानां मतमाह, गूढमिति ।

गूढं चैतन्यमुत्प्रेक्ष्य जडबोधस्वरूपताम् ।
आत्मनो ब्रुवते भाट्टाश्चिदुत्प्रेक्षोत्थितस्मृतेः ॥ ९५॥

 भाट्टा: प्रभाकरगुरुर्भाट्ट: तस्यानुयायिनः पूर्वमीमांसका आत्मनो गूढमस्पष्टं चैतन्यमुत्प्रेक्ष्य तस्य जडबोंधस्वरूपतां जडस्वरूपत्वज्ञानस्वरूपत्वं च ब्रुवते वर्ण यन्ति । आत्मनो निगूढचैतन्यस्योत्प्रेक्षायां लिंगमाह, चिदिति । उत्थितस्मृतेः सुषुप्त्यनन्तरमुस्थितस्य स्मृतेरुत्थानात्प्रागनुभूतविषयस्मरणरूपज्ञानाच्चिदुत्प्रेक्षा भवति। स्मरणस्यानुभवपूर्वकत्वात्, सुषुप्तिकालेऽप्यनुभवरूपायाश्चित उत्प्रेक्षा अनुमितिः । चितं विना स्मृतेरसंभवात्सौषुप्तिकस्मृतेश्चानुभवसिद्धत्वात्सुषुप्तौ चित्सताऽवश्यमूह नीयेति भावः ॥ ९५ ॥

 एवं स्मृतिबलात्सुप्तस्य चिद्रूपतामनुमाय जडरूपत्वमप्यनुमानेन साध यति, जड इति ।

जडो भूत्वा तदाऽस्वाप्समिति जाड्यस्मृतिस्तथा ।
विना जाड्यानुभूतिं न कथंचिदुपपद्यते ॥ ९६ ॥

 तदा सुषुप्तिसमये जडो भूत्वा किंचिदप्यविज्ञाय अस्वाप्समिति जाड्यस्मृतिस्सुषुप्तिसमयेऽनुभूतस्य जाड्यस्याज्ञानस्य स्मृतिः तदा सुषुप्तिसमये विना जाड्यानु

१७२
[चित्रदीप
पञ्चदशी

भूतिं जडत्वस्यानुभवं विना कथंचिदपि नोपपद्यते । अतस्सुषुप्तिकाले जाड्यानु भवस्य सत्तानुमानादात्मनि जडत्वमपि सिद्ध्यतीति भावः ॥ ९६ ॥

 ननु जाड्यस्य चैतन्यविरुद्धत्वात्सुषुप्तावनुमीयमानजाड्यसत्ताकाले चैतन्यं नष्टमित्यवश्यमभ्युपेयम्। तथा च कथमात्मनो युगपच्चिदचिद्रूपतेत्याशंकां परिहरति, द्रष्टुंरिति ।

द्रष्टुर्दृष्टेरलोपश्च श्रुतस्सुप्तौ ततस्स्वयम्।
अप्रकाशप्रकाशाभ्यामात्मा खद्योतवद्भुतः ॥ ९७॥

 द्रष्टुरात्मनः स्वरूपभूतायाः दृष्टेरलोपो लोपो नास्ति, जाड्यसत्ताकालेऽपीत्यर्थः। यदि जाड्यसत्ताकाले चैतन्यं न स्यात्तर्हि तदनुभव एव न स्यात्, तस्यानुभवरूपत्वात् । तदभावे च, सुप्तोत्थितस्य जाड्यस्मृतिर्न स्यात् । एवं च जाड्यरूपदर्शिग्राहकमानसिद्ध एव तयोरविरोधः । एवं चानुमानसिद्धमविरोधं प्रमाणमूर्धन्येन प्रमाणयति, श्रुत इति "न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविना शित्वा"दिति (बृ.४.३.२३.)श्रुतिरपि तयोरविरोधे मानमिति तात्पर्यम्।। ततोऽयमात्मा खद्योतवत् स्फुरणास्फुरणस्वभावः कीटविशेषः खद्योतः। तद्वदप्रकाशप्रकाशाभ्यां युक्तो भवतीत्यर्थः ॥९७॥

 भाट्टमतदोषप्रदर्शकं सांख्यमतमुपपादयति, निरंशस्येति ।

निरंशस्योभयात्मत्वं न कथंचिद्घटिष्यते ।
तेन चिद्रूप एवात्मेत्याहुस्सांख्यविवेकिनः ॥ ९८॥ ।

 निरंशस्य निरवयवस्योभयात्मत्वं चिज्जडस्वरूपत्वं कथंचिदपि न घटिष्यते, अस्य सांशत्वे त्वंशतो जडरूपत्वमंशतश्चिद्रूपत्वं च घटेत । यथा दृष्टान्तभूते खद्योते,नान्यथेत्यर्थः तेन कारणेनात्मा चिद्रूप एवेति सांख्यविवेकिनः। “संख्यां प्रकुर्वते।चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः प्रकीर्तिता” इति लक्षणलक्षिता आहुः ॥९ ॥

 अन्यथानयनप्रकारमेवाह, जाड्येति ।

प्रकरणम् ॥६॥ ]
१७३
कल्याणपीयूषव्याख्यासमेता

जाड्यांशः प्रकृते रूपं विकारित्रिगुणं च तत् ।
चितो भोगापवर्गार्थं प्रकृतिस्सा प्रत्रर्तते ॥ ९९॥

 आत्मनो जड्यांश आमनि भासमानो जाड्यमागो नात्मनः किंतु प्रकृतेः रूपम् । प्रकृतिकृतविकार इत्यर्थः । सत्त्वरजस्तमसां साम्यावस्थारूपमेव प्रकृतिः । सैव सांख्यैः प्रधानमित्युच्यते । तच्च महदादिकार्यकलापकरणं, न त्वस्य प्रधानस्य मूलान्तरमस्तीति सांख्यसमयः तदुपं त्रिगुणं सत्वरजस्तमोगुणात्मकम् । विकारि च । प्रकृतेः कल्पनायां प्रयोजनमहचिदिति । चितश्चैतन्यस्वरूपस्या त्मनो भोगापवर्गार्थं कर्मफलस्य भोगो मोक्षश्च। तदर्थं सा प्रकृतिः प्रवर्तते । एवं च प्रकृतिजन्यो भोगोऽविविक्ते आत्मनीव तन्निष्ठजाड्यमपि तत्र प्रतीयते, स्फटिकलौहित्यवादिति भावः । एवं च प्रातीतिकमेवाविरोधमनुमानादि साधयितुमीष्टे न वास्तविकमिति भावः ॥ ९९ ॥

 नन्वसंगस्यात्मनो भोगापवर्गौ प्रकृतिः कथं कल्पयतीत्यत आह, असं- गाया इति ।

असंगयाश्चितेर्वधमोक्षौ भेदाग्रहान्मतौ ।
बंधमुक्तिव्यवस्थार्थं पूर्वेषामिव चिद्भिदा ॥ १०० ॥

 असंगायाः संगरहितायाश्चितेर्बधमोक्षौ भेदाग्रहात्प्रकृतिपुरुषयोर्भेदस्याग्रहणास्मृतावंगीकृतौ । बंधमुक्तिब्यवस्थार्थं वंधमुक्त्योनियमनार्थं पूर्वेषामिव नैयायिकानामिव चिदात्मनो नानात्वमिष्यते । नैय्यायिका इव सांख्या अप्यात्मनानात्व मंगीकुर्वन्तीति भावः ॥ १०० ॥

 प्रकृतेस्सद्भावे पुरुषस्यासंगत्वे च श्रुतिप्रामाण्यमाह, महत इति ।

महतः परमव्यक्तमिति प्रकृतिरुच्यते । ।
श्रुतावसंगता तद्वदसंगो हीत्यतिस्फुटा ॥ १०१ ॥

 महतो महतत्वात् परं भिन्नमव्यक्तमिन्द्रियावेद्यमिति श्रुतौ योगरूढ्या

प्रकृतिरुच्यते । तद्वत्, “असंगो हीति, श्रुतौ पुरुषस्यासंगता चातिस्फुटा ।”

१४०
[चित्रदीप
पञ्चदशी

“मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयष्पप षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष" इति सांख्यानां तत्वविभागः । पुरुषश्चासंगचिद्रूप: पुष्करपलाशवन्निर्लिप्तोऽकर्ता नाना । ११ ॥

ईश्वरस्वरूपविचारः ।

 एवमात्मविषये भिन्नमतानि प्रदर्श्येश्वरविषयेऽपि तत्प्रदर्शनाय योगि- मताभिमतमीश्वरस्वरूपमाह, चिदिति ।

चित्सन्निधौ प्रवृत्तायाः प्रकृतेर्हैि नियामकम् ।
ईश्वरं ब्रुवते योगाः स जीवेभ्यः परः श्रुतः ॥ १०२ ॥

 योगाः पातंजलयोगमतानुयायिनः चित्सान्निधौ चित आत्मनसन्निधौ। प्रवृत्तायाः प्रकृतेर्नियामकं नियन्तारमीश्वरं ब्रुवते । योगिनः सांख्यानभिमतमीश्वरं कंचन पुरुषविशेषं जीवेभ्य उत्कृष्टमभ्युपगच्छन्तीत्यर्थः । तथा च योगसूत्रं “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर" इति । नेयं प्रकृतिपुरुषातिरिक्तेश्वरकल्पना प्रमाणविरुद्धेत्याह, स इति । स ईश्वरो जीवेभ्यः परः श्रेष्ठ इति श्रुतिषु श्रुतः ॥ १०२ ॥  तत्र श्वेताश्वतरश्रुति (६.१५.) प्रामाण्यमेवाह, प्रधानेति ।

"प्रधानक्षेत्रज्ञपतिर्गुणेश” इति हि श्रुतिः ।
आरण्यकेऽसंभ्रमेण ह्यम्तर्याम्युपपादितः ॥ १०३॥

 प्रधानक्षेत्रज्ञपतिः प्रधानस्य प्रकृतेः क्षेत्रज्ञानां क्षेत्रं शरीरमात्मत्वेन जानं स्यभिमानं कुर्वन्ति ये तेषां च पतिरधिपतिः गुणेशो गुणानां सत्त्वादीनां नियामक इति श्रुतिः प्रवर्तते हि । अत्र गुणशब्देन गुणत्रयसाम्यावस्थारूपं प्रधानमुपलक्षितं भवति । प्रमाणन्तरमप्याह, आरण्यक इति । आरण्यकेऽन्तर्यामिब्राह्मणे “यस्सर्वाणि भूतान्यन्तरो यमयत्येष त आत्माऽतंर्याम्यमृत" (बृ.३.७.१५), इति श्रुतावन्तर्यामीश्वरोऽसंभ्रमेणासकृदुपपादितः ॥ १०३॥

 अत्रापि मानुषशेमुषीप्रागल्भ्यप्रयुक्तं मतभेदमाह, अत्रापीति ।

प्रकरणम् ॥६॥ ]
१७५
कल्याणपीयूषव्याख्यासमेता

अत्रापि कलहायन्ते वादिनः स्वस्वयुक्तिभिः । ।
वाक्यान्यपि यथाप्रज्ञम् दार्ढ्यायोदाहरन्ति हि ॥ १०४ ॥

 स्पष्टोऽर्थः ॥ १०४ ॥

 तत्त्र सेश्वरसांख्यमतप्रवर्तकेन पतंजलिनोक्तं "क्लेशकर्मविपाकैस्तदाशयैर- परामृष्टः पुरुषविशेष ईश्वर” इति सूत्रमर्थतः पठति, क्लेशेति ।

क्लेशकर्मविपाकैस्तदाशयैरप्यसंयुतः।
पुम्विशेषो भवेदीशो जीववत्सोऽप्यसंगचित् ॥ १०५ ॥

 क्लशकर्मविपाकैः क्लेशाः अविद्याऽस्मितारागद्वेषाभिनिवेश इति पंचधा प्रसिद्धाः । तत्रानात्मनि देहादावात्मबुद्धिरविद्या, सत्त्वपुरुषयोरह्नमस्मीत्येकताभि- मानोऽस्मिता, सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागः, दुःखाभिज्ञस्य तदनुस्मृतिपुरस्सरं तत्साधनेषु निवृत्तिर्द्वेषः। पूर्वजन्मानुभूतमरण दुःखानुभववासनाबलात् सर्वस्य प्राणभृन्मात्रस्य आक्रिपेरा च विदुषस्संजायमानः शरीरविषयादेर्वियोगो मम मा भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानो भयरूपो- ऽभिनिवेशः, इत्येते पंच च, कर्माणि विहितप्रतिषिद्धरूपाणि ज्योतिष्टोमब्रह्महत्या- दीनि, विपाकाः कर्मफलानि, जात्यायुर्भोगा: । आफलविपाकाच्चितभूमौ शेरत इत्याशया धर्माधर्मसंस्काराः, तैरप्यसंयुतोऽसंस्पृष्टः पुंविशेष ईशः । सोऽपि जीववदसंगचित् , जीवेश्वरावुभावप्यसंगचिद्रूपावित्याशयः ॥ १०५ ॥

 ईश्वरस्याप्यसंगचिद्रूपत्वाविशेषात्कथं तस्यैव नियंतृत्वं घटत इत्याशंक्याह, तथापीति ।

तथापि पुंविशेषत्वाद्घटतेऽस्य नियन्तृता ।
अव्यवस्थौ बंधमोक्षावापतेतामिहान्यथा ॥ १०६ ॥

 तथापीश्वरस्यासंगचिद्रूपत्वेऽपि क्लेशाद्यपरामृष्टत्वेन पुंविशेषत्वात्पुरुषाणां नानात्वाच्चास्य नियन्तृता सर्वलोकनियामकता घटते । अन्यथा इहास्मिन् लोके

बंधमोक्षावव्यवस्थौ व्यवस्थारहितौ आपतेताम् भवेताम् । सर्वेषां बद्धत्वम् मुक्तत्वं वा

१७६
[चित्रदीप
पञ्चदशी

स्यात्, न तु केषांचिद्वद्धता, केषांचिन्मुक्ततेति व्यवस्था स्यात्, अतस्तद्यवस्थापकः कश्चिदेतेभ्योऽतिशयितः पुरुषो लोकानामसंभेदायाङ्गीकार्यः। स एवेश्वर इति तात्पर्यम् ।। १०६ ॥

 तत्र क्लेशादिराहित्ये नियन्तृत्वेन श्रुतिमुदाहरति, भीषेति ।

भीषास्मादित्येवमादावसंगस्य परात्मनः ।
श्रुतं तद्युक्तमप्यस्य क्लेशकर्माद्यसंगमात् ॥ । १०७ ॥

 भीषास्मादित्येवमादौ “ भीषास्माद्वातः पवते” (तै.२.५) इत्यादिश्रुतिष्वसंगस्य संगरहितस्य परात्मनस्तन्नियन्तृवं श्रुतम् । क्लेशकर्माद्यसंगमात् अस्य तन्नियन्तृत्वं युक्तमपि स्यात् ॥ १०७॥

 ननु जीवानामाप्यसंगत्वेन क्लेशादिराहित्याभावात् तत्कृतविशेषस्त्वेतेषामप्यविशिष्ट इत्याशंक्याह, जीवानामिति ।

जीवानामप्यसंगत्वात् क्लेशादिर्न ह्यथापि च ।
विवेकाग्रहतः क्लेशकर्मादि प्रागुदीरितम् ॥ १०८॥

 जीवानामप्यसंगत्वात् क्लेशादिः न विद्यते हि । अथापि विवेकाग्रहतः प्रकृतिपुरुषयोर्विवेकस्य भेदस्य बुद्ध्या ग्रहणाभावात्, क्लेशकर्मादि प्राक् पंचोत्तर- शततमे श्लोके उदीरितं प्रतिपादितम् । एवं च वस्तुतो जीवानामपि क्लेशकर्मादि- राहित्यसाम्येऽपि विवेकाग्रहेणोपाधिकृतक्लेशकर्मादिमत्वं जीवानाम्, ईश्वरस्य तु तादृशमपि नास्ति । तस्य विवेकाग्रहाभावात् । तदेव तत्र विशिष्टतानियामकमिति भावः ॥ १०८ ॥

 सांख्ययोगमतानन्तरमीश्वरस्य सर्वनियन्तृत्वे नैयायिकाभिप्रायमाह,नित्येति ।

नित्यज्ञानप्रयत्नच्छागुणानीशस्य मन्वते ।
असंगस्य नियन्तृत्वमयुक्तमिति तार्किकाः ॥ १०९ ॥

प्रकरणम् ॥६॥ ]
१७७
कल्याणपीयूषव्याख्यासमेता

 ईशस्यासंगस्येति हेतुगर्भम् विशेषणम्, नियन्तृत्वमयुक्तमिति हेतोस्तार्किका नित्यज्ञानप्रयत्नेच्छागुणान् मन्वते । ते गुणा विद्यन्त इत्यभिप्रयन्ति ॥ १०९ ॥

 ईश्वरस्य व्यवह्रियमाणं पुंविशेषत्वमपि न क्लेशादिराहित्यकृतं मुक्तेष्वपि तस्य सत्वात् । किंतु गुणकृतमेव तदित्यङ्गीकार्यमित्याह, पुम्विशेषेति ।

पुंविशेषत्वमप्यस्य गुणैरेव न चान्यथा ।
सत्यकामः सत्यसंकल्प इत्यादिश्रुतिर्जगौ ॥ ११० ॥

 अस्येश्वरस्य नित्यज्ञानप्रयत्नेच्छागुणैरेव पुंविशेषत्वम् । अन्यथा क्लेशादि राहित्येन न । तत्र प्रमाणमाह,सत्येति । सत्यकामः सत्यसंकल्पः (छ.८.७.१.) इत्यादिश्रुतिस्तस्य गुणनित्यत्वं जगावगायत् ।। ११० ॥

 अस्मिन् दोषदृशां हैरण्यगर्भानां मतमाह, नित्येति ।

नित्यज्ञानादिमत्वेऽस्य सृष्टिरेव सदा भवेत् ।
हिरण्यगर्भ ईशोऽतो लिंगदेहेन संयुतः ॥ १११ ॥

 अस्येश्वरस्य नित्यज्ञानादिमत्वे सदा सृष्टिरेव भवेत् । न हि तथा दृश्यते । अतो न सत्यज्ञानाश्रय ईश्वरः । तर्हि कोऽसावीश्वर इत्यत आह, हिरण्येति । अतो लिंगदेहेन पंचकत्रयेण बुद्ध्या मनसा सहितेन सूक्ष्मशरीरेण संयुतो युक्तो हिरण्यगर्भ ईशो भवेदिति हैरण्यगर्भा ऊचुः। एवं च तादृशलिंग- देहयुक्तस्य सृष्ट्यादिनियामकत्वे तल्लिंगदेहस्य सावयवत्वेन नाशे ब्रह्मकल्पान्ते । सर्वस्यापि सृष्टेरेभावेन प्रलय उपपद्यते । एवं चात्र पक्षे सृष्टेस्सदातनत्वापत्तिर्नास्तीति भावः ॥ १११ ॥

 तत्र प्रमाणमाह, उद्गीथेति ।

उद्गीथब्राह्मणे तस्य माहात्म्यमतिविस्तृतम् ।
लिंगसत्वेऽपि जीवत्वं नास्य कर्माद्यभावतः ॥ ११२ ॥

१७८
[चित्